Library·Patanjali: Vyakaranamahabhasya·4·4.3

Patanjali: Vyakaranamahabhasya 4.3

क्अ इइ,३०२।२-७ रो इइइ,६८९ युष्मदस्मद्भ्याम् प्रत्ययविधाने योगविभागः । युष्मदस्मद्भ्याम् प्रत्ययविधाने योगविभागः कर्तव्यः । युष्मदस्मदोः अन्यतरस्याम् छः भवति । युष्मदीयः अस्मदीयः । ततः खञ् च । खञ् च भवति युष्मदस्मदोः अन्यतरस्याम् । यौष्मकीणः आस्माकीनः । किमर्थः योगविभागः । समसङ्ख्याप्रतिषेधार्थः । सङ्ख्यातानुदेशः मा भूत् इति ।

KA II,302.2-7 Ro III,689 yuṣmadasmadbhyām pratyayavidhāne yogavibhāgaḥ . yuṣmadasmadbhyām pratyayavidhāne yogavibhāgaḥ kartavyaḥ . yuṣmadasmadoḥ anyatarasyām chaḥ bhavati . yuṣmadīyaḥ asmadīyaḥ . tataḥ khañ ca . khañ ca bhavati yuṣmadasmadoḥ anyatarasyām . yauṣmakīṇaḥ āsmākīnaḥ . kimarthaḥ yogavibhāgaḥ . samasaṅkhyāpratiṣedhārthaḥ . saṅkhyātānudeśaḥ mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०२।९-१६ रो इइइ,६९० आदेशवचने च । किम् । योगविभागः कर्तव्यः । तस्मिन् अणि युष्माकास्माकौ भवतः । यौष्माकः आस्माकः । ततः खञि । खञि च युष्माकास्माकौ भवतः । यौष्माकीणः आस्माकीनः । किमर्थः योगविभागः । समसङ्ख्याप्रतिषेधार्थः इति एव । तत्र पुनः खञ्ग्रहणम् । तत्र पुनः खञ्ग्रहणम् कर्तव्यम् । न हि अन्तरेण खञ्ग्रहणम् योगाङ्गम् उपजायते । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । एवम् वक्ष्यामि । तस्मिन् खञि युष्माकास्माकौ भवतः । ततः अणि च । अणि चयुष्माकास्माकौ भवतः इति ।

KA II,302.9-16 Ro III,690 ādeśavacane ca . kim . yogavibhāgaḥ kartavyaḥ . tasmin aṇi yuṣmākāsmākau bhavataḥ . yauṣmākaḥ āsmākaḥ . tataḥ khañi . khañi ca yuṣmākāsmākau bhavataḥ . yauṣmākīṇaḥ āsmākīnaḥ . kimarthaḥ yogavibhāgaḥ . samasaṅkhyāpratiṣedhārthaḥ iti eva . tatra punaḥ khañgrahaṇam . tatra punaḥ khañgrahaṇam kartavyam . na hi antareṇa khañgrahaṇam yogāṅgam upajāyate . tat tarhi vaktavyam . na vaktavyam . evam vakṣyāmi . tasmin khañi yuṣmākāsmākau bhavataḥ . tataḥ aṇi ca . aṇi cayuṣmākāsmākau bhavataḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०२।१८-३०३।७ रो इइइ,६९०-६९१ एकार्थग्रहणम् च । एकार्थग्रहणम् च कर्तव्यम् । एकार्थयोः युष्मदस्मदोः इति वक्तव्यम् । किमर्थम् न एकवचने इति एव सिद्धम् । न सिध्यति । किम् कारणम् । एकवचनाभावात् । एकवचने इति उच्यते । न च अत्र एकवचनम् पश्यामः । यदि पुनः एकवचनपरत्वेन अण्खञौ विशेष्येयाताम् । न एवम् शक्यम् । इह हि प्रसज्येयाताम् । युष्माकम् छात्रः यौष्माकीणः । आस्माकीनः । इह च न स्याताम् । तव छात्राः तावकीनाः । मामकीनाः । तस्मात् न एवम् शक्यम् । न चेत् एवम् एकार्थग्रहणम् कर्तव्यम् । न कर्तव्यम् । न इदम् पारिभाषिकस्य एकवचनस्य ग्रहणम् । किम् तर्हि । अन्वर्थग्रहणम् । उच्यते वचनम् । एकस्य अर्थस्य वचनम् एकवचनम् ।

KA II,302.18-303.7 Ro III,690-691 ekārthagrahaṇam ca . ekārthagrahaṇam ca kartavyam . ekārthayoḥ yuṣmadasmadoḥ iti vaktavyam . kimartham na ekavacane iti eva siddham . na sidhyati . kim kāraṇam . ekavacanābhāvāt . ekavacane iti ucyate . na ca atra ekavacanam paśyāmaḥ . yadi punaḥ ekavacanaparatvena aṇkhañau viśeṣyeyātām . na evam śakyam . iha hi prasajyeyātām . yuṣmākam chātraḥ yauṣmākīṇaḥ . āsmākīnaḥ . iha ca na syātām . tava chātrāḥ tāvakīnāḥ . māmakīnāḥ . tasmāt na evam śakyam . na cet evam ekārthagrahaṇam kartavyam . na kartavyam . na idam pāribhāṣikasya ekavacanasya grahaṇam . kim tarhi . anvarthagrahaṇam . ucyate vacanam . ekasya arthasya vacanam ekavacanam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०३।९-१६ रो इइइ,६९१-६९२ अर्धात् यद्विधाने सपूर्वात् ठञ् । अर्धात् यद्विधाने सपूर्वात् ठञ् वक्तव्यः । बालेयार्धिकः गौतमार्धिकः । दिक्पूर्वपदात् यत् च । दिक्पूर्वपदात् यत् च ठञ् च वक्तव्यः । पूर्वार्ध्यः पौर्वार्धिकः दक्षिणार्ध्यः दाक्षिणार्धिकः उत्तरार्ध्यः औत्तरार्धिकः । किमर्थम् इदम् उच्यते यदा आद्यन्यासे एव दिक्पूर्वपदात् अर्धात् उभयम् उच्यते । इदम् अद्य अपूर्वम् क्रियते : अर्धात् यद्विधाने सपूर्वात् ठञ् इति । तत् द्वेष्यम् विजानीयात् : सर्वम् विकल्पते इति । तत् आचार्यः सुहृत् भूत्वा अन्वाचष्ते : दिक्पूर्वपदात् यथान्यासम् एव भवति इति ।

KA II,303.9-16 Ro III,691-692 ardhāt yadvidhāne sapūrvāt ṭhañ . ardhāt yadvidhāne sapūrvāt ṭhañ vaktavyaḥ . bāleyārdhikaḥ gautamārdhikaḥ . dikpūrvapadāt yat ca . dikpūrvapadāt yat ca ṭhañ ca vaktavyaḥ . pūrvārdhyaḥ paurvārdhikaḥ dakṣiṇārdhyaḥ dākṣiṇārdhikaḥ uttarārdhyaḥ auttarārdhikaḥ . kimartham idam ucyate yadā ādyanyāse eva dikpūrvapadāt ardhāt ubhayam ucyate . idam adya apūrvam kriyate : ardhāt yadvidhāne sapūrvāt ṭhañ iti . tat dveṣyam vijānīyāt : sarvam vikalpate iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣte : dikpūrvapadāt yathānyāsam eva bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०३।१८-३०४।५ रो इइइ,६९२-६९३ श्वसः तुटि आदेशानुपपत्तिः अनादित्वात् । श्वसः तुटि कृते आदेशानुपपत्तिः । किम् कारणम् । अनादित्वात् । तुटि कृते अनादित्वात् आदेशः न प्राप्नोति । एवम् तर्हि पूर्वान्तः करिष्यते । पूर्वान्ते कप्रतिषेधः । यदि पूर्वान्तः कादेशस्य प्रतिषेधः वक्तव्यः । शौवस्तिकम् । तान्तात् इति कादेशः प्राप्नोति । अस्तु तर्हि परादिः । ननु च उक्तम् श्वसः तुटि आदेशानुपपत्तिः अनादित्वात् इति । सिद्धम् तु आदिष्टस्य तुड्वचनात् । सिद्धम् एतत् । कथम् । तुड् आदिष्टस्य इति वक्तव्यम् । अथ वा चेन सन्नियोगः करिष्यते । तुट् च । किम् च । यत् च अन्यत् प्राप्नोति । किम् च अन्यत् प्राप्नोति । आदेशः ।

KA II,303.18-304.5 Ro III,692-693 śvasaḥ tuṭi ādeśānupapattiḥ anāditvāt . śvasaḥ tuṭi kṛte ādeśānupapattiḥ . kim kāraṇam . anāditvāt . tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti . evam tarhi pūrvāntaḥ kariṣyate . pūrvānte kapratiṣedhaḥ . yadi pūrvāntaḥ kādeśasya pratiṣedhaḥ vaktavyaḥ . śauvastikam . tāntāt iti kādeśaḥ prāpnoti . astu tarhi parādiḥ . nanu ca uktam śvasaḥ tuṭi ādeśānupapattiḥ anāditvāt iti . siddham tu ādiṣṭasya tuḍvacanāt . siddham etat . katham . tuḍ ādiṣṭasya iti vaktavyam . atha vā cena sanniyogaḥ kariṣyate . tuṭ ca . kim ca . yat ca anyat prāpnoti . kim ca anyat prāpnoti . ādeśaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०४।७-१४ रो इइइ,६९३-६९४ हेमन्तस्य अणि तलोपवचनानर्थक्यम् हेम्नः प्रकृत्यन्तरत्वात् । हेमन्तस्य अणि तलोपवचनम् अनर्थकम् । किम् कारणम् । हेम्नः प्रकृत्यन्तरत्वात् । प्रकृत्यन्तरम् हेमन्शब्दः । आतः च प्रकृत्यन्तरम् । एवम् हि आह । हेमन् हेमन् आगनीगन्ति कर्णौ । तस्मात् एतौ हेमन् न शुष्यतः इति । अलोपदर्शनात् च । अलोपः खलु अपि दृश्यते । पङ्क्तिः हैमन्ती इति । अपरः आह : हेमन्तस्य अण्वचनम् अणि च तलोपवचनम् अनर्थकम् । किम् कारणम् । हेम्नः प्रकृत्यन्तरत्वात् अलोपदर्शनात् च इति एव । तत्र ऋतुभ्यः इति एव सिद्धम् ।

KA II,304.7-14 Ro III,693-694 hemantasya aṇi talopavacanānarthakyam hemnaḥ prakṛtyantaratvāt . hemantasya aṇi talopavacanam anarthakam . kim kāraṇam . hemnaḥ prakṛtyantaratvāt . prakṛtyantaram hemanśabdaḥ . ātaḥ ca prakṛtyantaram . evam hi āha . heman heman āganīganti karṇau . tasmāt etau heman na śuṣyataḥ iti . alopadarśanāt ca . alopaḥ khalu api dṛśyate . paṅktiḥ haimantī iti . aparaḥ āha : hemantasya aṇvacanam aṇi ca talopavacanam anarthakam . kim kāraṇam . hemnaḥ prakṛtyantaratvāt alopadarśanāt ca iti eva . tatra ṛtubhyaḥ iti eva siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०४।१६-१९ रो इइइ,६९४ चिरपरुत्परारिभ्यः त्नः वक्तव्यः । चिरत्नम् परुत्त्नम् परारित्नम् । प्रगस्य छन्दसि गलोपः च त्नः च वक्तव्यः । प्रत्नम् आत्मानम् । अग्रादिपश्चात् डिमुच् स्मृतः । अग्रिमम् आदिमम् पश्चिमम् । अन्तात् च इति वक्तव्यम् । अन्तिमम्।

KA II,304.16-19 Ro III,694 ciraparutparāribhyaḥ tnaḥ vaktavyaḥ . ciratnam paruttnam parāritnam . pragasya chandasi galopaḥ ca tnaḥ ca vaktavyaḥ . pratnam ātmānam . agrādipaścāt ḍimuc smṛtaḥ . agrimam ādimam paścimam . antāt ca iti vaktavyam . antimam.

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०४।२०-३०५।२० रो इइइ,६९५-६९६ अथ सायचिरयोः किम् निपात्यते । सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियुक्तम् । सायचिरयोः मकारान्तत्वम् प्रत्ययसन्नियोगेन निपात्यते । सायन्तनम् चिरन्तनम् । न एतत् अस्ति प्रयोजनम् । मकारान्तः सायंशब्दः । कथम् सायाह्नः । सायमः अह्ने मलोपः । सायमः अह्ने मलोपः वक्तव्यः । कथम् सायतरे । तरे च इति वक्तव्यम् । कथम् सायम् साये । वा सप्तम्याम् इति वक्तव्यम् । अथ प्राह्णप्रगयोः किम् निपात्यते । प्राह्णप्रग्योः एकारान्तत्वम् । प्राह्णप्रग्योः एकारान्तत्वम् निपात्यते । प्राह्णेतनम् प्रगेतनम् । न एतत् अस्ति प्रयोजनम् । सप्तम्याः अलुका अपि सिद्धम् । भवेत् सिद्धम् यदा सप्तमी । यदा तु अन्या विभक्तिः तदा न सिध्यति । तुटि उक्तम् । किम् उक्तम् । तुटि आदेशानुपपत्तिः अनादित्वात् इति । तुटि कृते अनादित्वात् आदेशः न प्राप्नोति । एवम् तर्हि पूर्वान्तः करिष्यते । पूर्वान्ते विसर्जनीयः । यदि पूर्वान्तः विसर्जनीयः वक्तव्यः । प्रातस्तनम् पुनस्तनम् । परादौ पुनः सति खरवसानयोः विसर्जनीयः इति विसर्जनीयः सिद्धः भवति । अस्तु तर्हि परादिः । ननु च उक्तम् तुटि कृते अनादित्वात् आदेशः न प्राप्नोति इति । सिद्धम् तु आदिष्टस्य तुड्वचनात् । सिद्धम् एतत् । कथम् । तुड् आदिष्टस्य इति वक्तव्यम् । अथ वा चेन सन्नियोगः करिष्यते । तुट् च । किम् च । यत् च अन्यत् प्राप्नोति । किम् च अन्यत् प्राप्नोति । आदेशः ।

