Library·Patanjali: Vyakaranamahabhasya·5·5.1·5.1.28

Patanjali: Vyakaranamahabhasya 5.1.28

P 5.1.28

क्अ इइ।३४७।२२-३४९।४ रो इव्।३५-३७ द्विगोः लुकि उक्तम् । किम् उक्तम् । तत्र तावत् उक्तम् द्विगोः लुकि तन्निमित्तग्रहणम्। अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति । इह अपि द्विगोः लुकि तन्निमित्तग्रहणम् कर्तव्यम् । द्विगोः निमित्तम् यः तद्धितः तस्य लुक् भवति इति वक्तव्यम् । इह मा भूत् । द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् । त्रिशूर्पम् । द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् । त्रैशौर्पिकम् । अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि । अर्थविशेषस्य असम्प्रत्यये अतन्निमित्तात् अपि वक्तव्यम् । किम् प्रयोजनम् । द्वयोः शूर्पयोः समाहारः द्विशूर्पी । द्विशूर्प्या क्रीतम् इति विगृह्य द्विशूर्पम् इति एव यथा स्यात् । अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथम् इदम् विज्ञायते । तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति आहोस्वित् सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति । किम् च अतः । यदि विज्ञायते तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति । द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् । त्रिशूर्पम् । द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् । त्रैशौर्पिकम् । अथ विज्ञायते सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति न दोषः भवति । यथ न दोषः तथा अस्तु । सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति विज्ञायते । कुतः एतत् । यत् अयम् आह अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति । तत् तर्हि तन्निमित्तग्रहणम् कर्तव्यम् । न कर्तव्यम् । द्विगोः इति न एषा पञ्चमी । का तर्हि । सम्बन्धषष्ठी । द्विगोः तद्धितस्य लुक् भवति । किम् च द्विगोः तद्धितः । निमित्तम् । यस्मिन् द्विगुः इति एतत् भवति । कस्मिन् च एतत् भवति । प्रत्यये । इदम् तर्हि वक्तव्यम् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति । एतत् च न वक्तव्यम् । इह अस्माभिः त्रैशब्द्यम् साध्यम् । द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् । त्रिशूर्पम् । द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् । त्रैशौर्पिकम् इति । तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन । तत् यथा । अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति । एवम् इह अपि द्वाभ्याम् शूर्पाभ्याम् क्रीतम् इति विगृह्य द्विशूर्पम् इति भविष्यति । द्विशूर्प्या क्रीतम् इति विगृह्य वाक्यम् एव भविष्यति । अथ असञ्ज्ञायाम् इति किमर्थम् । पाञ्चलोहितिकम् पाञ्चकलापिकम् । सञ्ज्ञाप्रतिषेधानर्थक्यम् च तन्निमित्तत्वात् लोपस्य । सञ्ज्ञाप्रतिषेधः च अनर्थकः । किम् कारणम् । तन्निमित्तत्वात् लोपस्य । न अन्तरेण तद्धितम् तद्धितस्य च लुकम् द्विगुः सञ्ज्ञा अस्ति । यः तस्मात् उत्पद्यते न असु तन्निमित्तम् स्यात् । एवम् तर्हि इदम् स्यात् । पञ्चानाम् लोहितानाम् समाहारः पञ्चलोहिती पञ्चलोहित्या क्रीतम् । अत्र अपि पञ्चलोहितम् इति एव भवितव्यम् । कथम् । उक्तम् हि एतत् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति । उक्तम् सङ्ख्यात्वे प्रयोजनम् तस्मात् इह अध्यर्धग्रहणानर्थक्यम् । उक्तम् सङ्ख्यात्वे अध्यर्धग्रहणस्य प्रयोजनम् । किम् उक्तम् । अध्यर्धग्रहणम् च समासकन्विध्यर्थम् लुकि च अग्रहणम् इति । तस्मात् इह अध्यर्धग्रहणानर्थक्यम् । तस्मात् इह अध्यर्धग्रहणम् अनर्थकम् । द्विगोः इति एव लुक् सिद्धः ।

