क्अ इइ।३३६।२-२३ रो इव्।३-६ प्राग्वचनम् किमर्थम् । प्राग्वचने उक्तम् । किम् उक्तम् । तत्र तावत् उक्तम् प्राग्वचनम् सकृद्विधानार्थम् । अधिकारात् सिद्धम् इति चेत् अपवादविषये अण्प्रसङ्गः इति । इह अपि प्राग्वचनम् क्रियते सकृद्विधानार्थम् । सकृत् विहितः प्रत्ययः विहितः यथा स्यात् । योगे योगे तस्य ग्रहणम् मा कार्षम् इति । न एतत् अस्ति प्रयोजनम् । अधिकारात् अपि एतत् सिद्धम् । अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते । अधिकारात् सिद्धम् इति चेत् अपवादविषये छप्रसङ्गः । अधिकारात् सिद्धम् इति चेत् अपवादविषये छः प्राप्नोति । उगवादिभ्यः यत् छः च इति छः अपि प्राप्नोति । तस्मात् प्राग्वचनम् कर्तव्यम् । अथ क्रिय्माणे अपि प्राग्वचने कथम् इदम् विज्ञायते । प्राक् क्रीतात् याः प्रकृतयः आहोस्वित् प्राक् क्रीतात् ये अर्थाः इति । किम् च अतः । यदि विज्ञायते प्राक् क्रीतात् याः प्रकृतयः इति सः एव दोषः अपवादविषये अपि छप्रसङ्गः इति । अथ विज्ञायते प्राक् क्रीतात् ये अर्थाः इति न दोषः भवति । समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः यत् छम् बाधिष्यते । यथा न दोषः तथा अस्तु। प्राक् क्रीतात् ये अर्थाः इति विज्ञायते । कुतः एतत् । तथा हि अयम् प्राधान्येन अर्थम् प्रतिनिर्दिशति । इतरथा हि बह्व्यः तत्र प्रकृतयः पठ्यन्ते । ततः याम् काम् चित् एवम् प्रकृतिम् अवधित्वेन उपाददीत । अथ वा पुनः अस्तु प्राक् क्रीतात् याः प्रकृतयः इति । ननु च उक्तम् अपवादविषये अपि छप्रसङ्गः इति । न वा क्व चित् वावचनात् । न वा एषः दोषः । किम् कारणम् । क्व चित् वावचनात् । यत् अयम् क्वच् वावचनम् करोति विभाषा हविरपूपादिभ्यः इति तत् ज्ञापयति न अपवादविषये छः भवति इति । यदि एवम् न अर्थः प्राग्वचनेन । अधिकारात् सिद्धम् । ननु च उक्तम् अधिकारात् सिद्धम् इति चेत् अपवादविषये छप्रसङ्गः इति । परिहृतम् एतत् ण वा क्व चित् वावचनात् इति । अथ किमर्थम् इयान् अवधिः गृह्यते न प्राक् ठञः इति एव उच्येत । एतत् ज्ञापयति आचार्यः अर्थेषु अयम् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । समाने अर्थे प्रकृतिविशेषात् उत्पद्यमानः यत् छम् बाधते ।
KA II.336.2-23 Ro IV.3-6 prāgvacanam kimartham . prāgvacane uktam . kim uktam . tatra tāvat uktam prāgvacanam sakṛdvidhānārtham . adhikārāt siddham iti cet apavādaviṣaye aṇprasaṅgaḥ iti . iha api prāgvacanam kriyate sakṛdvidhānārtham . sakṛt vihitaḥ pratyayaḥ vihitaḥ yathā syāt . yoge yoge tasya grahaṇam mā kārṣam iti . na etat asti prayojanam . adhikārāt api etat siddham . adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . adhikārāt siddham iti cet apavādaviṣaye chaprasaṅgaḥ . adhikārāt siddham iti cet apavādaviṣaye chaḥ prāpnoti . ugavādibhyaḥ yat chaḥ ca iti chaḥ api prāpnoti . tasmāt prāgvacanam kartavyam . atha kriymāṇe api prāgvacane katham idam vijñāyate . prāk krītāt yāḥ prakṛtayaḥ āhosvit prāk krītāt ye arthāḥ iti . kim ca ataḥ . yadi vijñāyate prāk krītāt yāḥ prakṛtayaḥ iti saḥ eva doṣaḥ apavādaviṣaye api chaprasaṅgaḥ iti . atha vijñāyate prāk krītāt ye arthāḥ iti na doṣaḥ bhavati . samāne arthe prakṛtiviśeṣāt utpadyamānaḥ yat cham bādhiṣyate . yathā na doṣaḥ tathā astu. prāk krītāt ye arthāḥ iti vijñāyate . kutaḥ etat . tathā hi ayam prādhānyena artham pratinirdiśati . itarathā hi bahvyaḥ tatra prakṛtayaḥ paṭhyante . tataḥ yām kām cit evam prakṛtim avadhitvena upādadīta . atha vā punaḥ astu prāk krītāt yāḥ prakṛtayaḥ iti . nanu ca uktam apavādaviṣaye api chaprasaṅgaḥ iti . na vā kva cit vāvacanāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . kva cit vāvacanāt . yat ayam kvac vāvacanam karoti vibhāṣā havirapūpādibhyaḥ iti tat jñāpayati na apavādaviṣaye chaḥ bhavati iti . yadi evam na arthaḥ prāgvacanena . adhikārāt siddham . nanu ca uktam adhikārāt siddham iti cet apavādaviṣaye chaprasaṅgaḥ iti . parihṛtam etat ṇa vā kva cit vāvacanāt iti . atha kimartham iyān avadhiḥ gṛhyate na prāk ṭhañaḥ iti eva ucyeta . etat jñāpayati ācāryaḥ artheṣu ayam bhavati iti . kim etasya jñāpane prayojanam . samāne arthe prakṛtiviśeṣāt utpadyamānaḥ yat cham bādhate .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३३७।२-२१ रो इव्।६-७ यञ्ञ्यौ अञः पूर्वविप्रतिषिद्धम् सनङ्गूपानहौ प्रयोजनम् । यञ्ञ्यौ भवतः अञः पूर्वविप्रतिषेधेन । किम् प्रयोजनम् षनङ्गूपानहौ प्रयोजनम् । यतः अवकाशः शङ्कव्यम् दारु पिचव्यः कार्पासः । अञः अवकाशः वार्ध्रम् वारत्रम् । सनङ्गुः नाम चर्मविकारः । तस्मात् उभयम् प्राप्नोति । सनङ्गव्यम् चर्म । ञ्यस्य अवकाशः औपानह्यम् दारु । अञः सः एव । उपानत् नाम चर्मविकारः । तस्मात् उभयम् प्राप्नोति । औपानह्यम् चर्म । ढञ् च । ढञ् च भवति अञः पूर्वविप्रतिषेधेन । ढञः अवकाशः छादिषेयम् तृणम् । अञः सः एव । छदिः नाम् चर्मविकारः । तस्मात् उभयम् प्राप्नोति । छादिषेयम् चर्म । ढञ् भवति पूर्वविप्रतिषेधेन । हविरपूपादिभ्यः विभाषायाः यत् । हविरपूपादिभ्यः विभाषायाः यत् भवति पूर्वविप्रतिषेधेन । हविरपूपादिभ्यः विभाषायाः अवकाशः आमिक्ष्यम् आमिक्षीयम् पुरोडाश्यम् पुरोडाशीयम् । यतः सः एव । इह उभयम् प्राप्नोति । चरव्याः तण्डुलाः । यत् भवति पूर्वविप्रतिषेधेन । अन्नविकारेभ्यः च । अन्नविकारेभ्यः च विभाषायाः यत् भवति पूर्वविप्रतिषेधेन । अन्नविकारेभ्यः च विभाषायाः अवकाशः सुर्याः सुरीयाः । यतः सः एव । इह उभयम् प्राप्नोति । सक्तव्याः धानाः इति । यत् भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । इष्टवाची परशब्दः । विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।
KA II.337.2-21 Ro IV.6-7 yaññyau añaḥ pūrvavipratiṣiddham sanaṅgūpānahau prayojanam . yaññyau bhavataḥ añaḥ pūrvavipratiṣedhena . kim prayojanam ṣanaṅgūpānahau prayojanam . yataḥ avakāśaḥ śaṅkavyam dāru picavyaḥ kārpāsaḥ . añaḥ avakāśaḥ vārdhram vāratram . sanaṅguḥ nāma carmavikāraḥ . tasmāt ubhayam prāpnoti . sanaṅgavyam carma . ñyasya avakāśaḥ aupānahyam dāru . añaḥ saḥ eva . upānat nāma carmavikāraḥ . tasmāt ubhayam prāpnoti . aupānahyam carma . ḍhañ ca . ḍhañ ca bhavati añaḥ pūrvavipratiṣedhena . ḍhañaḥ avakāśaḥ chādiṣeyam tṛṇam . añaḥ saḥ eva . chadiḥ nām carmavikāraḥ . tasmāt ubhayam prāpnoti . chādiṣeyam carma . ḍhañ bhavati pūrvavipratiṣedhena . havirapūpādibhyaḥ vibhāṣāyāḥ yat . havirapūpādibhyaḥ vibhāṣāyāḥ yat bhavati pūrvavipratiṣedhena . havirapūpādibhyaḥ vibhāṣāyāḥ avakāśaḥ āmikṣyam āmikṣīyam puroḍāśyam puroḍāśīyam . yataḥ saḥ eva . iha ubhayam prāpnoti . caravyāḥ taṇḍulāḥ . yat bhavati pūrvavipratiṣedhena . annavikārebhyaḥ ca . annavikārebhyaḥ ca vibhāṣāyāḥ yat bhavati pūrvavipratiṣedhena . annavikārebhyaḥ ca vibhāṣāyāḥ avakāśaḥ suryāḥ surīyāḥ . yataḥ saḥ eva . iha ubhayam prāpnoti . saktavyāḥ dhānāḥ iti . yat bhavati pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . iṣṭavācī paraśabdaḥ . vipratiṣedhe param yat iṣṭam tat bhavati iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३३७।२२-३३८।१५ रो इव्।७-१० अयम् नाभिशब्दः गवादिषु पठ्यते। तत्र एव उच्यते नाभि नभम् च इति । तत्र चोद्यते । नाभेः नभभावे प्रत्ययानुपपत्तिः प्रकृत्यभावात् । नाभेः नभभावे प्रत्ययानुपपत्तिः । किम् कारणम् । प्रकृत्यभावात् । विकृतेः प्रकृतौ अभिधेयायाम् प्रत्ययेन भवितव्यम् न च नाभिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति । यत् एव हि तन्मण्डलचक्राणाम् मण्डलचक्रम् तत् नभ्यम् इति उच्यते । सिद्धम् तु शाखादिषु वचनात् ह्रस्वत्वम् च । सिद्धम् एतत् । कथम् । शाखादिषु नाभिशब्दः पठितव्यः ह्रस्वत्वम् च वक्तव्यम् । नाभिः इव नभ्यम् इति । कः पुनः इह उपमार्थः । यत् तत् अक्षधारणम् परिवर्तनम् वा । अपरः आह : यत् तत् अञ्जनोपाञ्जनम् इति । न तर्हि इदानीम् इदम् वक्तव्यम् नाभि नभम् च इति । वक्तव्यम् च । किम् प्रयोजनम् । यानि एतानि अरवन्ति चक्राणि तदर्थम् । तत्र नाभिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति । यानि च अपि अनरवन्ति चक्राणि तदर्थम् अपि इदम् वक्तव्यम् । दृश्यते हि समुदायात् अवयवस्य पृथक्त्वम् । तत् यथा वार्क्षी शाखा इति । गुणान्तरयोगात् च विकारशब्दः दृश्यते । तत् यथा वैभीतकः यूपः खादिरम् चषालम् इति । तत्र अवयवसमुदाये वृत्तिः भविष्यति । अथ यः नभ्यार्थः वृक्षः कथम् तत्र भवितव्यम् । नभ्यः वृक्षः नभ्या शिंशिपा इति । नभ्यात् तु लुग्वचनम् । नभ्यात् तु लुक् वक्तव्यः । सः तर्हि वक्तव्यः । न वक्तव्यः । तादर्थ्यात् ताच्छब्द्यम् भविष्यति । नभ्यार्थः नभ्यः इति ।
KA II.337.22-338.15 Ro IV.7-10 ayam nābhiśabdaḥ gavādiṣu paṭhyate. tatra eva ucyate nābhi nabham ca iti . tatra codyate . nābheḥ nabhabhāve pratyayānupapattiḥ prakṛtyabhāvāt . nābheḥ nabhabhāve pratyayānupapattiḥ . kim kāraṇam . prakṛtyabhāvāt . vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam na ca nābhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti . yat eva hi tanmaṇḍalacakrāṇām maṇḍalacakram tat nabhyam iti ucyate . siddham tu śākhādiṣu vacanāt hrasvatvam ca . siddham etat . katham . śākhādiṣu nābhiśabdaḥ paṭhitavyaḥ hrasvatvam ca vaktavyam . nābhiḥ iva nabhyam iti . kaḥ punaḥ iha upamārthaḥ . yat tat akṣadhāraṇam parivartanam vā . aparaḥ āha : yat tat añjanopāñjanam iti . na tarhi idānīm idam vaktavyam nābhi nabham ca iti . vaktavyam ca . kim prayojanam . yāni etāni aravanti cakrāṇi tadartham . tatra nābhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti . yāni ca api anaravanti cakrāṇi tadartham api idam vaktavyam . dṛśyate hi samudāyāt avayavasya pṛthaktvam . tat yathā vārkṣī śākhā iti . guṇāntarayogāt ca vikāraśabdaḥ dṛśyate . tat yathā vaibhītakaḥ yūpaḥ khādiram caṣālam iti . tatra avayavasamudāye vṛttiḥ bhaviṣyati . atha yaḥ nabhyārthaḥ vṛkṣaḥ katham tatra bhavitavyam . nabhyaḥ vṛkṣaḥ nabhyā śiṃśipā iti . nabhyāt tu lugvacanam . nabhyāt tu luk vaktavyaḥ . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . tādarthyāt tācchabdyam bhaviṣyati . nabhyārthaḥ nabhyaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३३८।१७-२१ रो इव्।१० अयम् योगः शक्यः अवक्तुम् । कथम् अशीतिशतम् कम्बल्यम् इति । निपातनात् एतत् सिद्धम् । किम् निपातनम् । अपरिमाणविस्ताचितकम्बलेभ्यः न तद्धितलुकि इति । इदम् तर्हि प्रयोजनम् सञ्ज्ञायाम् इति वक्ष्यामि इति । इह मा भूत् । कम्बलीयाः ऊर्णाः । एतत् अपि न अस्ति प्रयोजनम् । परिमाणपर्युदासेन पर्युदासे प्राप्ते तत्र कम्बलग्रहणम् क्रियते परिमाणार्थम् परिमाणम् च सञ्ज्ञा एव ।
KA II.338.17-21 Ro IV.10 ayam yogaḥ śakyaḥ avaktum . katham aśītiśatam kambalyam iti . nipātanāt etat siddham . kim nipātanam . aparimāṇavistācitakambalebhyaḥ na taddhitaluki iti . idam tarhi prayojanam sañjñāyām iti vakṣyāmi iti . iha mā bhūt . kambalīyāḥ ūrṇāḥ . etat api na asti prayojanam . parimāṇaparyudāsena paryudāse prāpte tatra kambalagrahaṇam kriyate parimāṇārtham parimāṇam ca sañjñā eva .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३३८।२३-३३९।२ रो इव्।१०-११ किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते । कथम् च प्राप्ते कथम् वा अप्राप्ते । उवर्णान्तात् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते । हविरपूपादिभ्यः अप्राप्ते । हविरपूपादिभ्यः अप्राप्ते विभाषा । प्राप्ते नित्यः विधिः । चरव्याः तण्डुलाः ।
KA II.338.23-339.2 Ro IV.10-11 kim iyam prāpte vibhāṣā āhosvit aprāpte . katham ca prāpte katham vā aprāpte . uvarṇāntāt iti vā nitye prāpte anyatra vā aprāpte . havirapūpādibhyaḥ aprāpte . havirapūpādibhyaḥ aprāpte vibhāṣā . prāpte nityaḥ vidhiḥ . caravyāḥ taṇḍulāḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३३९।४-५ रो इव्।११ यत्प्रकरणे रथात् च । यत्प्रकरणे रथात् च उपसङ्ख्यानम् । रथाय हिता रथ्या ।
KA II.339.4-5 Ro IV.11 yatprakaraṇe rathāt ca . yatprakaraṇe rathāt ca upasaṅkhyānam . rathāya hitā rathyā .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३३९।७-१८ रो इव्।११-१२ वृषशब्दः अयम् अकारान्तः गृह्यते । वृषन्शब्दः अपि नकारान्तः अस्ति । तस्य उपसङ्ख्यानम् कर्तव्यम् वृषशब्दः च आदेशः वक्तव्यः वृष्णे हितम् इति विगृह्य वृष्यम् इति एव यथा स्यात् । तथा ब्रह्मन्शब्दः नकारान्तः गृह्यते । ब्राह्मणशब्दः च अकारान्तः अस्ति । तस्य उपसङ्ख्यानम् कर्तव्यम् ब्रह्मन्शब्दः च आदेशः वक्तव्यः ब्राह्मणेभ्यः हितम् इति विगृह्य ब्रह्मण्यम् इति एव यथा स्यात् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । समानार्थौ एतौ वृषशब्दः वृषन्शब्दः च ब्रह्मन्शब्दः ब्राह्मणशब्दः च । आतः च समानार्थौ । एवम् हि आह । कुतः नु चरसि ब्रह्मन् । कुतः नु चरसि ब्राह्मण इति । तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन । तत् यथा । अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति आविकम् इति । एवम् इह अपि वृषाय हितम् इति विगृह्य वृष्यम् इति भविष्यति । वृष्णे हितम् इति विगृह्य वाक्यम् एव । तथा ब्रह्मणे हितम् इति विगृह्य ब्रह्मण्यम् इति भविष्यति । ब्राह्मणेभ्यः हितम् इति विगृह्य वाक्यम् एव भविष्यति । त्रैशब्द्यम् च इह साध्यम् । तत् च एवम् सति सिद्धम् भवति ।
KA II.339.7-18 Ro IV.11-12 vṛṣaśabdaḥ ayam akārāntaḥ gṛhyate . vṛṣanśabdaḥ api nakārāntaḥ asti . tasya upasaṅkhyānam kartavyam vṛṣaśabdaḥ ca ādeśaḥ vaktavyaḥ vṛṣṇe hitam iti vigṛhya vṛṣyam iti eva yathā syāt . tathā brahmanśabdaḥ nakārāntaḥ gṛhyate . brāhmaṇaśabdaḥ ca akārāntaḥ asti . tasya upasaṅkhyānam kartavyam brahmanśabdaḥ ca ādeśaḥ vaktavyaḥ brāhmaṇebhyaḥ hitam iti vigṛhya brahmaṇyam iti eva yathā syāt . tat tarhi vaktavyam . na vaktavyam . samānārthau etau vṛṣaśabdaḥ vṛṣanśabdaḥ ca brahmanśabdaḥ brāhmaṇaśabdaḥ ca . ātaḥ ca samānārthau . evam hi āha . kutaḥ nu carasi brahman . kutaḥ nu carasi brāhmaṇa iti . tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . tat yathā . aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati āvikam iti . evam iha api vṛṣāya hitam iti vigṛhya vṛṣyam iti bhaviṣyati . vṛṣṇe hitam iti vigṛhya vākyam eva . tathā brahmaṇe hitam iti vigṛhya brahmaṇyam iti bhaviṣyati . brāhmaṇebhyaḥ hitam iti vigṛhya vākyam eva bhaviṣyati . traiśabdyam ca iha sādhyam . tat ca evam sati siddham bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३३९।२०-३४०।१८ रो इव्।१२-१४ भोगोत्तरपदात् खविधाने अनिर्देशः पूर्वपदार्थहितत्वात् । भोगोत्तरपदात् खविधाने अनिर्देशः । अगमकः निर्देशः अनिर्देशः । किम् कारणम् । पूर्वपदार्थहितत्वात् । उत्तरपदार्थप्रधानः तत्पुरुषः पूर्वपदार्थप्रधाने च प्रत्ययः इष्यते । पितृभोगाय हिते प्राप्नोति पित्रे च एव हिते इष्यते । एवम् तर्हि भोगीनर्प्रत्ययः विज्ञास्यते । भोगीनर् इति चेत् वावचनम् । भोगीनर् इति यदि प्रत्ययः विधीयते वावचनम् कर्तव्यम् मात्रीयः पित्रीयः इति अपि यथा स्यात् । राजाचार्याभ्याम् नित्यम् । राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् । राजभोगीनः । आचार्यात् अणत्वम् च । आचार्यभोगीनः । किम् भोगीनर्प्रत्ययः विधीयते इति अतः राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् । न इति आह । सर्वथा राजाचार्याभ्याम् नित्यम् इति वक्तव्यम् । इह च ग्रामणिभोगीनः सेनानिभोगीनः इति उत्तरपदे इति ह्रस्वत्वम् न प्राप्नोति । इह च अब्भोगिनः इति अपः भि इति तत्वम् प्राप्नोति । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् भोगोत्तरपदात् खविधाने अनिर्देशः पूर्वपदार्थहितत्वात् इति । न एषः दोषः । अयम् भोगशब्दः अस्ति एव द्रव्यपदार्थकः । तत् यथा भोगवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्नानि च वर्तन्ते । अस्ति क्रियापदार्थकः । तत् यथा भोगवान् अयम् ब्राह्मणः इति उच्यते यः सम्यक् स्नानादीः क्रियाः अनुभवति । तत् यः क्रियापदार्थकः तस्य अयम् ग्रहणम् । यः च पितृस्थाभ्यः क्रियाभ्यः हितः सम्बन्धात् असौ पित्रे अपि हितः भवति । यदि सम्बन्धात् अस्तु द्रव्यपदार्थकस्य अपि ग्रहणम् । यः अपि हि पितृद्रव्याय हितः सम्बन्धात् असौ पित्रे हितः भवति । अथ वा भोगशब्दः शरीरवाची अपि द्र्श्यते । तत् यथा अहिः इव भोगैः पर्येति बाहुम् इति। अहिः इव शरीरैः इति गम्यते । एवम् पितृशरीराय हितः पितृभोगीणः इति ।