KA II,304.20-305.20 Ro III,695-696 atha sāyacirayoḥ kim nipātyate . sāyacirayoḥ makārāntatvam pratyayasanniyuktam . sāyacirayoḥ makārāntatvam pratyayasanniyogena nipātyate . sāyantanam cirantanam . na etat asti prayojanam . makārāntaḥ sāyaṃśabdaḥ . katham sāyāhnaḥ . sāyamaḥ ahne malopaḥ . sāyamaḥ ahne malopaḥ vaktavyaḥ . katham sāyatare . tare ca iti vaktavyam . katham sāyam sāye . vā saptamyām iti vaktavyam . atha prāhṇapragayoḥ kim nipātyate . prāhṇapragyoḥ ekārāntatvam . prāhṇapragyoḥ ekārāntatvam nipātyate . prāhṇetanam pragetanam . na etat asti prayojanam . saptamyāḥ alukā api siddham . bhavet siddham yadā saptamī . yadā tu anyā vibhaktiḥ tadā na sidhyati . tuṭi uktam . kim uktam . tuṭi ādeśānupapattiḥ anāditvāt iti . tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti . evam tarhi pūrvāntaḥ kariṣyate . pūrvānte visarjanīyaḥ . yadi pūrvāntaḥ visarjanīyaḥ vaktavyaḥ . prātastanam punastanam . parādau punaḥ sati kharavasānayoḥ visarjanīyaḥ iti visarjanīyaḥ siddhaḥ bhavati . astu tarhi parādiḥ . nanu ca uktam tuṭi kṛte anāditvāt ādeśaḥ na prāpnoti iti . siddham tu ādiṣṭasya tuḍvacanāt . siddham etat . katham . tuḍ ādiṣṭasya iti vaktavyam . atha vā cena sanniyogaḥ kariṣyate . tuṭ ca . kim ca . yat ca anyat prāpnoti . kim ca anyat prāpnoti . ādeśaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०५।२२-३०६।२७ रो इइइ,६९७-७०० पूर्वाह्णापराह्णाभ्याम् सुबन्तवचनम् सप्तमीश्रवणाऋथम् । पूर्वाह्णापराह्णाभ्याम् सुबन्तत्वम् वक्तव्यम् । किम् प्रयोजनम् । सप्तमीश्रवणाऋथम् । सप्तम्याः श्रवणम् यथा स्यात् । पूर्वाह्णेतनम् अपराह्णेतनम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । आचार्यप्रवृत्तिः ज्ञापयति भवति अत्र सप्तमी इति यत् अयम् घकालतनेषु कालनाम्नः इति सप्तम्याः अलुकम् शास्ति । अलुग्वचनम् ज्ञापकम् इति चेत् अव्ययात् सप्तमीप्रसङ्गः । अलुग्वचनम् ज्ञापकम् इति चेत् अव्ययात् सप्तमी प्राप्नोति । दोषातनम् दिवातनम् । अस्तु अव्ययात् इति लुक् भविष्यति । इह अपि लुक् प्राप्नोति । पूर्वाह्णेतनम् अपराह्णेतनम् । अलुक् अत्र लुकम् बाधिष्यते । इह अपि बाधेत । दोषातनम् दिवातनम् । समानाश्रयः लुक् अलुका बाध्यते । कः च समानाश्रयः । यः प्रत्ययाश्रयः । अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति । न सिध्यति । इह हि सति प्रत्यये लुका भवितव्यम् । सति लुकि अलुका भवितव्यम् । तत्र च प्रत्ययः एव न अस्ति । कुतः लुक् भविष्यति । सा एषा ज्ञापकेन असती विभक्तिः आकृष्यते । सा यथा इह बाधिका भवति पूर्वाह्णेतनम् अपराह्णेतनम् एवम् इह अपि स्यात् दोषातनम् दिवातनम् । एवम् तर्हि न ब्रूमः अलुग्वचनम् ज्ञापकम् भवति अत्र सप्तमी इति । किम् तर्हि । भवति सुबन्तात् उत्पत्तिः इति । किम् पुनः ज्ञाप्यम् एतत् यावता समर्थानाम् प्रथमात् वा इति वर्तते सामर्थ्यम् च सुबन्तेन । ज्ञाप्यम् इति आह । कथम् । ङ्याप्प्रातिपदिकात् इति अपि वर्तते । तत्र कुतः एतत् सुबन्तात् उत्पत्तिः भविष्यति न पुनः ङ्याप्प्रातिपदिकात् इति । कथम् यत् उक्तम् वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् इति । समर्थस्य यत् वृद्धम् ङ्याप्प्रातिपदिकम् इति एतत् विज्ञायते । यदि एतत् ज्ञप्यते कथम् द्विपदः आगतम् द्विपाद्रूप्यम् प्रष्ठौहः आगतम् प्रष्ठ्वाड्रूप्यम् कीलालपः आगतम् कीलालपारूप्यम् पपुषः आगतम् पपिवड्रूप्यम् । पद्भावः ऊहाकारलोपः प्रसारणम् इति एते विधयः प्राप्नुवन्ति । लुके कृते न भविष्यन्ति । इह तर्हि सामसु साधुः सामन्यः वेमन्यः नलोपः प्रातिपदिकान्तस्य इति नलोपः प्राप्नोति । लुकि कृते भत्वात् न भविष्यति । इदम् इह सम्प्रधार्यम् । लुक् क्रियताम् नलोपः इति । किम् अत्र कर्तव्यम् । परत्वात् नलोपः । एवम् तर्हि इदम् इह सम्प्रधार्यम् । नलोपः क्रियताम् तद्धितोत्पत्तिः इति । किम् अत्र कर्तव्यम् । परत्वात् नलोपः । असिद्धः नलोपः । तस्य असिद्धत्वात् तद्धितोत्पत्तिः भविष्यति । परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते । इदम् अपि तत्र परिगण्यते । कथम् । सुब्विधिः इति सर्वविभक्त्यन्तः समासः : सुपः विधिः सुब्विधिः , सुबन्तात् विधिः सुब्विधिः इति ।

KA II,305.22-306.27 Ro III,697-700 pūrvāhṇāparāhṇābhyām subantavacanam saptamīśravaṇāṛtham . pūrvāhṇāparāhṇābhyām subantatvam vaktavyam . kim prayojanam . saptamīśravaṇāṛtham . saptamyāḥ śravaṇam yathā syāt . pūrvāhṇetanam aparāhṇetanam . tat tarhi vaktavyam . na vaktavyam . ācāryapravṛttiḥ jñāpayati bhavati atra saptamī iti yat ayam ghakālataneṣu kālanāmnaḥ iti saptamyāḥ alukam śāsti . alugvacanam jñāpakam iti cet avyayāt saptamīprasaṅgaḥ . alugvacanam jñāpakam iti cet avyayāt saptamī prāpnoti . doṣātanam divātanam . astu avyayāt iti luk bhaviṣyati . iha api luk prāpnoti . pūrvāhṇetanam aparāhṇetanam . aluk atra lukam bādhiṣyate . iha api bādheta . doṣātanam divātanam . samānāśrayaḥ luk alukā bādhyate . kaḥ ca samānāśrayaḥ . yaḥ pratyayāśrayaḥ . atra ca prāk eva pratyayotpatteḥ luk bhavati . na sidhyati . iha hi sati pratyaye lukā bhavitavyam . sati luki alukā bhavitavyam . tatra ca pratyayaḥ eva na asti . kutaḥ luk bhaviṣyati . sā eṣā jñāpakena asatī vibhaktiḥ ākṛṣyate . sā yathā iha bādhikā bhavati pūrvāhṇetanam aparāhṇetanam evam iha api syāt doṣātanam divātanam . evam tarhi na brūmaḥ alugvacanam jñāpakam bhavati atra saptamī iti . kim tarhi . bhavati subantāt utpattiḥ iti . kim punaḥ jñāpyam etat yāvatā samarthānām prathamāt vā iti vartate sāmarthyam ca subantena . jñāpyam iti āha . katham . ṅyāpprātipadikāt iti api vartate . tatra kutaḥ etat subantāt utpattiḥ bhaviṣyati na punaḥ ṅyāpprātipadikāt iti . katham yat uktam vṛddhāvṛddhāvarṇasvaradvyajlakṣaṇe ca pratyayavidhau tatsampratyayārtham iti . samarthasya yat vṛddham ṅyāpprātipadikam iti etat vijñāyate . yadi etat jñapyate katham dvipadaḥ āgatam dvipādrūpyam praṣṭhauhaḥ āgatam praṣṭhvāḍrūpyam kīlālapaḥ āgatam kīlālapārūpyam papuṣaḥ āgatam papivaḍrūpyam . padbhāvaḥ ūhākāralopaḥ prasāraṇam iti ete vidhayaḥ prāpnuvanti . luke kṛte na bhaviṣyanti . iha tarhi sāmasu sādhuḥ sāmanyaḥ vemanyaḥ nalopaḥ prātipadikāntasya iti nalopaḥ prāpnoti . luki kṛte bhatvāt na bhaviṣyati . idam iha sampradhāryam . luk kriyatām nalopaḥ iti . kim atra kartavyam . paratvāt nalopaḥ . evam tarhi idam iha sampradhāryam . nalopaḥ kriyatām taddhitotpattiḥ iti . kim atra kartavyam . paratvāt nalopaḥ . asiddhaḥ nalopaḥ . tasya asiddhatvāt taddhitotpattiḥ bhaviṣyati . parigaṇiteṣu kāryeṣu nalopaḥ asiddhaḥ na ca idam tatra parigaṇyate . idam api tatra parigaṇyate . katham . subvidhiḥ iti sarvavibhaktyantaḥ samāsaḥ : supaḥ vidhiḥ subvidhiḥ , subantāt vidhiḥ subvidhiḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०७।२-१८ रो इइइ,७००-७०१ किमर्थम् जातादयः अर्थाः निर्दिश्यन्ते । जातादिषु अर्थेषु घादयः यथा स्युः । स्वार्थे मा भूवन् इति । न एतत् अस्ति प्रयोजनम् । शेषे इति वर्तते । तेन स्वार्थे न भविष्यन्ति । अतः उत्तरम् पठत् । तत्रजातादिषु वचनम् नियमार्थम् । नियमार्थः अयम् आरम्भः । जातादिषु एव घादयः यथा स्युः । इह मा भूवन् । तत्र आस्ते तत्र शेते इति । यदि नियमः क्रियते दार्षदाः सक्तवः औलूखलः यावकः इति न सिध्यति । संस्कृतम् इति एवम् भविष्यति । भवेत् सिद्धम् दार्षदाः सक्तवः इति । इदम् तु न सिध्यति : औलूखलः यावकः इति । संस्कृतम् हि नाम तत् भवति यत् ततः एव अपकृष्य अभ्यवह्रियते । न च यावकः उलूखलात् एव अपकृष्य अभ्यवह्रियते । अवश्यम् रन्धनादीनि प्रतीक्ष्याणि । तस्मात् न अर्थः अनेन नियमेन । कस्मात् न भवति : तत्र आस्ते तत्र शेते इति । अनभिधानात् । तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् । क्रियमाणेषु अपि हि अर्थनिर्देशेषु यत्र जातादिषु उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधान न भवति न भवति तत्र प्रत्ययोत्पत्तिः । तत् यथा : अङ्गुल्या खनति वृक्षमूलात् आगतः इति । न तर्हि इदानीम् जातादयः अर्थाः निर्देष्टव्याः । निर्देष्टव्याः च । किम् प्रयोजनम् । अपवादविधानार्थम् । प्राविषः ठप् । प्रावृषि जातः प्रावृषकः । क्व मा भूत् । प्रावृषि भवः प्रावेषेण्याः बलाहकाः । यानि तु एतानि निरपवादानि अर्थापदेशानि तानि शक्यानि अकर्तुम् । कृतलब्धक्रीतकुशलाः । स्रौघ्नः देवदत्तः इति ।

KA II,307.2-18 Ro III,700-701 kimartham jātādayaḥ arthāḥ nirdiśyante . jātādiṣu artheṣu ghādayaḥ yathā syuḥ . svārthe mā bhūvan iti . na etat asti prayojanam . śeṣe iti vartate . tena svārthe na bhaviṣyanti . ataḥ uttaram paṭhat . tatrajātādiṣu vacanam niyamārtham . niyamārthaḥ ayam ārambhaḥ . jātādiṣu eva ghādayaḥ yathā syuḥ . iha mā bhūvan . tatra āste tatra śete iti . yadi niyamaḥ kriyate dārṣadāḥ saktavaḥ aulūkhalaḥ yāvakaḥ iti na sidhyati . saṃskṛtam iti evam bhaviṣyati . bhavet siddham dārṣadāḥ saktavaḥ iti . idam tu na sidhyati : aulūkhalaḥ yāvakaḥ iti . saṃskṛtam hi nāma tat bhavati yat tataḥ eva apakṛṣya abhyavahriyate . na ca yāvakaḥ ulūkhalāt eva apakṛṣya abhyavahriyate . avaśyam randhanādīni pratīkṣyāṇi . tasmāt na arthaḥ anena niyamena . kasmāt na bhavati : tatra āste tatra śete iti . anabhidhānāt . tat ca avaśyam anabhidhānam āśrayitavyam . kriyamāṇeṣu api hi arthanirdeśeṣu yatra jātādiṣu utpadyamānena pratyayena arthasya abhidhāna na bhavati na bhavati tatra pratyayotpattiḥ . tat yathā : aṅgulyā khanati vṛkṣamūlāt āgataḥ iti . na tarhi idānīm jātādayaḥ arthāḥ nirdeṣṭavyāḥ . nirdeṣṭavyāḥ ca . kim prayojanam . apavādavidhānārtham . prāviṣaḥ ṭhap . prāvṛṣi jātaḥ prāvṛṣakaḥ . kva mā bhūt . prāvṛṣi bhavaḥ prāveṣeṇyāḥ balāhakāḥ . yāni tu etāni nirapavādāni arthāpadeśāni tāni śakyāni akartum . kṛtalabdhakrītakuśalāḥ . sraughnaḥ devadattaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०७।२१-३०८।८ रो इइइ,७०२ लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपसङ्ख्यानम् । लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् । चित्रायाम् जाता चित्रा स्त्री चित्रा । रेवती रेवती स्त्री रेवती । रोहिणी रोहिणी स्त्री । फल्गुन्यषाढाभ्याम् टानौ । फल्गुन्यषाढाभ्याम् टानौ वक्तव्यौ । फल्गुनी । अषाढाः उपदधाति । श्रविष्ठाषाढाभ्याम् छण् । श्रविष्ठाषाढाभ्याम् छण् वक्तव्यः । श्राविष्ठीयाः आषाढीयाः । न वा नक्षत्रेभ्यः बलुलम् लुग्वचनात् । न वा वक्तव्यः । किम् कारणम् । नक्षत्रेभ्यः बलुलम् लुग्वचनात् । नक्षत्रेभ्यः बलुलम् लुक् इति एवम् अत्र लुक् भविष्यति ।