KA II.347.22-349.4 Ro IV.35-37 dvigoḥ luki uktam . kim uktam . tatra tāvat uktam dvigoḥ luki tannimittagrahaṇam. arthaviśeṣāsampratyaye atannimittāt api iti . iha api dvigoḥ luki tannimittagrahaṇam kartavyam . dvigoḥ nimittam yaḥ taddhitaḥ tasya luk bhavati iti vaktavyam . iha mā bhūt . dvābhyām śūrpābhyām krītam dviśūrpam . triśūrpam . dviśūrpeṇa krītam dvaiśaurpikam . traiśaurpikam . arthaviśeṣāsampratyaye atannimittāt api . arthaviśeṣasya asampratyaye atannimittāt api vaktavyam . kim prayojanam . dvayoḥ śūrpayoḥ samāhāraḥ dviśūrpī . dviśūrpyā krītam iti vigṛhya dviśūrpam iti eva yathā syāt . atha kriyamāṇe api tannimittagrahaṇe katham idam vijñāyate . tasya nimittam tannimittam tannimittāt iti āhosvit saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti . kim ca ataḥ . yadi vijñāyate tasya nimittam tannimittam tannimittāt iti kriyamāṇe api tannimittagrahaṇe atra prāpnoti . dvābhyām śūrpābhyām krītam dviśūrpam . triśūrpam . dviśūrpeṇa krītam dvaiśaurpikam . traiśaurpikam . atha vijñāyate saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti na doṣaḥ bhavati . yatha na doṣaḥ tathā astu . saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti vijñāyate . kutaḥ etat . yat ayam āha arthaviśeṣāsampratyaye atannimittāt api iti . tat tarhi tannimittagrahaṇam kartavyam . na kartavyam . dvigoḥ iti na eṣā pañcamī . kā tarhi . sambandhaṣaṣṭhī . dvigoḥ taddhitasya luk bhavati . kim ca dvigoḥ taddhitaḥ . nimittam . yasmin dviguḥ iti etat bhavati . kasmin ca etat bhavati . pratyaye . idam tarhi vaktavyam arthaviśeṣāsampratyaye atannimittāt api iti . etat ca na vaktavyam . iha asmābhiḥ traiśabdyam sādhyam . dvābhyām śūrpābhyām krītam dviśūrpam . triśūrpam . dviśūrpeṇa krītam dvaiśaurpikam . traiśaurpikam iti . tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . tat yathā . aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati . evam iha api dvābhyām śūrpābhyām krītam iti vigṛhya dviśūrpam iti bhaviṣyati . dviśūrpyā krītam iti vigṛhya vākyam eva bhaviṣyati . atha asañjñāyām iti kimartham . pāñcalohitikam pāñcakalāpikam . sañjñāpratiṣedhānarthakyam ca tannimittatvāt lopasya . sañjñāpratiṣedhaḥ ca anarthakaḥ . kim kāraṇam . tannimittatvāt lopasya . na antareṇa taddhitam taddhitasya ca lukam dviguḥ sañjñā asti . yaḥ tasmāt utpadyate na asu tannimittam syāt . evam tarhi idam syāt . pañcānām lohitānām samāhāraḥ pañcalohitī pañcalohityā krītam . atra api pañcalohitam iti eva bhavitavyam . katham . uktam hi etat arthaviśeṣāsampratyaye atannimittāt api iti . uktam saṅkhyātve prayojanam tasmāt iha adhyardhagrahaṇānarthakyam . uktam saṅkhyātve adhyardhagrahaṇasya prayojanam . kim uktam . adhyardhagrahaṇam ca samāsakanvidhyartham luki ca agrahaṇam iti . tasmāt iha adhyardhagrahaṇānarthakyam . tasmāt iha adhyardhagrahaṇam anarthakam . dvigoḥ iti eva luk siddhaḥ .

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/P/5.1.28

Cite as: Patanjali: Vyakaranamahabhasya 5.1.28, in HREEM (hreem.cc/library/P/5.1.28), after GRETIL, Patanjali: Vyakaranamahabhasya (Mahabhasya) Based on the edition by Franz Kielhorn (Bombay….

Edition, numbering and licence

GRETIL 6_sastra/1_gram/pmbhasuu.htm — Patanjali: Vyakaranamahabhasya (Mahabhasya) Based on the edition by Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). With additional references of the edition Gurukuljhajjar, Rohatak (Rohtak) : Hariyana sahitya samsthan, 1961-196

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text