Library·Patanjali: Vyakaranamahabhasya·4·4.4

Patanjali: Vyakaranamahabhasya 4.4

क्अ इइ,३२९।२-१० रो इइइ,७४२ ठक्प्रकरणे तत् आह इति माशब्दादिभ्यः उपसङ्ख्यानम् । ठक्प्रकरणे तत् आह इति माशब्दादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । माशब्दिकः नैत्यशब्दिकः कार्यशब्दिकः । आहौ प्रभूतादिभ्यः । आहौ प्रभूतादिभ्यः ठक् वक्तव्यः । प्रभूतम् आह प्राभूतिकः । पार्याप्तिकः । पृच्छतौ सुस्नातादिभ्यः । पृच्छतौ सुस्नातादिभ्यः ठक् वक्तव्यः । सौस्नातिकः सौखरात्रिकः सौखशायिकः । गच्छतौ परदारादिभ्यः । गच्छतौ परदारादिभ्यः ठक् वक्तव्यः । पारदारिकः गौरुतल्पिकः ।

KA II,329.2-10 Ro III,742 ṭhakprakaraṇe tat āha iti māśabdādibhyaḥ upasaṅkhyānam . ṭhakprakaraṇe tat āha iti māśabdādibhyaḥ upasaṅkhyānam kartavyam . māśabdikaḥ naityaśabdikaḥ kāryaśabdikaḥ . āhau prabhūtādibhyaḥ . āhau prabhūtādibhyaḥ ṭhak vaktavyaḥ . prabhūtam āha prābhūtikaḥ . pāryāptikaḥ . pṛcchatau susnātādibhyaḥ . pṛcchatau susnātādibhyaḥ ṭhak vaktavyaḥ . sausnātikaḥ saukharātrikaḥ saukhaśāyikaḥ . gacchatau paradārādibhyaḥ . gacchatau paradārādibhyaḥ ṭhak vaktavyaḥ . pāradārikaḥ gaurutalpikaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,१२-१५ रो इइइ,७४३ इह केषाम् चित् सांहितिकम् षत्वम् केषाम् चित् षिदर्थम् । तत्र न ज्ञायते केषाम् सांहितिकम् षत्वम् केषाम् षिदर्थम् इति । परिगणनम् कर्तव्यम् । आकर्षात् पर्पादेः भस्त्रादिभ्यः कुसीद्सूत्रात् च आवसथात् किसरादेः षितः षट् एते ठगधिकारे ।

KA II,12-15 Ro III,743 iha keṣām cit sāṃhitikam ṣatvam keṣām cit ṣidartham . tatra na jñāyate keṣām sāṃhitikam ṣatvam keṣām ṣidartham iti . parigaṇanam kartavyam . ākarṣāt parpādeḥ bhastrādibhyaḥ kusīdsūtrāt ca āvasathāt kisarādeḥ ṣitaḥ ṣaṭ ete ṭhagadhikāre .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३२९।१७ रो इइइ,७४३ वीवधात् च इति वक्तव्यम् । वैवधिकः ।

KA II,329.17 Ro III,743 vīvadhāt ca iti vaktavyam . vaivadhikaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३०।२-१२ रो इइइ,७४३-७४५ नित्यग्रहणम् किमर्थम् । विभषा मा भूत् । न एतत् अस्ति प्रयोजनम् । पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् । इदम् तर्हि प्रयोजनम् । त्रेः मम्नित्यवचनम् विषयार्थम् । नित्यम् त्र्यन्तम् मब्विषयम् एव यथा स्यात् । केवलस्य प्रयोगः मा भूत् । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति। तत्र यथाधिकारम् तद्विषयप्रसङ्गः । तत्र यथाधिकारम् तद्विषयता प्राप्नोति । निर्वृत्ते इत् वर्तते । तेन निर्वृत्ते एव त्र्यन्तम् मब्विषयम् स्यात् । ये अन्ये उपचाराः तत्र न स्यात् । कृत्रिमम् महत् सुविहितम् इति । एवम् तर्हि भावे इति प्रकृत्य इमप् वक्तव्यः कुट्टिमा भूमिः सेकिमः असिः इति एवमर्थम् । ततः वक्तव्यम् त्रेः । त्रेः मप् भवति । ततः नित्यम् । नित्यम् त्र्यन्तात् इमप् इति । किमर्थम् इदम् । नित्यम् त्र्यन्तम् इमब्विषये एव यथा स्यात् । केवलस्य प्रयोगः मा भूत् इति ।

