क्अ इइ,२८३।१३-२८४।१५ रो इइइ,६५१-६५३ उक्थादि इति उच्यते । कानि उक्थानि । सामानि । यदि एवम् सामगमात्रे औक्थिकः इति प्राप्नोति । न एषः दोषः । तादर्थ्यात् ताच्छब्द्यम् भविष्यति । उक्थार्थम् उक्थम् । इह उक्थानि अधीते औक्थिकः यज्ञम् अधीते याज्ञिकः । यः इदानीम् औक्थिक्यम् याज्ञिकम् च अधीते कथम् तत्र भवितव्यम् । औक्थिकः याज्ञिकः इति एव भवितव्यम् । कथम् । तस्येदम्प्रत्ययात् लुक् । तस्येदम्प्रत्ययात् लुक् । तस्येदम्प्रत्ययस्य च । सः तर्हि वक्तव्यः । न वक्तव्यः । इह अस्माभिः त्रैशब्द्यम् साध्यम् । उक्थानि अधीते औक्थिक्यम् अधीते औक्थिकः इति । तत्र द्वयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन । तत् यथा अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति आविकम् इति । एवम् उक्थानि अधीते इति विगृह्य औक्थिकः इति भविष्यति । औक्थिक्यम् अधीते इति विगृह्य वाक्यम् एव। विद्यालक्षणकल्पसूत्रान्तात् अकल्पादेः इकक् स्मृतः । विद्या । वायसविद्यकः । विद्या लक्षण गोलक्षणिकः आश्वलक्षणिकः । लक्षण । कल्प । पाराशरकल्पिकः पारकल्पिकः । कल्प् । सूत्र । वार्त्तिकसूत्रिकः साङ्ग्रहसूत्रिकः । अकल्पादेः इति किमर्थम् । काल्पसूत्रः । विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा । विद्या च अनङ्गक्षत्रधर्मत्रिपूर्वा इति वक्तव्यम् । आङ्गविद्यः क्षात्रविद्यः धार्मविद्यः त्रैविद्यः । आख्यानाख्यायिकेतिहासपुराणेभ्यः च ठक् वक्तव्यः । यावक्रीतिकः प्रैयङ्गविकः यायातिकः । आख्यान । आख्यायिका । वासवदत्तिकः सौमनोत्तरिकः । ऐतिहासिकः पौराणिकः । सर्वसादेः द्विगोः च लः । सर्वसादेः द्विगोः च लः वक्तव्यः । सर्ववेदः सर्वतन्त्रः । सवार्त्तिकः ससङ्ग्रहः । पञ्चकल्पः द्वितन्त्रः । अनुसूः लक्ष्यलक्षणे सर्वसादेः द्विगोः च लः इकन् पदोत्तरपदात् शतषष्टेः षिकन् पथः ।
KA II,283.13-284.15 Ro III,651-653 ukthādi iti ucyate . kāni ukthāni . sāmāni . yadi evam sāmagamātre aukthikaḥ iti prāpnoti . na eṣaḥ doṣaḥ . tādarthyāt tācchabdyam bhaviṣyati . ukthārtham uktham . iha ukthāni adhīte aukthikaḥ yajñam adhīte yājñikaḥ . yaḥ idānīm aukthikyam yājñikam ca adhīte katham tatra bhavitavyam . aukthikaḥ yājñikaḥ iti eva bhavitavyam . katham . tasyedampratyayāt luk . tasyedampratyayāt luk . tasyedampratyayasya ca . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . iha asmābhiḥ traiśabdyam sādhyam . ukthāni adhīte aukthikyam adhīte aukthikaḥ iti . tatra dvayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . tat yathā aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati āvikam iti . evam ukthāni adhīte iti vigṛhya aukthikaḥ iti bhaviṣyati . aukthikyam adhīte iti vigṛhya vākyam eva. vidyālakṣaṇakalpasūtrāntāt akalpādeḥ ikak smṛtaḥ . vidyā . vāyasavidyakaḥ . vidyā lakṣaṇa golakṣaṇikaḥ āśvalakṣaṇikaḥ . lakṣaṇa . kalpa . pārāśarakalpikaḥ pārakalpikaḥ . kalp . sūtra . vārttikasūtrikaḥ sāṅgrahasūtrikaḥ . akalpādeḥ iti kimartham . kālpasūtraḥ . vidyā ca anaṅgakṣatradharmatripūrvā . vidyā ca anaṅgakṣatradharmatripūrvā iti vaktavyam . āṅgavidyaḥ kṣātravidyaḥ dhārmavidyaḥ traividyaḥ . ākhyānākhyāyiketihāsapurāṇebhyaḥ ca ṭhak vaktavyaḥ . yāvakrītikaḥ praiyaṅgavikaḥ yāyātikaḥ . ākhyāna . ākhyāyikā . vāsavadattikaḥ saumanottarikaḥ . aitihāsikaḥ paurāṇikaḥ . sarvasādeḥ dvigoḥ ca laḥ . sarvasādeḥ dvigoḥ ca laḥ vaktavyaḥ . sarvavedaḥ sarvatantraḥ . savārttikaḥ sasaṅgrahaḥ . pañcakalpaḥ dvitantraḥ . anusūḥ lakṣyalakṣaṇe sarvasādeḥ dvigoḥ ca laḥ ikan padottarapadāt śataṣaṣṭeḥ ṣikan pathaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.