Library·Patanjali: Vyakaranamahabhasya·5·5.4

Patanjali: Vyakaranamahabhasya 5.4

क्अ इइ।४३०।२-४ रो इव्।२४७ पादशतग्रहणम् अनर्थकम् अन्यत्र अपि दर्शनात् । पादशतग्रहणम् अनर्थकम् । किम् कारणम् । अन्यत्र अपि दर्शनात् । अन्यत्र अपि हि वुन् दृश्यते । द्विमोदिकाम् ददाति ।

KA II.430.2-4 Ro IV.247 pādaśatagrahaṇam anarthakam anyatra api darśanāt . pādaśatagrahaṇam anarthakam . kim kāraṇam . anyatra api darśanāt . anyatra api hi vun dṛśyate . dvimodikām dadāti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३०।६-७ रो इव्।२४७ कन्प्रकरणे चञ्चद्ब्र्हतोः उपसङ्ख्यानम् । कन्प्रकरणे चञ्चद्ब्र्हतोः उपसङ्ख्यानम् कर्तव्यम् । चँचत्कः । बृहत्कः ।

KA II.430.6-7 Ro IV.247 kanprakaraṇe cañcadbrhatoḥ upasaṅkhyānam . kanprakaraṇe cañcadbrhatoḥ upasaṅkhyānam kartavyam . ca~catkaḥ . bṛhatkaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३०।९-१६ रो इव्।२४७-२४८ अनत्यन्तगतौ क्तान्तात् तमादयः पूर्वविप्रतिषिद्धम् । अनत्यन्तगतौ क्तान्तात् तमादयः भवन्ति पूर्वविप्रतिषेधेन । अनत्यन्तगतौ क्तान्तात् कन् भवति इति अस्य अवकाशः अनत्यन्तगतेः वचनम् प्रकर्षस्य अवचनम् । भिन्नकम् । छिन्नकम् । तमादीनाम् अवकाशः प्रकर्षस्य वचनम् अनत्यन्तगतेः अवचनम् । पटुतरः । पटुतमः । उभयवचने उभयम् प्राप्नोति । भिन्नतरकम् । छिन्नतरकम् । तमादयः भवन्ति पूर्वविप्रतिषेधेन । तदन्तात् च स्वार्थे कन्वचनम् । तदन्तात् च स्वार्थे कन् वक्तव्यः । भिन्नतरकम् ।

KA II.430.9-16 Ro IV.247-248 anatyantagatau ktāntāt tamādayaḥ pūrvavipratiṣiddham . anatyantagatau ktāntāt tamādayaḥ bhavanti pūrvavipratiṣedhena . anatyantagatau ktāntāt kan bhavati iti asya avakāśaḥ anatyantagateḥ vacanam prakarṣasya avacanam . bhinnakam . chinnakam . tamādīnām avakāśaḥ prakarṣasya vacanam anatyantagateḥ avacanam . paṭutaraḥ . paṭutamaḥ . ubhayavacane ubhayam prāpnoti . bhinnatarakam . chinnatarakam . tamādayaḥ bhavanti pūrvavipratiṣedhena . tadantāt ca svārthe kanvacanam . tadantāt ca svārthe kan vaktavyaḥ . bhinnatarakam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३१।२-४ रो इव्।२४८ सामिवचने प्रतिषेधानर्थक्यम् प्रकृत्यभिहितत्वात् । सामिवचने प्रतिषेधः अनर्थकः । किम् कारणम् । प्रकृत्यभिहितत्वात् । प्रकृत्यभिहितः सः अर्थः इति कृत्वा कन् न भविष्यति ।