KA II,330.2-12 Ro III,743-745 nityagrahaṇam kimartham . vibhaṣā mā bhūt . na etat asti prayojanam . pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam . idam tarhi prayojanam . treḥ mamnityavacanam viṣayārtham . nityam tryantam mabviṣayam eva yathā syāt . kevalasya prayogaḥ mā bhūt . asti prayojanam etat . kim tarhi iti. tatra yathādhikāram tadviṣayaprasaṅgaḥ . tatra yathādhikāram tadviṣayatā prāpnoti . nirvṛtte it vartate . tena nirvṛtte eva tryantam mabviṣayam syāt . ye anye upacārāḥ tatra na syāt . kṛtrimam mahat suvihitam iti . evam tarhi bhāve iti prakṛtya imap vaktavyaḥ kuṭṭimā bhūmiḥ sekimaḥ asiḥ iti evamartham . tataḥ vaktavyam treḥ . treḥ map bhavati . tataḥ nityam . nityam tryantāt imap iti . kimartham idam . nityam tryantam imabviṣaye eva yathā syāt . kevalasya prayogaḥ mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३०।१४-१५ रो इइइ,७४५ अयम् योगः शक्यः अवक्तुम् । कथम् चूर्णी चूर्णिनौ चूर्णिनः इति । इनिना एतत् मत्वर्थीयेन सिद्धम् ।

KA II,330.14-15 Ro III,745 ayam yogaḥ śakyaḥ avaktum . katham cūrṇī cūrṇinau cūrṇinaḥ iti . ininā etat matvarthīyena siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३०।१७-३३१।२ रो इइइ,७४५ लवणात् लुग्वचनानर्थक्यम् रसवाचिव्तात् । लवणात् लुग्वचनम् अनर्थकम् । किम् कारणम् । रसवाचिव्तात् । रसवाची एषः लवणशब्दः । न एषः संसृष्टनिमित्तः । आतः च रसवाची । असंसृष्टे च दर्शनात् । असंसृष्टे अपि हि लवणशब्दः वर्तते । तत् यथा । लवणम् क्षीरम् लवणम् पानीयम् इति । संसृष्टे च अदर्शनात् । संसृष्टे अपि च यदा न उपलभ्यते तदा आह । अलवणः सूपः अलवणः शाकम् इति ।

KA II,330.17-331.2 Ro III,745 lavaṇāt lugvacanānarthakyam rasavācivtāt . lavaṇāt lugvacanam anarthakam . kim kāraṇam . rasavācivtāt . rasavācī eṣaḥ lavaṇaśabdaḥ . na eṣaḥ saṃsṛṣṭanimittaḥ . ātaḥ ca rasavācī . asaṃsṛṣṭe ca darśanāt . asaṃsṛṣṭe api hi lavaṇaśabdaḥ vartate . tat yathā . lavaṇam kṣīram lavaṇam pānīyam iti . saṃsṛṣṭe ca adarśanāt . saṃsṛṣṭe api ca yadā na upalabhyate tadā āha . alavaṇaḥ sūpaḥ alavaṇaḥ śākam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३१।४-१३ रो इइइ,७४६ अयुक्तः अयम् निर्देशः । यत् असौ अल्पम् दत्त्वा बहु गृह्णाति तत् गर्ह्यम् । कथम् तर्हि निर्देशः कर्तव्यः । प्रयच्छति गर्हाय इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । तादर्थ्यात् ताच्छब्द्यम् भविष्यति । गर्ह्यार्थम् गर्ह्यम् । मेस्याल्लोपः वा । मेस्याच्छब्दलोपः वा द्रष्टव्यः । द्विगुणम् मे स्यात् इति प्रयच्छति द्वैगुणिकः । त्रैगुणिकः । वृद्धेः वृधुषिभावः । वृद्धेः वृधुषिभावः वक्तव्यः । वार्धुषिकः ।