KA II,307.21-308.8 Ro III,702 lukprakaraṇe citrārevatīrohiṇībhyaḥ striyām upasaṅkhyānam . lukprakaraṇe citrārevatīrohiṇībhyaḥ striyām upasaṅkhyānam kartavyam . citrāyām jātā citrā strī citrā . revatī revatī strī revatī . rohiṇī rohiṇī strī . phalgunyaṣāḍhābhyām ṭānau . phalgunyaṣāḍhābhyām ṭānau vaktavyau . phalgunī . aṣāḍhāḥ upadadhāti . śraviṣṭhāṣāḍhābhyām chaṇ . śraviṣṭhāṣāḍhābhyām chaṇ vaktavyaḥ . śrāviṣṭhīyāḥ āṣāḍhīyāḥ . na vā nakṣatrebhyaḥ balulam lugvacanāt . na vā vaktavyaḥ . kim kāraṇam . nakṣatrebhyaḥ balulam lugvacanāt . nakṣatrebhyaḥ balulam luk iti evam atra luk bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०८।१०-२३ रो इइइ,७०३-७०४ प्रायभवग्रहणम् अनर्थकम् तत्रभवेन कृतत्वात् । प्रायभवग्रहणम् अनर्थकम् । किम् कारणम् । तत्रभवेन कृतत्वात् । यः हि राष्ट्रे प्रायेण भवति तत्र भवः असौ भवति । तत्र तत्र भवः इति एव सिद्धम् । न सिध्यति । अनित्यभवः प्रायभवः । अनित्यभवः प्रायभवः इति चेत् मुक्तसंशयेन तुल्यम् । यत् भवान् मुक्तसंशयम् तत्र भवे उदाहरणम् न्याय्यम् मन्यते स्रौघ्नः देवदत्तः इति तेन एतत् तुल्यम् । सः अपि हि अवश्यम् उदक्देशादीनि अभिनिष्क्रामति । अथ एतत् भवान् प्रायभवे उदाहरणम् न्याय्यम् मन्यते तत्र भवे किम् उदाहरणम् । यत् तत्र नित्यम् भवति । स्रौघ्नाः प्रासादाः स्रौघ्नाः प्राकाराः इति । एवम् तर्हि तत्र भवति इति प्रकृत्य जीह्वामूलाङ्गुलेः छः विधीयते । सः यथा दृष्टापचरे अङ्गुलीयम् इति भवति एवम् प्रयभवे अपि भविष्यति । इदम् तर्हि प्रयोजनम् । प्रायभवः इति प्रकृत्य उपजानूपकर्णोपनीवेः ठकम् वक्ष्यति । सः प्रायभवे एव यथा स्यात् । तत्र भवे मा भूत् । उपजानुभवम् गडु इति । अथ इदानीम् तत्र भवः इति प्रकृत्य शरीरावयवात् यत् विधीयते । सः अत्र कस्मात् न भवति । अनभिधानात् । सः यथा एव अनभिधानात् यत् न भवति एवम् ठक् अपि न भविष्यति ।

KA II,308.10-23 Ro III,703-704 prāyabhavagrahaṇam anarthakam tatrabhavena kṛtatvāt . prāyabhavagrahaṇam anarthakam . kim kāraṇam . tatrabhavena kṛtatvāt . yaḥ hi rāṣṭre prāyeṇa bhavati tatra bhavaḥ asau bhavati . tatra tatra bhavaḥ iti eva siddham . na sidhyati . anityabhavaḥ prāyabhavaḥ . anityabhavaḥ prāyabhavaḥ iti cet muktasaṃśayena tulyam . yat bhavān muktasaṃśayam tatra bhave udāharaṇam nyāyyam manyate sraughnaḥ devadattaḥ iti tena etat tulyam . saḥ api hi avaśyam udakdeśādīni abhiniṣkrāmati . atha etat bhavān prāyabhave udāharaṇam nyāyyam manyate tatra bhave kim udāharaṇam . yat tatra nityam bhavati . sraughnāḥ prāsādāḥ sraughnāḥ prākārāḥ iti . evam tarhi tatra bhavati iti prakṛtya jīhvāmūlāṅguleḥ chaḥ vidhīyate . saḥ yathā dṛṣṭāpacare aṅgulīyam iti bhavati evam prayabhave api bhaviṣyati . idam tarhi prayojanam . prāyabhavaḥ iti prakṛtya upajānūpakarṇopanīveḥ ṭhakam vakṣyati . saḥ prāyabhave eva yathā syāt . tatra bhave mā bhūt . upajānubhavam gaḍu iti . atha idānīm tatra bhavaḥ iti prakṛtya śarīrāvayavāt yat vidhīyate . saḥ atra kasmāt na bhavati . anabhidhānāt . saḥ yathā eva anabhidhānāt yat na bhavati evam ṭhak api na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०९।२-९ रो इइइ,७०४-७०५ विकारे कोशात् ढञ् । विकारे कोशात् ढञ् वक्तव्यः । कोशस्य विकारः कौशेयम् । सम्भूते हि अर्थानुपपत्तिः । सम्भूते इति हि उच्यमाने अर्थस्य अनुपपत्तिः स्यात् । न हि अदः कोशे सम्भवति । किम् तर्हि । कोशस्य अदः विकारः । यदि विकारः इति उच्यते भस्मनि अपि प्राप्नोति । भस्म अपि कोशस्य विकारः । अथ सम्भूते इति उच्यमाने क्रिमौ कस्मात् न भवति । क्रिमिः अपि हि कोशे सम्भवति । अनभिधानात् । यथा एव तर्हि अनभिधानात् क्रिमौ न भवति एवम् भस्मनि अपि न भविष्यति । अर्थः च उपपन्नः भवति ।

KA II,309.2-9 Ro III,704-705 vikāre kośāt ḍhañ . vikāre kośāt ḍhañ vaktavyaḥ . kośasya vikāraḥ kauśeyam . sambhūte hi arthānupapattiḥ . sambhūte iti hi ucyamāne arthasya anupapattiḥ syāt . na hi adaḥ kośe sambhavati . kim tarhi . kośasya adaḥ vikāraḥ . yadi vikāraḥ iti ucyate bhasmani api prāpnoti . bhasma api kośasya vikāraḥ . atha sambhūte iti ucyamāne krimau kasmāt na bhavati . krimiḥ api hi kośe sambhavati . anabhidhānāt . yathā eva tarhi anabhidhānāt krimau na bhavati evam bhasmani api na bhaviṣyati . arthaḥ ca upapannaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०९।११-१३ रो इइइ,७०५ अयुक्तः अयम् निर्देशः । कालात् इति वर्तते। न च कलापी नाम कलः अस्ति । न एषः दोषः । साहचर्यात् ताच्छब्द्यम् भविष्यति । कलापिसहचरितः कालः कलापी कालः इति ।

KA II,309.11-13 Ro III,705 ayuktaḥ ayam nirdeśaḥ . kālāt iti vartate. na ca kalāpī nāma kalaḥ asti . na eṣaḥ doṣaḥ . sāhacaryāt tācchabdyam bhaviṣyati . kalāpisahacaritaḥ kālaḥ kalāpī kālaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३०९।१५-२० रो इइइ,७०५-७०६ तत्र इति वर्तमाने पुनः तत्रग्रहणम् किमर्थम् । तत्रप्रकरणे तत्र इति पुनर्वचनम् कालनिवृत्त्यर्थम् । तत्रप्रकरणे तत्र इति पुनर्वचनम् क्रियते कालनिवृत्त्यर्थम् । कालाधिकारः निवर्त्यते । न हि काकः वाश्यते इति एव अधिकाराः निवर्तन्ते । कः वा अभिसम्बन्धः यत् तत्रग्रहणम् कालाधिकारम् निवर्तयेत् । एषः अभिसम्बन्धः । कालाभिसम्बद्धम् तत्रग्रहणम् अनुवर्तते । तत्रग्रहणम् च तत्रग्रहणस्य निवर्तकम् भवति । तस्मिन् निवृत्ते कालाधिकारः अपि निवर्तते ।

KA II,309.15-20 Ro III,705-706 tatra iti vartamāne punaḥ tatragrahaṇam kimartham . tatraprakaraṇe tatra iti punarvacanam kālanivṛttyartham . tatraprakaraṇe tatra iti punarvacanam kriyate kālanivṛttyartham . kālādhikāraḥ nivartyate . na hi kākaḥ vāśyate iti eva adhikārāḥ nivartante . kaḥ vā abhisambandhaḥ yat tatragrahaṇam kālādhikāram nivartayet . eṣaḥ abhisambandhaḥ . kālābhisambaddham tatragrahaṇam anuvartate . tatragrahaṇam ca tatragrahaṇasya nivartakam bhavati . tasmin nivṛtte kālādhikāraḥ api nivartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१०।२-६ रो इइइ,७०६ ञ्यप्रकरणे परिमुखादिभ्यः उपसङ्ख्यानम् । ञ्यप्रकरणे परिमुखादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । पारिमुख्यम् पारिहनव्यम् । अव्ययीभावाद् विधाने उपकूलादिभ्यः प्रतिषेधः । अव्ययीभावाद् विधाने उपकूलादिभ्यः प्रतिषेधः वक्तव्यः । औपकूलः औपमूलः औपशालः ।

KA II,310.2-6 Ro III,706 ñyaprakaraṇe parimukhādibhyaḥ upasaṅkhyānam . ñyaprakaraṇe parimukhādibhyaḥ upasaṅkhyānam kartavyam . pārimukhyam pārihanavyam . avyayībhāvād vidhāne upakūlādibhyaḥ pratiṣedhaḥ . avyayībhāvād vidhāne upakūlādibhyaḥ pratiṣedhaḥ vaktavyaḥ . aupakūlaḥ aupamūlaḥ aupaśālaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१०।८-३११ ७ रो इइइ,७०७-७०८ अत्यल्पम् इदम् उच्यते । समानस्य तदादेः च अध्यात्मादिषु च इष्यते । समानस्य : सामानिकः । तदादेः : समानग्रामिकः समानदेशिकः । अध्यात्मादिषु च इष्यते । आध्यात्मिकः आधिदैविकः आधिभौतिकः । ऊर्ध्वन्दमात् च देहात् च । ठञ् वक्तव्यः । और्ध्वन्दमिकम् और्ध्वदेहिकम् । लोकोत्तरपदस्य च । ठञ् वक्तव्यः । ऐहलौकिकम् पारलौकिकम् । मुखपार्श्वतसोः ईयः । मुख पार्श्व इति एताभ्याम् तसन्ताभ्याम् ईयः वक्तव्यः । मुखतीयः पार्श्वतीयः । कुक् जनस्य परस्य च ।ईयः वक्तव्यः । जनकीयम् परकीयम् । ईयः कार्यः अथ मध्यस्य । मध्यीयः । मण्मीयौ च प्रत्ययौ । मण्मीयौ च अपि प्रत्ययौ वक्तव्यौ । माध्यमः मध्यमीयः । मध्य [र्: मध्यः] मध्यम् दिनण् च अस्मात् । मध्यशब्दः मध्यशब्दम् आपद्यते दिनण् च अस्मात् प्रत्ययः भवति । माध्यन्दिनः उद्गायति । स्थाम्नः लुक् अजिनात् तथा । स्थाम्नः लुक् वक्तव्यः । अश्वत्थामा । अजिनान्तात् च लुक् वक्तव्यः । उलाजिनः सिंहाजिनः व्याघ्राजिनः । बाह्यः दैव्यः पाञ्चजन्यः गाम्भीर्यम् च ञ्यः इष्यते ।

KA II,310.8-311 7 Ro III,707-708 atyalpam idam ucyate . samānasya tadādeḥ ca adhyātmādiṣu ca iṣyate . samānasya : sāmānikaḥ . tadādeḥ : samānagrāmikaḥ samānadeśikaḥ . adhyātmādiṣu ca iṣyate . ādhyātmikaḥ ādhidaivikaḥ ādhibhautikaḥ . ūrdhvandamāt ca dehāt ca . ṭhañ vaktavyaḥ . aurdhvandamikam aurdhvadehikam . lokottarapadasya ca . ṭhañ vaktavyaḥ . aihalaukikam pāralaukikam . mukhapārśvatasoḥ īyaḥ . mukha pārśva iti etābhyām tasantābhyām īyaḥ vaktavyaḥ . mukhatīyaḥ pārśvatīyaḥ . kuk janasya parasya ca .īyaḥ vaktavyaḥ . janakīyam parakīyam . īyaḥ kāryaḥ atha madhyasya . madhyīyaḥ . maṇmīyau ca pratyayau . maṇmīyau ca api pratyayau vaktavyau . mādhyamaḥ madhyamīyaḥ . madhya [R: madhyaḥ] madhyam dinaṇ ca asmāt . madhyaśabdaḥ madhyaśabdam āpadyate dinaṇ ca asmāt pratyayaḥ bhavati . mādhyandinaḥ udgāyati . sthāmnaḥ luk ajināt tathā . sthāmnaḥ luk vaktavyaḥ . aśvatthāmā . ajināntāt ca luk vaktavyaḥ . ulājinaḥ siṃhājinaḥ vyāghrājinaḥ . bāhyaḥ daivyaḥ pāñcajanyaḥ gāmbhīryam ca ñyaḥ iṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३११।९-३१२।२ रो इइइ,७०९-७१० किमर्थम् भवव्याख्यानयोः युगपत् अधिकारः क्रियते । भवव्याख्यानयोः युगपत् अधिकारः अपवादविधानार्थः । भवव्याख्यानयोः युगपत् अधिकारः क्रियते अपवादविधानार्थः । युगपद् अपवादान् वक्ष्यामि इति । किम् उच्यते अपवादविधानार्थः इति न पुनः निर्देशार्थः अपि स्यात् । कृतनिर्देशौ हि तौ । कृतनिर्देशौ हि एतौ अर्थौ । एकः तत्र भवः इति अपरः तस्य इदम् इति । अथ व्याख्यातव्यनाम्नः ग्रहणम् किमर्थम् । तत्र व्याख्यातव्यनाम्नः ग्रहणम् भवार्थम् । तत्र व्याख्यातव्यनाम्नः ग्रहणम् क्रियते भवार्थम् । किम् उच्यते भवार्थम् इति न पुनः व्याख्यानार्थम् अपि । व्याख्याने हि अवचनात् सिद्धम् । व्याख्याने हि सति अन्तरेण वचनम् सिद्धम् । यत् प्रति व्याख्यानम् इति एतत् भवति तस्मात् उत्पत्तिः भविष्यति । किम् प्रति एतत् भवति । व्याख्यातव्यनाम । यत् उच्यते भवार्थम् इति तत् न । व्याख्यानार्थम् अपि व्याख्यातव्यनाम्नः ग्रहणम् क्रियते । इह मा भूत् । पाटलिपुत्रस्य व्याख्यानी सुकोसला इति । अथ क्रिअय्माणे अपि व्याख्यातव्यनाम्नः ग्रहणे कस्मात् एव अत्र न भवति । अवयशः हि आख्यानम् व्याख्यानम् । पाटलिपुत्रम् च अपि अवयवशः व्याचष्टे । ईदृशाः अस्य प्राकाराः इति । सत्यम् एवम् एतत् । क्व चित् तु का चित् प्रसृततरा गतिः भवति । शब्दग्रन्थेषु च एषा प्रसृततरा गतिः भवति । निरुक्तम् व्याख्यायते । व्याकरणम् व्याख्यायते इति उच्यते । न कः चित् आह । पाटलिपुत्रम् व्याख्यायते इति ।

