क्अ इइ।४३५।५-४३६।४ रो इव्।२५९-२६० तत् इति अनेन किम् प्रतिनिर्दिश्यते । वाक् एव । यत् एव वाचा व्यवहिर्यते तत् कर्मणा क्रियते । अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि । अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि उपसङ्ख्यानम् कर्तव्यम् । कौलालः । वाऋउडः । नैषादः । चाण्डालः । आमित्रः । भागरूपनामभ्यः धेयः । भागरूपनामभ्यः धेयः वक्तव्यः । भागधेयम् । रूपधेयम् । नामधेयम् । मित्रात् छन्दसि । मित्रात् छन्दसि धेयः वक्तव्यः । मित्रधेये यतस्व । अण् अमित्रात् च । अण् अमित्रात् च इति वक्तव्यम् । मैत्रः । आमित्रः । सान्नाय्यानुजावरानुषूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनानि निपात्न्यन्ते । सान्नाय्यम् । आनुजावरः । आनुषूकः । चातुष्प्राश्यः । राक्षोघ्नः । वैयातः । वैकृतः । वारिवस्कृतः । आग्रायणः । आग्रहायणः । सान्तपनः । अग्नीध्रसाधारणात् अञ् । अग्नीध्रसाधारणात् अञ् वक्तव्यः । आग्नीध्रम् । साधारणम् । अयवसमरुद्भ्याम् छन्दसि । अयवसमरुद्भ्याम् छन्दसि अञ् वक्तव्यः । आयवसे वर्धन्ते । मारुतम् शर्धः । नवसूरमर्तयविष्ठेभ्यः यत् । नवसूरमर्तयविष्ठेभ्यः यत् वक्तव्यः । नव्यः । सूर्यः । मर्त्यः । यविष्थ्यः । क्षेमात् यः । क्षेमात् यः वक्तव्यः । क्षेम्यः तिष्ठन् प्रतरणः सुवीरः ।
KA II.435.5-436.4 Ro IV.259-260 tat iti anena kim pratinirdiśyate . vāk eva . yat eva vācā vyavahiryate tat karmaṇā kriyate . aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi . aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi upasaṅkhyānam kartavyam . kaulālaḥ . vāṛuḍaḥ . naiṣādaḥ . cāṇḍālaḥ . āmitraḥ . bhāgarūpanāmabhyaḥ dheyaḥ . bhāgarūpanāmabhyaḥ dheyaḥ vaktavyaḥ . bhāgadheyam . rūpadheyam . nāmadheyam . mitrāt chandasi . mitrāt chandasi dheyaḥ vaktavyaḥ . mitradheye yatasva . aṇ amitrāt ca . aṇ amitrāt ca iti vaktavyam . maitraḥ . āmitraḥ . sānnāyyānujāvarānuṣūkacātuṣprāśyarākṣoghnavaiyātavaikṛtavārivaskṛtāgrāyaṇāgrahāyaṇasāntapanāni nipātnyante . sānnāyyam . ānujāvaraḥ . ānuṣūkaḥ . cātuṣprāśyaḥ . rākṣoghnaḥ . vaiyātaḥ . vaikṛtaḥ . vārivaskṛtaḥ . āgrāyaṇaḥ . āgrahāyaṇaḥ . sāntapanaḥ . agnīdhrasādhāraṇāt añ . agnīdhrasādhāraṇāt añ vaktavyaḥ . āgnīdhram . sādhāraṇam . ayavasamarudbhyām chandasi . ayavasamarudbhyām chandasi añ vaktavyaḥ . āyavase vardhante . mārutam śardhaḥ . navasūramartayaviṣṭhebhyaḥ yat . navasūramartayaviṣṭhebhyaḥ yat vaktavyaḥ . navyaḥ . sūryaḥ . martyaḥ . yaviṣthyaḥ . kṣemāt yaḥ . kṣemāt yaḥ vaktavyaḥ . kṣemyaḥ tiṣṭhan prataraṇaḥ suvīraḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.