KA II,331.4-13 Ro III,746 ayuktaḥ ayam nirdeśaḥ . yat asau alpam dattvā bahu gṛhṇāti tat garhyam . katham tarhi nirdeśaḥ kartavyaḥ . prayacchati garhāya iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . tādarthyāt tācchabdyam bhaviṣyati . garhyārtham garhyam . mesyāllopaḥ vā . mesyācchabdalopaḥ vā draṣṭavyaḥ . dviguṇam me syāt iti prayacchati dvaiguṇikaḥ . traiguṇikaḥ . vṛddheḥ vṛdhuṣibhāvaḥ . vṛddheḥ vṛdhuṣibhāvaḥ vaktavyaḥ . vārdhuṣikaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३१।१५-१६ रो इइइ,७४६ अधर्मात् च । अधर्मात् च इति वक्तव्यम् । आधर्मिकः ।

KA II,331.15-16 Ro III,746 adharmāt ca . adharmāt ca iti vaktavyam . ādharmikaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३१।१८-३३२।२ रो इइइ,७४७ नृनराभ्याम् अञ्वचनम् । नृनराभ्याम् च इति वक्तव्यम् । नुः धर्म्या नारी । नरस्य अपि नारी । विशसितुः इड्लोपः च । विशसितुः इड्लोपः च अञ् च वक्तव्यः । विशसितुः धर्म्यम् वैशस्त्रम् । विभाजयितुः णिलोपः च । विभाजयितुः णिलोपः च अञ् च वक्तव्यः । विभाजयितुः धर्म्यम् वैभाजित्रम् ।

KA II,331.18-332.2 Ro III,747 nṛnarābhyām añvacanam . nṛnarābhyām ca iti vaktavyam . nuḥ dharmyā nārī . narasya api nārī . viśasituḥ iḍlopaḥ ca . viśasituḥ iḍlopaḥ ca añ ca vaktavyaḥ . viśasituḥ dharmyam vaiśastram . vibhājayituḥ ṇilopaḥ ca . vibhājayituḥ ṇilopaḥ ca añ ca vaktavyaḥ . vibhājayituḥ dharmyam vaibhājitram .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३२।४-६ रो इइइ,७४७ किम् यस्य मृदङ्गः शिल्पम् सः मार्दङ्गिकः । किम् च अतः । कुम्भकारे प्राप्नोति । एवम् तर्हि उत्तरपदलोपः द्रष्टव्यः । शिल्पम् इव शिल्पम् । मृदङ्ग्वादनम् शिल्पम् अस्य मार्दङ्गिकः । पैठरिकः ।

KA II,332.4-6 Ro III,747 kim yasya mṛdaṅgaḥ śilpam saḥ mārdaṅgikaḥ . kim ca ataḥ . kumbhakāre prāpnoti . evam tarhi uttarapadalopaḥ draṣṭavyaḥ . śilpam iva śilpam . mṛdaṅgvādanam śilpam asya mārdaṅgikaḥ . paiṭharikaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३२।८-१५ रो इइइ,७४८ किमर्थम् इदम् उच्यते । न कक् एव उच्यते का रूपसिद्धिः : शाक्तीकः याष्टीकः इति । शक्तियष्ट्योः ईकारः अन्ते कशब्दः च प्रत्ययः । न सिध्यति । विभाषा च एव हि शक्तियष्ट्योः ईकारः अपि च के अणः इति ह्रस्वत्वम् प्रसज्येत । एवम् तर्हि इकक् उच्यते । का रूपसिद्धिः । शाक्तीकः याष्टीकः इति । सवर्णदीर्घत्वेन सिद्धम् । न सिध्यति । यस्य इति च लोपः प्राप्नोति । इकारोच्चारणसामार्थ्यात् न भविष्यति । यदि तर्हि प्राप्नुवन् विधिः उच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति । यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते । यस्य तु विधेः निमित्तम् एव न असौ बाध्यते । यस्य इति लोपम् च प्रति इकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य तु निमित्तम् एव ।