KA II.431.2-4 Ro IV.248 sāmivacane pratiṣedhānarthakyam prakṛtyabhihitatvāt . sāmivacane pratiṣedhaḥ anarthakaḥ . kim kāraṇam . prakṛtyabhihitatvāt . prakṛtyabhihitaḥ saḥ arthaḥ iti kṛtvā kan na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३१।६-२३ रो इव्।२४८-२५१ अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिः विग्रहाभावात् । अध्युत्तरपदात् प्रत्ययविधेः अनुपपत्तिः । किम् कारणम् । विग्रहाभावात् । विग्रहपूर्विका तद्धितोत्पत्तिः । न च अध्युत्तरपदेन विग्रहः दृश्यते । तस्मात् तत्र इदम् इति सधीनर् । तस्मात् तत्र इदम् इति सधीनर् प्रत्ययः वक्तव्यः । राजनि इदम् राजाधीनम् । यदि सधीनर् क्रियते सकारस्य इत्सञ्ज्ञा न प्राप्नोति । इह च श्र्यधीनः भ्र्वधीनः इति अङ्गस्य इति इयङुवङौ स्याताम् । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिः विग्रहाभावात् इति । न एषः दोषः । अस्ति कारणम् येन अत्र विग्रहः न भवति । किम् कारणम् । नित्यप्रत्ययः अयम् । के पुनः नित्यप्रत्ययाः । तमादयः प्राक् कनः ञ्यादयः प्राक् वुनः आमादयः प्राक् मयटः बृहतीजात्यन्ताः समासान्ताः च इति । एवम् तर्हि न अयम् प्रत्ययविधिः उपालभ्यते । किम् तर्हि । प्रकृतिः उपालभ्यते । अध्युत्तरपदा प्रकृतिः न अस्ति । किम् कारणम् । विग्रहाभावात् । विग्रहपूर्विका समासवृत्तिः । न च अधिना विग्रहः दृश्यते । एवम् तर्हि बहुव्रीहिः भविष्यति । किम् कृतम् भवति । भवति वै कः चित् अस्वपदविग्रहः अपि बहुव्रीहिः । तत् यथा शोभनम् मुखम् अस्याः सुमुखी इति । न एवम् शक्यम् । इह हि महदधीनम् इति आत्त्वकपौ प्रसज्येयाताम् । एवम् तर्हि अव्ययीभावः भविष्यति । एवम् अपि अधेः पूर्वनिपातः प्राप्नोति । राजदन्तादिषु पाठः करिष्यते । अथ वा सप्तमीसमासः अयम् । अधिः शौण्डादिषु पठ्यते ।

KA II.431.6-23 Ro IV.248-251 adhyuttarapadāt pratyayavidhānānupapattiḥ vigrahābhāvāt . adhyuttarapadāt pratyayavidheḥ anupapattiḥ . kim kāraṇam . vigrahābhāvāt . vigrahapūrvikā taddhitotpattiḥ . na ca adhyuttarapadena vigrahaḥ dṛśyate . tasmāt tatra idam iti sadhīnar . tasmāt tatra idam iti sadhīnar pratyayaḥ vaktavyaḥ . rājani idam rājādhīnam . yadi sadhīnar kriyate sakārasya itsañjñā na prāpnoti . iha ca śryadhīnaḥ bhrvadhīnaḥ iti aṅgasya iti iyaṅuvaṅau syātām . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam adhyuttarapadāt pratyayavidhānānupapattiḥ vigrahābhāvāt iti . na eṣaḥ doṣaḥ . asti kāraṇam yena atra vigrahaḥ na bhavati . kim kāraṇam . nityapratyayaḥ ayam . ke punaḥ nityapratyayāḥ . tamādayaḥ prāk kanaḥ ñyādayaḥ prāk vunaḥ āmādayaḥ prāk mayaṭaḥ bṛhatījātyantāḥ samāsāntāḥ ca iti . evam tarhi na ayam pratyayavidhiḥ upālabhyate . kim tarhi . prakṛtiḥ upālabhyate . adhyuttarapadā prakṛtiḥ na asti . kim kāraṇam . vigrahābhāvāt . vigrahapūrvikā samāsavṛttiḥ . na ca adhinā vigrahaḥ dṛśyate . evam tarhi bahuvrīhiḥ bhaviṣyati . kim kṛtam bhavati . bhavati vai kaḥ cit asvapadavigrahaḥ api bahuvrīhiḥ . tat yathā śobhanam mukham asyāḥ sumukhī iti . na evam śakyam . iha hi mahadadhīnam iti āttvakapau prasajyeyātām . evam tarhi avyayībhāvaḥ bhaviṣyati . evam api adheḥ pūrvanipātaḥ prāpnoti . rājadantādiṣu pāṭhaḥ kariṣyate . atha vā saptamīsamāsaḥ ayam . adhiḥ śauṇḍādiṣu paṭhyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३२।२-५ रो इव्।२५१ दिग्ग्रहणम् किमर्थम् । अस्त्रियाम् इति इयति उच्यमाने प्राचीना ब्राह्मणी अवाचीना शिखा इति अत्र अपि प्रसज्येत । दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ स्त्रीग्रहणम् किमर्थम् यावता दिक्शब्दः स्त्रीविषयः एव । भवति वै कः चित् दिक्शब्दः अस्त्रीविषयः अपि । तत् यथा प्राक् प्राचीनम् । प्रत्यक् प्रतीचीनम् । उचक् उदीचीनम् ।