KA II,311.9-312.2 Ro III,709-710 kimartham bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate . bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ . bhavavyākhyānayoḥ yugapat adhikāraḥ kriyate apavādavidhānārthaḥ . yugapad apavādān vakṣyāmi iti . kim ucyate apavādavidhānārthaḥ iti na punaḥ nirdeśārthaḥ api syāt . kṛtanirdeśau hi tau . kṛtanirdeśau hi etau arthau . ekaḥ tatra bhavaḥ iti aparaḥ tasya idam iti . atha vyākhyātavyanāmnaḥ grahaṇam kimartham . tatra vyākhyātavyanāmnaḥ grahaṇam bhavārtham . tatra vyākhyātavyanāmnaḥ grahaṇam kriyate bhavārtham . kim ucyate bhavārtham iti na punaḥ vyākhyānārtham api . vyākhyāne hi avacanāt siddham . vyākhyāne hi sati antareṇa vacanam siddham . yat prati vyākhyānam iti etat bhavati tasmāt utpattiḥ bhaviṣyati . kim prati etat bhavati . vyākhyātavyanāma . yat ucyate bhavārtham iti tat na . vyākhyānārtham api vyākhyātavyanāmnaḥ grahaṇam kriyate . iha mā bhūt . pāṭaliputrasya vyākhyānī sukosalā iti . atha kriaymāṇe api vyākhyātavyanāmnaḥ grahaṇe kasmāt eva atra na bhavati . avayaśaḥ hi ākhyānam vyākhyānam . pāṭaliputram ca api avayavaśaḥ vyācaṣṭe . īdṛśāḥ asya prākārāḥ iti . satyam evam etat . kva cit tu kā cit prasṛtatarā gatiḥ bhavati . śabdagrantheṣu ca eṣā prasṛtatarā gatiḥ bhavati . niruktam vyākhyāyate . vyākaraṇam vyākhyāyate iti ucyate . na kaḥ cit āha . pāṭaliputram vyākhyāyate iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१२।३-१२ रो इइइ,७१० भवे मन्त्रेषु लुग्वचनम् । भवे मन्त्रेषु लुक् वक्तव्यः । अग्निष्टोमे भवः मन्त्रः अग्निष्टोमः । राजसूयः वाजपेयः । कल्पे च व्याख्याने । कल्पे च व्याख्याने लुक् वक्तव्यः । अग्निष्टोमस्य व्याख्यानः कल्पः अग्निष्टोमः । राजसूयः वाजपेयः । सः तर्हि वक्तव्यः । न वा तादर्थ्यात् ताच्छब्द्यम् । न वा वक्तव्यः । किम् कारणम् । तादर्थ्यात् ताच्छब्द्यम् । तादर्थ्यात् ताच्छब्द्यम् भविष्यति । अग्निष्टोमार्थः अग्निष्टोमः । राजसूयः वाजपेयः ।

KA II,312.3-12 Ro III,710 bhave mantreṣu lugvacanam . bhave mantreṣu luk vaktavyaḥ . agniṣṭome bhavaḥ mantraḥ agniṣṭomaḥ . rājasūyaḥ vājapeyaḥ . kalpe ca vyākhyāne . kalpe ca vyākhyāne luk vaktavyaḥ . agniṣṭomasya vyākhyānaḥ kalpaḥ agniṣṭomaḥ . rājasūyaḥ vājapeyaḥ . saḥ tarhi vaktavyaḥ . na vā tādarthyāt tācchabdyam . na vā vaktavyaḥ . kim kāraṇam . tādarthyāt tācchabdyam . tādarthyāt tācchabdyam bhaviṣyati . agniṣṭomārthaḥ agniṣṭomaḥ . rājasūyaḥ vājapeyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१२।१४-२० रो इइइ,७११ क्रतुग्रहणम् किमर्थम् । यज्ञेभ्यः इति इयति उच्यमाने ये एव सञ्ज्ञीभूतकाः यज्ञाः ततः उत्पत्तिः स्यात् : आग्निष्टोमिकः राजसूयिकः वाजपेयिकः । यत्र वा यज्ञशब्दः अस्ति । नावयज्ञिकः पाकयज्ञिकः । इह न स्यात् । पाञ्चौदनिकः साप्तौदनिकः शातौदनिकः । क्रतुग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ यज्ञग्रहणम् किमर्थम् । क्रतुभ्यः इति इयति उच्यमाने ये एव सञ्ज्ञीभूतकाः क्रतवः ततः उत्पत्तिः स्यात् । आग्निष्टोमिकः राजसूयिकः वाजपेयिकः । इह न स्यात् । पाञ्चौदनिकः साप्तौदनिकः शातौदनिकः । यज्ञग्रहणे पुनः क्रियमाणे न दोषः भवति ।

KA II,312.14-20 Ro III,711 kratugrahaṇam kimartham . yajñebhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ yajñāḥ tataḥ utpattiḥ syāt : āgniṣṭomikaḥ rājasūyikaḥ vājapeyikaḥ . yatra vā yajñaśabdaḥ asti . nāvayajñikaḥ pākayajñikaḥ . iha na syāt . pāñcaudanikaḥ sāptaudanikaḥ śātaudanikaḥ . kratugrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha yajñagrahaṇam kimartham . kratubhyaḥ iti iyati ucyamāne ye eva sañjñībhūtakāḥ kratavaḥ tataḥ utpattiḥ syāt . āgniṣṭomikaḥ rājasūyikaḥ vājapeyikaḥ . iha na syāt . pāñcaudanikaḥ sāptaudanikaḥ śātaudanikaḥ . yajñagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१२।२२-२४ रो इइइ,७११ नामाख्यातग्रहणम् सङ्घातविगृहीतार्थम् । नामाख्यातग्रहणम् सङ्घातविगृहीतार्थम् द्रष्टव्यम् । नामिकः आख्यातिकः नामाख्यातिकः ।

KA II,312.22-24 Ro III,711 nāmākhyātagrahaṇam saṅghātavigṛhītārtham . nāmākhyātagrahaṇam saṅghātavigṛhītārtham draṣṭavyam . nāmikaḥ ākhyātikaḥ nāmākhyātikaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१३।२-१३ रो इइइ,७१२ अयुक्तः अयम् निर्देशः । न हि असौ विदूरात् प्रभवति । किम् तर्हि। वालवायात् प्रभवति विदूरे संस्क्रियते । एवम् तर्हि । वालवायः विदूरम् च । वालवायः विदूरशब्दम् आपद्यते ञ्यः च प्रत्ययः वक्तव्यः । प्रकृत्यन्तरम् एव वा । अथ वा प्रकृत्यन्तरम् विदूरशब्दः वालवायस्य । न वै तत्र वालय्वायम् विदूरः इति उपाचरन्ति । न वै तत्र इति चेत् ब्रूयात् जित्वरीवत् उपाचरेत् । तत् यथा वाणिजः वाराणसीम् जित्वरीम् इति उपाचरन्ति एवम् वैयाकरणाः वालवायम् विदुरः इति उपाचरन्ति । वालवायः विदूरम् च । प्रकृत्यन्तरम् एव वा । न वै तत्र इति चेत् ब्रूयात् जित्वरीवत् उपाचरेत् ।

KA II,313.2-13 Ro III,712 ayuktaḥ ayam nirdeśaḥ . na hi asau vidūrāt prabhavati . kim tarhi. vālavāyāt prabhavati vidūre saṃskriyate . evam tarhi . vālavāyaḥ vidūram ca . vālavāyaḥ vidūraśabdam āpadyate ñyaḥ ca pratyayaḥ vaktavyaḥ . prakṛtyantaram eva vā . atha vā prakṛtyantaram vidūraśabdaḥ vālavāyasya . na vai tatra vālayvāyam vidūraḥ iti upācaranti . na vai tatra iti cet brūyāt jitvarīvat upācaret . tat yathā vāṇijaḥ vārāṇasīm jitvarīm iti upācaranti evam vaiyākaraṇāḥ vālavāyam viduraḥ iti upācaranti . vālavāyaḥ vidūram ca . prakṛtyantaram eva vā . na vai tatra iti cet brūyāt jitvarīvat upācaret .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१३।१५-१८ रो इइइ,७१३ अयुक्तः अयम् निर्देशः । चेतनावतः एतत् भवति निष्क्रामणम् वा अपक्रमणम् वा द्वारम् च अचेतनम् । कथम् तर्हि निर्देशः करत्व्यः । अभिनिष्क्रमणम् द्वारम् इति । सः तर्हि तथा निर्देशः करत्व्यः । न कर्तव्यः । अचेतनेषु अपि चेतनावत् उपचारः दृश्यते । तत् यथा । अयम् अस्य कोणः अभिनिःसृतः । अयम् अभिप्रविष्टः इति ।

KA II,313.15-18 Ro III,713 ayuktaḥ ayam nirdeśaḥ . cetanāvataḥ etat bhavati niṣkrāmaṇam vā apakramaṇam vā dvāram ca acetanam . katham tarhi nirdeśaḥ karatvyaḥ . abhiniṣkramaṇam dvāram iti . saḥ tarhi tathā nirdeśaḥ karatvyaḥ . na kartavyaḥ . acetaneṣu api cetanāvat upacāraḥ dṛśyate . tat yathā . ayam asya koṇaḥ abhiniḥsṛtaḥ . ayam abhipraviṣṭaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१३।२०-२२ रो इइइ,७१३ अधिकृत्य कृते ग्रन्थे लुप् आख्यायिकाभ्यः बहुलम् । अधिकृत्य कृते ग्रन्थे इति अत्र आख्यायिकाभ्यः बहुलम् लुप् वक्तव्यः । वासवदत्ता सुमनोत्तरा । न च भवति । भैमरथी ।

KA II,313.20-22 Ro III,713 adhikṛtya kṛte granthe luP ākhyāyikābhyaḥ bahulam . adhikṛtya kṛte granthe iti atra ākhyāyikābhyaḥ bahulam lup vaktavyaḥ . vāsavadattā sumanottarā . na ca bhavati . bhaimarathī .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१४।२-४ रो इइइ,७१३ द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः । द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः । दैवासुरम् राक्षोसुरम् दैवासुरी रक्षोसुरी ।

KA II,314.2-4 Ro III,713 dvandve devāsurādibhyaḥ pratiṣedhaḥ . dvandve devāsurādibhyaḥ pratiṣedhaḥ vaktavyaḥ . daivāsuram rākṣosuram daivāsurī rakṣosurī .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१४।७-८ रो इइइ,७१४ निवासाभिजनयोः कः विशेषः । निवासः नाम यत्र सम्प्रति उष्यते । अभिजनः नाम यत्र पूर्वैः उषितम् ।

KA II,314.7-8 Ro III,714 nivāsābhijanayoḥ kaḥ viśeṣaḥ . nivāsaḥ nāma yatra samprati uṣyate . abhijanaḥ nāma yatra pūrvaiḥ uṣitam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१४।१०-१३ रो इइइ,७१४ किमर्थम् वासुदेवशब्दात् वुन् विधीयते न गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् इति एव सिद्धम् । न हि अस्ति विशेषः वासुदेवशब्दात् वुनः वा वुञः वा । तत् एव रूपम् सः एव स्वरः । इदम् तर्हि प्रयोजनम् । वासुदेवशब्दस्य पूर्वनिपातम् वक्ष्यामि इति । अथ वा न एषा क्षत्रियाख्या । सञ्ज्ञा एषा तत्रभवतः ।

KA II,314.10-13 Ro III,714 kimartham vāsudevaśabdāt vun vidhīyate na gotrakṣatriyākhyebhyaḥ bahulam vuñ iti eva siddham . na hi asti viśeṣaḥ vāsudevaśabdāt vunaḥ vā vuñaḥ vā . tat eva rūpam saḥ eva svaraḥ . idam tarhi prayojanam . vāsudevaśabdasya pūrvanipātam vakṣyāmi iti . atha vā na eṣā kṣatriyākhyā . sañjñā eṣā tatrabhavataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१४।१६-३१५।२ रो इइइ,७१५ सर्ववचनम् किमर्थम् । सर्ववचनम् प्रकृतिनिर्ह्रासार्थम् । सर्ववचनम् क्रियते प्रकृतिनिर्ह्रासार्थम् । प्रकृतिनिर्ह्रासः यथा स्यात् । तत् च मद्रवृज्यर्थम् । तत् च मद्रवृज्यर्थम् द्रष्टव्यम् । माद्रः भक्तिः अस्य माद्रौ वा भक्तिः अस्य मद्रकः इति एव यथा स्यात् । वार्ज्यः भक्तिः अस्य वार्ज्यौ वा भक्तिः अस्य वृजिकः इति एव यथा स्यात् ।

