क्अ इइ।३६०।८-३६१।५ रो इव्।६२-६४) तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् । तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । महानाम्नीनाम् ब्रह्मचर्यम् माहानाम्निकम् । आदित्यव्रतिकम् । तत् चरति इति च । तत् चरति इति च महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । महानाम्नीः चरति माहानाम्निकः । आदित्यव्रतिकः । न एषः युक्तः निर्देशः तत् चरति इति । महानाम्न्यः नाम ऋचः । न च ताः चर्यन्ते । व्रतम् तासाम् चर्यते । न एषः दोषः । साहचर्यात् ताच्छब्यम् भविष्यति । महानाम्नीसहचरितम् व्रतम् महानाम्न्यः व्रतम् इति । अवान्तरदीक्षादिभ्यः डिनिः । अवान्तरदीक्षादिभ्यः डिनिः वक्तव्यः । अवान्तरदीक्षी । तिलव्रती । अष्टाचत्वारिंशतः ड्वुन् च । अष्टाचत्वारिंशतः ड्वुन् च डिनिः च वक्तव्यः । अष्टाचत्वारिंशकः । अष्टाचत्वारिंशी । चातुर्मास्यानाम् यलोपः च । चातुर्मास्यानाम् यलोपः च ड्वुन् च डिनिः च वक्तव्यः । चातुर्मासिकः । चातुर्मासी । अथ किम् इदम् चातुर्मास्यानाम् इति । चतुर्मासात् ण्यः यज्ञे तत्र भवे । चतुर्मासात् ण्यः वक्तव्यः यज्ञे तत्र भवे इति एतस्मिन् अर्थे । चतुर्षु मासेषु भवानि चातुर्मास्यानि यज्ञाः । सञ्ज्ञायाम् अण् । सञ्ज्ञायाम् अण् वक्तव्यः । चतुर्षु मासेषु भवा चातुर्मासी पौणमासी ।
KA II.360.8-361.5 Ro IV.62-64) tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam . tat asya brahmacaryam iti mahānāmnyādibhyaḥ upasaṅkhyānam kartavyam . mahānāmnīnām brahmacaryam māhānāmnikam . ādityavratikam . tat carati iti ca . tat carati iti ca mahānāmnyādibhyaḥ upasaṅkhyānam kartavyam . mahānāmnīḥ carati māhānāmnikaḥ . ādityavratikaḥ . na eṣaḥ yuktaḥ nirdeśaḥ tat carati iti . mahānāmnyaḥ nāma ṛcaḥ . na ca tāḥ caryante . vratam tāsām caryate . na eṣaḥ doṣaḥ . sāhacaryāt tācchabyam bhaviṣyati . mahānāmnīsahacaritam vratam mahānāmnyaḥ vratam iti . avāntaradīkṣādibhyaḥ ḍiniḥ . avāntaradīkṣādibhyaḥ ḍiniḥ vaktavyaḥ . avāntaradīkṣī . tilavratī . aṣṭācatvāriṃśataḥ ḍvun ca . aṣṭācatvāriṃśataḥ ḍvun ca ḍiniḥ ca vaktavyaḥ . aṣṭācatvāriṃśakaḥ . aṣṭācatvāriṃśī . cāturmāsyānām yalopaḥ ca . cāturmāsyānām yalopaḥ ca ḍvun ca ḍiniḥ ca vaktavyaḥ . cāturmāsikaḥ . cāturmāsī . atha kim idam cāturmāsyānām iti . caturmāsāt ṇyaḥ yajñe tatra bhave . caturmāsāt ṇyaḥ vaktavyaḥ yajñe tatra bhave iti etasmin arthe . caturṣu māseṣu bhavāni cāturmāsyāni yajñāḥ . sañjñāyām aṇ . sañjñāyām aṇ vaktavyaḥ . caturṣu māseṣu bhavā cāturmāsī pauṇamāsī .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.