क्अ इइ।३९७।१२-२० रो इव्।१६८-१६९ वप्रकरणे मणिहिरण्याभ्याम् उपसङ्ख्यानम् । वप्रकरणे मणिहिरण्याभ्याम् उपसङ्ख्यानम् वक्तव्यम् । मणिवः । हिरण्यवः । छन्दसि ईवनिपौ च । छन्दसि ईवनिपौ च वक्तव्यौ वः च मतुप् च । रथीः अभूत् मुद्गलनी गविष्टौ । सुमङ्गलीः इयम् वधुः । ऋतवानम् । मघवानम् ईमहे । उत् वा च उद्वती च । मेधारथाभ्याम् इरनिरचौ । मेधारथाभ्याम् इरनिरचौ वक्तव्यौ । मेधिरः । रथिरः । अपरः आह : वाप्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यम् । बिम्बावम् । कुररावम् इष्टकावम् ।
KA II.397.12-20 Ro IV.168-169 vaprakaraṇe maṇihiraṇyābhyām upasaṅkhyānam . vaprakaraṇe maṇihiraṇyābhyām upasaṅkhyānam vaktavyam . maṇivaḥ . hiraṇyavaḥ . chandasi īvanipau ca . chandasi īvanipau ca vaktavyau vaḥ ca matup ca . rathīḥ abhūt mudgalanī gaviṣṭau . sumaṅgalīḥ iyam vadhuḥ . ṛtavānam . maghavānam īmahe . ut vā ca udvatī ca . medhārathābhyām iraniracau . medhārathābhyām iraniracau vaktavyau . medhiraḥ . rathiraḥ . aparaḥ āha : vāprakaraṇe anyebhyaḥ api dṛśyate iti vaktavyam . bimbāvam . kurarāvam iṣṭakāvam .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.