KA II,314.16-315.2 Ro III,715 sarvavacanam kimartham . sarvavacanam prakṛtinirhrāsārtham . sarvavacanam kriyate prakṛtinirhrāsārtham . prakṛtinirhrāsaḥ yathā syāt . tat ca madravṛjyartham . tat ca madravṛjyartham draṣṭavyam . mādraḥ bhaktiḥ asya mādrau vā bhaktiḥ asya madrakaḥ iti eva yathā syāt . vārjyaḥ bhaktiḥ asya vārjyau vā bhaktiḥ asya vṛjikaḥ iti eva yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१५।४-१९ रो इइइ,७१६-७१७ प्रोक्तग्रहणम् अनर्थकम् तत्र अदर्शनात् । प्रोक्तग्रहणम् अनर्थकम् । किम् कारणम् । तत्र अदर्शनात् । ग्रामे ग्रामे काठकम् कालापकम् च प्रोच्यते । तत्र अदर्शनात् । न च तत्र प्रत्ययः दृश्यते । ग्रन्थे च दर्शनात् । यत्र च दृश्यते ग्रन्थः सः । तत्र कृते ग्रन्थे इति एव सिद्धम् । छन्दोर्थम् तर्हि इदम् वक्तव्यम् । न हि छन्दांसि क्रियन्ते । नित्यानि छन्दांसि । छन्दोर्थम् इति चेत् तुलयम् । छन्दोर्थम् इति चेत् तुलयम् एतत् भवति । ग्रामे ग्रामे काठकम् कालापकम् च प्रोच्यते । तत्र अदर्शनात् । न च तत्र प्रत्ययः दृश्यते । ग्रन्थे च दर्शनात् । यत्र च दृश्यते ग्रन्थः सः । तत्र कृते ग्रन्थे इति एव सिद्धम् । ननु च उक्तम् न हि छन्दांसि क्रियन्ते । नित्यानि छन्दांसि इति । यदि अपि अर्थः नित्यः या तु असौ वर्णानुपूर्वी स अनित्या । तद्भेदात् च एतत् भवति । काठकम् कालापकम् मौदकम् पैप्पलादकम् इति । न तर्हि इदानीम् इदम् वक्तव्यम् । वक्तव्यम् च । किम् प्रयोजनम् । यत् तेन प्रोक्तम् न च तेन कृतम् । माधुरी वृत्तिः । यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् । तत् न वक्तव्यम् । तत् अपि अवश्यम् वक्तव्यम् । यत् तेन् कृतम् न च तेन प्रोक्तम् । वाररुचम् काव्यम् जालूकाः श्लोकाः ।

KA II,315.4-19 Ro III,716-717 proktagrahaṇam anarthakam tatra adarśanāt . proktagrahaṇam anarthakam . kim kāraṇam . tatra adarśanāt . grāme grāme kāṭhakam kālāpakam ca procyate . tatra adarśanāt . na ca tatra pratyayaḥ dṛśyate . granthe ca darśanāt . yatra ca dṛśyate granthaḥ saḥ . tatra kṛte granthe iti eva siddham . chandortham tarhi idam vaktavyam . na hi chandāṃsi kriyante . nityāni chandāṃsi . chandortham iti cet tulayam . chandortham iti cet tulayam etat bhavati . grāme grāme kāṭhakam kālāpakam ca procyate . tatra adarśanāt . na ca tatra pratyayaḥ dṛśyate . granthe ca darśanāt . yatra ca dṛśyate granthaḥ saḥ . tatra kṛte granthe iti eva siddham . nanu ca uktam na hi chandāṃsi kriyante . nityāni chandāṃsi iti . yadi api arthaḥ nityaḥ yā tu asau varṇānupūrvī sa anityā . tadbhedāt ca etat bhavati . kāṭhakam kālāpakam maudakam paippalādakam iti . na tarhi idānīm idam vaktavyam . vaktavyam ca . kim prayojanam . yat tena proktam na ca tena kṛtam . mādhurī vṛttiḥ . yadi tarhi asya nibandhanam asti idam eva vaktavyam . tat na vaktavyam . tat api avaśyam vaktavyam . yat ten kṛtam na ca tena proktam . vārarucam kāvyam jālūkāḥ ślokāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१५।२१-३१६।१० रो इइइ,७१८ प्रत्यक्षकारिग्रहणम् । प्रत्यक्षकारिग्रहणम् कर्तव्यम् अन्तेवास्यन्तेवासिभ्यः मा भूत् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । कलापिखाडायग्रहणम् ज्ञापकम् वैशम्पायनान्तेवासिषु प्रत्यक्षकारिग्रहणस्य । यत् अयम् कलापिखाडायग्रहणम् करोति तत् ज्ञापयति आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति । कथम् कृत्वा ज्ञापकम् । वैशम्पायनान्तेवासी कठः कठान्तेवासी खाडायनः । वैशम्पायनान्तेवासी कलापी । यदि च अन्तेवास्यन्तेवासिभ्यः अपि स्यात् कलापिखाडायग्रहणम् अनर्थकम् स्यात् । पश्यति तु आचार्यः न अन्तेवास्यन्तेवासिभ्यः भवति इति । ततः कलापिखाडायग्रहणम् करोति । छन्दोग्रहणम् च इतरथा हि अतिप्रसङ्गः । छन्दोग्रहणम् च कर्तव्यम् । इतरथा हि अतिप्रसङ्गः । इतरथा हि अतिप्रसङ्गः स्यात् । इह अपि प्रसज्येत । तित्तिरिणा प्रोक्ताः श्लोकाः इति ।

KA II,315.21-316.10 Ro III,718 pratyakṣakārigrahaṇam . pratyakṣakārigrahaṇam kartavyam antevāsyantevāsibhyaḥ mā bhūt iti . tat tarhi vaktavyam . na vaktavyam . kalāpikhāḍāyagrahaṇam jñāpakam vaiśampāyanāntevāsiṣu pratyakṣakārigrahaṇasya . yat ayam kalāpikhāḍāyagrahaṇam karoti tat jñāpayati ācāryaḥ na antevāsyantevāsibhyaḥ bhavati iti . katham kṛtvā jñāpakam . vaiśampāyanāntevāsī kaṭhaḥ kaṭhāntevāsī khāḍāyanaḥ . vaiśampāyanāntevāsī kalāpī . yadi ca antevāsyantevāsibhyaḥ api syāt kalāpikhāḍāyagrahaṇam anarthakam syāt . paśyati tu ācāryaḥ na antevāsyantevāsibhyaḥ bhavati iti . tataḥ kalāpikhāḍāyagrahaṇam karoti . chandograhaṇam ca itarathā hi atiprasaṅgaḥ . chandograhaṇam ca kartavyam . itarathā hi atiprasaṅgaḥ . itarathā hi atiprasaṅgaḥ syāt . iha api prasajyeta . tittiriṇā proktāḥ ślokāḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१६।१२-१६ रो इइइ,७१९ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु याज्ञवल्क्यादिभ्यः प्रतिषेधः तुल्यकालत्वात् । पुराणप्रोक्तेषु ब्राह्मणकल्पेषु इति अत्र याज्ञवल्क्यादिभ्यः प्रतिषेधः वक्तव्यः । याज्ञवल्कानि ब्राह्मणानि । सौलभानि इति । किम् कारणम् । तुल्यकालत्वात् । एतानि अपि तुल्यकालानि इति ।

KA II,316.12-16 Ro III,719 purāṇaprokteṣu brāhmaṇakalpeṣu yājñavalkyādibhyaḥ pratiṣedhaḥ tulyakālatvāt . purāṇaprokteṣu brāhmaṇakalpeṣu iti atra yājñavalkyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . yājñavalkāni brāhmaṇāni . saulabhāni iti . kim kāraṇam . tulyakālatvāt . etāni api tulyakālāni iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१६।१८-३१७।४ रो इइइ,३१९-३२० कृते ग्रन्थे मक्षिकादिभ्यः अण् । कृते ग्रन्थे इति अत्र मक्षिकादिभ्यः अण् वक्तव्यः । मक्षिकाभिः कृतम् माक्षिकम् । तद्विशेषेभ्यः च । तद्विशेषेभ्यः च अण् वक्तव्यः । सरघाभिः कृतम् सारघम् । गार्मुतम् पौत्तिकम् । सः तर्हि वक्तव्यः । न वक्तव्यः । योगविभागात् सिद्धम् । योगविभागः करिष्यते । कृते ग्रन्थे । ततः सञ्ज्ञायाम् । सञ्ज्ञायाम् च तेन कृते इति एतस्मिन् अर्थे यथाविहितम् प्रत्ययः भवति । सरघाभिः कृतम् सारघम् । गार्मुतम् पौत्तिकम् । ततः कुलालादिभ्यः वुञ् । सञ्ज्ञायाम् इति एव ।

KA II,316.18-317.4 Ro III,319-320 kṛte granthe makṣikādibhyaḥ aṇ . kṛte granthe iti atra makṣikādibhyaḥ aṇ vaktavyaḥ . makṣikābhiḥ kṛtam mākṣikam . tadviśeṣebhyaḥ ca . tadviśeṣebhyaḥ ca aṇ vaktavyaḥ . saraghābhiḥ kṛtam sāragham . gārmutam pauttikam . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . kṛte granthe . tataḥ sañjñāyām . sañjñāyām ca tena kṛte iti etasmin arthe yathāvihitam pratyayaḥ bhavati . saraghābhiḥ kṛtam sāragham . gārmutam pauttikam . tataḥ kulālādibhyaḥ vuñ . sañjñāyām iti eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१८।२-३१९।१३ रो इइइ,७२०-७२२ तस्य इदम् इति असन्निहिते अप्राप्तिः इदमः प्रत्यक्षवाचित्वात् । तस्य इदम् इति असन्निहिते अप्राप्तिः । किम् कारणम् । इदमः प्रत्यक्षवाचित्वात् । इदम् इति एतत् प्रत्यक्षे वर्तते । तेन इह एव स्यात् । तस्य इदम् इति । तस्य अदः इति तस्य तत् इति न स्यात् । सिद्धम् तु यद्योगा षष्ठी तत्र । सिद्धम् एतत् । कथम् । यद्योगा षष्ठी प्रवर्तते तत्र इति वक्तव्यम् । अनन्तरादिषु च प्रतिषेधः । अनन्तरादिषु च प्रतिषेधः वक्तव्यः । तस्य अनन्तरः तस्य समीपः इति । किम् यद्योगा षष्ठी प्रवर्तते इति अतः अनन्तरादिषु प्रतिषेधः वक्तव्यः । न इति आह । सर्वथ अनन्तरादिषु प्रतिषेधः वक्तव्यः । सिद्धम् तु परिगणनात् । सिद्धम् एतत् । कथम् । परिगणनम् कर्तव्यम् । स्वे ग्रामजनपद्मनुष्येभ्यः । स्वे ग्रामजनपद्मनुष्येभ्यः इति वक्तव्यम् । स्रौघ्नः माथुरः ग्राम । जनपद आङ्गकः वाङ्गकः जनपद । मनुष्य दैवदत्तः याज्ञदत्तः । पत्त्रात् वाह्ये । पत्त्रात् वाह्ये इति वक्तव्यम् । आश्वम् आउष्ट्रम् गार्दभम् । रथात् रथाङ्गे । रथात् रथाङ्गे इति वक्तव्यम् । आश्वरथम् औष्ट्ररथम् गार्दभरथम् । वहेः तुः अण् इट् च । वहेः त्रन्तात् अण् वल्तव्यः इट् च वक्तव्यः । संवोढुः स्वम् सांवहित्रम् । अग्नीधः शरणे रञ् भ च । अग्नीधः शरणे रञ् वक्तव्यः भसञ्ज्ञा च वक्तव्या । अग्नीधः शरणम् आग्नीध्रम् । समिधाम् आधाने षेण्यण् । समिधाम् आधाने षेण्यण् वक्तव्यः । समिधाम् आधानः मन्त्रः सामिधेन्यः मन्त्रः । सामिधेनी ऋक् । चरणात् धर्माम्नाययोः । चरणात् धर्माम्नाययोः इति वक्तव्यम् । कठानाम् धर्मः आम्नायः वा काठकम् । कालापकम् मौदुकम् पैप्पलादकम् इति । तत् तर्हि बहु वक्तव्यम् । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् तस्य इदम् इति असन्निहिते अप्राप्तिः इति । किम् इदम् भवान् प्रत्ययार्थम् एव उपालम्भते न पुनः प्रकृत्यर्थम् अपि । यथा एव हि इदम् इति एतत् प्रत्यक्षे वर्तते एवम् तत् इति एतत् परोक्षे वर्तते । तेन इह एव स्यात् । तस्य इदम् इति । अस्य अमुष्य इति अत्र न स्यात् । अस्ति अत्र विशेषः । एकशेषनिर्देशः अत्र भविष्यति । तस्य च अस्य च अमुष्य त तस्य इति भवति । इह अपि तर्हि एकशेषनिर्देशः भविष्यति । तत् च अदः च इदम् च इदम् इति एव । यत् अपि उच्यते अनन्तरादिषु च प्रतिषेधः वक्तव्यः इति । न वक्तव्यः । अनभिधानात् अनन्तरादिषु उत्पत्तिः न भविष्यति ।

KA II,318.2-319.13 Ro III,720-722 tasya idam iti asannihite aprāptiḥ idamaḥ pratyakṣavācitvāt . tasya idam iti asannihite aprāptiḥ . kim kāraṇam . idamaḥ pratyakṣavācitvāt . idam iti etat pratyakṣe vartate . tena iha eva syāt . tasya idam iti . tasya adaḥ iti tasya tat iti na syāt . siddham tu yadyogā ṣaṣṭhī tatra . siddham etat . katham . yadyogā ṣaṣṭhī pravartate tatra iti vaktavyam . anantarādiṣu ca pratiṣedhaḥ . anantarādiṣu ca pratiṣedhaḥ vaktavyaḥ . tasya anantaraḥ tasya samīpaḥ iti . kim yadyogā ṣaṣṭhī pravartate iti ataḥ anantarādiṣu pratiṣedhaḥ vaktavyaḥ . na iti āha . sarvatha anantarādiṣu pratiṣedhaḥ vaktavyaḥ . siddham tu parigaṇanāt . siddham etat . katham . parigaṇanam kartavyam . sve grāmajanapadmanuṣyebhyaḥ . sve grāmajanapadmanuṣyebhyaḥ iti vaktavyam . sraughnaḥ māthuraḥ grāma . janapada āṅgakaḥ vāṅgakaḥ janapada . manuṣya daivadattaḥ yājñadattaḥ . pattrāt vāhye . pattrāt vāhye iti vaktavyam . āśvam āuṣṭram gārdabham . rathāt rathāṅge . rathāt rathāṅge iti vaktavyam . āśvaratham auṣṭraratham gārdabharatham . vaheḥ tuḥ aṇ iṭ ca . vaheḥ trantāt aṇ valtavyaḥ iṭ ca vaktavyaḥ . saṃvoḍhuḥ svam sāṃvahitram . agnīdhaḥ śaraṇe rañ bha ca . agnīdhaḥ śaraṇe rañ vaktavyaḥ bhasañjñā ca vaktavyā . agnīdhaḥ śaraṇam āgnīdhram . samidhām ādhāne ṣeṇyaṇ . samidhām ādhāne ṣeṇyaṇ vaktavyaḥ . samidhām ādhānaḥ mantraḥ sāmidhenyaḥ mantraḥ . sāmidhenī ṛk . caraṇāt dharmāmnāyayoḥ . caraṇāt dharmāmnāyayoḥ iti vaktavyam . kaṭhānām dharmaḥ āmnāyaḥ vā kāṭhakam . kālāpakam maudukam paippalādakam iti . tat tarhi bahu vaktavyam . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam tasya idam iti asannihite aprāptiḥ iti . kim idam bhavān pratyayārtham eva upālambhate na punaḥ prakṛtyartham api . yathā eva hi idam iti etat pratyakṣe vartate evam tat iti etat parokṣe vartate . tena iha eva syāt . tasya idam iti . asya amuṣya iti atra na syāt . asti atra viśeṣaḥ . ekaśeṣanirdeśaḥ atra bhaviṣyati . tasya ca asya ca amuṣya ta tasya iti bhavati . iha api tarhi ekaśeṣanirdeśaḥ bhaviṣyati . tat ca adaḥ ca idam ca idam iti eva . yat api ucyate anantarādiṣu ca pratiṣedhaḥ vaktavyaḥ iti . na vaktavyaḥ . anabhidhānāt anantarādiṣu utpattiḥ na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१९।१५-१६ रो इइइ,७२३ वैरे देवासुरादिभ्यः प्रतिषेधः । वैरे देवासुरादिभ्यः प्रतिषेधः वक्तव्यः । दैवासुरम् राक्षोसुरम् ।