KA II.339.20-340.18 Ro IV.12-14 bhogottarapadāt khavidhāne anirdeśaḥ pūrvapadārthahitatvāt . bhogottarapadāt khavidhāne anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . kim kāraṇam . pūrvapadārthahitatvāt . uttarapadārthapradhānaḥ tatpuruṣaḥ pūrvapadārthapradhāne ca pratyayaḥ iṣyate . pitṛbhogāya hite prāpnoti pitre ca eva hite iṣyate . evam tarhi bhogīnarpratyayaḥ vijñāsyate . bhogīnar iti cet vāvacanam . bhogīnar iti yadi pratyayaḥ vidhīyate vāvacanam kartavyam mātrīyaḥ pitrīyaḥ iti api yathā syāt . rājācāryābhyām nityam . rājācāryābhyām nityam iti vaktavyam . rājabhogīnaḥ . ācāryāt aṇatvam ca . ācāryabhogīnaḥ . kim bhogīnarpratyayaḥ vidhīyate iti ataḥ rājācāryābhyām nityam iti vaktavyam . na iti āha . sarvathā rājācāryābhyām nityam iti vaktavyam . iha ca grāmaṇibhogīnaḥ senānibhogīnaḥ iti uttarapade iti hrasvatvam na prāpnoti . iha ca abbhoginaḥ iti apaḥ bhi iti tatvam prāpnoti . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam bhogottarapadāt khavidhāne anirdeśaḥ pūrvapadārthahitatvāt iti . na eṣaḥ doṣaḥ . ayam bhogaśabdaḥ asti eva dravyapadārthakaḥ . tat yathā bhogavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasnāni ca vartante . asti kriyāpadārthakaḥ . tat yathā bhogavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak snānādīḥ kriyāḥ anubhavati . tat yaḥ kriyāpadārthakaḥ tasya ayam grahaṇam . yaḥ ca pitṛsthābhyaḥ kriyābhyaḥ hitaḥ sambandhāt asau pitre api hitaḥ bhavati . yadi sambandhāt astu dravyapadārthakasya api grahaṇam . yaḥ api hi pitṛdravyāya hitaḥ sambandhāt asau pitre hitaḥ bhavati . atha vā bhogaśabdaḥ śarīravācī api drśyate . tat yathā ahiḥ iva bhogaiḥ paryeti bāhum iti. ahiḥ iva śarīraiḥ iti gamyate . evam pitṛśarīrāya hitaḥ pitṛbhogīṇaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४०।१९-३४१।६ रो इव्।१४-१५ खविधाने पञ्चजनात् उपसङ्ख्यानम् । खविधाने पञ्चजनात् उपसङ्ख्यानम् कर्तव्यम् । पञ्चजनाय हितः पञ्चजनीनः । समानाधिकरणे इति वक्तव्यम् । यः हि पञ्चानाम् जनाय हितः पञ्चजनीयः सः भवति । सर्वजनात् ठञ् च । सर्वजनात् ठञ् वक्तव्यः खः च । सर्वजनाय हितः सार्वजनिकः सार्वजनीनः । समानाधिकरणे इति च वक्तव्यम् । यः हि सर्वेषाम् जनाय हितः सर्वजनीयः सः । महाजनात् नित्यम् । महाजनात् नित्यम् ठञ् वक्तव्यः । महाजनाय हितः माहाजनिकः । तत्पुरुषे इति वक्तव्यम् बहुव्रीहौ मा भूत् इति । महान् जनः अस्य महाजनः महाजनाय हितः महाजनीयः । यदि तर्हि अतिप्रसङ्गाः सन्ति इति उपाधिः क्रियते आद्यन्यासे अपि उपाधिः कर्तव्यः । आत्मन्विश्वजने समानाधिकरणे इति वक्तव्यम् । यः हिस् विश्वेषाम् जनाय हितः विश्वजनीयः सः भवति । अथ मतम् एतत् अनभिधानात् आद्यन्यासे न भविष्यति इति इह अपि न अर्थः उपाधिग्रहणेन । इह अपि अनभिधानात् न भविष्यति ।
KA II.340.19-341.6 Ro IV.14-15 khavidhāne pañcajanāt upasaṅkhyānam . khavidhāne pañcajanāt upasaṅkhyānam kartavyam . pañcajanāya hitaḥ pañcajanīnaḥ . samānādhikaraṇe iti vaktavyam . yaḥ hi pañcānām janāya hitaḥ pañcajanīyaḥ saḥ bhavati . sarvajanāt ṭhañ ca . sarvajanāt ṭhañ vaktavyaḥ khaḥ ca . sarvajanāya hitaḥ sārvajanikaḥ sārvajanīnaḥ . samānādhikaraṇe iti ca vaktavyam . yaḥ hi sarveṣām janāya hitaḥ sarvajanīyaḥ saḥ . mahājanāt nityam . mahājanāt nityam ṭhañ vaktavyaḥ . mahājanāya hitaḥ māhājanikaḥ . tatpuruṣe iti vaktavyam bahuvrīhau mā bhūt iti . mahān janaḥ asya mahājanaḥ mahājanāya hitaḥ mahājanīyaḥ . yadi tarhi atiprasaṅgāḥ santi iti upādhiḥ kriyate ādyanyāse api upādhiḥ kartavyaḥ . ātmanviśvajane samānādhikaraṇe iti vaktavyam . yaḥ his viśveṣām janāya hitaḥ viśvajanīyaḥ saḥ bhavati . atha matam etat anabhidhānāt ādyanyāse na bhaviṣyati iti iha api na arthaḥ upādhigrahaṇena . iha api anabhidhānāt na bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४१।८-१३ रो इव्। १५-१६ सर्वात् णस्य वावचनम् । सर्वात् णस्य वा इति वक्तव्यम् । सार्वः सर्वीयः । पुरुषात् वधे । पुरुषात् वधे इति वक्तव्यम् : पौरुषेयः वधः । अत्यल्पम् इदम् उच्यते : पुरुषात् वधे इति । पुरुषात् वधविकारसमूहतेनकृतेषु इति वक्तव्यम् : पौरुषेयः वधः , पौरुषेयः विकारः , पौरुषेयः समूहः , तेन कृतम् पौरुषेयम् ।
KA II.341.8-13 Ro IV. 15-16 sarvāt ṇasya vāvacanam . sarvāt ṇasya vā iti vaktavyam . sārvaḥ sarvīyaḥ . puruṣāt vadhe . puruṣāt vadhe iti vaktavyam : pauruṣeyaḥ vadhaḥ . atyalpam idam ucyate : puruṣāt vadhe iti . puruṣāt vadhavikārasamūhatenakṛteṣu iti vaktavyam : pauruṣeyaḥ vadhaḥ , pauruṣeyaḥ vikāraḥ , pauruṣeyaḥ samūhaḥ , tena kṛtam pauruṣeyam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४१।१५-२० रो इव्।१६ तदर्थम् इति कृत्यनामभ्यः ठञ् । तदर्थम् इति कृत्यनामभ्यः ठञ् वक्तव्यः । इन्द्रमहार्थम् ऐन्द्रमहिहम् गाङ्गामहिहम् काशेरुयज्ञिकम् । न वा प्रयोजनेन कृतत्वात् । न वा वक्तव्यम् । किम् कारणम् । प्रयोजनेन कृतत्वात् । यत् हि इन्द्रमहार्थम् इन्द्रमहः तस्य प्रयोजनम् भवति । तत्र प्रयोजनम् इति एव सिद्धम् ।
KA II.341.15-20 Ro IV.16 tadartham iti kṛtyanāmabhyaḥ ṭhañ . tadartham iti kṛtyanāmabhyaḥ ṭhañ vaktavyaḥ . indramahārtham aindramahiham gāṅgāmahiham kāśeruyajñikam . na vā prayojanena kṛtatvāt . na vā vaktavyam . kim kāraṇam . prayojanena kṛtatvāt . yat hi indramahārtham indramahaḥ tasya prayojanam bhavati . tatra prayojanam iti eva siddham .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४१।२२-३४२।२० रो इव्।१७-१९ उपध्यर्थम् इति प्रत्ययानुपपत्तिः । उपध्यर्थम् इति प्रत्ययस्य इह अनुपपत्तिः । किम् कारणम् । उपध्यभावात् । विकृतेः प्रकृतौ अभिधेयायाम् प्रत्ययेन भवितव्यम् । न च उपधिसञ्ज्ञिकायाः विकृतेः प्रकृतिः अस्ति । यत् हि तत् रथाङ्गम् तत् औपधेयम् इति उच्यते । सिद्धम् तु कृदन्तस्य स्वार्थे अञ्वचनात् । सिद्धम् एतत् । कथम् । कृदन्तस्य स्वार्थे अञ् वक्तव्यः । उपधीयते उपधेयम् । उपधेयम् एव औपधेयम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् उपध्यर्थम् इति प्रत्ययानुपपत्तिः इति । न एतत् अस्ति । अयम् उपधिशब्दः अस्ति एव कर्मसाधनः । उपधीयते उपधिः इति । अस्ति भावसाधनः । उपधानम् उपधिः इति । तत् यः भावसाधनः तस्य इदम् ग्रहणम् । एवम् अपि न सिध्यति । किम् कारणम् । विकृतेः प्रकृतौ इति वर्तते । प्रकृतिविकृतिग्रहणम् निवर्तिष्यते । तत् च अवश्यम् निवर्त्यम् इहार्थम् उत्तराथम् च । इहार्थम् तावत् । बालेयाः तण्डुलाः । उत्तरार्थम् ऋषभोपानहोः ञ्यः । आर्षभ्यः वत्सः इति । अथ तदर्थम् इति अनुवर्तते उताहो न । किम् च अर्थः अनुवृत्त्या । बाढम् अर्थः । तत् अस्य तत् अस्मिन् स्यात् इति तदर्थे यथा स्यात् । इह मा भूत् । प्रासादः देवदत्तस्य स्यात् इति । प्राकारः नगरस्य स्यात् इति । यदि तदर्थम् इति अनुवर्तते ऋषभोपानहोः ञ्यः ऋषभार्थः घासः उपानदर्थः तिलकल्कः इति अत्र अपि प्राप्नोति । एवम् तर्हि अनुवर्तते प्रकृतिविकृतिग्रहणम् । ननु च उक्तम् बल्यृषभयोः न सिध्यति इति । किम् पुनः भवान् विकारम् मत्वा आह बल्यृषभयोः न सिध्यति इति । यदि तावत् यः प्रकृत्युपमर्देन भवति सः विकारः वैभीतकः यूपः खादिरम् चषालम् इति न सिध्यति । अथ मतम् एतत् एव गुणान्तरयुक्तम् विकारः इति बल्यृषभयोः अपि सिद्धम् भवति । गुणन्तरयुक्ताः हि तण्डुलाः बालेयाः गुणान्तरयुक्तः च वत्सः आर्षभः । औपधेयम् तु न सिध्यति । वचनात् स्वार्थिकः भविष्यति ।
KA II.341.22-342.20 Ro IV.17-19 upadhyartham iti pratyayānupapattiḥ . upadhyartham iti pratyayasya iha anupapattiḥ . kim kāraṇam . upadhyabhāvāt . vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam . na ca upadhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti . yat hi tat rathāṅgam tat aupadheyam iti ucyate . siddham tu kṛdantasya svārthe añvacanāt . siddham etat . katham . kṛdantasya svārthe añ vaktavyaḥ . upadhīyate upadheyam . upadheyam eva aupadheyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam upadhyartham iti pratyayānupapattiḥ iti . na etat asti . ayam upadhiśabdaḥ asti eva karmasādhanaḥ . upadhīyate upadhiḥ iti . asti bhāvasādhanaḥ . upadhānam upadhiḥ iti . tat yaḥ bhāvasādhanaḥ tasya idam grahaṇam . evam api na sidhyati . kim kāraṇam . vikṛteḥ prakṛtau iti vartate . prakṛtivikṛtigrahaṇam nivartiṣyate . tat ca avaśyam nivartyam ihārtham uttarātham ca . ihārtham tāvat . bāleyāḥ taṇḍulāḥ . uttarārtham ṛṣabhopānahoḥ ñyaḥ . ārṣabhyaḥ vatsaḥ iti . atha tadartham iti anuvartate utāho na . kim ca arthaḥ anuvṛttyā . bāḍham arthaḥ . tat asya tat asmin syāt iti tadarthe yathā syāt . iha mā bhūt . prāsādaḥ devadattasya syāt iti . prākāraḥ nagarasya syāt iti . yadi tadartham iti anuvartate ṛṣabhopānahoḥ ñyaḥ ṛṣabhārthaḥ ghāsaḥ upānadarthaḥ tilakalkaḥ iti atra api prāpnoti . evam tarhi anuvartate prakṛtivikṛtigrahaṇam . nanu ca uktam balyṛṣabhayoḥ na sidhyati iti . kim punaḥ bhavān vikāram matvā āha balyṛṣabhayoḥ na sidhyati iti . yadi tāvat yaḥ prakṛtyupamardena bhavati saḥ vikāraḥ vaibhītakaḥ yūpaḥ khādiram caṣālam iti na sidhyati . atha matam etat eva guṇāntarayuktam vikāraḥ iti balyṛṣabhayoḥ api siddham bhavati . guṇantarayuktāḥ hi taṇḍulāḥ bāleyāḥ guṇāntarayuktaḥ ca vatsaḥ ārṣabhaḥ . aupadheyam tu na sidhyati . vacanāt svārthikaḥ bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४२।२२-३४३।६ रो इव्।१९-२१ स्याद्ग्रहणम् किमर्थम् । इह मा भूत् । प्रासादः देवदत्तस्य प्राकारः नगरस्य इति । अथ क्रियमाणे अपि स्याद्ग्रहणे इह कस्मात् न भवति । प्रासादः देवदत्तस्य स्यात् । प्राकारः नगरस्य स्यात् इति । शक्यार्थे लिङ् इति वक्तव्यम् । न एवम् शक्यम् । इदानीम् एव हि उक्तम् न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् इति । एवम् तर्हि इतिकरणः क्रियते । ततः चेत् विवक्षा भवति । विवक्षा च द्वयी । अस्ति एव प्रायोक्त्री विवक्षा अस्ति लौकिकी । प्रयोक्ता हि मृद्व्या स्निग्धया श्लक्ष्णया जिह्वया मृदून् स्निग्धान् श्लक्ष्णान् शब्दान् प्रयुङ्क्ते । लौकिकी विवक्षा यत्र प्रायस्य सम्प्रत्ययः । प्रायः इति लोकः व्यपदिश्यते । न च प्रासादः देवदत्तस्य स्यात् प्राकारः नगरस्य स्यात् इति अत्र उत्पद्यमानेन प्रत्ययेन प्रायस्य सम्प्रत्ययः स्यात् । यदि एवम् न अर्थः स्याद्ग्रहणेन । न हि प्रासादः देवदत्तस्य स्यात् प्राकारः नगरस्य स्यात् इति अत्र उत्पद्यमानेन प्रत्ययेन प्रायस्य सम्प्रत्ययः स्यात् ।
KA II.342.22-343.6 Ro IV.19-21 syādgrahaṇam kimartham . iha mā bhūt . prāsādaḥ devadattasya prākāraḥ nagarasya iti . atha kriyamāṇe api syādgrahaṇe iha kasmāt na bhavati . prāsādaḥ devadattasya syāt . prākāraḥ nagarasya syāt iti . śakyārthe liṅ iti vaktavyam . na evam śakyam . idānīm eva hi uktam na hi upādheḥ upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam iti . evam tarhi itikaraṇaḥ kriyate . tataḥ cet vivakṣā bhavati . vivakṣā ca dvayī . asti eva prāyoktrī vivakṣā asti laukikī . prayoktā hi mṛdvyā snigdhayā ślakṣṇayā jihvayā mṛdūn snigdhān ślakṣṇān śabdān prayuṅkte . laukikī vivakṣā yatra prāyasya sampratyayaḥ . prāyaḥ iti lokaḥ vyapadiśyate . na ca prāsādaḥ devadattasya syāt prākāraḥ nagarasya syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ syāt . yadi evam na arthaḥ syādgrahaṇena . na hi prāsādaḥ devadattasya syāt prākāraḥ nagarasya syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ syāt .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४३।८-३४४।१० रो इव्।२२-२५ किमर्थम् सङ्ख्यायाः पृथग्ग्रहणम् क्रियते न सङ्ख्या अपि परिमाणम् एव तत्र परिमाणपर्युदासेन पर्युदासः भविष्यति । एवम् तर्हि सिद्धे सति यत् सङ्ख्ययाः पृथग्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्या सङ्ख्या अन्यत् परिमाणम् इति । किम् एतस्य ज्ञापने प्रयोजनम् । अपरिमाणबिस्ताचितकम्बएल्भ्यः न तद्धितलुकि इति द्वाभ्याम् शताभ्याम् क्रीता द्विशता त्रिशता परिमाणपर्युदासेन न भवति इति । यदि एतत् ज्ञाप्यते तत् अस्य परिमाणम् सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु इति विशेषणम् न प्रकल्पते परिमाणम् या सङ्ख्या इति । इह च क्रीतवत् परिमाणत् इति सङ्ख्याविहितस्य प्रत्ययस्य अतिदेशः न प्रकल्पते । शतस्य विकारः शत्यः शतिकः । साहस्रः इति । यत् तावत् उच्यते तत् ज्ञापयति आचार्यः अन्या सङ्ख्या अन्यत् परिमाणम् इति । न्यायसिद्धम् एव एतत् । भेदमात्रम् सङ्ख्या आह । यत् च इषीकान्तम् यत् च अपरिमाणम् सर्वस्य सङ्ख्या भेदमात्रम् ब्रवीति । परिमाणम् तु सर्वतः । सर्वतः मानम् इति च अतः परिमाणम् इति । प्रस्थस्य च समानाकृतेः न कुतः चित् विशेषः गम्यते न च उन्मानतः न परिमाणतः न प्रमाणतः । किम् पुनः उन्मानम् किम् परिमाणम् किम् प्रमाणम् । ऊर्ध्वमानम् किल उन्मानम् । ऊर्ध्वम् यत् मीयते तत् उन्मानम् । परिमाणम् तु सर्वतः । सर्वतः मानम् इति च अतः परिमाणम् । कुत एतत् । परिः सर्वतोभावे वर्तते । आयामः तु प्रमाणम् स्यात् । आयामविवक्षायाम् प्रमाणम् इति एतत् भवति । सङ्ख्या बाह्या तु सर्वतः । आतः च सर्वतः सङ्ख्या बाह्या । भेदभावम् ब्रवीति एषा न एषा मानम् कुतः चन । एवम् च कृत्वा सङ्ख्यायाः पृथग्ग्रहणम् क्रियते । यत् अपि उच्यते तत् अस्य परिमाणम् सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु इति विशेषणम् न प्रकल्पते इति । आह अयम् परिमाणम् या सङ्ख्या इति । न च अस्ति सङ्ख्या परिमाणम् । तत्र वचनात् इयती विवक्षा भविष्यति । यद् अपि उच्यते क्रीतवत् परिमाणत् इति सङ्ख्याविहितस्य प्रत्ययस्य अतिदेशः न प्रकल्पते इति । सङ्ख्यायाः इति च तत्र वक्तव्यम् ।
