क्अ इइ,२८७।२३-२८८।५ रो इइइ,६६२ किमर्थम् नद्याम् मतुप् विधीयते न तत् अस्य अस्ति अस्मिन् इति मतुप् इति एव सिद्धम् । नद्याम् मतुब्वचनम् मत्वर्थे अण्विधानात् । नद्याम् मतुब्वचनम् क्रियते मत्वर्थे अण्विधानात् । अयम् मत्वर्थे अण् विधीयते । सः विशेषविहितः सामान्यविहितम् मतुपम् बाधेत । निर्वृत्ताद्यर्थम् च । निर्वृत्ताद्यर्थम् च नद्याम् मतुब्वचनम् क्रियते । निर्वृत्ताद्यर्थेषु मतुप् यथा स्यात् ।
KA II,287.23-288.5 Ro III,662 kimartham nadyām matup vidhīyate na tat asya asti asmin iti matup iti eva siddham . nadyām matubvacanam matvarthe aṇvidhānāt . nadyām matubvacanam kriyate matvarthe aṇvidhānāt . ayam matvarthe aṇ vidhīyate . saḥ viśeṣavihitaḥ sāmānyavihitam matupam bādheta . nirvṛttādyartham ca . nirvṛttādyartham ca nadyām matubvacanam kriyate . nirvṛttādyartheṣu matup yathā syāt .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.