KA II,319.15-16 Ro III,723 vaire devāsurādibhyaḥ pratiṣedhaḥ . vaire devāsurādibhyaḥ pratiṣedhaḥ vaktavyaḥ . daivāsuram rākṣosuram .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१९।१८-१९ रो इइइ,७२३ सङ्घादिषु घोषग्रहणम् । सङ्घादिषु घोषग्रहणम् कर्तव्यः । गार्गः घोषः वात्सः घोषः ।

KA II,319.18-19 Ro III,723 saṅghādiṣu ghoṣagrahaṇam . saṅghādiṣu ghoṣagrahaṇam kartavyaḥ . gārgaḥ ghoṣaḥ vātsaḥ ghoṣaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३१९।२०-३२०।४ रो इइइ,७२३ किमर्थः णकारः । वृद्ध्यर्थः । ञ्णिति इति वृद्धिः यथा स्यात् । सङ्घादिषु प्रत्ययस्य णित्करणानर्थक्यम् वृद्धत्वात् प्रातिदिकस्य । सङ्घादिषु प्रत्ययस्य णित्करणम् अनर्थकम् । किम् कारणम् । वृद्धत्वात् प्रातिदिकस्य । वृद्धम् एव एतत् प्रातिपदिकम् । लिङ्गपुंवद्भावप्रतिषेधार्थम् तु । लिङ्गपुंवद्भावप्रतिषेधार्थम् तु णकारः कर्तव्यः । लिङ्गार्थम् । वैदी । पुंवद्भावप्रतिषेधार्थम् । बैदी स्थूणा अस्य बैदीस्थूणः । वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः यथा स्यात् ।

KA II,319.20-320.4 Ro III,723 kimarthaḥ ṇakāraḥ . vṛddhyarthaḥ . ñṇiti iti vṛddhiḥ yathā syāt . saṅghādiṣu pratyayasya ṇitkaraṇānarthakyam vṛddhatvāt prātidikasya . saṅghādiṣu pratyayasya ṇitkaraṇam anarthakam . kim kāraṇam . vṛddhatvāt prātidikasya . vṛddham eva etat prātipadikam . liṅgapuṃvadbhāvapratiṣedhārtham tu . liṅgapuṃvadbhāvapratiṣedhārtham tu ṇakāraḥ kartavyaḥ . liṅgārtham . vaidī . puṃvadbhāvapratiṣedhārtham . baidī sthūṇā asya baidīsthūṇaḥ . vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३२०।६-२१ रो इइइ,७२४-७२५ कौपिञ्जलहस्तिपदाद् अण् । कौपिञ्जलहस्तिपदाद् अण् वक्तव्यः । कौपिञ्जलाः हास्तिपदाः । आथर्वणिकस्य इकलोपः च । आथर्वणिकस्य इकलोपः च अण् च वक्तव्यः । आथर्वणः धर्मः आथर्वणः आम्नायः । इदम् आथर्वणार्थम् आथर्वणिकार्थम् च चतुर्ग्रहणम् क्रियते । वसन्तादिषु अथर्वन्शब्दः आथर्वणशब्दः च पठ्यते । षष्थाध्याये प्रकृतिभावार्थम् ग्रहणम् क्रियते । इदम् चतुर्थम् इकलोपार्थम् । द्विर्ग्रहणम् शक्यम् अकर्तुम् । कथम् । तेन प्रोक्तम् इति प्रकृत्य ऋषिभ्यः लुक् वक्तव्यः वसिष्ठः अनुवाकः विश्वामित्रः अनुवाकः इति एवमर्थम् । ततः वक्तव्यम् अथर्वणः वा इति । तेन् सिद्धम् अथर्वा आथर्वणः इति च । अथ वसन्तादिषु आथर्वणशब्दः पठितव्यः । तत्र न एव अर्थः प्रकृतिभावाऋथेन न अपि इकलोपार्थेन । यदि वसन्तादिषु आथर्वणशब्दः पठ्यते अथर्वाणम् अधीते आथर्वणिकः इति न सिध्यति । न एषः दोषः । इह अस्माभिः त्रैशब्द्यम् साध्यम् । तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन । तत् यथा । अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति । एवम् आथर्वणम् अधीते इति विगृह्य आथर्वणिकः इति भविष्यति अथर्वाणम् अधीते इति विगृह्य वाक्यम् एव । तत्र अभिसम्बन्धमात्रम् कर्तव्यम् आथर्वणिकानाम् इति । न च इदानीम् अन्यत् आथर्वणिकानाम् स्वम् भवितुम् अर्हति अन्यत् अतः धर्मात् आम्नायात् वा ।

KA II,320.6-21 Ro III,724-725 kaupiñjalahastipadād aṇ . kaupiñjalahastipadād aṇ vaktavyaḥ . kaupiñjalāḥ hāstipadāḥ . ātharvaṇikasya ikalopaḥ ca . ātharvaṇikasya ikalopaḥ ca aṇ ca vaktavyaḥ . ātharvaṇaḥ dharmaḥ ātharvaṇaḥ āmnāyaḥ . idam ātharvaṇārtham ātharvaṇikārtham ca caturgrahaṇam kriyate . vasantādiṣu atharvanśabdaḥ ātharvaṇaśabdaḥ ca paṭhyate . ṣaṣthādhyāye prakṛtibhāvārtham grahaṇam kriyate . idam caturtham ikalopārtham . dvirgrahaṇam śakyam akartum . katham . tena proktam iti prakṛtya ṛṣibhyaḥ luk vaktavyaḥ vasiṣṭhaḥ anuvākaḥ viśvāmitraḥ anuvākaḥ iti evamartham . tataḥ vaktavyam atharvaṇaḥ vā iti . ten siddham atharvā ātharvaṇaḥ iti ca . atha vasantādiṣu ātharvaṇaśabdaḥ paṭhitavyaḥ . tatra na eva arthaḥ prakṛtibhāvāṛthena na api ikalopārthena . yadi vasantādiṣu ātharvaṇaśabdaḥ paṭhyate atharvāṇam adhīte ātharvaṇikaḥ iti na sidhyati . na eṣaḥ doṣaḥ . iha asmābhiḥ traiśabdyam sādhyam . tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . tat yathā . aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati . evam ātharvaṇam adhīte iti vigṛhya ātharvaṇikaḥ iti bhaviṣyati atharvāṇam adhīte iti vigṛhya vākyam eva . tatra abhisambandhamātram kartavyam ātharvaṇikānām iti . na ca idānīm anyat ātharvaṇikānām svam bhavitum arhati anyat ataḥ dharmāt āmnāyāt vā .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३२०।२३-३२२।१५ रो इइइ,७२५-७३० तस्य इति वर्तमाने पुनः तस्यग्रहणम् किमर्थम् । तस्यप्रकरणे तस्यपुनर्वचनम् शैषिकनिवृत्त्यर्थम् । तस्यप्रकरणे तस्य इति पुनर्वचनम् क्रियते शैषिकनिवृत्त्यर्थम् । शैषिकाः निवर्त्यन्ते । कथम् च प्राप्नुन्वन्ति । तस्येदंवचनात् प्रसङ्गः । तस्येदंविशेषाः हि एते अपत्यम् समूहः विकारः निवासः इति । किमर्थम् इदम् उच्यते । बाधनार्थम् कृतम् भवेत् । ये तस्य बाधकाः तद्बाधनार्थम् । कथम् पुनः अशैषिकम् शैषिकम् बाधेत । उत्सर्गः शेषः एव असौ । यः हि उत्सर्गः सः अपि शेषः एव । के पुनः शैषिकाणाम् विकारावयवयोः प्राप्नुवन्ति यावता सर्वम् अद्य अपवादैः व्याप्तम् । इह न किम् चित् उच्यते । हलसीरात् ठक् इति । कथम् पुनः इच्छता अपि अपवादः प्राप्नुवन् शक्यः बाधितुम् । तस्यग्रहणसामर्थ्यात् । किम् इदम् भवान् अध्यारुह्य तस्यग्रहणस्य एव प्रयोजनम् आह न पुनः सर्वस्य एव योगस्य । अवश्यम् उत्तरार्थः अर्थनिर्देशः कर्तव्यः । समर्थविभक्तिः अपि तर्हि अवश्यम् उत्तरार्था निर्देष्टव्या । प्रकृता समर्थविभक्तिः अनुवर्तते तस्य इदम् इति । न वा सम्प्रत्ययः । न वा सम्प्रत्ययः इयता सूत्रेण शैषिकाणाम् निवृत्तेः । न हि काकः वाश्यते इति एव अधिकाराः निवर्तन्ते । यदि खलु अपि विकारावयवयोः शैषिकाः न इष्यन्ते महता सूत्रेण निवृत्तिः वक्तव्या । अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः । अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इष्टा तत्र च निवृत्तिः प्राप्नोति । पाटलिपुत्रकाः प्रासादाः पाटलिपुत्रकाः प्राकाराः इति । अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गात् । अण्मयटोः च विप्रतिषेधः न उपपद्यते । पठिष्यति हि विप्रतिषेधम् : अणः वृद्धात् मयट् इति । सः विप्रतिषेधः न उपपद्यते । किम् कारणम् । मयडुत्सर्गात् । निवृत्तेषु हि शैषिकेषु वृद्धात् मयट् उत्सर्गः । तस्य अण् अपवादः । उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः । अनुवृत्तौ हि छोत्सर्गापवादविप्रतिषेधात् मयट् । अनुवर्तमानेषु हि शैषिकेषु वृद्धात् छः उत्सगः तस्य अण्मयटौ अपवादौ । अपवादविप्रतिषेधात् मयट् भविष्यति । यत् तावत् उच्यते न वा सम्प्रत्ययः इयता सूत्रेण शैषिकाणाम् निवृत्तेः इति । सम्प्रत्ययः एव । न हि अत्र अण् दुर्लभः । सिद्धः अत्र अण् तस्य इदम् इति एव । सः अयम् पुनः तस्यग्रहणेन तस्य सापवादस्य अणः प्रसङ्गः इमम् निरपवादकम् अणम् प्रतिपादयति । तत्र ये तावत् द्वितीयाः तान् अयम् अपवादत्वात् बाधिष्यते ये तृतीयाः तान् परत्वात् । ये चतुर्थाः तत्र के चित् पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् इमम् न बाधिष्यन्ते के चित् मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति । एतावन्तः च एते स्युः यत् उत द्वितीयाः तृतीयाः चतुर्थाः वा । न पञ्चमाः सन्ति न षष्ठाः । यत् अपि उच्यते अवयवे च अप्राण्योषधिवृक्षेभ्यः अनिवृत्तिः इति प्राण्योषधिवृक्षेभ्यः निवृत्तिः उच्यते । तत्र कः प्रसङ्गः यत् अप्राण्योषधिवृक्षेभ्यः निवृत्तिः स्यात् । यत् अपि उच्यते अण्मयटोः च विप्रतिषेधानुपपत्तिः मयडुत्सर्गात् इति मा भूत् विप्रतिषेधः । पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अणञम् बाधिष्यते । मयटम् न बाधिष्यते ।