KA II.432.2-5 Ro IV.251 diggrahaṇam kimartham . astriyām iti iyati ucyamāne prācīnā brāhmaṇī avācīnā śikhā iti atra api prasajyeta . diggrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha strīgrahaṇam kimartham yāvatā dikśabdaḥ strīviṣayaḥ eva . bhavati vai kaḥ cit dikśabdaḥ astrīviṣayaḥ api . tat yathā prāk prācīnam . pratyak pratīcīnam . ucak udīcīnam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३२।७-१० रो इव्।२५२ स्त्रीग्रहणम् किमर्थम् न स्वार्थिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । एवम् तर्हि सिद्धे सति यत् स्त्रीग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि । किम् एतस्य ज्ञापने प्रयोजनम् । गुडकल्पा द्राक्षा । तैलकल्पा प्रसन्ना पयस्कल्पा यवागूः इति एतत् सिद्धम् भवति ।

KA II.432.7-10 Ro IV.252 strīgrahaṇam kimartham na svārthikaḥ ayam svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . evam tarhi siddhe sati yat strīgrahaṇam karoti tat jñāpayati ācāryaḥ svārthikāḥ ativartante api liṅgavacanāni . kim etasya jñāpane prayojanam . guḍakalpā drākṣā . tailakalpā prasannā payaskalpā yavāgūḥ iti etat siddham bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३२।१२-४३३।१० रो इव्।२५२-२५६ सकृदादेशे अभ्यावृत्तिग्रहणम् निवर्त्यम् । किम् प्रयोजनम् । पुनः पुनः आवृत्तिः अभ्यावृत्तिः । न च एकस्य पुनः पुनः आवृत्तिः भवति । अथ क्रियाग्रहणम् अनुवर्तते आहोस्वित् न । किम् च अर्थः अनुवृत्त्या । बाढम् अर्थः । इह मा भूत् : एकः भुङ्क्ते इति । अथ अनुवर्तमाने अपि क्रियाग्रहणे इह कस्मात् न भवति । एकः पाकः इति । पूर्वयोः च योगयोः कस्मात् न भवति । द्वौ पाकौ। त्रयः पाकाः । चत्वारः पाकाः । पञ्च पाकाः । दश पाकाः इति । न एतत् क्रियागणनम् । किम् तर्हि । द्रव्यगणनम् एतत् । कथम् । कृदभिहितः भावः द्रव्यवत् भवति इति । इह अपि तर्हि द्रव्यगणनात् न प्राप्नोति । सकृत् भुक्त्वा । सकृत् भोक्तुम् इति । पूर्वयोः च योगयोः द्विः भुक्त्वा द्विः बोक्तुम् त्रिः भुक्त्वा त्रिः भोक्तुम् पञ्चकृत्वा भुक्त्वा पञ्चकृत्वा भोक्तुम् दशकृत्वा भुक्त्वा दशकृत्वा भोक्तुम् इति द्रव्यगणनान् न प्राप्नोति । यदि खलु अपि पुनः पुनः आवृत्तिः अभ्यावृत्तिः द्विः आवृत्ते सकृत् इति स्यात् त्रिः आवृत्ते द्विः इति । एवम् तर्हि अनुवर्तते अभ्यावृत्तिग्रहणम् न तु पुनः पुनः आवृत्तिः अभ्यावृत्तिः । किम् तर्हि अभिमुक्ःई प्रवृत्तिः अभ्यावृत्तिः । पूर्वा च परे प्रति अभिमुक्ःई परे च पूर्वाम् प्रति अभिमुख्यौ । यत् अपि उच्यते अनुवर्तमाने अपि क्रियाग्रहणे इह कस्मात् न भवति । एकः पाकः इति । पूर्वयोः च योगयोः कस्मात् न भवति । द्वौ पाकौ। त्रयः पाकाः । चत्वारः पाकाः । पञ्च पाकाः । दश पाकाः इति परिहृतम् एतत् । न एतत् क्रियागणनम् । किम् तर्हि । द्रव्यगणनम् एतत् । कथम् । कृदभिहितः भावः द्रव्यवत् भवति इति । ननु च उक्तम् इह अपि तर्हि द्रव्यगणनात् न प्राप्नोति । सकृत् भुक्त्वा । सकृत् भोक्तुम् इति । पूर्वयोः च योगयोः द्विः भुक्त्वा द्विः बोक्तुम् त्रिः भुक्त्वा त्रिः भोक्तुम् पञ्चकृत्वा भुक्त्वा पञ्चकृत्वा भोक्तुम् दशकृत्वा भुक्त्वा दशकृत्वा भोक्तुम् इति द्रव्यगणनान् न प्राप्नोति । न एषः दोषः । क्रियागणनात् भविष्यति । कथम् । कृदभिहितः भावः द्रव्यवत् अपि क्रियावत् अपि भवति ।