KA II.343.8-344.10 Ro IV.22-25 kimartham saṅkhyāyāḥ pṛthaggrahaṇam kriyate na saṅkhyā api parimāṇam eva tatra parimāṇaparyudāsena paryudāsaḥ bhaviṣyati . evam tarhi siddhe sati yat saṅkhyayāḥ pṛthaggrahaṇam karoti tat jñāpayati ācāryaḥ anyā saṅkhyā anyat parimāṇam iti . kim etasya jñāpane prayojanam . aparimāṇabistācitakambaelbhyaḥ na taddhitaluki iti dvābhyām śatābhyām krītā dviśatā triśatā parimāṇaparyudāsena na bhavati iti . yadi etat jñāpyate tat asya parimāṇam saṅkhyāyāḥ sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate parimāṇam yā saṅkhyā iti . iha ca krītavat parimāṇat iti saṅkhyāvihitasya pratyayasya atideśaḥ na prakalpate . śatasya vikāraḥ śatyaḥ śatikaḥ . sāhasraḥ iti . yat tāvat ucyate tat jñāpayati ācāryaḥ anyā saṅkhyā anyat parimāṇam iti . nyāyasiddham eva etat . bhedamātram saṅkhyā āha . yat ca iṣīkāntam yat ca aparimāṇam sarvasya saṅkhyā bhedamātram bravīti . parimāṇam tu sarvataḥ . sarvataḥ mānam iti ca ataḥ parimāṇam iti . prasthasya ca samānākṛteḥ na kutaḥ cit viśeṣaḥ gamyate na ca unmānataḥ na parimāṇataḥ na pramāṇataḥ . kim punaḥ unmānam kim parimāṇam kim pramāṇam . ūrdhvamānam kila unmānam . ūrdhvam yat mīyate tat unmānam . parimāṇam tu sarvataḥ . sarvataḥ mānam iti ca ataḥ parimāṇam . kuta etat . pariḥ sarvatobhāve vartate . āyāmaḥ tu pramāṇam syāt . āyāmavivakṣāyām pramāṇam iti etat bhavati . saṅkhyā bāhyā tu sarvataḥ . ātaḥ ca sarvataḥ saṅkhyā bāhyā . bhedabhāvam bravīti eṣā na eṣā mānam kutaḥ cana . evam ca kṛtvā saṅkhyāyāḥ pṛthaggrahaṇam kriyate . yat api ucyate tat asya parimāṇam saṅkhyāyāḥ sañjñāsaṅghasūtrādhyayaneṣu iti viśeṣaṇam na prakalpate iti . āha ayam parimāṇam yā saṅkhyā iti . na ca asti saṅkhyā parimāṇam . tatra vacanāt iyatī vivakṣā bhaviṣyati . yad api ucyate krītavat parimāṇat iti saṅkhyāvihitasya pratyayasya atideśaḥ na prakalpate iti . saṅkhyāyāḥ iti ca tatra vaktavyam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४४।११-३४५।७ रो इव्।२५-२७ किम् पुनः इमे ठगादयः प्राक् अर्हात् भवन्ति आहोस्वित् सह अर्हेण । कः च अत्र विशेषः । ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः । ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः । अर्हे ठगादयः विधेयाः । शतम् अर्हति शत्यः शतिकः । साहरः इति । वस्ने वसनात् सिद्धम् । इह यः शतम् अर्हति शतम् तस्य वस्नः भवति । तत्र सः अस्य अंशवस्नभृतयः इति एव सिद्धम् । वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः । वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः । मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः । तथा गुणानाम् परिप्रश्नः भवति । किम् अयम् ब्राह्मणः अर्हति । शतम् अर्हति शत्यः शतिकः साहस्रः नैष्किकः इति न सिध्यति । सन्तु तर्हि सहार्हेण । आ अर्हात् चेत् भोजनादिषु अत्र्प्रसङ्गः । आ अर्हात् चेत् भोजनादिषु अत्र्प्रसङ्गः भवति । भोजनम् अर्हति । पानम् अर्हति इति । किम् उच्यते भोजनादिषु अत्र्प्रसङ्गः इति यदा छेदादिभ्यः इति उच्यते । अवश्यम् मांसौदनिकाद्यर्थम् योगविभागः कर्तव्यः । तत् अर्हति । ततः छेदादिभ्यः नित्यम् इति । तस्मिन् क्रियमाणे भोजनादिषु अत्र्प्रसङ्गः भवति । उक्तम् वा । किम् उक्तम् । अनभिधानात् इति । अनभिधानात् भोजनादिषु अतिप्रसङ्गः न भवति [र्: भविष्यति] । अथ वा योगविभागः न करिष्यते । कथम् मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः । अस्मिन् दीयते अस्मै इति च एवम् एतत् सिद्धम् । अथ वा पुनः अस्तु प्राक् अर्हात् । ननु च उक्तम् ठगादयः प्राक् अर्हात् चेत् अर्हे तद्विधिः इति । परिहृतम् एतत् वस्ने वचनात् सिद्धम् इति । ननु च उक्तम् वस्ने वचनात् सिद्धम् इति चेत् मांसौदनिकादिषु अप्राप्तिः । मांसौदनिकः अतिथिः श्वैतच्छत्रिकः कालायसूपिकः । तथा गुणानाम् परिप्रश्नः भवति । किम् अयम् ब्राह्मणः अर्हति । शतम् अर्हति शत्यः शतिकः साहस्रः नैष्किकः इति न सिध्यति । न एषः दोषः । अस्मिन् दीयते अस्मै इति च एवम् एतत् सिद्धम् ।
KA II.344.11-345.7 Ro IV.25-27 kim punaḥ ime ṭhagādayaḥ prāk arhāt bhavanti āhosvit saha arheṇa . kaḥ ca atra viśeṣaḥ . ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ . ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ . arhe ṭhagādayaḥ vidheyāḥ . śatam arhati śatyaḥ śatikaḥ . sāharaḥ iti . vasne vasanāt siddham . iha yaḥ śatam arhati śatam tasya vasnaḥ bhavati . tatra saḥ asya aṃśavasnabhṛtayaḥ iti eva siddham . vasne vacanāt siddham iti cet māṃsaudanikādiṣu aprāptiḥ . vasne vacanāt siddham iti cet māṃsaudanikādiṣu aprāptiḥ . māṃsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ . tathā guṇānām paripraśnaḥ bhavati . kim ayam brāhmaṇaḥ arhati . śatam arhati śatyaḥ śatikaḥ sāhasraḥ naiṣkikaḥ iti na sidhyati . santu tarhi sahārheṇa . ā arhāt cet bhojanādiṣu atrprasaṅgaḥ . ā arhāt cet bhojanādiṣu atrprasaṅgaḥ bhavati . bhojanam arhati . pānam arhati iti . kim ucyate bhojanādiṣu atrprasaṅgaḥ iti yadā chedādibhyaḥ iti ucyate . avaśyam māṃsaudanikādyartham yogavibhāgaḥ kartavyaḥ . tat arhati . tataḥ chedādibhyaḥ nityam iti . tasmin kriyamāṇe bhojanādiṣu atrprasaṅgaḥ bhavati . uktam vā . kim uktam . anabhidhānāt iti . anabhidhānāt bhojanādiṣu atiprasaṅgaḥ na bhavati [R: bhaviṣyati] . atha vā yogavibhāgaḥ na kariṣyate . katham māṃsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ . asmin dīyate asmai iti ca evam etat siddham . atha vā punaḥ astu prāk arhāt . nanu ca uktam ṭhagādayaḥ prāk arhāt cet arhe tadvidhiḥ iti . parihṛtam etat vasne vacanāt siddham iti . nanu ca uktam vasne vacanāt siddham iti cet māṃsaudanikādiṣu aprāptiḥ . māṃsaudanikaḥ atithiḥ śvaitacchatrikaḥ kālāyasūpikaḥ . tathā guṇānām paripraśnaḥ bhavati . kim ayam brāhmaṇaḥ arhati . śatam arhati śatyaḥ śatikaḥ sāhasraḥ naiṣkikaḥ iti na sidhyati . na eṣaḥ doṣaḥ . asmin dīyate asmai iti ca evam etat siddham .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४५।९-२५ रो इव्। २७-२९ असमासे इति किमर्थम् । परमनिष्केण क्रीतम् परमनैष्किकम् । न एतत् अस्ति । निष्कशब्दात् प्रत्ययः विधीयते । तत्र कः प्रसङ्गः यत् परमनिष्कशब्दात् स्यात् । न एव प्राप्नोति न अर्थः प्रतिषेधेन । तदन्तविधिना प्राप्नोति । ग्रहणवता प्रातिपदिकेन तदन्तिविधिः प्रतिषिध्यते । निष्कादिषु असमासग्रहणम् ज्ञापकम् पूर्वत्र तदन्ताप्रतिषेधस्य । निष्कादिषु असमासग्रहणम् क्रियते ज्ञापकार्थम् । किम् ज्ञाप्यम् । पूर्वत्र तदन्त्विधेः प्रतिषेधः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । प्राक् वतेः ठञ् इति अत्र तदन्तविधिः सिद्धः भवति । न एतत् अस्ति प्रयोजनम् । ग्रहणवता प्रातिपदिकेन तदन्तिविधिः प्रतिषिध्यते । न च ठञ्विधौ का चित् प्रकृतिः गृह्यते । इदम् तर्हि प्रयोजनम् । आ अर्हात् अगोपुच्छसङ्ख्यापरिमाणात् ठक् । परमगोपुच्छेन क्रीतम् पारमगोपुच्छिकम् । अत्र तदन्तविधिः सिद्धः भवति । एतत् अपि न अस्ति प्रयोजनम् । विधौ प्रतिषेधः प्रतिषेधः च अयम् । एवम् तर्हि ज्ञापयति आचार्यः इतः उत्तरम् तदन्तविधेः प्रतिषेधः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । पार्याणतुरायणचान्द्रायणम् वर्तयति द्वैपारायणिकः त्रैपारायणिकः । अत्र तदन्तविधिः सिद्धः भवति । एतत् अपि न अस्ति प्रयोजनम् । वक्ष्यति एतत् । प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि । पूर्वत्र एव तर्हि प्रयोजनम् । खलयवमाषतिलवृषब्रह्मणः च इति । कृष्णतिलेभ्यः हितः कृष्णतिल्यः । राजमाषेभ्यः हितम् राजमाष्यम् ।
KA II.345.9-25 Ro IV. 27-29 asamāse iti kimartham . paramaniṣkeṇa krītam paramanaiṣkikam . na etat asti . niṣkaśabdāt pratyayaḥ vidhīyate . tatra kaḥ prasaṅgaḥ yat paramaniṣkaśabdāt syāt . na eva prāpnoti na arthaḥ pratiṣedhena . tadantavidhinā prāpnoti . grahaṇavatā prātipadikena tadantividhiḥ pratiṣidhyate . niṣkādiṣu asamāsagrahaṇam jñāpakam pūrvatra tadantāpratiṣedhasya . niṣkādiṣu asamāsagrahaṇam kriyate jñāpakārtham . kim jñāpyam . pūrvatra tadantvidheḥ pratiṣedhaḥ na bhavati iti . kim etasya jñāpane prayojanam . prāk vateḥ ṭhañ iti atra tadantavidhiḥ siddhaḥ bhavati . na etat asti prayojanam . grahaṇavatā prātipadikena tadantividhiḥ pratiṣidhyate . na ca ṭhañvidhau kā cit prakṛtiḥ gṛhyate . idam tarhi prayojanam . ā arhāt agopucchasaṅkhyāparimāṇāt ṭhak . paramagopucchena krītam pāramagopucchikam . atra tadantavidhiḥ siddhaḥ bhavati . etat api na asti prayojanam . vidhau pratiṣedhaḥ pratiṣedhaḥ ca ayam . evam tarhi jñāpayati ācāryaḥ itaḥ uttaram tadantavidheḥ pratiṣedhaḥ na bhavati iti . kim etasya jñāpane prayojanam . pāryāṇaturāyaṇacāndrāyaṇam vartayati dvaipārāyaṇikaḥ traipārāyaṇikaḥ . atra tadantavidhiḥ siddhaḥ bhavati . etat api na asti prayojanam . vakṣyati etat . prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki . pūrvatra eva tarhi prayojanam . khalayavamāṣatilavṛṣabrahmaṇaḥ ca iti . kṛṣṇatilebhyaḥ hitaḥ kṛṣṇatilyaḥ . rājamāṣebhyaḥ hitam rājamāṣyam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४६।१-४ रो इव्।२९-३० प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि । प्राक् वतेः सङ्ख्यापूर्वपदानाम् तदन्तग्रहणम् अलुकि कर्तव्यम् । पार्याणतुरायणचान्द्रायणम् वर्तयति द्वैपारायणिकः त्रैपारायणिकः । अलुकि इति किमर्थम् । द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् । त्रिशूर्पम् । द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् । त्रैशौर्पिकम् ।
KA II.346.1-4 Ro IV.29-30 prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki . prāk vateḥ saṅkhyāpūrvapadānām tadantagrahaṇam aluki kartavyam . pāryāṇaturāyaṇacāndrāyaṇam vartayati dvaipārāyaṇikaḥ traipārāyaṇikaḥ . aluki iti kimartham . dvābhyām śūrpābhyām krītam dviśūrpam . triśūrpam . dviśūrpeṇa krītam dvaiśaurpikam . traiśaurpikam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४६।६-८ रो इव्।३०-३१ शतप्रतिषेधे अन्यशतत्वे अप्रतिषेधः । शतप्रतिषेधे अन्यशतत्वे प्रतिषेधः न भवति इति वक्तव्यम्। इह मा भूत् । शतेन क्रीतम् शत्यम् शाटकशतम् इति । अन्यशतत्वे इति किम् । शतकम् निदानम् ।
KA II.346.6-8 Ro IV.30-31 śatapratiṣedhe anyaśatatve apratiṣedhaḥ . śatapratiṣedhe anyaśatatve pratiṣedhaḥ na bhavati iti vaktavyam. iha mā bhūt . śatena krītam śatyam śāṭakaśatam iti . anyaśatatve iti kim . śatakam nidānam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४६।१०-१८ रो इव्।३१-३२ डतेः च इति वक्तव्यम् इह अपि यथा स्यात् । कतिभिः क्रीतम् कतिकम् । किम् पुनः कारणम् न सिध्यति । त्यन्तायाः न इति प्रतिषेधः प्राप्नोति । तिप्रतिषेधात् डतिग्रहणम् इति चेत् अर्थवद्ग्रहणात् सिद्धम् । अर्थवतः तिशब्दस्य ग्रहणम् न च डतेः तिशब्दः अर्थवान् । न एषा परिभाषा इह शक्या विज्ञातुम् । न हि केवलेन प्रत्ययेन अर्थः गम्यते । केन तर्हि । सप्रकृतिकेन । क्व तर्हि एषा परिभाषा भवति । यानि एतानि शब्दसङ्घातग्रहणानि । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अर्थवद्ग्रहणात् सिद्धम् । ननु च उक्तम् न एषा परिभाषा इह शक्या विज्ञातुम् । न हि केवलेन प्रत्ययेन अर्थः गम्यते इति । केवलेन अपि प्रत्ययेन अर्थः गम्यते । कथम् । उक्तम् अन्वयव्यतिरेकाभ्याम् ।
KA II.346.10-18 Ro IV.31-32 ḍateḥ ca iti vaktavyam iha api yathā syāt . katibhiḥ krītam katikam . kim punaḥ kāraṇam na sidhyati . tyantāyāḥ na iti pratiṣedhaḥ prāpnoti . tipratiṣedhāt ḍatigrahaṇam iti cet arthavadgrahaṇāt siddham . arthavataḥ tiśabdasya grahaṇam na ca ḍateḥ tiśabdaḥ arthavān . na eṣā paribhāṣā iha śakyā vijñātum . na hi kevalena pratyayena arthaḥ gamyate . kena tarhi . saprakṛtikena . kva tarhi eṣā paribhāṣā bhavati . yāni etāni śabdasaṅghātagrahaṇāni . tat tarhi vaktavyam . na vaktavyam . arthavadgrahaṇāt siddham . nanu ca uktam na eṣā paribhāṣā iha śakyā vijñātum . na hi kevalena pratyayena arthaḥ gamyate iti . kevalena api pratyayena arthaḥ gamyate . katham . uktam anvayavyatirekābhyām .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४६।२०-३४७।८ रो इव्।३२-३३ कस्य अयम् इट् विधीयते । कनः इति आह । तत् कनः ग्रहणम् कर्तव्यम् । अक्रियमाणे हि कनः ग्रहणे प्रत्ययाधिकारात् प्रत्ययः अयम् विज्ञायेत । टित्करणसामर्थ्यात् आदिः भविष्यति । अस्ति अन्यत् टित्करणे प्रयोजनम् । टितः इति ईकारः यथा स्यात् । अकारान्तप्रकरणे ईकारः न च एषः अकारान्तः । एवम् अपि कुतः एतत् टित्करणसामर्थ्यात् आदिः भविष्यति न पुनः अकारान्तप्रकरणे सति अनकारान्तात् अपि ईकारः स्यात् । तस्मात् कणः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । सङ्ख्यायाः अतिशदन्तायाः कन् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । वतोः इति एषा पञ्चमी कन् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । प्रत्ययविधिः अयम् । न च प्रत्ययविधौ पञ्चम्याः प्रकल्पिकाः भवन्ति । न अयम् प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।
KA II.346.20-347.8 Ro IV.32-33 kasya ayam iṭ vidhīyate . kanaḥ iti āha . tat kanaḥ grahaṇam kartavyam . akriyamāṇe hi kanaḥ grahaṇe pratyayādhikārāt pratyayaḥ ayam vijñāyeta . ṭitkaraṇasāmarthyāt ādiḥ bhaviṣyati . asti anyat ṭitkaraṇe prayojanam . ṭitaḥ iti īkāraḥ yathā syāt . akārāntaprakaraṇe īkāraḥ na ca eṣaḥ akārāntaḥ . evam api kutaḥ etat ṭitkaraṇasāmarthyāt ādiḥ bhaviṣyati na punaḥ akārāntaprakaraṇe sati anakārāntāt api īkāraḥ syāt . tasmāt kaṇaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . saṅkhyāyāḥ atiśadantāyāḥ kan iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . vatoḥ iti eṣā pañcamī kan iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . pratyayavidhiḥ ayam . na ca pratyayavidhau pañcamyāḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४७।१०-१४ रो इव्।३३-३४ असञ्ज्ञायाम् इति किमर्थम् । त्रिंशत्कः विंशत्कः । कथम् च अत्र कन् भवति । सङ्ख्यायाः कन् भवति इति । अतिशदन्तायाः इति प्रतिषेधः प्राप्नोति । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति अत्र कन् इति यत् अयम् विंशतिकात् खः इति प्रत्ययान्तनिपातनम् करोति । विंशतेः एतत् ज्ञापकम् स्यात् । न इति आह । योगापेक्षम् ज्ञापकम् । अथ वा योगविभागः करिष्यते । विंशतित्रिंशभ्याम् कन् भवति इति । ततः ड्वुन् असञ्ज्ञायाम् इति ।
KA II.347.10-14 Ro IV.33-34 asañjñāyām iti kimartham . triṃśatkaḥ viṃśatkaḥ . katham ca atra kan bhavati . saṅkhyāyāḥ kan bhavati iti . atiśadantāyāḥ iti pratiṣedhaḥ prāpnoti . evam tarhi ācāryapravṛttiḥ jñāpayati bhavati atra kan iti yat ayam viṃśatikāt khaḥ iti pratyayāntanipātanam karoti . viṃśateḥ etat jñāpakam syāt . na iti āha . yogāpekṣam jñāpakam . atha vā yogavibhāgaḥ kariṣyate . viṃśatitriṃśabhyām kan bhavati iti . tataḥ ḍvun asañjñāyām iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४७।१६-२० रो इव्।३४ टिथन् अर्धात् च । टिथन् अर्धात् च इति वक्तव्यम् । अर्धिकः अर्धिकी । कार्षापणात् वा प्रतिः च । कार्षापणात् टिठन् वक्तव्यः वा च प्रतिः आदेशः वक्तव्यः । कार्षापणिकः कार्षापणिकी प्रतिकः प्रतिकी ।