KA II,320.23-322.15 Ro III,725-730 tasya iti vartamāne punaḥ tasyagrahaṇam kimartham . tasyaprakaraṇe tasyapunarvacanam śaiṣikanivṛttyartham . tasyaprakaraṇe tasya iti punarvacanam kriyate śaiṣikanivṛttyartham . śaiṣikāḥ nivartyante . katham ca prāpnunvanti . tasyedaṃvacanāt prasaṅgaḥ . tasyedaṃviśeṣāḥ hi ete apatyam samūhaḥ vikāraḥ nivāsaḥ iti . kimartham idam ucyate . bādhanārtham kṛtam bhavet . ye tasya bādhakāḥ tadbādhanārtham . katham punaḥ aśaiṣikam śaiṣikam bādheta . utsargaḥ śeṣaḥ eva asau . yaḥ hi utsargaḥ saḥ api śeṣaḥ eva . ke punaḥ śaiṣikāṇām vikārāvayavayoḥ prāpnuvanti yāvatā sarvam adya apavādaiḥ vyāptam . iha na kim cit ucyate . halasīrāt ṭhak iti . katham punaḥ icchatā api apavādaḥ prāpnuvan śakyaḥ bādhitum . tasyagrahaṇasāmarthyāt . kim idam bhavān adhyāruhya tasyagrahaṇasya eva prayojanam āha na punaḥ sarvasya eva yogasya . avaśyam uttarārthaḥ arthanirdeśaḥ kartavyaḥ . samarthavibhaktiḥ api tarhi avaśyam uttarārthā nirdeṣṭavyā . prakṛtā samarthavibhaktiḥ anuvartate tasya idam iti . na vā sampratyayaḥ . na vā sampratyayaḥ iyatā sūtreṇa śaiṣikāṇām nivṛtteḥ . na hi kākaḥ vāśyate iti eva adhikārāḥ nivartante . yadi khalu api vikārāvayavayoḥ śaiṣikāḥ na iṣyante mahatā sūtreṇa nivṛttiḥ vaktavyā . avayave ca aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ . avayave ca aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ iṣṭā tatra ca nivṛttiḥ prāpnoti . pāṭaliputrakāḥ prāsādāḥ pāṭaliputrakāḥ prākārāḥ iti . aṇmayaṭoḥ ca vipratiṣedhānupapattiḥ mayaḍutsargāt . aṇmayaṭoḥ ca vipratiṣedhaḥ na upapadyate . paṭhiṣyati hi vipratiṣedham : aṇaḥ vṛddhāt mayaṭ iti . saḥ vipratiṣedhaḥ na upapadyate . kim kāraṇam . mayaḍutsargāt . nivṛtteṣu hi śaiṣikeṣu vṛddhāt mayaṭ utsargaḥ . tasya aṇ apavādaḥ . utsargāpavādayoḥ ca ayuktaḥ vipratiṣedhaḥ . anuvṛttau hi chotsargāpavādavipratiṣedhāt mayaṭ . anuvartamāneṣu hi śaiṣikeṣu vṛddhāt chaḥ utsagaḥ tasya aṇmayaṭau apavādau . apavādavipratiṣedhāt mayaṭ bhaviṣyati . yat tāvat ucyate na vā sampratyayaḥ iyatā sūtreṇa śaiṣikāṇām nivṛtteḥ iti . sampratyayaḥ eva . na hi atra aṇ durlabhaḥ . siddhaḥ atra aṇ tasya idam iti eva . saḥ ayam punaḥ tasyagrahaṇena tasya sāpavādasya aṇaḥ prasaṅgaḥ imam nirapavādakam aṇam pratipādayati . tatra ye tāvat dvitīyāḥ tān ayam apavādatvāt bādhiṣyate ye tṛtīyāḥ tān paratvāt . ye caturthāḥ tatra ke cit purastāt apavādāḥ anantarān vidhīn bādhante iti evam imam na bādhiṣyante ke cit madhye apavādāḥ pūrvān vidhīn bādhante iti . etāvantaḥ ca ete syuḥ yat uta dvitīyāḥ tṛtīyāḥ caturthāḥ vā . na pañcamāḥ santi na ṣaṣṭhāḥ . yat api ucyate avayave ca aprāṇyoṣadhivṛkṣebhyaḥ anivṛttiḥ iti prāṇyoṣadhivṛkṣebhyaḥ nivṛttiḥ ucyate . tatra kaḥ prasaṅgaḥ yat aprāṇyoṣadhivṛkṣebhyaḥ nivṛttiḥ syāt . yat api ucyate aṇmayaṭoḥ ca vipratiṣedhānupapattiḥ mayaḍutsargāt iti mā bhūt vipratiṣedhaḥ . purastāt apavādāḥ anantarān vidhīn bādhante iti evam aṇañam bādhiṣyate . mayaṭam na bādhiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३२२।१७-२१ रो इइइ,७३०-७३१ किमर्थम् विकारावयवयोः युगपदधिकारः । विकारावयवयोः उक्तम् । किम् उक्तम् । तत्र तावत् उक्तम् भवव्याख्यानयोः युगपत् अधिकारः अपवादविधानार्थः । कृतनिर्देशौ हि तौ इति । इह अपि विकारावयवयोः युगपदधिकारः अपवादविधानार्थः । कृतनिर्देशौ हि तौ तस्य इदम् इति ।

KA II,322.17-21 Ro III,730-731 kimartham vikārāvayavayoḥ yugapadadhikāraḥ . vikārāvayavayoḥ uktam . kim uktam . tatra tāvat uktam bhavavyākhyānayoḥ yugapat adhikāraḥ apavādavidhānārthaḥ . kṛtanirdeśau hi tau iti . iha api vikārāvayavayoḥ yugapadadhikāraḥ apavādavidhānārthaḥ . kṛtanirdeśau hi tau tasya idam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३२२।२३-३२३।२ रो इइइ,७३१ किमर्थम् बिल्वादिषु गवीधुकाशब्दः पठ्यते न कोपधात् अण् इति एव सिद्धम् । बिल्वादिषु गवीधुकाग्रहणम् मयट्प्रतिषेधार्थम् । बिल्वादिषु गवीधुकाग्रहणम् क्रियते मयट्प्रतिषेधार्थम् । मयट् अतः मा भूत् इति ।

KA II,322.23-323.2 Ro III,731 kimartham bilvādiṣu gavīdhukāśabdaḥ paṭhyate na kopadhāt aṇ iti eva siddham . bilvādiṣu gavīdhukāgrahaṇam mayaṭpratiṣedhārtham . bilvādiṣu gavīdhukāgrahaṇam kriyate mayaṭpratiṣedhārtham . mayaṭ ataḥ mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३२३।४-२४ रो इइइ,७३१-७३३ अनुदात्तादेः अञः विधाने आद्युदात्तात् ङीषः उपसङ्ख्यानम् । अनुदात्तादेः अञः विधाने आद्युदात्तात् ङीषः उपसङ्ख्यानम् कर्तव्यम् । कुवली कौवलम् बदरी बादरम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । निघाते कृते अनुदात्तादेः इति एव सिद्धम् । न सिध्यति । किम् कारणम् । पदस्य हि अनुदात्तादित्वम् । पदस्य हि निघातः सुबन्तम् च पदम् । ङ्याप्प्रातिपदिकात् च प्रत्ययः विधीयते । न वा समर्थस्य अनुदात्तादित्वात् । न वा कर्तव्यम् । किम् कारणम् । समर्थस्य अनुदात्तादित्वात् । समर्थम् अनुदात्तादित्वेन विशेषयिष्यामः । न एवम् शक्यम् । इह हि प्रसज्येत । वाचः विकारः त्वचः विकारः इति । एतद् हि समर्थम् अनुदात्तादि । इह च न स्यात् सर्वेषाम् विकारः इति । तस्मात् न एवम् शक्यम् । न चेत् एवम् उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । आचार्यप्रवृत्तिः ज्ञापयति यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति यत् अयम् भिक्षादिषु गर्भिणीशब्दस्य पाठम् करोति । कथम् कृत्वा ज्ञापकम् । भिक्षादिषु गर्भिणीशब्दस्य पाठे एतत् प्रयोजनम् अनुदात्तादिलक्षणः अञ् मा भूत् इति । यदि च पदस्य निघातः गर्भशब्दः अयम् आद्युदात्तः तस्मात् इन् अन्तात् यः प्रत्ययः प्राप्नोति सः तावत् स्यात् । तस्मिन् अवस्थिते निघातः । तत्र कः अनुदात्तादिलक्षणस्य अञः प्रसङ्गः । पश्यति तु आचार्यः यावति एव द्वितीयस्य स्वरस्य प्रादुर्भावः तावति एव पूर्वस्य निघातः इति । अतः भिक्षादिषु गर्भिणीशब्दम् पठति । पदग्रहणम् परिमाणार्थम् । पदग्रहणम् क्रियते परिमाणार्थम् । वाक्यस्य मा भूत् अनुदात्तम् पदम् एकवर्जम् इति ।

KA II,323.4-24 Ro III,731-733 anudāttādeḥ añaḥ vidhāne ādyudāttāt ṅīṣaḥ upasaṅkhyānam . anudāttādeḥ añaḥ vidhāne ādyudāttāt ṅīṣaḥ upasaṅkhyānam kartavyam . kuvalī kauvalam badarī bādaram . tat tarhi vaktavyam . na vaktavyam . nighāte kṛte anudāttādeḥ iti eva siddham . na sidhyati . kim kāraṇam . padasya hi anudāttāditvam . padasya hi nighātaḥ subantam ca padam . ṅyāpprātipadikāt ca pratyayaḥ vidhīyate . na vā samarthasya anudāttāditvāt . na vā kartavyam . kim kāraṇam . samarthasya anudāttāditvāt . samartham anudāttāditvena viśeṣayiṣyāmaḥ . na evam śakyam . iha hi prasajyeta . vācaḥ vikāraḥ tvacaḥ vikāraḥ iti . etad hi samartham anudāttādi . iha ca na syāt sarveṣām vikāraḥ iti . tasmāt na evam śakyam . na cet evam upasaṅkhyānam kartavyam . na kartavyam . ācāryapravṛttiḥ jñāpayati yāvati eva dvitīyasya svarasya prādurbhāvaḥ tāvati eva pūrvasya nighātaḥ iti yat ayam bhikṣādiṣu garbhiṇīśabdasya pāṭham karoti . katham kṛtvā jñāpakam . bhikṣādiṣu garbhiṇīśabdasya pāṭhe etat prayojanam anudāttādilakṣaṇaḥ añ mā bhūt iti . yadi ca padasya nighātaḥ garbhaśabdaḥ ayam ādyudāttaḥ tasmāt in antāt yaḥ pratyayaḥ prāpnoti saḥ tāvat syāt . tasmin avasthite nighātaḥ . tatra kaḥ anudāttādilakṣaṇasya añaḥ prasaṅgaḥ . paśyati tu ācāryaḥ yāvati eva dvitīyasya svarasya prādurbhāvaḥ tāvati eva pūrvasya nighātaḥ iti . ataḥ bhikṣādiṣu garbhiṇīśabdam paṭhati . padagrahaṇam parimāṇārtham . padagrahaṇam kriyate parimāṇārtham . vākyasya mā bhūt anudāttam padam ekavarjam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३२४।२-७ रो इइइ,७३३ किमर्थम् एतयोः इति उच्यते । मयड्वैतयोर्वचनम् अपवादविषये अनिवृत्त्यर्थम् । मयट् वा एतयोः इति उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् । बिल्वमयम् बैल्वम् । एतयोः इति अर्थनिर्देशः । एतयोः इति अर्थनिर्देशः द्रष्टव्यः । द्वेष्यम् विजानीयात् : योगयोः वा प्रत्यययोः वा इति । तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : एतयोः इति अर्थनिर्देशः इति ।

KA II,324.2-7 Ro III,733 kimartham etayoḥ iti ucyate . mayaḍvaitayorvacanam apavādaviṣaye anivṛttyartham . mayaṭ vā etayoḥ iti ucyate apavādaviṣaye anivṛttiḥ yathā syāt . bilvamayam bailvam . etayoḥ iti arthanirdeśaḥ . etayoḥ iti arthanirdeśaḥ draṣṭavyaḥ . dveṣyam vijānīyāt : yogayoḥ vā pratyayayoḥ vā iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : etayoḥ iti arthanirdeśaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३२४।९-३२५।१८ रो इइइ,७३३-७३६ किमर्थम् इदम् उच्यते । विकारावयवयोः विकारावयवयुक्तत्वात् मयट्प्रतिषेधार्थम् ञितः च तत्प्रत्ययात् अञः विधानम् । विकारः विकारेण युज्यते अवयवेन अवयवः । विकारावयवयोः विकारावयवयुक्तत्वात् मयट् प्राप्नोति । इष्यते च अञ् एव स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति मयट्प्रतिषेधार्थम् ञितः च तत्प्रत्ययात् अञः विधानम् । एवमर्थम् इदम् उच्यते । न वा दृष्टः हि अवयवे समुदायशब्दः विकारे च प्रकृतिशब्दः तस्मात् मयडभावः । न वा एतत् प्रयोजनम् अस्ति । किम् कारणम् । दृष्टः हि अवयवे समुदायशब्दः । तत् यथा पूर्वे पञ्चालाः उत्तरे पञ्चालाः तैलम् भुक्तम् घृतम् भुक्तम् । विकारे च प्रकृतिशब्दः दृश्यते । तत् यथा । शालीन् भुङ्क्ते मुद्गैः । शालीविकारम् मुद्गविकारेण इति । तस्मात् मयट् अतः न भविष्यति । न एतत् विवदामहे । अवयवे समुदायशब्दः अस्ति न अस्ति इति विकारे वा प्रकृतिशब्दः इति । किम् तर्हि विकारावयवशब्दः अपि तु अस्ति । ततः उत्पत्तिः प्राप्नोति । विकारावयवशब्दात् प्रसङ्गः इति चेत् न तेन अनभिधानात् । विकारावयवशब्दात् प्रसङ्गः इति चेत् तत् न । किम् कारणम् । तेन अनभिधानात् । न हि विकारावयवशब्दात् उत्पद्यमानेन प्रत्ययेन अर्थस्य अभिधानम् स्यात् । अनभिधानात् ततः उतपत्तिः न भविष्यति । तत् च अवश्यम् अनभिधानम् आश्रयितव्यम् । अभिधाने हि अन्यतः अपि मयट्प्रसङ्गः । अभिधाने हि सति अन्यतः अपि मयट् प्रसज्येत : बैल्वस्य विकारः इति । तस्मात् तत्प्रत्ययान्तात् लुग्वचनम् । तस्मात् तत्प्रत्ययान्तात् लुक् वक्तव्यः । यदि लुक् उच्यते कथम् गौमयम् भस्म द्रौवयम् मानम् कापित्थः रसः इति । अन्यत्र गोमयात् द्रुवयात् फलात् च लुक् वक्तव्यः । इह तर्हि औष्ट्रकी अञन्तात् इति ईकारः न प्राप्नोति । इष्टम् एव एतत् सङ्गृहीतम् । औष्ट्रिका इति एव भवितव्यम् । एवम् हि सौनागाः पठन्ति । वुञः च अञ् कृतप्रसङ्गः इति । इह तर्हि पालाशी समित् इति अनुपसर्जनलक्षणः ईकारः न प्राप्नोति । मा भूत् एवम् अञ् यः अनुपर्सर्जनम् इति । अञन्तात् अनुपसर्जनात् इति एवम् भविष्यति । न एवम् शक्यम् । इह हि दोषः स्यात् । काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी ताम् अधीते काशकृत्स्ना ब्राह्मणी इति । अणन्तात् इति ईकारः प्रसज्येत । तस्मात् अस्तु न तेन अनभिभानात् इति एव । इह तर्हि कापोतः रसः इत् प्राणिशब्दः न उपपद्यते । न एषः दोषः । इदम् तावत् अयम् प्रष्टव्यः । अथ यः असौ आद्यः कपोतः सलोमकः सपक्षः न च सम्प्रति प्रणिति कथम् तत्र प्राणिशब्दः वर्तते इति । अथ मतम् एतत् प्रकृत्यन्वयाः विकाराः भवन्ति इति इह अपि न दोषः भवति ।

