क्अ इइ,३३०।२-१२ रो इइइ,७४३-७४५ नित्यग्रहणम् किमर्थम् । विभषा मा भूत् । न एतत् अस्ति प्रयोजनम् । पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् । इदम् तर्हि प्रयोजनम् । त्रेः मम्नित्यवचनम् विषयार्थम् । नित्यम् त्र्यन्तम् मब्विषयम् एव यथा स्यात् । केवलस्य प्रयोगः मा भूत् । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति। तत्र यथाधिकारम् तद्विषयप्रसङ्गः । तत्र यथाधिकारम् तद्विषयता प्राप्नोति । निर्वृत्ते इत् वर्तते । तेन निर्वृत्ते एव त्र्यन्तम् मब्विषयम् स्यात् । ये अन्ये उपचाराः तत्र न स्यात् । कृत्रिमम् महत् सुविहितम् इति । एवम् तर्हि भावे इति प्रकृत्य इमप् वक्तव्यः कुट्टिमा भूमिः सेकिमः असिः इति एवमर्थम् । ततः वक्तव्यम् त्रेः । त्रेः मप् भवति । ततः नित्यम् । नित्यम् त्र्यन्तात् इमप् इति । किमर्थम् इदम् । नित्यम् त्र्यन्तम् इमब्विषये एव यथा स्यात् । केवलस्य प्रयोगः मा भूत् इति ।
KA II,330.2-12 Ro III,743-745 nityagrahaṇam kimartham . vibhaṣā mā bhūt . na etat asti prayojanam . pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam . idam tarhi prayojanam . treḥ mamnityavacanam viṣayārtham . nityam tryantam mabviṣayam eva yathā syāt . kevalasya prayogaḥ mā bhūt . asti prayojanam etat . kim tarhi iti. tatra yathādhikāram tadviṣayaprasaṅgaḥ . tatra yathādhikāram tadviṣayatā prāpnoti . nirvṛtte it vartate . tena nirvṛtte eva tryantam mabviṣayam syāt . ye anye upacārāḥ tatra na syāt . kṛtrimam mahat suvihitam iti . evam tarhi bhāve iti prakṛtya imap vaktavyaḥ kuṭṭimā bhūmiḥ sekimaḥ asiḥ iti evamartham . tataḥ vaktavyam treḥ . treḥ map bhavati . tataḥ nityam . nityam tryantāt imap iti . kimartham idam . nityam tryantam imabviṣaye eva yathā syāt . kevalasya prayogaḥ mā bhūt iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.