KA II.347.16-20 Ro IV.34 ṭithan ardhāt ca . ṭithan ardhāt ca iti vaktavyam . ardhikaḥ ardhikī . kārṣāpaṇāt vā pratiḥ ca . kārṣāpaṇāt ṭiṭhan vaktavyaḥ vā ca pratiḥ ādeśaḥ vaktavyaḥ . kārṣāpaṇikaḥ kārṣāpaṇikī pratikaḥ pratikī .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४७।२२-३४९।४ रो इव्।३५-३७ द्विगोः लुकि उक्तम् । किम् उक्तम् । तत्र तावत् उक्तम् द्विगोः लुकि तन्निमित्तग्रहणम्। अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति । इह अपि द्विगोः लुकि तन्निमित्तग्रहणम् कर्तव्यम् । द्विगोः निमित्तम् यः तद्धितः तस्य लुक् भवति इति वक्तव्यम् । इह मा भूत् । द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् । त्रिशूर्पम् । द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् । त्रैशौर्पिकम् । अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि । अर्थविशेषस्य असम्प्रत्यये अतन्निमित्तात् अपि वक्तव्यम् । किम् प्रयोजनम् । द्वयोः शूर्पयोः समाहारः द्विशूर्पी । द्विशूर्प्या क्रीतम् इति विगृह्य द्विशूर्पम् इति एव यथा स्यात् । अथ क्रियमाणे अपि तन्निमित्तग्रहणे कथम् इदम् विज्ञायते । तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति आहोस्वित् सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति । किम् च अतः । यदि विज्ञायते तस्य निमित्तम् तन्निमित्तम् तन्निमित्तात् इति क्रियमाणे अपि तन्निमित्तग्रहणे अत्र प्राप्नोति । द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् । त्रिशूर्पम् । द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् । त्रैशौर्पिकम् । अथ विज्ञायते सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति न दोषः भवति । यथ न दोषः तथा अस्तु । सः निमित्तम् अस्य सः अयम् तन्निमित्तः तन्निमित्तात् इति विज्ञायते । कुतः एतत् । यत् अयम् आह अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति । तत् तर्हि तन्निमित्तग्रहणम् कर्तव्यम् । न कर्तव्यम् । द्विगोः इति न एषा पञ्चमी । का तर्हि । सम्बन्धषष्ठी । द्विगोः तद्धितस्य लुक् भवति । किम् च द्विगोः तद्धितः । निमित्तम् । यस्मिन् द्विगुः इति एतत् भवति । कस्मिन् च एतत् भवति । प्रत्यये । इदम् तर्हि वक्तव्यम् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति । एतत् च न वक्तव्यम् । इह अस्माभिः त्रैशब्द्यम् साध्यम् । द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् । त्रिशूर्पम् । द्विशूर्पेण क्रीतम् द्वैशौर्पिकम् । त्रैशौर्पिकम् इति । तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरस्मात् उत्पत्तिः भविष्यति अविरविकन्यायेन । तत् यथा । अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति । एवम् इह अपि द्वाभ्याम् शूर्पाभ्याम् क्रीतम् इति विगृह्य द्विशूर्पम् इति भविष्यति । द्विशूर्प्या क्रीतम् इति विगृह्य वाक्यम् एव भविष्यति । अथ असञ्ज्ञायाम् इति किमर्थम् । पाञ्चलोहितिकम् पाञ्चकलापिकम् । सञ्ज्ञाप्रतिषेधानर्थक्यम् च तन्निमित्तत्वात् लोपस्य । सञ्ज्ञाप्रतिषेधः च अनर्थकः । किम् कारणम् । तन्निमित्तत्वात् लोपस्य । न अन्तरेण तद्धितम् तद्धितस्य च लुकम् द्विगुः सञ्ज्ञा अस्ति । यः तस्मात् उत्पद्यते न असु तन्निमित्तम् स्यात् । एवम् तर्हि इदम् स्यात् । पञ्चानाम् लोहितानाम् समाहारः पञ्चलोहिती पञ्चलोहित्या क्रीतम् । अत्र अपि पञ्चलोहितम् इति एव भवितव्यम् । कथम् । उक्तम् हि एतत् अर्थविशेषासम्प्रत्यये अतन्निमित्तात् अपि इति । उक्तम् सङ्ख्यात्वे प्रयोजनम् तस्मात् इह अध्यर्धग्रहणानर्थक्यम् । उक्तम् सङ्ख्यात्वे अध्यर्धग्रहणस्य प्रयोजनम् । किम् उक्तम् । अध्यर्धग्रहणम् च समासकन्विध्यर्थम् लुकि च अग्रहणम् इति । तस्मात् इह अध्यर्धग्रहणानर्थक्यम् । तस्मात् इह अध्यर्धग्रहणम् अनर्थकम् । द्विगोः इति एव लुक् सिद्धः ।
KA II.347.22-349.4 Ro IV.35-37 dvigoḥ luki uktam . kim uktam . tatra tāvat uktam dvigoḥ luki tannimittagrahaṇam. arthaviśeṣāsampratyaye atannimittāt api iti . iha api dvigoḥ luki tannimittagrahaṇam kartavyam . dvigoḥ nimittam yaḥ taddhitaḥ tasya luk bhavati iti vaktavyam . iha mā bhūt . dvābhyām śūrpābhyām krītam dviśūrpam . triśūrpam . dviśūrpeṇa krītam dvaiśaurpikam . traiśaurpikam . arthaviśeṣāsampratyaye atannimittāt api . arthaviśeṣasya asampratyaye atannimittāt api vaktavyam . kim prayojanam . dvayoḥ śūrpayoḥ samāhāraḥ dviśūrpī . dviśūrpyā krītam iti vigṛhya dviśūrpam iti eva yathā syāt . atha kriyamāṇe api tannimittagrahaṇe katham idam vijñāyate . tasya nimittam tannimittam tannimittāt iti āhosvit saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti . kim ca ataḥ . yadi vijñāyate tasya nimittam tannimittam tannimittāt iti kriyamāṇe api tannimittagrahaṇe atra prāpnoti . dvābhyām śūrpābhyām krītam dviśūrpam . triśūrpam . dviśūrpeṇa krītam dvaiśaurpikam . traiśaurpikam . atha vijñāyate saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti na doṣaḥ bhavati . yatha na doṣaḥ tathā astu . saḥ nimittam asya saḥ ayam tannimittaḥ tannimittāt iti vijñāyate . kutaḥ etat . yat ayam āha arthaviśeṣāsampratyaye atannimittāt api iti . tat tarhi tannimittagrahaṇam kartavyam . na kartavyam . dvigoḥ iti na eṣā pañcamī . kā tarhi . sambandhaṣaṣṭhī . dvigoḥ taddhitasya luk bhavati . kim ca dvigoḥ taddhitaḥ . nimittam . yasmin dviguḥ iti etat bhavati . kasmin ca etat bhavati . pratyaye . idam tarhi vaktavyam arthaviśeṣāsampratyaye atannimittāt api iti . etat ca na vaktavyam . iha asmābhiḥ traiśabdyam sādhyam . dvābhyām śūrpābhyām krītam dviśūrpam . triśūrpam . dviśūrpeṇa krītam dvaiśaurpikam . traiśaurpikam iti . tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ aparasmāt utpattiḥ bhaviṣyati aviravikanyāyena . tat yathā . aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati . evam iha api dvābhyām śūrpābhyām krītam iti vigṛhya dviśūrpam iti bhaviṣyati . dviśūrpyā krītam iti vigṛhya vākyam eva bhaviṣyati . atha asañjñāyām iti kimartham . pāñcalohitikam pāñcakalāpikam . sañjñāpratiṣedhānarthakyam ca tannimittatvāt lopasya . sañjñāpratiṣedhaḥ ca anarthakaḥ . kim kāraṇam . tannimittatvāt lopasya . na antareṇa taddhitam taddhitasya ca lukam dviguḥ sañjñā asti . yaḥ tasmāt utpadyate na asu tannimittam syāt . evam tarhi idam syāt . pañcānām lohitānām samāhāraḥ pañcalohitī pañcalohityā krītam . atra api pañcalohitam iti eva bhavitavyam . katham . uktam hi etat arthaviśeṣāsampratyaye atannimittāt api iti . uktam saṅkhyātve prayojanam tasmāt iha adhyardhagrahaṇānarthakyam . uktam saṅkhyātve adhyardhagrahaṇasya prayojanam . kim uktam . adhyardhagrahaṇam ca samāsakanvidhyartham luki ca agrahaṇam iti . tasmāt iha adhyardhagrahaṇānarthakyam . tasmāt iha adhyardhagrahaṇam anarthakam . dvigoḥ iti eva luk siddhaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४९।६-९ रो इव्।३७ कार्षापणसहस्राभ्याम् सुवर्णशतमानयोः उपसङ्ख्यानम् कर्तव्यम् । अध्यर्धसुवर्णम् अध्यर्धसौवर्णिकम् अध्यर्धशतमानम् अध्यर्धशातमानम् द्विशतमानम् द्विशातमानम्
KA II.349.6-9 Ro IV.37 kārṣāpaṇasahasrābhyām suvarṇaśatamānayoḥ upasaṅkhyānam kartavyam . adhyardhasuvarṇam adhyardhasauvarṇikam adhyardhaśatamānam adhyardhaśātamānam dviśatamānam dviśātamānam
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४९।१२-१८ रो इव्।३७-३८ द्वित्रिभ्याम् द्वैयोग्यम् । द्वित्रिभ्याम् इति यत् उच्यते द्वैयोग्यम् एतत् द्रष्टव्यम् । किम् इदम् द्वैयोग्यम् इति । द्वयोः योगयोः भवम् द्वियोगम् । द्वियोगस्य भावः द्वैयोग्यम् इति । द्वेष्यम् विजानीयात् : अविशेषेण इतः उत्तरम् द्वित्रिभ्याम् इति । तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : द्वित्रिभ्याम् द्वैयोग्यम् इति । तत्र च बहुग्रहणम् । तत्र च बहुग्रहणम् कर्तव्यम् । बहुनिष्कम् बहुनैष्किकम् । बहुबिस्तम् बहुबैस्तिकम् ।
KA II.349.12-18 Ro IV.37-38 dvitribhyām dvaiyogyam . dvitribhyām iti yat ucyate dvaiyogyam etat draṣṭavyam . kim idam dvaiyogyam iti . dvayoḥ yogayoḥ bhavam dviyogam . dviyogasya bhāvaḥ dvaiyogyam iti . dveṣyam vijānīyāt : aviśeṣeṇa itaḥ uttaram dvitribhyām iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : dvitribhyām dvaiyogyam iti . tatra ca bahugrahaṇam . tatra ca bahugrahaṇam kartavyam . bahuniṣkam bahunaiṣkikam . bahubistam bahubaistikam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३४९।२०-३५०।४ रो इव्।३८ खार्याः ईकन् केवलायाः च । खार्याः ईकन् केवलायाः च इति वक्तव्यम् । खारीकम् । काकिण्याः च उपसङ्ख्यानम् ।काकिण्याः च उपसङ्ख्यानम् कर्तव्यम् । अध्यर्धकाकिणीकम् द्विकाकिणीकम् । केवलायाः च । केवलायाः च इति वक्तव्यम् । काकिणीकम् ।
KA II.349.20-350.4 Ro IV.38 khāryāḥ īkan kevalāyāḥ ca . khāryāḥ īkan kevalāyāḥ ca iti vaktavyam . khārīkam . kākiṇyāḥ ca upasaṅkhyānam .kākiṇyāḥ ca upasaṅkhyānam kartavyam . adhyardhakākiṇīkam dvikākiṇīkam . kevalāyāḥ ca . kevalāyāḥ ca iti vaktavyam . kākiṇīkam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५०।६-११ रो इव्।३८-३९ शतशाणाभ्याम् वा । शतशाणाभ्याम् वा इति वक्तव्यम् । अध्यर्धशतम् अध्यर्धशत्यम् पञ्चशतम् पञ्चशत्यम् अध्यर्धशाणम् अध्यर्धशाण्यम् पञ्चशाणम् पञ्चशाण्यम् । द्वित्रिपूर्वात् अण् च । द्वित्रिपूर्वात् अण् च इति वक्तव्यम् । द्विशाणम् त्रिशाणम् द्वैशाणम् त्रैशाणम् द्विशाण्यम् त्रिशाण्यम् ।
KA II.350.6-11 Ro IV.38-39 śataśāṇābhyām vā . śataśāṇābhyām vā iti vaktavyam . adhyardhaśatam adhyardhaśatyam pañcaśatam pañcaśatyam adhyardhaśāṇam adhyardhaśāṇyam pañcaśāṇam pañcaśāṇyam . dvitripūrvāt aṇ ca . dvitripūrvāt aṇ ca iti vaktavyam . dviśāṇam triśāṇam dvaiśāṇam traiśāṇam dviśāṇyam triśāṇyam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५०।१३-३५१।६ रो इव्।३९-४० तेन क्रीतम् इति करणात् । तेन क्रीतम् इति अत्र करणात् इति वक्तव्यम् । इह मा भूत् । देवदत्तेन क्रीतम् । यज्ञदत्तेन क्रीतम् इति । अकर्त्रेकान्तात् । अकर्त्रेकान्तात् इति वक्तव्यम् । इह मा भूत् । देवदत्तेन पाणिना क्रीतम् इति । सङ्ख्यैकवचनात् द्विगोः च उपसङ्ख्यानम् । सङ्ख्यायाः इति वक्तव्यम् । इह अपि यथा स्यात् । पञ्चभिः क्रीतम् पञ्चकम् । किम् पुनः कारणम् न सिध्यति । एकवचनान्तात् इति वक्ष्यति । तस्य अयम् पुरस्तात् अपकर्षः । एकवचनात् । एकवचनान्तात् इति वक्तव्यम् । इह मा भूत् । शूर्पाभ्याम् क्रीतम् । शूर्पैः क्रीतम् इति । द्विगोः च । द्विगोः च इति वक्तव्यम् । इह अपि यथा स्यात् । द्वाभ्याम् शूर्पाभ्याम् क्रीतम् द्विशूर्पम् त्रिशूर्पम् इति । यदि एकवचनान्तात् इति उच्यते मुद्गैः क्रीतम् मौद्गिकम् माषैः क्रीतम् माषिकम् इति न सिध्यति । परिमाणस्य सङ्ख्यायाः यत् एकवचनम् तदन्तात् इति वक्तव्यम् । तत् तर्हि एकवचनान्तात् इति वक्तव्यम् । तस्मिन् च क्रियमाणे बहु वक्तव्यम् भवति । न वक्तव्यम् । कस्मात् न भवति शूर्पाभ्याम् क्रीतम् । शूर्पैः क्रीतम् इति । उक्तम् वा । किम् उक्तम् । अनभिधानात् इति । यदि एवम् करणात् अकर्त्रेकान्तात् इति अपि न वक्तव्यम् । कर्तुः कर्त्रेकान्तात् वा कस्मात् न भवति । अनभिधानात् ।
KA II.350.13-351.6 Ro IV.39-40 tena krītam iti karaṇāt . tena krītam iti atra karaṇāt iti vaktavyam . iha mā bhūt . devadattena krītam . yajñadattena krītam iti . akartrekāntāt . akartrekāntāt iti vaktavyam . iha mā bhūt . devadattena pāṇinā krītam iti . saṅkhyaikavacanāt dvigoḥ ca upasaṅkhyānam . saṅkhyāyāḥ iti vaktavyam . iha api yathā syāt . pañcabhiḥ krītam pañcakam . kim punaḥ kāraṇam na sidhyati . ekavacanāntāt iti vakṣyati . tasya ayam purastāt apakarṣaḥ . ekavacanāt . ekavacanāntāt iti vaktavyam . iha mā bhūt . śūrpābhyām krītam . śūrpaiḥ krītam iti . dvigoḥ ca . dvigoḥ ca iti vaktavyam . iha api yathā syāt . dvābhyām śūrpābhyām krītam dviśūrpam triśūrpam iti . yadi ekavacanāntāt iti ucyate mudgaiḥ krītam maudgikam māṣaiḥ krītam māṣikam iti na sidhyati . parimāṇasya saṅkhyāyāḥ yat ekavacanam tadantāt iti vaktavyam . tat tarhi ekavacanāntāt iti vaktavyam . tasmin ca kriyamāṇe bahu vaktavyam bhavati . na vaktavyam . kasmāt na bhavati śūrpābhyām krītam . śūrpaiḥ krītam iti . uktam vā . kim uktam . anabhidhānāt iti . yadi evam karaṇāt akartrekāntāt iti api na vaktavyam . kartuḥ kartrekāntāt vā kasmāt na bhavati . anabhidhānāt .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५१।८-१४ रो इव्।४०-४१ संयोगनिपातयोः कः विशेषः । संयोगः नाम सः भवति इदम् कृत्वा इदम् अवाप्यते इति । उत्पातः नाम सः भवति यादृच्छिकः भेदः वा छेदः वा पद्मम् वा पर्णम् वा । तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमकोपनयोः उपसङ्ख्यानम् । तस्यनिमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमकोपनयोः उपसङ्ख्यानम् कर्तव्यम् । वातस्य शमनम् कोपनम् वा वातिकम् । पैत्तिकम् श्लैष्मिकम् । सन्निपातात् च । सन्निपातात् च इति वक्तव्यम् । सान्निपातिकम् ।
KA II.351.8-14 Ro IV.40-41 saṃyoganipātayoḥ kaḥ viśeṣaḥ . saṃyogaḥ nāma saḥ bhavati idam kṛtvā idam avāpyate iti . utpātaḥ nāma saḥ bhavati yādṛcchikaḥ bhedaḥ vā chedaḥ vā padmam vā parṇam vā . tasyanimittaprakaraṇe vātapittaśleṣmabhyaḥ śamakopanayoḥ upasaṅkhyānam . tasyanimittaprakaraṇe vātapittaśleṣmabhyaḥ śamakopanayoḥ upasaṅkhyānam kartavyam . vātasya śamanam kopanam vā vātikam . paittikam ślaiṣmikam . sannipātāt ca . sannipātāt ca iti vaktavyam . sānnipātikam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५१।१६-१८ रो इव्।४१ यत्प्रकरणे ब्रह्मवर्चसात् च । यत्प्रकरणे ब्रह्मवर्चसात् च उपसङ्ख्यानम् कर्तव्यम् । ब्रह्मवर्चसस्य निमित्तम् ब्रह्म्वर्चस्यः । उत्पातः वा ।
KA II.351.16-18 Ro IV.41 yatprakaraṇe brahmavarcasāt ca . yatprakaraṇe brahmavarcasāt ca upasaṅkhyānam kartavyam . brahmavarcasasya nimittam brahmvarcasyaḥ . utpātaḥ vā .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५१।२०-३५२।२ रो इव्।४१ तद् अस्मिन् दीयते अस्मै इति च । तद् अस्मिन् दीयते अस्मै इति च इति वक्तव्यम् । पञ्च वृद्धिः वा आयः वा लाभः वा शुल्कः वा उपदा वा दीयते अस्मै पञ्चकः । सप्तकः । अष्टकः । नवकः । दशकः । तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । यत् हि यस्मै दीयते तस्मिन् अपि तत् दीयते । तत् अस्मिन् दीयते इति एव सिद्धम् ।