KA II,332.8-15 Ro III,748 kimartham idam ucyate . na kak eva ucyate kā rūpasiddhiḥ : śāktīkaḥ yāṣṭīkaḥ iti . śaktiyaṣṭyoḥ īkāraḥ ante kaśabdaḥ ca pratyayaḥ . na sidhyati . vibhāṣā ca eva hi śaktiyaṣṭyoḥ īkāraḥ api ca ke aṇaḥ iti hrasvatvam prasajyeta . evam tarhi ikak ucyate . kā rūpasiddhiḥ . śāktīkaḥ yāṣṭīkaḥ iti . savarṇadīrghatvena siddham . na sidhyati . yasya iti ca lopaḥ prāpnoti . ikāroccāraṇasāmārthyāt na bhaviṣyati . yadi tarhi prāpnuvan vidhiḥ uccāraṇasāmarthyāt bādhyate savarṇadīrghatvam api na prāpnoti . yam vidhim prati upadeśaḥ anarthakaḥ saḥ vidhiḥ bādhyate . yasya tu vidheḥ nimittam eva na asau bādhyate . yasya iti lopam ca prati ikāroccāraṇam anarthakam savarṇadīrghatvasya tu nimittam eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३२।१७-१९ रो इइइ,७४९ किम् यस्य अस्ति मतिः सः आस्तिकः । किम् च अतः । चौरे अपि प्राप्नोति । एवम् तर्हि इतिलोपः अत्र द्रष्टव्यः । अस्ति इति अस्य मतिः आस्तिकः । न अस्ति इति अस्य मतिः नास्तिकः । दिष्टम् इति अस्य मतिः दैष्टिकः ।

KA II,332.17-19 Ro III,749 kim yasya asti matiḥ saḥ āstikaḥ . kim ca ataḥ . caure api prāpnoti . evam tarhi itilopaḥ atra draṣṭavyaḥ . asti iti asya matiḥ āstikaḥ . na asti iti asya matiḥ nāstikaḥ . diṣṭam iti asya matiḥ daiṣṭikaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३२।२१-३३३।२ रो इइइ,७४९ किम् यस्य छत्रधारणम् शीलम् सः छात्रः । किम् च अतः । राजपुरुषे प्राप्नोति । एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः। छत्रम् इव छत्रम् । गुरुः छत्रम् । गुरुणा शिष्यः छत्रवत् छाद्यः शिष्येण च गुरुः छत्रवत् परिपाल्यः ।

KA II,332.21-333.2 Ro III,749 kim yasya chatradhāraṇam śīlam saḥ chātraḥ . kim ca ataḥ . rājapuruṣe prāpnoti . evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ. chatram iva chatram . guruḥ chatram . guruṇā śiṣyaḥ chatravat chādyaḥ śiṣyeṇa ca guruḥ chatravat paripālyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३३।४-९ रो इइइ,७५० हितम् भक्षाः इति चतुर्थीनिर्देशः । हितम् भक्षाः इति चतुर्थीनिर्देशः कर्तव्यः । इतरथा हि अनिर्देशः । इतरथा हि निर्देशः न भवति । हितशब्देन च योगे चतुर्थी विधीयते । सा प्राप्नोति । सः तर्हि चतुर्थीनिर्देशः कर्तव्यः । न कर्तव्यः । एवम् वक्ष्यामि । हितम् भक्षाः तस्मै । ततः दीयते नियुक्तम् । तत् अस्मै इति ।

KA II,333.4-9 Ro III,750 hitam bhakṣāḥ iti caturthīnirdeśaḥ . hitam bhakṣāḥ iti caturthīnirdeśaḥ kartavyaḥ . itarathā hi anirdeśaḥ . itarathā hi nirdeśaḥ na bhavati . hitaśabdena ca yoge caturthī vidhīyate . sā prāpnoti . saḥ tarhi caturthīnirdeśaḥ kartavyaḥ . na kartavyaḥ . evam vakṣyāmi . hitam bhakṣāḥ tasmai . tataḥ dīyate niyuktam . tat asmai iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३३।११-२२ रो इइइ,७५०-७५१ वहत्यभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानानर्थक्यम् विहितत्वात् । वहत् इति अभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानम् अनर्थकम् । किम् कारणम् । विहितत्वात् । विहितः अत्र प्रत्ययः तस्य इदम् इति । शब्दभेदात् अविधानम् । शब्दभेदात् अविधिः सः भवति । अन्यः हि शब्दः रथम् वहति अन्यः हि रथस्य वोढा इति । शब्दभेदात् अविधानम् इति चेत् अर्थाश्रयत्वात् प्रत्ययविधानस्य अर्थसामान्यात् सिद्धम् । शब्दभेदात् अविधानम् इति चेत् अर्थाश्रयः प्रत्ययविधिः । सः एव अर्थ रथम् वहति सः एव रथस्य वोढा इति । तत्र अर्थसामान्यात् सिद्धम् । इदम् तर्हि प्रयोजनम् । यः द्वौ रथौ वहति सः द्विरथ्यः । यः द्वयोः रथयोः वोढा सः द्विरथः । तेन सति लुक् भवति । अनेन सति कस्मात् न भवति । प्राक् दीव्यतः इति उच्यते ।