KA II,324.9-325.18 Ro III,733-736 kimartham idam ucyate . vikārāvayavayoḥ vikārāvayavayuktatvāt mayaṭpratiṣedhārtham ñitaḥ ca tatpratyayāt añaḥ vidhānam . vikāraḥ vikāreṇa yujyate avayavena avayavaḥ . vikārāvayavayoḥ vikārāvayavayuktatvāt mayaṭ prāpnoti . iṣyate ca añ eva syāt iti . tat ca antareṇa yatnam na sidhyati iti mayaṭpratiṣedhārtham ñitaḥ ca tatpratyayāt añaḥ vidhānam . evamartham idam ucyate . na vā dṛṣṭaḥ hi avayave samudāyaśabdaḥ vikāre ca prakṛtiśabdaḥ tasmāt mayaḍabhāvaḥ . na vā etat prayojanam asti . kim kāraṇam . dṛṣṭaḥ hi avayave samudāyaśabdaḥ . tat yathā pūrve pañcālāḥ uttare pañcālāḥ tailam bhuktam ghṛtam bhuktam . vikāre ca prakṛtiśabdaḥ dṛśyate . tat yathā . śālīn bhuṅkte mudgaiḥ . śālīvikāram mudgavikāreṇa iti . tasmāt mayaṭ ataḥ na bhaviṣyati . na etat vivadāmahe . avayave samudāyaśabdaḥ asti na asti iti vikāre vā prakṛtiśabdaḥ iti . kim tarhi vikārāvayavaśabdaḥ api tu asti . tataḥ utpattiḥ prāpnoti . vikārāvayavaśabdāt prasaṅgaḥ iti cet na tena anabhidhānāt . vikārāvayavaśabdāt prasaṅgaḥ iti cet tat na . kim kāraṇam . tena anabhidhānāt . na hi vikārāvayavaśabdāt utpadyamānena pratyayena arthasya abhidhānam syāt . anabhidhānāt tataḥ utapattiḥ na bhaviṣyati . tat ca avaśyam anabhidhānam āśrayitavyam . abhidhāne hi anyataḥ api mayaṭprasaṅgaḥ . abhidhāne hi sati anyataḥ api mayaṭ prasajyeta : bailvasya vikāraḥ iti . tasmāt tatpratyayāntāt lugvacanam . tasmāt tatpratyayāntāt luk vaktavyaḥ . yadi luk ucyate katham gaumayam bhasma drauvayam mānam kāpitthaḥ rasaḥ iti . anyatra gomayāt druvayāt phalāt ca luk vaktavyaḥ . iha tarhi auṣṭrakī añantāt iti īkāraḥ na prāpnoti . iṣṭam eva etat saṅgṛhītam . auṣṭrikā iti eva bhavitavyam . evam hi saunāgāḥ paṭhanti . vuñaḥ ca añ kṛtaprasaṅgaḥ iti . iha tarhi pālāśī samit iti anupasarjanalakṣaṇaḥ īkāraḥ na prāpnoti . mā bhūt evam añ yaḥ anuparsarjanam iti . añantāt anupasarjanāt iti evam bhaviṣyati . na evam śakyam . iha hi doṣaḥ syāt . kāśakṛtsninā proktā mīmāṃsā kāśakṛtsnī tām adhīte kāśakṛtsnā brāhmaṇī iti . aṇantāt iti īkāraḥ prasajyeta . tasmāt astu na tena anabhibhānāt iti eva . iha tarhi kāpotaḥ rasaḥ it prāṇiśabdaḥ na upapadyate . na eṣaḥ doṣaḥ . idam tāvat ayam praṣṭavyaḥ . atha yaḥ asau ādyaḥ kapotaḥ salomakaḥ sapakṣaḥ na ca samprati praṇiti katham tatra prāṇiśabdaḥ vartate iti . atha matam etat prakṛtyanvayāḥ vikārāḥ bhavanti iti iha api na doṣaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३२५।२०-३२६।६ रो इइइ,७३७ कथम् इदम् विज्ञायते । क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात् विकारावयवयोः इति । आहोस्वित् परिमाणात् क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति । किम् च अतः । यदि विज्ञायते क्रीते ये प्रत्ययाः विहिताः ते भवन्ति परिमाणात् विकारावयवयोः इति प्रत्ययमात्रम् प्राप्नोति । अथ विज्ञायते परिमाणात् क्रीते ये प्रत्ययाः विहिताः ते भवन्ति विकारावयवयोः इति प्रकृतिमात्रात् प्राप्नुवन्ति । तस्मात् क्रीतवत् परिमाणात् अङ्गम् च । अङ्गम् च क्रीतवत् इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । क्रीतवत् इति वतिनिर्देशः अयम् । यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण क्रीते प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन विशेषेण विकारावयवयोः भवन्ति ततः अमी क्रीतवत् कृताः स्युः । अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमी क्रीतवत् कृताः स्युः ।

KA II,325.20-326.6 Ro III,737 katham idam vijñāyate . krīte ye pratyayāḥ vihitāḥ te bhavanti parimāṇāt vikārāvayavayoḥ iti . āhosvit parimāṇāt krīte ye pratyayāḥ vihitāḥ te bhavanti vikārāvayavayoḥ iti . kim ca ataḥ . yadi vijñāyate krīte ye pratyayāḥ vihitāḥ te bhavanti parimāṇāt vikārāvayavayoḥ iti pratyayamātram prāpnoti . atha vijñāyate parimāṇāt krīte ye pratyayāḥ vihitāḥ te bhavanti vikārāvayavayoḥ iti prakṛtimātrāt prāpnuvanti . tasmāt krītavat parimāṇāt aṅgam ca . aṅgam ca krītavat iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . krītavat iti vatinirdeśaḥ ayam . yadi ca yābhyaḥ prakṛtibhyaḥ yena viśeṣeṇa krīte pratyayāḥ vihitāḥ tābhyaḥ prakṛtibhyaḥ tena viśeṣeṇa vikārāvayavayoḥ bhavanti tataḥ amī krītavat kṛtāḥ syuḥ . atha hi prakṛtimātrāt vā syuḥ pratyayamātram vā syāt na amī krītavat kṛtāḥ syuḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३२६।७-३२७।१२ रो इइइ,७३७-७४० अणः वृद्धात् मयट् । अणः वृद्धात् मयट् इति एतत् भवति विप्रतिषेधेन । अणः अवकाशः तित्तिडीक तैत्तिडीकम् । मयटः अवकाशः काष्ठमयम् । इह उभयम् प्राप्नोति । शाकमयम् । ओः अञः अनुदात्तादेः अञः च मयट् भवति विप्रतिषेधेन । ओः अञः अवकाशः आरडवम् । मयटः सः एव । इह उभयम् प्राप्नोति । दारुमयम् । अनुदात्तादेः अञ् भवति इति अस्य अवकाशः कौवलम् जरद्वृक्ष जारद्वृक्षम् । मयटः सः एव । इह उभयम् प्राप्नोति । आम्रमयम् । मयटः प्राण्यञ् विप्रतिषेधेन । मयटः प्राण्यञ् भवति विप्रतिषेधेन । प्राण्यञः अवकाशः गृध्र गार्ध्रम् । मयटः सः एव । इह उभयम् प्राप्नोति । चाषम् भासम् । प्राण्यञ् भवति विप्रतिषेधेन । न वा अनवकाशत्वात् अपवादः मयट् । न वा एषः युक्तः विप्रतिषेधः यः अयम् अञः मयटः च । किम् कारणम् । अनवकाशत्वात् अपवादः मयट् । अनवकाशः मयट् सावकाशम् अञम् बाधिष्यते । सः कथम् अनवकाशः । यदि अनुवर्तन्ते शैषिकाः । अथ निवृत्ताः शैषिकाः वृद्धम् आद्युदात्तम् मयटः अवकाशः । प्राण्यञः च । अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् मयटः प्राण्यञः च । किम् कारणम् । अनवकाशत्वात् अपवादः मयट् इति एव । अनवकाशः मयट् । सः यथा एव ओः अञम् अनुदात्तादेः अञम् च बाधते एवम् प्राण्यञम् अपि बाधेत । तस्मात् मयड्विधाने प्राणिप्रतिषेधः । तस्मात् मयड्विधाने प्राणिभ्यः प्रतिषेधः वक्तव्यः । सः तर्हि वक्तव्यः । न वक्तव्यः । मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् मयट् ओः अञम् अनुदात्तादेः अञम् च बाधिष्यते । प्राण्यञम् न बाधिष्यते । यदि एतत् अस्ति मध्ये अपवादाः पुरस्तात् अपवादाः इति मा अनुवृतन् शैषिकाः । पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् अण् अञम् बाधिष्यते । मयटम् न बाधिष्यते । अनुदात्तादेः अञः प्राण्यञ् विप्रतिषेधेन । अनुदात्तादेः अञः प्राण्यञ् भवति विप्रतिषेधेन । अनुदात्तादेः अञ् भवति इति अस्य अवकाशः जरद्वृक्ष जारद्वृक्षम् । प्राण्यञः सः एव । इह उभयम् प्राप्नोति । कपोत कापोतम् । प्राण्यञ् भवति विप्रतिषेधेन । कः पुनः अत्र विशेषः तेन वा सति अनेन वा । सापवादकः सः विधिः । अयम् पुनः निरपवादकः । यदि तेन स्यात् इह न स्यात् । श्वाविधः विकारः शौवाविधम् ।

KA II,326.7-327.12 Ro III,737-740 aṇaḥ vṛddhāt mayaṭ . aṇaḥ vṛddhāt mayaṭ iti etat bhavati vipratiṣedhena . aṇaḥ avakāśaḥ tittiḍīka taittiḍīkam . mayaṭaḥ avakāśaḥ kāṣṭhamayam . iha ubhayam prāpnoti . śākamayam . oḥ añaḥ anudāttādeḥ añaḥ ca mayaṭ bhavati vipratiṣedhena . oḥ añaḥ avakāśaḥ āraḍavam . mayaṭaḥ saḥ eva . iha ubhayam prāpnoti . dārumayam . anudāttādeḥ añ bhavati iti asya avakāśaḥ kauvalam jaradvṛkṣa jāradvṛkṣam . mayaṭaḥ saḥ eva . iha ubhayam prāpnoti . āmramayam . mayaṭaḥ prāṇyañ vipratiṣedhena . mayaṭaḥ prāṇyañ bhavati vipratiṣedhena . prāṇyañaḥ avakāśaḥ gṛdhra gārdhram . mayaṭaḥ saḥ eva . iha ubhayam prāpnoti . cāṣam bhāsam . prāṇyañ bhavati vipratiṣedhena . na vā anavakāśatvāt apavādaḥ mayaṭ . na vā eṣaḥ yuktaḥ vipratiṣedhaḥ yaḥ ayam añaḥ mayaṭaḥ ca . kim kāraṇam . anavakāśatvāt apavādaḥ mayaṭ . anavakāśaḥ mayaṭ sāvakāśam añam bādhiṣyate . saḥ katham anavakāśaḥ . yadi anuvartante śaiṣikāḥ . atha nivṛttāḥ śaiṣikāḥ vṛddham ādyudāttam mayaṭaḥ avakāśaḥ . prāṇyañaḥ ca . ayam ca api ayuktaḥ vipratiṣedhaḥ yaḥ ayam mayaṭaḥ prāṇyañaḥ ca . kim kāraṇam . anavakāśatvāt apavādaḥ mayaṭ iti eva . anavakāśaḥ mayaṭ . saḥ yathā eva oḥ añam anudāttādeḥ añam ca bādhate evam prāṇyañam api bādheta . tasmāt mayaḍvidhāne prāṇipratiṣedhaḥ . tasmāt mayaḍvidhāne prāṇibhyaḥ pratiṣedhaḥ vaktavyaḥ . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam mayaṭ oḥ añam anudāttādeḥ añam ca bādhiṣyate . prāṇyañam na bādhiṣyate . yadi etat asti madhye apavādāḥ purastāt apavādāḥ iti mā anuvṛtan śaiṣikāḥ . purastāt apavādāḥ anantarān vidhīn bādhante iti evam ayam aṇ añam bādhiṣyate . mayaṭam na bādhiṣyate . anudāttādeḥ añaḥ prāṇyañ vipratiṣedhena . anudāttādeḥ añaḥ prāṇyañ bhavati vipratiṣedhena . anudāttādeḥ añ bhavati iti asya avakāśaḥ jaradvṛkṣa jāradvṛkṣam . prāṇyañaḥ saḥ eva . iha ubhayam prāpnoti . kapota kāpotam . prāṇyañ bhavati vipratiṣedhena . kaḥ punaḥ atra viśeṣaḥ tena vā sati anena vā . sāpavādakaḥ saḥ vidhiḥ . ayam punaḥ nirapavādakaḥ . yadi tena syāt iha na syāt . śvāvidhaḥ vikāraḥ śauvāvidham .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३२७।१४-१८ रो इइइ,७४०-७४१ फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् । फले लुग्वचनम् अनर्थकम् । किम् कारणम् । प्रकृत्यन्तरत्वात् । प्रकृत्यन्तरम् आमलकशब्दः फले वर्तते । एकान्तदर्शनात् प्राप्नोति । एकान्तदर्शनात् प्रसङ्गः इति चेत् वृक्षे लुग्वचनम् । एकान्तदर्शनात् प्रसङ्गः इति चेत् वृक्षे लुक् वक्तव्यः । वृक्षः अपि फलैकान्तः ।

KA II,327.14-18 Ro III,740-741 phale lugvacanānarthakyam prakṛtyantaratvāt . phale lugvacanam anarthakam . kim kāraṇam . prakṛtyantaratvāt . prakṛtyantaram āmalakaśabdaḥ phale vartate . ekāntadarśanāt prāpnoti . ekāntadarśanāt prasaṅgaḥ iti cet vṛkṣe lugvacanam . ekāntadarśanāt prasaṅgaḥ iti cet vṛkṣe luk vaktavyaḥ . vṛkṣaḥ api phalaikāntaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३२७।२०-३२८।३ रो इइइ,७४१ लुप्प्रकरणे फलपाकशुषाम् उपसङ्ख्यानम् । लुप्प्रकरणे फलपाकशुषाम् उपसङ्ख्यानम् कर्तव्यम् । व्रीहयः यवाः माषाः मुद्गाः तिलाः । पुष्पमूलेषु च बहुलम् । पुष्पमूलेषु च बहुलम् लुप् वक्तव्यः । मल्लिका करवीरम् बिसम् मृणालम् । न च भवति । पाटलानि मूलानि ।

KA II,327.20-328.3 Ro III,741 lupprakaraṇe phalapākaśuṣām upasaṅkhyānam . lupprakaraṇe phalapākaśuṣām upasaṅkhyānam kartavyam . vrīhayaḥ yavāḥ māṣāḥ mudgāḥ tilāḥ . puṣpamūleṣu ca bahulam . puṣpamūleṣu ca bahulam lup vaktavyaḥ . mallikā karavīram bisam mṛṇālam . na ca bhavati . pāṭalāni mūlāni .

Sanskrit only: no published translation is held for this verse.