KA II.351.20-352.2 Ro IV.41 tad asmin dīyate asmai iti ca . tad asmin dīyate asmai iti ca iti vaktavyam . pañca vṛddhiḥ vā āyaḥ vā lābhaḥ vā śulkaḥ vā upadā vā dīyate asmai pañcakaḥ . saptakaḥ . aṣṭakaḥ . navakaḥ . daśakaḥ . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . yat hi yasmai dīyate tasmin api tat dīyate . tat asmin dīyate iti eva siddham .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५२।४-८ रो इव्।४१-४२ ठन्प्रकरणे अनन्तात् उपसङ्ख्यानम् । ठन्प्रकरणे अनन्तात् उपसङ्ख्यानम् कर्तव्यम् । द्वितीयकः । तृतीयकः । किम् पुनः कारणम् न सिध्यति । पूरणात् इति उच्यते । न च एतत् पूरणान्तम् । अना एतत् पर्यवपन्नम् । पूरणम् नाम अर्थः । तम् अर्थम् आह तीयशब्दः । पूरणम् सः असौ भवति । पूरणन्तात् स्वार्थे भागे अन् । सः अपि पूरणम् भवति एव ।
KA II.352.4-8 Ro IV.41-42 ṭhanprakaraṇe anantāt upasaṅkhyānam . ṭhanprakaraṇe anantāt upasaṅkhyānam kartavyam . dvitīyakaḥ . tṛtīyakaḥ . kim punaḥ kāraṇam na sidhyati . pūraṇāt iti ucyate . na ca etat pūraṇāntam . anā etat paryavapannam . pūraṇam nāma arthaḥ . tam artham āha tīyaśabdaḥ . pūraṇam saḥ asau bhavati . pūraṇantāt svārthe bhāge an . saḥ api pūraṇam bhavati eva .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५२।१०-११ रो इव्।४२ तत् पचति इति द्रोणात् अण् च । तत् पचति इति द्रोणात् अण् च इति वक्तव्यम् । द्रोणम् पचति । द्रौणी । द्रौणिकी ।
KA II.352.10-11 Ro IV.42 tat pacati iti droṇāt aṇ ca . tat pacati iti droṇāt aṇ ca iti vaktavyam . droṇam pacati . drauṇī . drauṇikī .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५२।१३-१५ रो इव्।४२-४३ कुलिजात् च इति सिद्धे लुक्खग्रहणानर्थक्यम् पूर्व्समिन् त्रिकभावात् । कुलिजात् च इति एव सिद्धम् । न अर्थः लुक्खग्रहणेन । किम् कारणम् । पूर्वस्मिन् त्रिकभावात् । पूर्वस्मिन् योगे सर्वः एषः त्रिकः निर्दिश्यते । द्व्याढकी । द्व्याढिकी । द्व्याढकीना ।
KA II.352.13-15 Ro IV.42-43 kulijāt ca iti siddhe lukkhagrahaṇānarthakyam pūrvsamin trikabhāvāt . kulijāt ca iti eva siddham . na arthaḥ lukkhagrahaṇena . kim kāraṇam . pūrvasmin trikabhāvāt . pūrvasmin yoge sarvaḥ eṣaḥ trikaḥ nirdiśyate . dvyāḍhakī . dvyāḍhikī . dvyāḍhakīnā .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५५।२-३५७।८ रो इव्।४६-५६ इमे विंशत्यादयः सप्रकृतिकाः सप्रत्ययकाः निपात्यन्ते । तत्र न ज्ञायते का प्रकृतिः कः प्रत्ययः कः प्रत्ययार्थः इति । तत्र वक्तव्यम् इयम् प्रकृतिः अयम् प्रत्ययः अयम् प्रत्ययार्थः इति । इमे ब्रूमः द्विशब्दात् अयम् दशदर्थाभिदाहिनः स्वार्थे शतिच्प्रत्ययः निपात्यते विन्भावः च । द्वौ दशतौ विंशतिः । विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः । विंशत्यादयः दशात् चेत् समासः न उपपद्यते । विंशतिगवम् इति । किम् कारणम् । द्रव्यम् अनभिहितम् । तस्य अनभिहितत्वात् षष्ठी प्राप्नोति । षष्ठ्यन्तम् च समासे पूर्वम् निपतति । तत्र गोविंशतिः इति प्राप्नोति । न च एवम् भवितव्यम् । भवितव्यम् च विंशतिगवम् तु न सिध्यति । इह च त्रिंशत्पूली चत्वारिंशत्पूली समानाधिकरणलक्षणः समासः न प्राप्नोति । वचनम् च विधेयम् । विंशतिः । द्वित्वात् दशतोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति । एवम् तर्हि परिमाणिनि विंशत्यादयः भविष्यन्ति । परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् । परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययः विधेयः । विंशकः सङ्घः । षष्ठीवचनविधिः च । षष्ठी च विधेया । गवाम् विंशतिः । द्रव्यम् अभिहितम् । तस्य अभिहितत्वात् षष्ठी न प्राप्नोति । एकवचनम् च विधेयम् । विंशतिः गावः । गोभिः सामानाधिकरण्यात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति । अनारम्भः वा प्रातिपदिकविज्ञानात् यथा सहस्रादिषु । अनारम्भः वा पुनः विंशत्यादीनाम् न्याय्यः । कथम् सिध्यति । प्रातिपदिकविज्ञानात् । कथम् प्रातिपदिकविज्ञानम् । विंशत्यादयः अव्युत्पन्नानि प्रातिपदिकानि यथा सहस्रादिषु । तत् यथा सहस्रम् अयुतम् अर्बुदम् इति न च अनुगमः क्रियते भवति च अभिधानम् । यथा सहस्रादिषु इति उच्यते । अथ सहस्रादिषु अपि कथम् भवितव्यम् । सहस्रम् गवाम् । सहस्रम् गावः । सहस्रगवम् । गोसहस्रम् इति । यावता अत्र अपि सन्देहः न असूया कर्तव्या यत्र अनुगमः क्रियते । ननु च उक्तम् विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः । परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् । षष्ठीवचनविधिः च इति । न एषः दोषः । समुदाये विंशत्यादयः भविष्यन्ति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । सङ्घः इति वर्तते । सङ्घः समूहः समुदायः इति अनर्थान्तरम् । ते एते विंशत्यादयः समुदाये सन्तः भाववचनाः भवन्ति भाववचनाः सन्तः गुणवचनाः भवन्ति गुणवचनाः सन्तः अविशिष्टाः भवन्ति अन्यैः गुणवचनैः । अन्येषु च गुणवचनेषु कदा चित् गुणः गुणिविशेषकः भवति । तत् यथा शुक्लः पटः इति । कदा चित् गुणिना गुणः व्यपदिश्यते : पटस्य शुक्लः इति । तत् यदा तावत् उच्यते विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः इति सामानाधिकरण्यम् तदा गुणगुणिनोः । वचनपरिहारः तिष्ठतु तावत् । परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् इति संहनने वृत्तः संहनने वर्तिष्यते । सङ्ख्यासंहनने वृत्तः द्रव्यसंहनने वर्तिष्यते । अथ षष्ठी तदा गुणिना गुणः विशेष्यते । वचनपरिहारः उभयोः अपि । यदि तर्हि इमे विंशत्यादयः गुणवचनाः स्युः सधर्मभिः अन्यैः गुणवचनैः भवितव्यम् । अन्ये च गुणवचनाः द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते । तत् यथा । शुक्लम् वस्त्रम् । शुक्ला शाटी । शुक्लः कम्बलः । शुक्लौ कम्बलौ । शुक्लाः कम्बलाः इति । यत् असौ द्रव्यम् श्रितः गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति । विंशत्यादयः पुनः न अनुवर्तन्ते । अन्ये अपि वै गुणवचनाः न अवश्यम् द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते । तत् यथा । गावः धनम् । पुत्रा अपत्यम् । इन्द्राग्नी देवता । विश्वेदेवाः देवता । यावन्तः ते वाशिताम् अनुयन्ति सर्वे ते दक्षिणा समृद्ध्यै इति । अथ अत्र अननुवृत्तौ हेतुः शक्यः वक्तुम् । बाढम् शक्यः वक्तुम् । कामम् तर्हि उच्यताम् । इह कदा चित् गुणः प्राधान्येन विवक्षितः भवति । तत् यथा : पञ्च उडुपशतानि तीर्णानि । पञ्च फलकशतानि तीर्णानि । अश्वैः युद्धम् । असिभिः युद्धम् इति । न च असयः युध्यन्ते ।
KA II.355.2-357.8 Ro IV.46-56 ime viṃśatyādayaḥ saprakṛtikāḥ sapratyayakāḥ nipātyante . tatra na jñāyate kā prakṛtiḥ kaḥ pratyayaḥ kaḥ pratyayārthaḥ iti . tatra vaktavyam iyam prakṛtiḥ ayam pratyayaḥ ayam pratyayārthaḥ iti . ime brūmaḥ dviśabdāt ayam daśadarthābhidāhinaḥ svārthe śaticpratyayaḥ nipātyate vinbhāvaḥ ca . dvau daśatau viṃśatiḥ . viṃśatyādayaḥ daśāt cet samāsavacanānupapattiḥ . viṃśatyādayaḥ daśāt cet samāsaḥ na upapadyate . viṃśatigavam iti . kim kāraṇam . dravyam anabhihitam . tasya anabhihitatvāt ṣaṣṭhī prāpnoti . ṣaṣṭhyantam ca samāse pūrvam nipatati . tatra goviṃśatiḥ iti prāpnoti . na ca evam bhavitavyam . bhavitavyam ca viṃśatigavam tu na sidhyati . iha ca triṃśatpūlī catvāriṃśatpūlī samānādhikaraṇalakṣaṇaḥ samāsaḥ na prāpnoti . vacanam ca vidheyam . viṃśatiḥ . dvitvāt daśatoḥ dvayoḥ dvivacanam iti dvivacanam prāpnoti . evam tarhi parimāṇini viṃśatyādayaḥ bhaviṣyanti . parimāṇini cet punaḥ svārthe pratyayavidhānam . parimāṇini cet punaḥ svārthe pratyayaḥ vidheyaḥ . viṃśakaḥ saṅghaḥ . ṣaṣṭhīvacanavidhiḥ ca . ṣaṣṭhī ca vidheyā . gavām viṃśatiḥ . dravyam abhihitam . tasya abhihitatvāt ṣaṣṭhī na prāpnoti . ekavacanam ca vidheyam . viṃśatiḥ gāvaḥ . gobhiḥ sāmānādhikaraṇyāt bahuṣu bahuvacanam iti bahuvacanam prāpnoti . anārambhaḥ vā prātipadikavijñānāt yathā sahasrādiṣu . anārambhaḥ vā punaḥ viṃśatyādīnām nyāyyaḥ . katham sidhyati . prātipadikavijñānāt . katham prātipadikavijñānam . viṃśatyādayaḥ avyutpannāni prātipadikāni yathā sahasrādiṣu . tat yathā sahasram ayutam arbudam iti na ca anugamaḥ kriyate bhavati ca abhidhānam . yathā sahasrādiṣu iti ucyate . atha sahasrādiṣu api katham bhavitavyam . sahasram gavām . sahasram gāvaḥ . sahasragavam . gosahasram iti . yāvatā atra api sandehaḥ na asūyā kartavyā yatra anugamaḥ kriyate . nanu ca uktam viṃśatyādayaḥ daśāt cet samāsavacanānupapattiḥ . parimāṇini cet punaḥ svārthe pratyayavidhānam . ṣaṣṭhīvacanavidhiḥ ca iti . na eṣaḥ doṣaḥ . samudāye viṃśatyādayaḥ bhaviṣyanti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . saṅghaḥ iti vartate . saṅghaḥ samūhaḥ samudāyaḥ iti anarthāntaram . te ete viṃśatyādayaḥ samudāye santaḥ bhāvavacanāḥ bhavanti bhāvavacanāḥ santaḥ guṇavacanāḥ bhavanti guṇavacanāḥ santaḥ aviśiṣṭāḥ bhavanti anyaiḥ guṇavacanaiḥ . anyeṣu ca guṇavacaneṣu kadā cit guṇaḥ guṇiviśeṣakaḥ bhavati . tat yathā śuklaḥ paṭaḥ iti . kadā cit guṇinā guṇaḥ vyapadiśyate : paṭasya śuklaḥ iti . tat yadā tāvat ucyate viṃśatyādayaḥ daśāt cet samāsavacanānupapattiḥ iti sāmānādhikaraṇyam tadā guṇaguṇinoḥ . vacanaparihāraḥ tiṣṭhatu tāvat . parimāṇini cet punaḥ svārthe pratyayavidhānam iti saṃhanane vṛttaḥ saṃhanane vartiṣyate . saṅkhyāsaṃhanane vṛttaḥ dravyasaṃhanane vartiṣyate . atha ṣaṣṭhī tadā guṇinā guṇaḥ viśeṣyate . vacanaparihāraḥ ubhayoḥ api . yadi tarhi ime viṃśatyādayaḥ guṇavacanāḥ syuḥ sadharmabhiḥ anyaiḥ guṇavacanaiḥ bhavitavyam . anye ca guṇavacanāḥ dravyasya liṅgasaṅkhye anuvartante . tat yathā . śuklam vastram . śuklā śāṭī . śuklaḥ kambalaḥ . śuklau kambalau . śuklāḥ kambalāḥ iti . yat asau dravyam śritaḥ guṇaḥ tasya yat liṅgam vacanam ca tat guṇasya api bhavati . viṃśatyādayaḥ punaḥ na anuvartante . anye api vai guṇavacanāḥ na avaśyam dravyasya liṅgasaṅkhye anuvartante . tat yathā . gāvaḥ dhanam . putrā apatyam . indrāgnī devatā . viśvedevāḥ devatā . yāvantaḥ te vāśitām anuyanti sarve te dakṣiṇā samṛddhyai iti . atha atra ananuvṛttau hetuḥ śakyaḥ vaktum . bāḍham śakyaḥ vaktum . kāmam tarhi ucyatām . iha kadā cit guṇaḥ prādhānyena vivakṣitaḥ bhavati . tat yathā : pañca uḍupaśatāni tīrṇāni . pañca phalakaśatāni tīrṇāni . aśvaiḥ yuddham . asibhiḥ yuddham iti . na ca asayaḥ yudhyante .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५७।२२-२४ रो इव्।५८ यज्ञर्त्विग्भ्याम्तत् कर्म अर्हति इति उपसङ्ख्यानम् । यज्ञर्त्विग्भ्याम्तत् कर्म अर्हति इति उपसङ्ख्यानम् कर्तव्यम् । य्जञकर्म अर्हति यज्ञियः देशः । ऋत्विक्कर्म अर्हति आर्त्विजीनम् ब्राह्मणकुलम् इति ।
KA II.357.22-24 Ro IV.58 yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam . yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam kartavyam . yjañakarma arhati yajñiyaḥ deśaḥ . ṛtvikkarma arhati ārtvijīnam brāhmaṇakulam iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५८।२-१० रो इव्।५८-५९ तत् वर्तयति इति अनिर्देशः तत्र अदर्शनात् । तत् वर्तयति इति अनिर्देशः । अगमकः निर्देशः अनिर्देशः । पारायणम् कः वर्तयति । यः परस्य करोति । तुरायणम् कः वर्तयति । यः चरुपुरोडाशान् निर्वपति । तत्र अदर्शनात् । न च तत्र प्रत्ययः दृश्यते । इङ्यज्योः च दर्शनात् । इङ्यज्योः च प्रत्ययः दृश्यते । यः पारायणम् अधीते सः पारायणिकः इति उच्यते । यः तुरायणेन यजते सः तौरायणिकः इति उच्यते । यः च एव अधीते यः परस्य करोति उभौ तौ वर्तयतः । यः च यजते यः च यः चरुपुरोडाशान् निर्वपति उभौ तौ वर्तयतः । उभयत्र कस्मात् न भवति । अनभिधानात् ।
KA II.358.2-10 Ro IV.58-59 tat vartayati iti anirdeśaḥ tatra adarśanāt . tat vartayati iti anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . pārāyaṇam kaḥ vartayati . yaḥ parasya karoti . turāyaṇam kaḥ vartayati . yaḥ carupuroḍāśān nirvapati . tatra adarśanāt . na ca tatra pratyayaḥ dṛśyate . iṅyajyoḥ ca darśanāt . iṅyajyoḥ ca pratyayaḥ dṛśyate . yaḥ pārāyaṇam adhīte saḥ pārāyaṇikaḥ iti ucyate . yaḥ turāyaṇena yajate saḥ taurāyaṇikaḥ iti ucyate . yaḥ ca eva adhīte yaḥ parasya karoti ubhau tau vartayataḥ . yaḥ ca yajate yaḥ ca yaḥ carupuroḍāśān nirvapati ubhau tau vartayataḥ . ubhayatra kasmāt na bhavati . anabhidhānāt .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५८।१२-१८ रो इव्।५९ योजनम् गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानम् । योजनम् गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानम् कर्तव्यम् । क्रोशशतम् गच्छति इति क्रौशशतिकः । योजनशतम् गच्छति इति यौजनशतिकः इति । ततः अभिगमनम् अर्हति इति च । ततः अभिगमनम् अर्हति इति च क्रोशशतयोजनशतयोः उपसङ्ख्यानम् कर्तव्यम् । क्रोशशतात् अभिगमनम् अर्हति क्रौशशतिकः भिक्षुः । योजनशतात् अभिगमनम् अर्हति यौजनशतिकः गुरुः ।
KA II.358.12-18 Ro IV.59 yojanam gacchati iti krośaśatayojanaśatayoḥ upasaṅkhyānam . yojanam gacchati iti krośaśatayojanaśatayoḥ upasaṅkhyānam kartavyam . krośaśatam gacchati iti krauśaśatikaḥ . yojanaśatam gacchati iti yaujanaśatikaḥ iti . tataḥ abhigamanam arhati iti ca . tataḥ abhigamanam arhati iti ca krośaśatayojanaśatayoḥ upasaṅkhyānam kartavyam . krośaśatāt abhigamanam arhati krauśaśatikaḥ bhikṣuḥ . yojanaśatāt abhigamanam arhati yaujanaśatikaḥ guruḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५८।२०-३५९।१० रो इव्।६० आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदात् उपसङ्ख्यानम् । आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदात् उपसङ्ख्यानम् कर्तव्यम् । वारिपथेन गच्छति वारिपथिकः । वारिपथेन आहृतम् वारिपथिकम् । वारि । जङ्गल । जङ्गलपथेन गच्छति जाङ्गलपथिकः । जङ्गलपथेन आहृतम् जाङ्गलपथिकम् । जङ्गल । स्थल । स्थलपथेन गच्छति स्थालपथिकः । स्थलपथेन आहृतम् स्थालपथिकम् । स्थल । कान्तार । कान्तारपथेन गच्छति कान्तारपथिकः । कान्तारपथेन आहृतम् कान्तारपथिकम् । अजपथशङ्कुपथाभ्याम् च । अजपथशङ्कुपथाभ्याम् च इति वक्तव्यम् । अजपथेन गच्छति आजपथिकः । अजपथेन आहृतम् आजपथिकम्। शङ्कुपथेन गच्छति शाङ्कुपथिकः । शङ्कुपथेन आहृतम् शाङ्कुपथिकम् । मधुकमरिचयोः अण् स्थलात् । मधुकमरिचयोः अण् स्थलात् वक्तव्यः । स्थालपथम् मधुकम् । स्थालपथम् मरिचम् ।
KA II.358.20-359.10 Ro IV.60 āhṛtaprakaraṇe vārijaṅgalasthalakāntārapūrvapadāt upasaṅkhyānam . āhṛtaprakaraṇe vārijaṅgalasthalakāntārapūrvapadāt upasaṅkhyānam kartavyam . vāripathena gacchati vāripathikaḥ . vāripathena āhṛtam vāripathikam . vāri . jaṅgala . jaṅgalapathena gacchati jāṅgalapathikaḥ . jaṅgalapathena āhṛtam jāṅgalapathikam . jaṅgala . sthala . sthalapathena gacchati sthālapathikaḥ . sthalapathena āhṛtam sthālapathikam . sthala . kāntāra . kāntārapathena gacchati kāntārapathikaḥ . kāntārapathena āhṛtam kāntārapathikam . ajapathaśaṅkupathābhyām ca . ajapathaśaṅkupathābhyām ca iti vaktavyam . ajapathena gacchati ājapathikaḥ . ajapathena āhṛtam ājapathikam. śaṅkupathena gacchati śāṅkupathikaḥ . śaṅkupathena āhṛtam śāṅkupathikam . madhukamaricayoḥ aṇ sthalāt . madhukamaricayoḥ aṇ sthalāt vaktavyaḥ . sthālapatham madhukam . sthālapatham maricam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।१२-१८ रो इव्।६०-६१ अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः तत्र अदर्शनात् । अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः । किम् कारणम् । तत्र अदर्शनात् । न हि असौ मासम् अधीष्यते । किम् तर्हि मुहूर्तम् अधीष्टः मासम् तत् कर्म करोति । सिद्धम् तु चतुर्थीनिर्देशात् । सिद्धम् एतत् । कथम् । चतुर्थीनिर्देशात् । चतुर्थीनिर्देशः कर्तव्यः । तस्मै अधीष्टः इति । सः तर्हि चतुर्थीनिर्देशः कर्तव्यः । न कर्तव्यः । तादर्थ्यात् ताच्छब्द्यम् भविष्यति । मासार्थः मुहूर्तः मासः ।