KA II,333.11-22 Ro III,750-751 vahatyabhidhāne rathaśakaṭahalasīrebhyaḥ pratyayavidhānānarthakyam vihitatvāt . vahat iti abhidhāne rathaśakaṭahalasīrebhyaḥ pratyayavidhānam anarthakam . kim kāraṇam . vihitatvāt . vihitaḥ atra pratyayaḥ tasya idam iti . śabdabhedāt avidhānam . śabdabhedāt avidhiḥ saḥ bhavati . anyaḥ hi śabdaḥ ratham vahati anyaḥ hi rathasya voḍhā iti . śabdabhedāt avidhānam iti cet arthāśrayatvāt pratyayavidhānasya arthasāmānyāt siddham . śabdabhedāt avidhānam iti cet arthāśrayaḥ pratyayavidhiḥ . saḥ eva artha ratham vahati saḥ eva rathasya voḍhā iti . tatra arthasāmānyāt siddham . idam tarhi prayojanam . yaḥ dvau rathau vahati saḥ dvirathyaḥ . yaḥ dvayoḥ rathayoḥ voḍhā saḥ dvirathaḥ . tena sati luk bhavati . anena sati kasmāt na bhavati . prāk dīvyataḥ iti ucyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३४।२-६ रो इइइ,७५१-७५२ किम् निपात्यते । जनन्याः जनीभावः निपात्यते यत् च प्रत्ययः । जन्याः इति निपातनानर्थक्यम् पञ्चमीनिर्देशात् । जन्याः इति निपातनम् अनर्थकम् । किम् कारणम् । पञ्चमीनिर्देशात् । जननीशब्दात् एषा पञ्चमी । इदम् तर्हि प्रयोजनम् । सर्वकालः प्रत्ययविधिः यथा विज्ञायेत । जनीम् वहन्ति जन्याः । जनीम् वोढारः जन्याः । जनीम् अवाक्षुः जन्याः इति ।

KA II,334.2-6 Ro III,751-752 kim nipātyate . jananyāḥ janībhāvaḥ nipātyate yat ca pratyayaḥ . janyāḥ iti nipātanānarthakyam pañcamīnirdeśāt . janyāḥ iti nipātanam anarthakam . kim kāraṇam . pañcamīnirdeśāt . jananīśabdāt eṣā pañcamī . idam tarhi prayojanam . sarvakālaḥ pratyayavidhiḥ yathā vijñāyeta . janīm vahanti janyāḥ . janīm voḍhāraḥ janyāḥ . janīm avākṣuḥ janyāḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३४।८-१३ रो इइइ,७५२ विध्यति अकरणेन । विध्यति अकरणेन इति वक्तव्यम् । इतरथा ह अतिप्रसङ्गः । अधनुषा इति उच्यमाने अत्रिप्रसङ्गः भवति । इह अपि प्रसज्येत । शर्कराभिः विध्यति । कण्टकैः विध्यति इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । कस्मात् न भवति शर्कराभिः विध्यति कण्टकैः विध्यति इति । अनभिधानात् ।

KA II,334.8-13 Ro III,752 vidhyati akaraṇena . vidhyati akaraṇena iti vaktavyam . itarathā ha atiprasaṅgaḥ . adhanuṣā iti ucyamāne atriprasaṅgaḥ bhavati . iha api prasajyeta . śarkarābhiḥ vidhyati . kaṇṭakaiḥ vidhyati iti . tat tarhi vaktavyam . na vaktavyam . kasmāt na bhavati śarkarābhiḥ vidhyati kaṇṭakaiḥ vidhyati iti . anabhidhānāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३४।१५-१९ रो इइइ,७५२-७५३ गृहपतिना संयुक्ते इति उच्यते । तत्र दक्षिणाग्नौ अपि प्राप्नोति । दक्षिणाग्निः अपि गृहपतिना संयुज्यते । एवम् तर्हि गृहपतिना संयुक्ते इति उच्यते सर्वः च गृहपतिना संयुक्तः । तत्र प्रकर्षगतिः भविष्यति : साधीयः यः गृहपतिना संयुक्तः इति । कः च साधीयः । यस्मिन् पत्नीसंयाज्याः क्रियन्ते । अथ वा गृहपतिः नाम मन्त्रः । सः यस्मिन् उच्यते । अथ वा सञ्ज्ञायाम् इति वर्तते ।

