क्अ इइ,३१०।८-३११ ७ रो इइइ,७०७-७०८ अत्यल्पम् इदम् उच्यते । समानस्य तदादेः च अध्यात्मादिषु च इष्यते । समानस्य : सामानिकः । तदादेः : समानग्रामिकः समानदेशिकः । अध्यात्मादिषु च इष्यते । आध्यात्मिकः आधिदैविकः आधिभौतिकः । ऊर्ध्वन्दमात् च देहात् च । ठञ् वक्तव्यः । और्ध्वन्दमिकम् और्ध्वदेहिकम् । लोकोत्तरपदस्य च । ठञ् वक्तव्यः । ऐहलौकिकम् पारलौकिकम् । मुखपार्श्वतसोः ईयः । मुख पार्श्व इति एताभ्याम् तसन्ताभ्याम् ईयः वक्तव्यः । मुखतीयः पार्श्वतीयः । कुक् जनस्य परस्य च ।ईयः वक्तव्यः । जनकीयम् परकीयम् । ईयः कार्यः अथ मध्यस्य । मध्यीयः । मण्मीयौ च प्रत्ययौ । मण्मीयौ च अपि प्रत्ययौ वक्तव्यौ । माध्यमः मध्यमीयः । मध्य [र्: मध्यः] मध्यम् दिनण् च अस्मात् । मध्यशब्दः मध्यशब्दम् आपद्यते दिनण् च अस्मात् प्रत्ययः भवति । माध्यन्दिनः उद्गायति । स्थाम्नः लुक् अजिनात् तथा । स्थाम्नः लुक् वक्तव्यः । अश्वत्थामा । अजिनान्तात् च लुक् वक्तव्यः । उलाजिनः सिंहाजिनः व्याघ्राजिनः । बाह्यः दैव्यः पाञ्चजन्यः गाम्भीर्यम् च ञ्यः इष्यते ।
KA II,310.8-311 7 Ro III,707-708 atyalpam idam ucyate . samānasya tadādeḥ ca adhyātmādiṣu ca iṣyate . samānasya : sāmānikaḥ . tadādeḥ : samānagrāmikaḥ samānadeśikaḥ . adhyātmādiṣu ca iṣyate . ādhyātmikaḥ ādhidaivikaḥ ādhibhautikaḥ . ūrdhvandamāt ca dehāt ca . ṭhañ vaktavyaḥ . aurdhvandamikam aurdhvadehikam . lokottarapadasya ca . ṭhañ vaktavyaḥ . aihalaukikam pāralaukikam . mukhapārśvatasoḥ īyaḥ . mukha pārśva iti etābhyām tasantābhyām īyaḥ vaktavyaḥ . mukhatīyaḥ pārśvatīyaḥ . kuk janasya parasya ca .īyaḥ vaktavyaḥ . janakīyam parakīyam . īyaḥ kāryaḥ atha madhyasya . madhyīyaḥ . maṇmīyau ca pratyayau . maṇmīyau ca api pratyayau vaktavyau . mādhyamaḥ madhyamīyaḥ . madhya [R: madhyaḥ] madhyam dinaṇ ca asmāt . madhyaśabdaḥ madhyaśabdam āpadyate dinaṇ ca asmāt pratyayaḥ bhavati . mādhyandinaḥ udgāyati . sthāmnaḥ luk ajināt tathā . sthāmnaḥ luk vaktavyaḥ . aśvatthāmā . ajināntāt ca luk vaktavyaḥ . ulājinaḥ siṃhājinaḥ vyāghrājinaḥ . bāhyaḥ daivyaḥ pāñcajanyaḥ gāmbhīryam ca ñyaḥ iṣyate .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.