KA II.12-18 Ro IV.60-61 adhīṣṭabhṛtayoḥ dvitīyānirdeśaḥ anarthakaḥ tatra adarśanāt . adhīṣṭabhṛtayoḥ dvitīyānirdeśaḥ anarthakaḥ . kim kāraṇam . tatra adarśanāt . na hi asau māsam adhīṣyate . kim tarhi muhūrtam adhīṣṭaḥ māsam tat karma karoti . siddham tu caturthīnirdeśāt . siddham etat . katham . caturthīnirdeśāt . caturthīnirdeśaḥ kartavyaḥ . tasmai adhīṣṭaḥ iti . saḥ tarhi caturthīnirdeśaḥ kartavyaḥ . na kartavyaḥ . tādarthyāt tācchabdyam bhaviṣyati . māsārthaḥ muhūrtaḥ māsaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३५९।२०-२२ रो इव्।६१-६२ अवयसि ठन् च इति अनन्तरस्य अनुकर्षः । अवयसि ठन् च इति अनन्तरस्य अनुकर्षः द्रष्टव्यः । द्वेष्यम् विजानीयात् : यप् अपि अनुवर्तते इति । तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : अवयसि ठन् च इति अनन्तरस्य अनुकर्षः इति ।
KA II.359.20-22 Ro IV.61-62 avayasi ṭhan ca iti anantarasya anukarṣaḥ . avayasi ṭhan ca iti anantarasya anukarṣaḥ draṣṭavyaḥ . dveṣyam vijānīyāt : yap api anuvartate iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : avayasi ṭhan ca iti anantarasya anukarṣaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६०।२-६ रो इव्।६२ षष्टिके सञ्ज्ञाग्रहणम् । षष्टिके सञ्ज्ञाग्रहणम् कर्तव्यम् । मुद्गाः अपि हि षष्टिरात्रेणे पच्यन्ते । तत्र मा भूत् इति । उक्तम् वा । किम् उक्तम् । अनभिधानात् इति ।
KA II.360.2-6 Ro IV.62 ṣaṣṭike sañjñāgrahaṇam . ṣaṣṭike sañjñāgrahaṇam kartavyam . mudgāḥ api hi ṣaṣṭirātreṇe pacyante . tatra mā bhūt iti . uktam vā . kim uktam . anabhidhānāt iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६०।८-३६१।५ रो इव्।६२-६४) तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् । तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । महानाम्नीनाम् ब्रह्मचर्यम् माहानाम्निकम् । आदित्यव्रतिकम् । तत् चरति इति च । तत् चरति इति च महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । महानाम्नीः चरति माहानाम्निकः । आदित्यव्रतिकः । न एषः युक्तः निर्देशः तत् चरति इति । महानाम्न्यः नाम ऋचः । न च ताः चर्यन्ते । व्रतम् तासाम् चर्यते । न एषः दोषः । साहचर्यात् ताच्छब्यम् भविष्यति । महानाम्नीसहचरितम् व्रतम् महानाम्न्यः व्रतम् इति । अवान्तरदीक्षादिभ्यः डिनिः । अवान्तरदीक्षादिभ्यः डिनिः वक्तव्यः । अवान्तरदीक्षी । तिलव्रती । अष्टाचत्वारिंशतः ड्वुन् च । अष्टाचत्वारिंशतः ड्वुन् च डिनिः च वक्तव्यः । अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी । चातुर्मास्यानाम् यलोपः च । चातुर्मास्यानाम् यलोपः च ड्वुन् च डिनिः च वक्तव्यः । चातुर्मासिकः । चातुर्मासी । अथ किम् इदम् चातुर्मास्यानाम् इति । चतुर्मासात् ण्यः यज्ञे तत्र भवे । चतुर्मासात् ण्यः वक्तव्यः यज्ञे तत्र भवे इति एतस्मिन् अर्थे । चतुर्षु मासेषु भवानि चातुर्मास्यानि यज्ञाः । सञ्ज्ञायाम् अण् । सञ्ज्ञायाम् अण् वक्तव्यः । चतुर्षु मासेषु भवा चातुर्मासी पौणमासी ।
KA II.360.8-361.5 Ro IV.62-64) tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam . tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam kartavyam . mahānāmnīnām brahmacaryam māhānāmnikam . ādityavratikam . tat carati iti ca . tat carati iti ca mahānāmnyādibhyaḥ upasaṅkhyānam kartavyam . mahānāmnīḥ carati māhānāmnikaḥ . ādityavratikaḥ . na eṣaḥ yuktaḥ nirdeśaḥ tat carati iti . mahānāmnyaḥ nāma ṛcaḥ . na ca tāḥ caryante . vratam tāsām caryate . na eṣaḥ doṣaḥ . sāhacaryāt tācchabyam bhaviṣyati . mahānāmnīsahacaritam vratam mahānāmnyaḥ vratam iti . avāntaradīkṣādibhyaḥ ḍiniḥ . avāntaradīkṣādibhyaḥ ḍiniḥ vaktavyaḥ . avāntaradīkṣī . tilavratī . aṣṭācatvāriṃśataḥ ḍvun ca . aṣṭācatvāriṃśataḥ ḍvun ca ḍiniḥ ca vaktavyaḥ . aṣṭācatvāriṃśakaḥ . aṣṭācatvāriṃśī . cāturmāsyānām yalopaḥ ca . cāturmāsyānām yalopaḥ ca ḍvun ca ḍiniḥ ca vaktavyaḥ . cāturmāsikaḥ . cāturmāsī . atha kim idam cāturmāsyānām iti . caturmāsāt ṇyaḥ yajñe tatra bhave . caturmāsāt ṇyaḥ vaktavyaḥ yajñe tatra bhave iti etasmin arthe . caturṣu māseṣu bhavāni cāturmāsyāni yajñāḥ . sañjñāyām aṇ . sañjñāyām aṇ vaktavyaḥ . caturṣu māseṣu bhavā cāturmāsī pauṇamāsī .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६१।७-१२ रो इव्।६४ आख्याग्रहणम् किमर्थम्। तस्य दक्षिणा यज्ञेभ्यः इति इयति उच्यमाने ये एते सञ्ज्ञीभूतकाः यज्ञाः ततः उतपत्तिः स्यात् । अग्निष्टोमिक्यः । राजसूयिकः । वाजपेयिक्यः । यत्र वा यज्ञशब्दः अस्ति । नावयज्ञिक्यः । पाकयज्ञिक्यः । इह न स्यात् । पाञ्चौदनिक्यः । दाशौदनिक्यः । आख्याग्रहणे पुनः क्रियमाणे न दोषः भवति । ये च सञ्ज्ञीभूतकाः यत्र च यज्ञशब्दः अस्ति यत्र च न अस्ति तदाख्यामात्रात् सिच्छम् भवति ।
KA II.361.7-12 Ro IV.64 ākhyāgrahaṇam kimartham. tasya dakṣiṇā yajñebhyaḥ iti iyati ucyamāne ye ete sañjñībhūtakāḥ yajñāḥ tataḥ utapattiḥ syāt . agniṣṭomikyaḥ . rājasūyikaḥ . vājapeyikyaḥ . yatra vā yajñaśabdaḥ asti . nāvayajñikyaḥ . pākayajñikyaḥ . iha na syāt . pāñcaudanikyaḥ . dāśaudanikyaḥ . ākhyāgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . ye ca sañjñībhūtakāḥ yatra ca yajñaśabdaḥ asti yatra ca na asti tadākhyāmātrāt siccham bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६१।१४-२२ रो इव्।६५-६६ कार्यग्रहणम् अनर्थकम् तत्रभवेन कृतत्वात् । कार्यग्रहणम् अनर्थकम् । किम् कारणम् । तत्रभवेन कृतत्वात् । यत् हि मासे कार्यम् मासे भवम् तत् भवति । तत्र तत्र भवः इति एव सिद्धम् । किम् इदम् भवान् कार्यग्रहणम् एव प्रत्याचष्टे न पुनः दीयतेग्रहणम् अपि । यथा एव हि यत् मासे कार्यम् तत् मासे भवम् भवति एवम् यत् अपि मासे दीयते तत् अपि मासे भवम् भवति । तत्र तत्र भवः इति एव सिद्धम् । न सिध्यति । न तत् मासे दीयते । किम् तर्हि मासे गते । एवम् तर्हि औपश्लेषिकम् अधिकरणम् विज्ञास्यते । एवम् तर्हि योगविभागोत्तरकालम् इदम् पठितव्यम् । तस्य दक्षिणा यज्ञाख्येभ्यः । तत्र च दीयते । ततः कार्यम् भववत् कालात् इति ।
KA II.361.14-22 Ro IV.65-66 kāryagrahaṇam anarthakam tatrabhavena kṛtatvāt . kāryagrahaṇam anarthakam . kim kāraṇam . tatrabhavena kṛtatvāt . yat hi māse kāryam māse bhavam tat bhavati . tatra tatra bhavaḥ iti eva siddham . kim idam bhavān kāryagrahaṇam eva pratyācaṣṭe na punaḥ dīyategrahaṇam api . yathā eva hi yat māse kāryam tat māse bhavam bhavati evam yat api māse dīyate tat api māse bhavam bhavati . tatra tatra bhavaḥ iti eva siddham . na sidhyati . na tat māse dīyate . kim tarhi māse gate . evam tarhi aupaśleṣikam adhikaraṇam vijñāsyate . evam tarhi yogavibhāgottarakālam idam paṭhitavyam . tasya dakṣiṇā yajñākhyebhyaḥ . tatra ca dīyate . tataḥ kāryam bhavavat kālāt iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६२।२-११ रो इव्।६६ अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् । अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । त्रीणि इमानि अण्ग्रहणानि । व्युष्टादिभ्यः अण् । समयः तत् अस्य प्राप्तम् । ऋतोः अण् । प्रयोजनम् । विशाखाषाढात् अण् मन्थदण्डयोः इति । तत्र न ज्ञायते कतरस्मिन् अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् । अविशेषात् सर्वत्र । व्युष्टादिभ्यः अण् भवति इति उक्त्वा अग्निपदादिभ्यः च इति वक्तव्यम् । अग्निपदे दीयते कार्यम् वा आग्निपदम् । पैलुमूलम् । समयः तत् अस्य प्राप्तम् । ऋतोः अण् । अग्निपदादिभ्यः च इति वक्तव्यम् । उपवस्ता प्राप्तः अस्य औपवस्त्रम् । प्राशिता प्राप्तः अस्य प्राशित्रम् । प्रयोजनम् । विशाखाषाढात् अण् मन्थदण्डयोः ।अग्निपदादिभ्यः च इति वक्तव्यम् । चूडा प्रयोजनम् अस्य चौडम् । श्रद्धा प्रयोजनम् अस्य श्राद्धम् ।
KA II.362.2-11 Ro IV.66 aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam . aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam kartavyam . trīṇi imāni aṇgrahaṇāni . vyuṣṭādibhyaḥ aṇ . samayaḥ tat asya prāptam . ṛtoḥ aṇ . prayojanam . viśākhāṣāḍhāt aṇ manthadaṇḍayoḥ iti . tatra na jñāyate katarasmin aṇprakaraṇe agnipadādibhyaḥ upasaṅkhyānam . aviśeṣāt sarvatra . vyuṣṭādibhyaḥ aṇ bhavati iti uktvā agnipadādibhyaḥ ca iti vaktavyam . agnipade dīyate kāryam vā āgnipadam . pailumūlam . samayaḥ tat asya prāptam . ṛtoḥ aṇ . agnipadādibhyaḥ ca iti vaktavyam . upavastā prāptaḥ asya aupavastram . prāśitā prāptaḥ asya prāśitram . prayojanam . viśākhāṣāḍhāt aṇ manthadaṇḍayoḥ .agnipadādibhyaḥ ca iti vaktavyam . cūḍā prayojanam asya cauḍam . śraddhā prayojanam asya śrāddham .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६२।१३-२१ रो इव्।६६-६७ छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात् सपूर्वपदात् उपसङ्ख्यानम् । छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात् सपूर्र्वपदात् उपसङ्ख्यानम् कर्तव्यम् । विशि । गेहानुप्रवेशनीयम् । पूरि । प्रपापूरणीयम् । पदि । गोप्रपदनीयम् । अश्वप्रपदनीयम् । रुहि । प्राशादारोहणीयम् । स्वर्गादिभ्यः यत् ष्वर्गादिभ्यः यत् प्रत्ययः भवति । स्वर्ग्यम् । धन्यम् । यशस्यम् । आयुष्यम् । पुण्याहवाचनादिभ्यः लुक् । पुण्याहवाचनादिभ्यः लुक् वक्तव्यः । पुण्याहवाचनम् । शान्तिवाचनम् । स्वस्तिवाचनम् ।
KA II.362.13-21 Ro IV.66-67 chaprakaraṇe viśipūripadiruhiprakṛteḥ anāt sapūrvapadāt upasaṅkhyānam . chaprakaraṇe viśipūripadiruhiprakṛteḥ anāt sapūrrvapadāt upasaṅkhyānam kartavyam . viśi . gehānupraveśanīyam . pūri . prapāpūraṇīyam . padi . goprapadanīyam . aśvaprapadanīyam . ruhi . prāśādārohaṇīyam . svargādibhyaḥ yat ṣvargādibhyaḥ yat pratyayaḥ bhavati . svargyam . dhanyam . yaśasyam . āyuṣyam . puṇyāhavācanādibhyaḥ luk . puṇyāhavācanādibhyaḥ luk vaktavyaḥ . puṇyāhavācanam . śāntivācanam . svastivācanam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६२।२३-३६३।२ रो इव्।६७ एकागारात् निपातनानर्थक्यम् ठञ्प्रकरणात् । एकागारात् निपातनम् अनर्थकम् । किम् कारणम् । ठञ्प्रकरणात् । ठञ् प्रकृतः । सः अनुवर्तिष्यते । इदम् तर्हि प्रयोजनम् । चौरे इति वक्ष्यामि इति । इह मा भूत् । एकागारम् प्रयोजनम् अस्य भिक्षोः इति । यदि एतावत् प्रयोजनम् स्यात् एकागारात् चौरे इति एव ब्रूयात् ।
KA II.362.23-363.2 Ro IV.67 ekāgārāt nipātanānarthakyam ṭhañprakaraṇāt . ekāgārāt nipātanam anarthakam . kim kāraṇam . ṭhañprakaraṇāt . ṭhañ prakṛtaḥ . saḥ anuvartiṣyate . idam tarhi prayojanam . caure iti vakṣyāmi iti . iha mā bhūt . ekāgāram prayojanam asya bhikṣoḥ iti . yadi etāvat prayojanam syāt ekāgārāt caure iti eva brūyāt .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६३।४-९ रो इव्।६८-६९ आकालात् निपातनानर्थक्यम् ठञ्प्रकरणात् । आकालात् निपातनम् नर्थकम् । किम् कारणम् । ठञ्प्रकरणात् । ठञ् प्रकृतः । सः अनुवर्तिष्यते । इदम् तर्हि प्रयोजनम् । एतस्मिन् विशेषे निपातनम् करिष्यामि समानकालस्य आद्यन्तविवक्षायाम् इति । आकालात् ठन् च । आकालात् ठन् च वक्तव्यः । आकालिकी । आकालिका ।
KA II.363.4-9 Ro IV.68-69 ākālāt nipātanānarthakyam ṭhañprakaraṇāt . ākālāt nipātanam narthakam . kim kāraṇam . ṭhañprakaraṇāt . ṭhañ prakṛtaḥ . saḥ anuvartiṣyate . idam tarhi prayojanam . etasmin viśeṣe nipātanam kariṣyāmi samānakālasya ādyantavivakṣāyām iti . ākālāt ṭhan ca . ākālāt ṭhan ca vaktavyaḥ . ākālikī . ākālikā .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६३।११-३६४।१० रो इव्।६९-७५ इदम् अयुक्तम् वर्तते । किम् अत्र अयुक्तम् । यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति उच्यते । कथम् च तृतीयासमर्थम् नाम क्रिया स्यात् । न एषः दोषः । सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते । ब्राह्मणः क्षत्रियः । वैश्यः शूद्रः इति । आतः च गुणसमुदाये एवम् हि आह । तपः श्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् । तपःश्त्रुताभ्याम् यः हीनः जातिब्राह्मणः एव सः । तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मणे गुणन् कुर्वन्ति । समुदायेषु च शब्दाः वृत्ताः अवयवेषु अपि वर्तन्ते । तत् यथा : पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलम् भुक्तम् , घृतम् भुक्तम् , शुक्लः , नीलः , कृष्णः इति । एवम् अयम् ब्राह्मणशब्दय समुदाये वृत्तः अवयवेषु अपि वर्तते । यदि तर्हि तृतीयासमर्थम् विशेष्यते प्रत्ययार्थः अविशेषितः भवति । तत्र कः दोषः । तृतीयासमर्थात् क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात् । पुत्रेण तुल्यः स्थूलः । पुत्रेण तुल्यः पिङ्गलः । अस्तु तर्हि प्रत्ययार्थविशेषणम् । यत् तत् तुल्यम् क्रिया चेत् सा भवति इति । एवम् अपि तृतीयासमर्थम् अविशेषितम् भवति । तत्र कः दोषः । तृतीयासमर्थात् अक्रियावाचिनः क्रियातुल्ये अपि प्रत्ययः प्राप्नोति । न एषः दोषः । यत् तत् तुल्यम् क्रिया चेत् सा भवति इति उच्यते । तुलया च सम्मितम् तुल्यम् । यदि च तृतीयासमर्थम् अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयम् भवति । अथ वा पुनः अस्तु यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति एव । ननु च उक्तम् प्रत्ययार्थः अविशेषितः इति । तत्र कः दोषः । तृतीयासमर्थात् क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात् । पुत्रेण तुल्यः स्थूलः । पुत्रेण तुल्यः पिङ्गलः इति । न एषः दोषः । यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति उच्यते । तुलया च सम्मितम् तुल्यम् । यदि च तृतीयासमर्थम् अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयम् भवति । किम् पुनः अत्र ज्यायः । प्रत्ययार्थविशेषणम् एव ज्यायः । कुतः एतत् । एवम् च एव कृत्वा आचार्येण सूत्रम् पठितम् । वतिना सामानाधिकरण्यम् कृतम् । अपि च वतेः अव्ययेषु पाठः न कर्तव्यः भवति । क्रियायाम् अयम् भवन् लिङ्गसङ्ख्याभ्यम् न योक्ष्यते ।