KA II,334.15-19 Ro III,752-753 gṛhapatinā saṃyukte iti ucyate . tatra dakṣiṇāgnau api prāpnoti . dakṣiṇāgniḥ api gṛhapatinā saṃyujyate . evam tarhi gṛhapatinā saṃyukte iti ucyate sarvaḥ ca gṛhapatinā saṃyuktaḥ . tatra prakarṣagatiḥ bhaviṣyati : sādhīyaḥ yaḥ gṛhapatinā saṃyuktaḥ iti . kaḥ ca sādhīyaḥ . yasmin patnīsaṃyājyāḥ kriyante . atha vā gṛhapatiḥ nāma mantraḥ . saḥ yasmin ucyate . atha vā sañjñāyām iti vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३४।२१-३३५।३ रो इइइ,७५३ मासतन्वोः अनन्तरार्थे वा । मासतन्वोः अनन्तरार्थे वा इति वक्तव्यम् । मधु अस्मिन् असिति मधु अनन्तरम् वा मधव्यः माधवः । लुगकारेकाररेफाः च । लुगकारेकाररेफाः च प्रत्ययाः वक्तव्याः । लुक् मधुः तपः नभः । अकारः इषः ऊर्जः । इकारः शुचिः । रेफः च शुक्रः ।

KA II,334.21-335.3 Ro III,753 māsatanvoḥ anantarārthe vā . māsatanvoḥ anantarārthe vā iti vaktavyam . madhu asmin asiti madhu anantaram vā madhavyaḥ mādhavaḥ . lugakārekārarephāḥ ca . lugakārekārarephāḥ ca pratyayāḥ vaktavyāḥ . luk madhuḥ tapaḥ nabhaḥ . akāraḥ iṣaḥ ūrjaḥ . ikāraḥ śuciḥ . rephaḥ ca śukraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ,३३५।५-१५ रो इइइ,७५३-७५४ अक्षरसमूहे छन्दसः उपसङ्ख्यानम् । अक्षरसमूहे छन्दसः उपसङ्ख्यानम् कर्तव्यम् । ओ श्रावय इति चतुरक्षरम् । अस्तु श्रौषट् इति चतुरक्षरम् । ये यजामहे इति पञ्चाक्षरम् । यज इति द्व्यक्षरम् । द्व्यक्षरः वषट्कारः । एषः वै सप्तदशाक्षरः छन्दस्यः प्रज्ञापतिः यज्ञम् अनु विहितः । छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् । छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् । हस्तौ पृणस्व बहुविः वसव्यैः । अग्निरीशेवसव्यस्य । अग्निरीशेवसव्यस्य उपसङ्ख्यानम् कर्तव्यम् । तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । स्वार्थविज्ञानात् सिद्धम् । स्वार्थविज्ञानात् सिद्धम् एतत् । वसवः एव वसव्याः पान्तु ।

KA II,335.5-15 Ro III,753-754 akṣarasamūhe chandasaḥ upasaṅkhyānam . akṣarasamūhe chandasaḥ upasaṅkhyānam kartavyam . o śrāvaya iti caturakṣaram . astu śrauṣaṭ iti caturakṣaram . ye yajāmahe iti pañcākṣaram . yaja iti dvyakṣaram . dvyakṣaraḥ vaṣaṭkāraḥ . eṣaḥ vai saptadaśākṣaraḥ chandasyaḥ prajñāpatiḥ yajñam anu vihitaḥ . chandasi bahubhirvasavyairupasaṅkhyānam . chandasi bahubhirvasavyairupasaṅkhyānam . hastau pṛṇasva bahuviḥ vasavyaiḥ . agnirīśevasavyasya . agnirīśevasavyasya upasaṅkhyānam kartavyam . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . svārthavijñānāt siddham . svārthavijñānāt siddham etat . vasavaḥ eva vasavyāḥ pāntu .

Sanskrit only: no published translation is held for this verse.