KA II.432.12-433.10 Ro IV.252-256 sakṛdādeśe abhyāvṛttigrahaṇam nivartyam . kim prayojanam . punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ . na ca ekasya punaḥ punaḥ āvṛttiḥ bhavati . atha kriyāgrahaṇam anuvartate āhosvit na . kim ca arthaḥ anuvṛttyā . bāḍham arthaḥ . iha mā bhūt : ekaḥ bhuṅkte iti . atha anuvartamāne api kriyāgrahaṇe iha kasmāt na bhavati . ekaḥ pākaḥ iti . pūrvayoḥ ca yogayoḥ kasmāt na bhavati . dvau pākau. trayaḥ pākāḥ . catvāraḥ pākāḥ . pañca pākāḥ . daśa pākāḥ iti . na etat kriyāgaṇanam . kim tarhi . dravyagaṇanam etat . katham . kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti . iha api tarhi dravyagaṇanāt na prāpnoti . sakṛt bhuktvā . sakṛt bhoktum iti . pūrvayoḥ ca yogayoḥ dviḥ bhuktvā dviḥ boktum triḥ bhuktvā triḥ bhoktum pañcakṛtvā bhuktvā pañcakṛtvā bhoktum daśakṛtvā bhuktvā daśakṛtvā bhoktum iti dravyagaṇanān na prāpnoti . yadi khalu api punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ dviḥ āvṛtte sakṛt iti syāt triḥ āvṛtte dviḥ iti . evam tarhi anuvartate abhyāvṛttigrahaṇam na tu punaḥ punaḥ āvṛttiḥ abhyāvṛttiḥ . kim tarhi abhimukḥī pravṛttiḥ abhyāvṛttiḥ . pūrvā ca pare prati abhimukḥī pare ca pūrvām prati abhimukhyau . yat api ucyate anuvartamāne api kriyāgrahaṇe iha kasmāt na bhavati . ekaḥ pākaḥ iti . pūrvayoḥ ca yogayoḥ kasmāt na bhavati . dvau pākau. trayaḥ pākāḥ . catvāraḥ pākāḥ . pañca pākāḥ . daśa pākāḥ iti parihṛtam etat . na etat kriyāgaṇanam . kim tarhi . dravyagaṇanam etat . katham . kṛdabhihitaḥ bhāvaḥ dravyavat bhavati iti . nanu ca uktam iha api tarhi dravyagaṇanāt na prāpnoti . sakṛt bhuktvā . sakṛt bhoktum iti . pūrvayoḥ ca yogayoḥ dviḥ bhuktvā dviḥ boktum triḥ bhuktvā triḥ bhoktum pañcakṛtvā bhuktvā pañcakṛtvā bhoktum daśakṛtvā bhuktvā daśakṛtvā bhoktum iti dravyagaṇanān na prāpnoti . na eṣaḥ doṣaḥ . kriyāgaṇanāt bhaviṣyati . katham . kṛdabhihitaḥ bhāvaḥ dravyavat api kriyāvat api bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३३।१२-१४ रो इव्।२५६ देवतान्तात् इति उच्यते । तत इदम् न सिध्यति । पितृदेवत्यम् इति । किम् कारणम् । न हि ल्पितरः देवता । न एषः दोषः । दिवेः ऐश्वर्यकर्मणः देवः । तस्मात् स्वार्थे तल् । एवम् च कृत्वा देवदेवत्यम् अपि सिद्धम् भवति ।