KA II.363.11-364.10 Ro IV.69-75 idam ayuktam vartate . kim atra ayuktam . yat tat tṛtīyāsamartham kriyā cet sā bhavati iti ucyate . katham ca tṛtīyāsamartham nāma kriyā syāt . na eṣaḥ doṣaḥ . sarve ete śabdāḥ guṇasamudāyeṣu vartante . brāhmaṇaḥ kṣatriyaḥ . vaiśyaḥ śūdraḥ iti . ātaḥ ca guṇasamudāye evam hi āha . tapaḥ śrutam ca yoniḥ ca iti etad brāhmaṇakārakam . tapaḥśtrutābhyām yaḥ hīnaḥ jātibrāhmaṇaḥ eva saḥ . tathā gauraḥ śucyācāraḥ piṅgalaḥ kapilakeśaḥ iti etān api abhyantarān brāhmaṇe guṇan kurvanti . samudāyeṣu ca śabdāḥ vṛttāḥ avayaveṣu api vartante . tat yathā : pūrve pañcālāḥ , uttare pañcālāḥ , tailam bhuktam , ghṛtam bhuktam , śuklaḥ , nīlaḥ , kṛṣṇaḥ iti . evam ayam brāhmaṇaśabdaya samudāye vṛttaḥ avayaveṣu api vartate . yadi tarhi tṛtīyāsamartham viśeṣyate pratyayārthaḥ aviśeṣitaḥ bhavati . tatra kaḥ doṣaḥ . tṛtīyāsamarthāt kriyāvācinaḥ guṇatulye api pratyayaḥ syāt . putreṇa tulyaḥ sthūlaḥ . putreṇa tulyaḥ piṅgalaḥ . astu tarhi pratyayārthaviśeṣaṇam . yat tat tulyam kriyā cet sā bhavati iti . evam api tṛtīyāsamartham aviśeṣitam bhavati . tatra kaḥ doṣaḥ . tṛtīyāsamarthāt akriyāvācinaḥ kriyātulye api pratyayaḥ prāpnoti . na eṣaḥ doṣaḥ . yat tat tulyam kriyā cet sā bhavati iti ucyate . tulayā ca sammitam tulyam . yadi ca tṛtīyāsamartham api kriyā pratyayārthaḥ api kriyā tataḥ tulayam bhavati . atha vā punaḥ astu yat tat tṛtīyāsamartham kriyā cet sā bhavati iti eva . nanu ca uktam pratyayārthaḥ aviśeṣitaḥ iti . tatra kaḥ doṣaḥ . tṛtīyāsamarthāt kriyāvācinaḥ guṇatulye api pratyayaḥ syāt . putreṇa tulyaḥ sthūlaḥ . putreṇa tulyaḥ piṅgalaḥ iti . na eṣaḥ doṣaḥ . yat tat tṛtīyāsamartham kriyā cet sā bhavati iti ucyate . tulayā ca sammitam tulyam . yadi ca tṛtīyāsamartham api kriyā pratyayārthaḥ api kriyā tataḥ tulayam bhavati . kim punaḥ atra jyāyaḥ . pratyayārthaviśeṣaṇam eva jyāyaḥ . kutaḥ etat . evam ca eva kṛtvā ācāryeṇa sūtram paṭhitam . vatinā sāmānādhikaraṇyam kṛtam . api ca vateḥ avyayeṣu pāṭhaḥ na kartavyaḥ bhavati . kriyāyām ayam bhavan liṅgasaṅkhyābhyam na yokṣyate .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६५।१२-१७ रो इव्।७५-७७ किमर्थम् इदम् उच्यते न तेन तुल्यम् क्रिया चेत् वतिः इति एव सिद्धम् । न सिध्यति । तृतीयासमर्थात् तत्र प्रत्ययः यदा अन्येन कर्तव्याम् क्रियाम् अन्यः करोति तदा प्रत्ययः उत्पाद्यते । न च का चिद् इवशब्देन योगे तृतीया विधीयते । ननु च सपतमी अपि न विधीयते । एवम् तर्हि सिद्धे सति यत् इवशब्देन योगे सप्तमीसमर्थात् वतिम् शास्ति तत् ज्ञापयति आचार्यः भवति इवशब्देन योगे सप्तमी इति । किम् एतस्य ज्ञापने प्रयोजनम् । देवेषु इव नाम । ब्राह्मणेषु इव नाम । एषः प्रयोगः उपपन्नः भवति ।
KA II.365.12-17 Ro IV.75-77 kimartham idam ucyate na tena tulyam kriyā cet vatiḥ iti eva siddham . na sidhyati . tṛtīyāsamarthāt tatra pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti tadā pratyayaḥ utpādyate . na ca kā cid ivaśabdena yoge tṛtīyā vidhīyate . nanu ca sapatamī api na vidhīyate . evam tarhi siddhe sati yat ivaśabdena yoge saptamīsamarthāt vatim śāsti tat jñāpayati ācāryaḥ bhavati ivaśabdena yoge saptamī iti . kim etasya jñāpane prayojanam . deveṣu iva nāma . brāhmaṇeṣu iva nāma . eṣaḥ prayogaḥ upapannaḥ bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६४।१९-२२ रो इव्।७७-७९ किमर्थम् इदम् उच्यते न तेन तुल्यम् क्रिया चेत् वतिः इति एव सिद्धम् । न सिध्यति । तृतीयासमर्थात् तत्र प्रत्ययः यदा अन्येन कर्तव्याम् क्रियाम् अन्यः करोति तदा प्रत्ययः उत्पाद्यते । इह पुनः द्वितीयासमर्थात् आत्मार्हायाम् क्रियायाम् अर्हतिकर्तरि निश्चितबलाधाने प्रत्ययः उत्पाद्यते । ब्राह्मणवत् भवान् वर्तते । एतत् वृत्तम् ब्राह्मणः अर्हति इति ।
KA II.364.19-22 Ro IV.77-79 kimartham idam ucyate na tena tulyam kriyā cet vatiḥ iti eva siddham . na sidhyati . tṛtīyāsamarthāt tatra pratyayaḥ yadā anyena kartavyām kriyām anyaḥ karoti tadā pratyayaḥ utpādyate . iha punaḥ dvitīyāsamarthāt ātmārhāyām kriyāyām arhatikartari niścitabalādhāne pratyayaḥ utpādyate . brāhmaṇavat bhavān vartate . etat vṛttam brāhmaṇaḥ arhati iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६५।२-६ रो इव्।७९ अर्थग्रहणम् किमर्थम् । न उपसर्गात् छन्दसि धातवु इति एव उच्येत । धातुः वै शब्दः । शब्दे कार्यस्य असम्भवात् अर्थे कार्यम् विज्ञास्यते । कः पुनः धात्वर्थः । क्रिया । इदम् तर्हि प्रयोजनम् । उत्तरपदलोपः यथा विज्ञायेत । धातुकृतः अर्थः धात्वर्थः इति । कः पुनः धातुकृतः अर्थः । साधनम् । किम् प्रयोजनम् । साधने अयम् भवन् लिङ्गसङ्ख्याभ्यम् योक्ष्यते । उद्गतानि उद्वतः । निगतानि निवतः इति ।
KA II.365.2-6 Ro IV.79 arthagrahaṇam kimartham . na upasargāt chandasi dhātavu iti eva ucyeta . dhātuḥ vai śabdaḥ . śabde kāryasya asambhavāt arthe kāryam vijñāsyate . kaḥ punaḥ dhātvarthaḥ . kriyā . idam tarhi prayojanam . uttarapadalopaḥ yathā vijñāyeta . dhātukṛtaḥ arthaḥ dhātvarthaḥ iti . kaḥ punaḥ dhātukṛtaḥ arthaḥ . sādhanam . kim prayojanam . sādhane ayam bhavan liṅgasaṅkhyābhyam yokṣyate . udgatāni udvataḥ . nigatāni nivataḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६५।७-१२ रो इव्।८० स्त्रीपुंसाभ्याम् वत्युपसङ्ख्यानम् । स्त्रीपुंसाभ्याम् वत्युपसङ्ख्यानम् कर्तव्यम् । स्त्रीवत् । पुंवत् इति । किम् पुनः कारणम् न सिध्यति । इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते । तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यत् अयम् स्त्रियाः पुंवत् इति निर्देशम् करोति । एवम् अपि स्त्रीवत् इति न सिध्यति । योपापेक्षम् ज्ञापकम् ।
KA II.365.7-12 Ro IV.80 strīpuṃsābhyām vatyupasaṅkhyānam . strīpuṃsābhyām vatyupasaṅkhyānam kartavyam . strīvat . puṃvat iti . kim punaḥ kāraṇam na sidhyati . imau nañsnañau prāk bhavanāt iti ucyete . tau viśeṣavihitau sāmānyavihitam vatim bādheyātām . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na vatyarthe nañsnañau bhavataḥ iti yat ayam striyāḥ puṃvat iti nirdeśam karoti . evam api strīvat iti na sidhyati . yopāpekṣam jñāpakam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६५।१४-३६६।६ रो इव्।८१-८२ स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् । स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् कर्तव्यम् । स्त्रीभावः स्त्रीत्वम् स्त्रीता । किम् पुनः कारणम् न सिध्यति । इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते । तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् । वावचनम् च । वावचनम् च कर्तव्यम् । किम् प्रयोजनम् । नञ्स्नञौ अपि यथा स्याताम् । स्त्रीभावः स्त्रैणम् । पुम्म्भावः पौंस्नम् इति । अपवादसमावेशात् वा सिद्धम् । अपवादसमावेशात् वा सिद्धम् एतत् । तत् यथा इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति एवम् आभ्याम् अपि भविष्यति । न एव ईश्वरः आज्ञापपयति न अपि धर्मसूत्रकाराः पठन्ति इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति इति । किम् तर्हि आ च त्वात् इति एतस्मात् यत्नात् इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति । न च एतौ अत्र अभ्यन्तरौ । एतौ अपि अत्र अभ्यन्तरौ । कथम् । अपवादसदेशाः अपवादाः भवन्ति इति । एतत् च एव न जानीमः अपवादसदेशाः अपवादाः भवन्ति इति । अपि च कुतः एतत् एतौ अपि अत्र अभ्यन्तरौ न पुनः पूर्वौ वा स्याताम् परौ वा । एवम् तर्हि वक्ष्यति आ च त्वात् इति अत्र चकारकरणस्य प्रयोजनम् । नञ्स्नञ्भ्याम् अपि समावेशः भवति इति ।
KA II.365.14-366.6 Ro IV.81-82 strīpuṃsābhyām tvataloḥ upasaṅkhyānam . strīpuṃsābhyām tvataloḥ upasaṅkhyānam kartavyam . strībhāvaḥ strītvam strītā . kim punaḥ kāraṇam na sidhyati . imau nañsnañau prāk bhavanāt iti ucyete . tau viśeṣavihitau sāmānyavihitam vatim bādheyātām . vāvacanam ca . vāvacanam ca kartavyam . kim prayojanam . nañsnañau api yathā syātām . strībhāvaḥ straiṇam . pummbhāvaḥ pauṃsnam iti . apavādasamāveśāt vā siddham . apavādasamāveśāt vā siddham etat . tat yathā imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati evam ābhyām api bhaviṣyati . na eva īśvaraḥ ājñāpapayati na api dharmasūtrakārāḥ paṭhanti imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati iti . kim tarhi ā ca tvāt iti etasmāt yatnāt imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhavati . na ca etau atra abhyantarau . etau api atra abhyantarau . katham . apavādasadeśāḥ apavādāḥ bhavanti iti . etat ca eva na jānīmaḥ apavādasadeśāḥ apavādāḥ bhavanti iti . api ca kutaḥ etat etau api atra abhyantarau na punaḥ pūrvau vā syātām parau vā . evam tarhi vakṣyati ā ca tvāt iti atra cakārakaraṇasya prayojanam . nañsnañbhyām api samāveśaḥ bhavati iti .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६६।४-३६८।४ रो इव्।८३-९३ तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः । तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । अभिप्रायः देवदत्तस्य मोदकेषु भोजने । ये नः भावाः ते नः भावाः पुत्राः पुत्रैः चेष्टन्ते इति । सिद्धम् तु यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने त्वतलौ । सिद्धम् एतत् । कथम् । यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् । न च अभिप्रायादीनाम् भावात् द्रव्ये देवदत्तशब्दः वर्तते । किम् पुनः द्रव्यम् के पुनः गुणाः । शब्दस्पर्शरूपरसगन्धाः गुणाः । ततः अन्यत् द्रव्यम् । किम् पुनः अन्यत् शब्दादिभ्यः द्रव्यम् आहोस्वित् अनन्यत् । गुणस्य अयम् भावात् द्रव्ये शब्दनिवेशम् कुर्वन् ख्यापयति अन्यत् शब्दादिभ्यः द्रव्यम् इति । अनन्यत् शब्दादिभ्यः द्रव्यम् । न हि अन्यत् उपलभ्यते । पशोः खलु अपि विशसितस्य पर्णशते न्यस्तस्य न अन्यत् शब्दादिभ्यः उपलभ्यते । अन्यत् शब्दादिभ्यः द्रव्यम् तत् तु अनुमानगम्यम् । तत् यथा ओषधिवनस्पतीनाम् वृद्धिह्रासौ । ज्योतिषाम् गतिः इति । कः असौ अनुमानः । इह समाने वर्ष्मणि परिणाहे च अन्यत् तुलाग्रम् भवति लोहस्य अन्यत् कार्पासानाम् । यत्कृतः विशेषः तत् द्रव्यम् । तथा कः चित् स्पृशन् एव छिनत्ति कः चित् लम्बमानः अपि न छिनत्ति । यत्कृतः विशेषः तत् द्रव्यम् । कः चित् एकेन एव प्रहारेण व्यपवर्गम् करोति कः चित् द्वाभ्याम् अपि अन् करोति । यत्कृतः विशेषः तत् द्रव्यम् । अथ वा यस्य गुणान्तरेषु अपि प्रादुर्भावत्सु तत्त्वम् न विहन्यते तत् द्रव्यम् । किम् पुनः तत्त्वम् । तद्भावः तत्त्वम् । तत् यथा आमलकादीनाम् फलानाम् रक्तादयः पीतादयः च गुणाः प्रादुः भवन्ति । आमलकम् बदरम् इति एव भवति । अन्वर्थम् खलु अपि निर्वचनम् । गुणसन्द्रावः द्रव्यम् इति । यदि तर्हि षष्ठीसमर्थात् गुणे प्रत्ययाः उतप्द्यन्ते किम् इयता सूत्रेण । एतावत् वक्तव्यम् : षष्ठीसमर्थात् गुणे इति । षष्ठीसमर्थात् गुणे इति इयति उच्यमाने द्विगुणा रज्जुः त्रिगुणा रज्जुः अत्र अपि प्राप्नोति । न एषः दोषः । गुणशब्दः अयम् बह्वर्थः । अस्ति एव समेषु अवयवेषु वर्तते । तत् यथा द्विगुणा रज्जुः त्रिगुणा रज्जुः इति । अस्ति द्रव्यपदार्थकः । तत् यथा गुणवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्यानि च वर्तन्ते । अस्ति अप्राधान्ये वर्तते । तत् यथा यः यत्र अप्रधानम् भवति सः आह गुणभूताः वयम् अत्र इति । अस्ति आचारे वर्तते । तत् यथा गुणवान् अयम् ब्राह्मणः इति उच्यते यः सम्यक् आचारम् करोति । अस्ति संस्कारे वर्तते । तत् यथा संस्कृतम् अन्नम् गुणवत् इति उच्यते । अथ वा सर्वत्र एव अयम् गुणशब्दः समेषु अवयवेषु वर्तते । तत् यथा द्विगुणम् अध्ययनम् त्रिगुणम् अध्ययनम् इति उच्यते । चर्चागुणान् क्रमगुणान् च अपेक्ष्य भवति न संहितागुणान् चर्चागुणान् च । यदि एवम् गुणवत् अन्नम् इति गुणशब्दः न उपपद्यते । न हि अन्नस्य सूपादयः गुणाः समाः भवन्ति । न अवश्यम् वर्ष्मतः परिमाणतः एव वा साम्यम् भवति । किम् तर्हि युक्तितः अपि । आतः च युक्तितः । यः हि मुद्गप्रस्थे लवणप्रस्थम् प्रक्षिपेत् न अदः युक्तम् स्यात् । यदि तावत् अदेः अन्नम् न अदः अत्तव्यम् स्यात् । अथ अनितेः अन्नम् न अदः जग्द्व्हा प्राण्यात् । शुक्लादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति । शुक्लत्वम् । शुक्लता इति । किम् पुनः कारणम् शुक्लादयः एव उदाह्रियन्ते न पुनः वृक्षादयः अपि । वृक्षत्वम् वृक्षता इति । अस्ति अत्र विशेषः । उभयवचनाः हि एते द्रव्यम् च आहुः गुणम् च । यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति । इमे अपि तर्हि उभयवचनाः । कथम् । आरभ्यते मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् भवति इति । यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति । डित्थादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति । डित्थत्वम् । डित्थता । डाम्भिट्टत्वम् इति । अत्र अपि कः चित् प्राथमकल्पिकः डित्थः डाम्भिट्टः च । तेन कृताम् क्रियाम् गुणम् वा यः कः चित् करोति सः उच्यते डित्थत्वम् ते एतत् डाम्भिट्टत्वम् ते एतत् । एवम् डित्थाः कुर्वन्ति । एवम् डाम्भिट्टाः कुर्वन्ति । यः तर्हि प्राथमकल्पिकः डित्थः डाम्भिट्टः च तस्य वर्त्यभावात् वृत्तिः न प्राप्नोति । न एषः दोषः । यथा एव तस्य काथञ्चित्कः प्रयोगः एवम् वृत्तिः अपि भविष्यति । यत् वा सर्वे भावाः स्वेन भावेन भवन्ति सः तेषाम् भावः तदभिधाने । किम् एभिः त्रिभिः भावग्रहणैः क्रियते । एकेन शब्दः प्रतिनिर्दिश्यते द्वाभ्याम् अर्थः । यत् वा सर्वे शब्दाः स्वेन अर्थेन भवन्ति । सः तेषाम् अर्थः इति तदभिधाने वा त्वतलौ
