क्अ इइ।३९९।७-४००।८ रो इव्।१७१-१७२ छन्दोविन्प्रकरणे अष्टृआमेखलाद्वयोभयरुजाहृदयानाम् दीर्घः च । छन्दोविन्प्रकरणे अष्टृआमेखलाद्वयोभयरुजाहृदयानाम् दीर्घः च इति वक्तव्यम् । अष्ट्रावी । मेखलावी । द्वयावी । उभयावी । रुजावी । हृदयावी । मर्मणः च इति वक्तव्यम् । ममावी । सर्वत्र आमयस्य । सर्वत्र आमयस्य उपसङ्ख्यानम् कर्तव्यम् । आमयावी । शृङ्गवृन्दाभ्याम् आरकन् । शृङ्गवृन्दाभ्याम् आरकन् वक्तव्यः । शृङ्गारकः । वृदारकः । फलबर्हाभ्याम् इनच् । फलबर्हाभ्याम् इनच् वक्तव्यः । फलिनः । बर्हिणः । हृदयात् चालुः अन्यतरस्याम् । हृदयात् चालुः वक्तव्यः अन्यतरस्याम् । हृदयालुः । हृदयी । हृदयिकः । हृदयवान् । शीतोष्णतृप्रेभ्यः तत् न सहते । शीतोष्णतृप्रेभ्यः तत् न सहते इति चालुः वक्तव्यः । शीतालुः । उष्णालुः । तृप्रालुः । हिमात् चेलुः । हिमात् चेलुः वक्तव्यः तत् न सहते इति एतस्मिन् अर्थे । हिमेलुः । बलात् च ऊलः । बलात् च ऊलः वक्तव्यः तत् न सहते इति एतस्मिन् अर्थे । बलूलः । वातात् समूहे च । वातात् समूहे च तत् न सहते इति एतस्मिन् अर्थे ऊलः वक्तव्यः । वातूलः । पर्वमरुद्भ्याम् तप् । पर्वमरुद्भ्याम् तप् वक्तव्यः । पर्वतः । मरुत्तः । ददातिवृत्तम् वा । ददातिवृत्तम् वा पुनः एतत् भविष्यति । मरुद्भिः दत्तः मरुत्तः ।
KA II.399.7-400.8 Ro IV.171-172 chandovinprakaraṇe aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca . chandovinprakaraṇe aṣṭṛāmekhalādvayobhayarujāhṛdayānām dīrghaḥ ca iti vaktavyam . aṣṭrāvī . mekhalāvī . dvayāvī . ubhayāvī . rujāvī . hṛdayāvī . marmaṇaḥ ca iti vaktavyam . mamāvī . sarvatra āmayasya . sarvatra āmayasya upasaṅkhyānam kartavyam . āmayāvī . śṛṅgavṛndābhyām ārakan . śṛṅgavṛndābhyām ārakan vaktavyaḥ . śṛṅgārakaḥ . vṛdārakaḥ . phalabarhābhyām inac . phalabarhābhyām inac vaktavyaḥ . phalinaḥ . barhiṇaḥ . hṛdayāt cāluḥ anyatarasyām . hṛdayāt cāluḥ vaktavyaḥ anyatarasyām . hṛdayāluḥ . hṛdayī . hṛdayikaḥ . hṛdayavān . śītoṣṇatṛprebhyaḥ tat na sahate . śītoṣṇatṛprebhyaḥ tat na sahate iti cāluḥ vaktavyaḥ . śītāluḥ . uṣṇāluḥ . tṛprāluḥ . himāt celuḥ . himāt celuḥ vaktavyaḥ tat na sahate iti etasmin arthe . himeluḥ . balāt ca ūlaḥ . balāt ca ūlaḥ vaktavyaḥ tat na sahate iti etasmin arthe . balūlaḥ . vātāt samūhe ca . vātāt samūhe ca tat na sahate iti etasmin arthe ūlaḥ vaktavyaḥ . vātūlaḥ . parvamarudbhyām tap . parvamarudbhyām tap vaktavyaḥ . parvataḥ . maruttaḥ . dadātivṛttam vā . dadātivṛttam vā punaḥ etat bhaviṣyati . marudbhiḥ dattaḥ maruttaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.