KA II.366.4-368.4 Ro IV.83-93 tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ . tasya bhāvaḥ iti abhiprāyādiṣu atiprasaṅgaḥ bhavati . iha api prāpnoti . abhiprāyaḥ devadattasya modakeṣu bhojane . ye naḥ bhāvāḥ te naḥ bhāvāḥ putrāḥ putraiḥ ceṣṭante iti . siddham tu yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tvatalau . siddham etat . katham . yasya guṇasya bhāvāt dravye śabdaniveśaḥ tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam . na ca abhiprāyādīnām bhāvāt dravye devadattaśabdaḥ vartate . kim punaḥ dravyam ke punaḥ guṇāḥ . śabdasparśarūparasagandhāḥ guṇāḥ . tataḥ anyat dravyam . kim punaḥ anyat śabdādibhyaḥ dravyam āhosvit ananyat . guṇasya ayam bhāvāt dravye śabdaniveśam kurvan khyāpayati anyat śabdādibhyaḥ dravyam iti . ananyat śabdādibhyaḥ dravyam . na hi anyat upalabhyate . paśoḥ khalu api viśasitasya parṇaśate nyastasya na anyat śabdādibhyaḥ upalabhyate . anyat śabdādibhyaḥ dravyam tat tu anumānagamyam . tat yathā oṣadhivanaspatīnām vṛddhihrāsau . jyotiṣām gatiḥ iti . kaḥ asau anumānaḥ . iha samāne varṣmaṇi pariṇāhe ca anyat tulāgram bhavati lohasya anyat kārpāsānām . yatkṛtaḥ viśeṣaḥ tat dravyam . tathā kaḥ cit spṛśan eva chinatti kaḥ cit lambamānaḥ api na chinatti . yatkṛtaḥ viśeṣaḥ tat dravyam . kaḥ cit ekena eva prahāreṇa vyapavargam karoti kaḥ cit dvābhyām api an karoti . yatkṛtaḥ viśeṣaḥ tat dravyam . atha vā yasya guṇāntareṣu api prādurbhāvatsu tattvam na vihanyate tat dravyam . kim punaḥ tattvam . tadbhāvaḥ tattvam . tat yathā āmalakādīnām phalānām raktādayaḥ pītādayaḥ ca guṇāḥ prāduḥ bhavanti . āmalakam badaram iti eva bhavati . anvartham khalu api nirvacanam . guṇasandrāvaḥ dravyam iti . yadi tarhi ṣaṣṭhīsamarthāt guṇe pratyayāḥ utapdyante kim iyatā sūtreṇa . etāvat vaktavyam : ṣaṣṭhīsamarthāt guṇe iti . ṣaṣṭhīsamarthāt guṇe iti iyati ucyamāne dviguṇā rajjuḥ triguṇā rajjuḥ atra api prāpnoti . na eṣaḥ doṣaḥ . guṇaśabdaḥ ayam bahvarthaḥ . asti eva sameṣu avayaveṣu vartate . tat yathā dviguṇā rajjuḥ triguṇā rajjuḥ iti . asti dravyapadārthakaḥ . tat yathā guṇavān ayam deśaḥ iti ucyate yasmin gāvaḥ sasyāni ca vartante . asti aprādhānye vartate . tat yathā yaḥ yatra apradhānam bhavati saḥ āha guṇabhūtāḥ vayam atra iti . asti ācāre vartate . tat yathā guṇavān ayam brāhmaṇaḥ iti ucyate yaḥ samyak ācāram karoti . asti saṃskāre vartate . tat yathā saṃskṛtam annam guṇavat iti ucyate . atha vā sarvatra eva ayam guṇaśabdaḥ sameṣu avayaveṣu vartate . tat yathā dviguṇam adhyayanam triguṇam adhyayanam iti ucyate . carcāguṇān kramaguṇān ca apekṣya bhavati na saṃhitāguṇān carcāguṇān ca . yadi evam guṇavat annam iti guṇaśabdaḥ na upapadyate . na hi annasya sūpādayaḥ guṇāḥ samāḥ bhavanti . na avaśyam varṣmataḥ parimāṇataḥ eva vā sāmyam bhavati . kim tarhi yuktitaḥ api . ātaḥ ca yuktitaḥ . yaḥ hi mudgaprasthe lavaṇaprastham prakṣipet na adaḥ yuktam syāt . yadi tāvat adeḥ annam na adaḥ attavyam syāt . atha aniteḥ annam na adaḥ jagdvhā prāṇyāt . śuklādiṣu tarhi vartyabhāvāt vṛttiḥ na prāpnoti . śuklatvam . śuklatā iti . kim punaḥ kāraṇam śuklādayaḥ eva udāhriyante na punaḥ vṛkṣādayaḥ api . vṛkṣatvam vṛkṣatā iti . asti atra viśeṣaḥ . ubhayavacanāḥ hi ete dravyam ca āhuḥ guṇam ca . yataḥ dravyavacanāḥ tataḥ vṛttiḥ bhaviṣyati . ime api tarhi ubhayavacanāḥ . katham . ārabhyate matublopaḥ guṇavacanebhyaḥ matupaḥ luk bhavati iti . yataḥ dravyavacanāḥ tataḥ vṛttiḥ bhaviṣyati . ḍitthādiṣu tarhi vartyabhāvāt vṛttiḥ na prāpnoti . ḍitthatvam . ḍitthatā . ḍāmbhiṭṭatvam iti . atra api kaḥ cit prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca . tena kṛtām kriyām guṇam vā yaḥ kaḥ cit karoti saḥ ucyate ḍitthatvam te etat ḍāmbhiṭṭatvam te etat . evam ḍitthāḥ kurvanti . evam ḍāmbhiṭṭāḥ kurvanti . yaḥ tarhi prāthamakalpikaḥ ḍitthaḥ ḍāmbhiṭṭaḥ ca tasya vartyabhāvāt vṛttiḥ na prāpnoti . na eṣaḥ doṣaḥ . yathā eva tasya kāthañcitkaḥ prayogaḥ evam vṛttiḥ api bhaviṣyati . yat vā sarve bhāvāḥ svena bhāvena bhavanti saḥ teṣām bhāvaḥ tadabhidhāne . kim ebhiḥ tribhiḥ bhāvagrahaṇaiḥ kriyate . ekena śabdaḥ pratinirdiśyate dvābhyām arthaḥ . yat vā sarve śabdāḥ svena arthena bhavanti . saḥ teṣām arthaḥ iti tadabhidhāne vā tvatalau
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६८।५-३६९।२ रो इव्।९३-९५ त्वतल्भ्याम् नञ्समासः पूर्वविप्रतिषिद्धम् त्वतलोः स्वरसिद्ध्यर्थम् । त्वतल्भ्याम् नञ्समासः भवति पूर्वविप्रतिष्धेन । किम् प्रयोजनम् । त्वतलोः स्वरसिद्ध्यर्थम् । त्वतलोः स्वरसिद्धिः यथा स्यात् । त्वतलोः अवकाशः भावस्य वचनम् प्रतिषेधस्य अवचनम् । ब्राह्मणत्वम् । ब्राह्म्णता । नञ्समासस्य अवकाशः प्रतिषेधस्य वचनम् भावस्य अवचनम् । अब्राह्मणः । अवृषलः । उभयवचने उभयम् प्राप्नोति । अब्राह्मणत्वम् । अब्राह्मणता । नञ्समासः भवति पूर्वविप्रतिष्धेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । न अत्र त्वतलौ प्राप्नुतः । किम् कारणम् । असामर्थ्यात् । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । यावता ब्राह्मणशब्दः प्रतिषेधम् अपेक्षते । नञ्समासः अपि तर्हि न प्राप्नोति । किम् कारणम् । असामर्थ्यात् एव । कथम् असामर्थ्यम् । सापेक्षम् असमर्थम् भवति इति । यावता ब्राह्मणशब्दः भावम् अपेक्षते । प्रधानम् तदा ब्राह्मणशब्दः । भवति च प्रधानस्य सापेक्षस्य अपि समासः । इदम् तर्हि प्रयोजनम् । नञ्समादात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति वक्ष्यति । तत्र व्यवस्थार्थम् इदम् वक्तव्यम् । वा छन्दसि । वा छन्दसि नञ्समासः वक्तव्यः । निर्वीर्यताम् वै यजमानः आशास्ते अपशुताम् । अयोनित्वाय । अशिथिलत्वाय । अगोताम् अनपत्यताम् । भवेत् इदम् युक्तम् उदाहरणम् । अयोनित्वाय । अशिथिलत्वाय इति । इदम् तु अयुक्तम् अपशुताम् इति । न हि असौ समासभावम् आशास्ते । किम् तर्हि । उत्तरपदाभावम् आशास्ते । न पशोः भावः इति । नञ्समासात् अन्यः भाववचनः । नञ्समासात् अन्यः भाववचनः भवति विप्रतिषेधेन । किम् प्रयोजनम् । स्वरोत्तरपदवृद्ध्यर्थम् । स्वरार्थम् उत्तरपदवृद्ध्यर्थम् च । स्वरार्थम् तावत् । अप्रथिमा । अम्रदिमा । उत्तरपदवृद्ध्यर्थम् । अशौक्ल्यम् । अकार्ष्ण्यम् ।
KA II.368.5-369.2 Ro IV.93-95 tvatalbhyām nañsamāsaḥ pūrvavipratiṣiddham tvataloḥ svarasiddhyartham . tvatalbhyām nañsamāsaḥ bhavati pūrvavipratiṣdhena . kim prayojanam . tvataloḥ svarasiddhyartham . tvataloḥ svarasiddhiḥ yathā syāt . tvataloḥ avakāśaḥ bhāvasya vacanam pratiṣedhasya avacanam . brāhmaṇatvam . brāhmṇatā . nañsamāsasya avakāśaḥ pratiṣedhasya vacanam bhāvasya avacanam . abrāhmaṇaḥ . avṛṣalaḥ . ubhayavacane ubhayam prāpnoti . abrāhmaṇatvam . abrāhmaṇatā . nañsamāsaḥ bhavati pūrvavipratiṣdhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . na atra tvatalau prāpnutaḥ . kim kāraṇam . asāmarthyāt . katham asāmarthyam . sāpekṣam asamartham bhavati iti . yāvatā brāhmaṇaśabdaḥ pratiṣedham apekṣate . nañsamāsaḥ api tarhi na prāpnoti . kim kāraṇam . asāmarthyāt eva . katham asāmarthyam . sāpekṣam asamartham bhavati iti . yāvatā brāhmaṇaśabdaḥ bhāvam apekṣate . pradhānam tadā brāhmaṇaśabdaḥ . bhavati ca pradhānasya sāpekṣasya api samāsaḥ . idam tarhi prayojanam . nañsamādāt anyaḥ bhāvavacanaḥ svarottarapadavṛddhyartham iti vakṣyati . tatra vyavasthārtham idam vaktavyam . vā chandasi . vā chandasi nañsamāsaḥ vaktavyaḥ . nirvīryatām vai yajamānaḥ āśāste apaśutām . ayonitvāya . aśithilatvāya . agotām anapatyatām . bhavet idam yuktam udāharaṇam . ayonitvāya . aśithilatvāya iti . idam tu ayuktam apaśutām iti . na hi asau samāsabhāvam āśāste . kim tarhi . uttarapadābhāvam āśāste . na paśoḥ bhāvaḥ iti . nañsamāsāt anyaḥ bhāvavacanaḥ . nañsamāsāt anyaḥ bhāvavacanaḥ bhavati vipratiṣedhena . kim prayojanam . svarottarapadavṛddhyartham . svarārtham uttarapadavṛddhyartham ca . svarārtham tāvat . aprathimā . amradimā . uttarapadavṛddhyartham . aśauklyam . akārṣṇyam .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६९।४-१६ रो इव्।९५-९७ किमर्थः चकारः । अनुकर्षणार्थः । त्वतलौ अनुकृष्येते । न एतत् अस्ति प्रयोजनम् । प्रकृतौ त्वतलौ अनुवर्तिष्येते । अतः उत्तरम् पठति । आ च त्वात् इति चकारकरणम् अपवादसमावेशार्थम् । आ च त्वात् इति चकारकरणम् क्रियते अपवादसमावेशार्थम् । इमनिच्प्रभृतिभिः अपवादैः समावेशः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । आ त्वात् इति एवम् इमनिच्प्रभृतिभिः अपवादैः समावेशः भविष्यति । इदम् तर्हि प्रयोजनम् । आ त्वात् याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्याताम् यतः च उच्येते । एतत् अपि न अस्ति प्रयोजनम् । आ त्वात् इति एव याः प्रकृतयः ताभ्यः त्वतलौ भविष्यतः यतः च उच्येते । इदम् तर्हि प्रयोजनम् । आ त्वात् ये अर्थाः तत्र त्वतलौ यथा स्याताम् यत्र च उच्येते । एतत् अपि न अस्ति प्रयोजनम् । आ त्वात् इति एव आ त्वात् ये अर्थाः तत्र त्वतलौ भविष्यतः यत्र च उच्येते । इदम् तर्हि प्रयोजनम् । आ त्वात् याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्याताम् यस्याः च प्रकृतेः अतस्मिन् विशेषे अन्यः प्रत्ययः उत्पद्यते । किम् कृतम् भवति । स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् चोदितम् । तत् न वक्तव्यम् भवति ।
KA II.369.4-16 Ro IV.95-97 kimarthaḥ cakāraḥ . anukarṣaṇārthaḥ . tvatalau anukṛṣyete . na etat asti prayojanam . prakṛtau tvatalau anuvartiṣyete . ataḥ uttaram paṭhati . ā ca tvāt iti cakārakaraṇam apavādasamāveśārtham . ā ca tvāt iti cakārakaraṇam kriyate apavādasamāveśārtham . imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ yathā syāt . na etat asti prayojanam . ā tvāt iti evam imanicprabhṛtibhiḥ apavādaiḥ samāveśaḥ bhaviṣyati . idam tarhi prayojanam . ā tvāt yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yataḥ ca ucyete . etat api na asti prayojanam . ā tvāt iti eva yāḥ prakṛtayaḥ tābhyaḥ tvatalau bhaviṣyataḥ yataḥ ca ucyete . idam tarhi prayojanam . ā tvāt ye arthāḥ tatra tvatalau yathā syātām yatra ca ucyete . etat api na asti prayojanam . ā tvāt iti eva ā tvāt ye arthāḥ tatra tvatalau bhaviṣyataḥ yatra ca ucyete . idam tarhi prayojanam . ā tvāt yāḥ prakṛtayaḥ tābhyaḥ ca tvatalau yathā syātām yasyāḥ ca prakṛteḥ atasmin viśeṣe anyaḥ pratyayaḥ utpadyate . kim kṛtam bhavati . strīpuṃsābhyām tvataloḥ upasaṅkhyānam coditam . tat na vaktavyam bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३६९।१९-३७०।१२ रो इव्।९७-१०० कस्य अयम् प्रतिषेधः । त्वतलोः इति आह । न एतत् असि प्रयोजनम् । इष्येते नञ्पूर्वात् तत्पुरुषात् त्वतलौ : अब्राह्मणत्वम् अब्राह्मणता इति । अतः उत्तरम् पठति । न नञ्पूर्वात् इति उत्तरस्य प्रतिषेधः । न नञ्पूर्वात् इति उत्तरस्य भावप्रत्ययस्य प्रतिषेधः क्रियते । न एतत् अस्ति प्रयोजनम् । परिगणिताभ्यः प्रकृतिभ्यः उत्तरः भावप्रत्ययः विधीयते । न च तत्र का चित् नञ्पूर्वा प्रकृतिः गृह्यते । तदन्तविधिना प्राप्नोति । ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते । यत्र तर्हि तदन्तविधिः अस्ति । पत्यन्तपुरोहितादिभ्यः यक् इति । यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अपत्यन्तात् यक् भवति नञ्पूर्वात् तत्पुरुषात् इति । एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः नञ्पूर्वात् बहुव्रीहेः भवति इति । न इष्यते । त्वतलौ एव इष्येते : अविद्यमानाः पृथवः अस्य अपृथुः , अपृथोः भावः अपृथुत्वम् अपृथुता इति । एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः अन्यपूर्वात् तत्पुरुषात् भवति इति । न इष्यते । त्वतलौ एव इष्येते : परमः पृथुः परमपृथुः , परमपृथोः भावः परमपृथुत्वम् परमपृथुता । एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः सापेक्षात् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । नञ्समासात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति उक्तम् । तत् उपपन्नम् भवति । एतत् अपि न अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति सर्वे एते तद्धिताः सापेक्षात् भवन्ति इति यत् अयम् नञः गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थाः तद्धिताः इति आह ।
KA II.369.19-370.12 Ro IV.97-100 kasya ayam pratiṣedhaḥ . tvataloḥ iti āha . na etat asi prayojanam . iṣyete nañpūrvāt tatpuruṣāt tvatalau : abrāhmaṇatvam abrāhmaṇatā iti . ataḥ uttaram paṭhati . na nañpūrvāt iti uttarasya pratiṣedhaḥ . na nañpūrvāt iti uttarasya bhāvapratyayasya pratiṣedhaḥ kriyate . na etat asti prayojanam . parigaṇitābhyaḥ prakṛtibhyaḥ uttaraḥ bhāvapratyayaḥ vidhīyate . na ca tatra kā cit nañpūrvā prakṛtiḥ gṛhyate . tadantavidhinā prāpnoti . grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate . yatra tarhi tadantavidhiḥ asti . patyantapurohitādibhyaḥ yak iti . yadi etāvat prayojanam syāt tatra eva ayam brūyāt apatyantāt yak bhavati nañpūrvāt tatpuruṣāt iti . evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ nañpūrvāt bahuvrīheḥ bhavati iti . na iṣyate . tvatalau eva iṣyete : avidyamānāḥ pṛthavaḥ asya apṛthuḥ , apṛthoḥ bhāvaḥ apṛthutvam apṛthutā iti . evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ anyapūrvāt tatpuruṣāt bhavati iti . na iṣyate . tvatalau eva iṣyete : paramaḥ pṛthuḥ paramapṛthuḥ , paramapṛthoḥ bhāvaḥ paramapṛthutvam paramapṛthutā . evam tarhi jñāpayati ācārayaḥ uttaraḥ bhāvapratyayaḥ sāpekṣāt bhavati iti . kim etasya jñāpane prayojanam . nañsamāsāt anyaḥ bhāvavacanaḥ svarottarapadavṛddhyartham iti uktam . tat upapannam bhavati . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati sarve ete taddhitāḥ sāpekṣāt bhavanti iti yat ayam nañaḥ guṇapratiṣedhe sampādyarhahitālamarthāḥ taddhitāḥ iti āha .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३७०।१४-१९ रो इव्।१००-१०१ वावचनम् किमर्थम् । वाक्यम् अपि यथा स्यात् । न एतत् अस्ति प्रयोजनम् । प्रकृटा महाविभाषा । तया वाक्यम् अपि भविष्यति । इदम् तर्हि प्रयोजनम् । त्वतलौ अपि यथा स्याताम् । एतत् अपि न अस्ति प्रयोजनम् । आ च त्वात् इति एतस्मात् यत्नात् त्वतलौ अपि भविष्यतः । अतः उत्तरम् पठति । पृथ्वादिभ्यः वावचनम् अण्समावेशार्थम् । पृथ्वादिभ्यः वावचनम् क्रियते अण्समावेशः यथा स्यात् । पार्थवम् । प्रथिमा ।
KA II.370.14-19 Ro IV.100-101 vāvacanam kimartham . vākyam api yathā syāt . na etat asti prayojanam . prakṛṭā mahāvibhāṣā . tayā vākyam api bhaviṣyati . idam tarhi prayojanam . tvatalau api yathā syātām . etat api na asti prayojanam . ā ca tvāt iti etasmāt yatnāt tvatalau api bhaviṣyataḥ . ataḥ uttaram paṭhati . pṛthvādibhyaḥ vāvacanam aṇsamāveśārtham . pṛthvādibhyaḥ vāvacanam kriyate aṇsamāveśaḥ yathā syāt . pārthavam . prathimā .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३७०।२१-३७१।२ रो इव्।१०१ ब्राह्मणादिषु चातुर्वर्ण्यादीनाम् उपसङ्ख्यानम् । ब्राह्मणादिषु चातुर्वर्ण्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् । चातुर्वर्ण्यम् । चातुर्वैद्यम् । चातुराश्रम्यम् । अर्हतः नुम् च । अर्हतः नुम् च ष्यञ् च वक्तव्यः । अर्हतः भावः आर्हन्त्यम् आर्हती ।
KA II.370.21-371.2 Ro IV.101 brāhmaṇādiṣu cāturvarṇyādīnām upasaṅkhyānam . brāhmaṇādiṣu cāturvarṇyādīnām upasaṅkhyānam kartavyam . cāturvarṇyam . cāturvaidyam . cāturāśramyam . arhataḥ num ca . arhataḥ num ca ṣyañ ca vaktavyaḥ . arhataḥ bhāvaḥ ārhantyam ārhatī .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३७१।४-६ रो इव्।१०१-१०२ किम् इदम् नलोपे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् । किम् च अतः । यदि वर्णग्रहणम् स्तेयम् । नलोपे कृते अयादेशः प्राप्नोति । अथ सङ्घातग्रहणम् अन्त्यस्य लोपः कस्मात् न भवति । सिद्धः अन्त्यस्य लोपः यस्य इति एव । तत्र आरम्भसामर्थ्यात् सर्वस्य भविष्यति ।
KA II.371.4-6 Ro IV.101-102 kim idam nalope varṇagrahaṇam āhosvit saṅghātagrahaṇam . kim ca ataḥ . yadi varṇagrahaṇam steyam . nalope kṛte ayādeśaḥ prāpnoti . atha saṅghātagrahaṇam antyasya lopaḥ kasmāt na bhavati . siddhaḥ antyasya lopaḥ yasya iti eva . tatra ārambhasāmarthyāt sarvasya bhaviṣyati .
Sanskrit only: no published translation is held for this verse.
क्अ इइ।३७१।८-१० रो इव्।१०२ अण्प्रकरणे श्रोत्रियस्य । अण्प्रकरणे श्रोत्रियस्य उपसङ्ख्यानम् कर्तव्यम् घलोपः च । श्रोत्रियस्य भावः श्रौत्रम् ।
KA II.371.8-10 Ro IV.102 aṇprakaraṇe śrotriyasya . aṇprakaraṇe śrotriyasya upasaṅkhyānam kartavyam ghalopaḥ ca . śrotriyasya bhāvaḥ śrautram .
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.