KA II.433.12-14 Ro IV.256 devatāntāt iti ucyate . tata idam na sidhyati . pitṛdevatyam iti . kim kāraṇam . na hi lpitaraḥ devatā . na eṣaḥ doṣaḥ . diveḥ aiśvaryakarmaṇaḥ devaḥ . tasmāt svārthe tal . evam ca kṛtvā devadevatyam api siddham bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३३।१६-२० रो इव्।२५६ तलि स्त्रीलिङ्गवचनम् । तलि स्त्रीलिङ्गम् वक्तव्यम् । देवता । किम् पुनः कारणम् न सिध्यति । देवशब्दः अयम् पुंलिङ्गः स्वार्थिकः च अयम् । स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते । उक्तम् वा । किम् उक्तम् । स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।

KA II.433.16-20 Ro IV.256 tali strīliṅgavacanam . tali strīliṅgam vaktavyam . devatā . kim punaḥ kāraṇam na sidhyati . devaśabdaḥ ayam puṃliṅgaḥ svārthikaḥ ca ayam . svārthikāḥ ca prakṛtitaḥ liṅgavacanāni anuvartante . uktam vā . kim uktam . svārthikāḥ ativartante api liṅgavacanāni iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३३।२२-४३५।३ रो इव्।२५७-२५९ लोहितात् लिङ्गबाधनम् वा । लोहितात् लिङ्गबाधनम् वा इति वक्तव्यम् । लोहितिक । लोहिनिका । अक्षरसमूहे छन्दसः उपसङ्ख्यानम् । अक्षरसमूहे छन्दसः उपसङ्ख्यानम् कर्तव्यम् । ओ श्रावय इति चतुरक्षरम् । अस्तु श्रौषट् इति चतुरक्षरम् । ये यजामहे इति पञ्चाक्षरम् । यज इति द्व्यक्षरम् । द्व्यक्षरः वषट्कारः । एषः वै सप्तदशाक्षरः छन्दस्यः प्रज्ञापतिः यज्ञम् अनु विहितः । छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् । छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् । हस्तौ पृणस्व बहुविः वसव्यैः । अग्निरीशेवसव्यस्य । अग्निरीशेवसव्यस्य उपसङ्ख्यानम् कर्तव्यम् । उक्तम् वा । किम् उक्तम् । स्वार्थविज्ञानात् सिद्धम् इति । अपस्यः वसानाः । अपः वसानाः । स्वे ओक्ये । स्वे ओके । कव्यः असि हव्यसूदन । कविः असि । रौद्रेण अनीकेन कव्यतायै । कवितयै । आमुष्यायणस्य । अमुष्यपुत्रस्य । क्षेम्यस्य ईशे । क्षेमस्य ईशे । क्षेम्यम् अध्यवस्यति । क्षेमम् अध्यवस्यति । आयुः वर्चस्यम् । वर्चः एव वर्चस्यम् । निष्केवल्यम् । निष्केवलम् । उक्थ्यम् । उक्थम् । जन्यम् ताभिः सजन्यम् ताभिः । जनम् ताभिः सजनं ताभिः । स्तोमैः जनयामि नव्यम् । नवम् । प्र नः नव्येभिः । नवैः । ब्रह्म पूर्व्यम् । पाथः पूर्व्यम् । तनुषु पूर्व्यम् । पूर्वम् । पूर्व्याहः । पूर्वाहः । पूर्व्याः विशः । पूर्वाः विशः । पूर्व्यासः । पूर्वासः । सः प्र पूर्व्यः । सः प्र पूर्वः । अग्निम् वै पूर्व्यम् । पूर्वम् । तम् जुषस्व यविष्ठ्य । यविष्ठ । होत्रवाहम् यविष्ठ्यम् । यविष्ठम् । त्वम् ह यत् यविष्ठ्य । यविष्ठ । समावत् वसति समावत् गृह्णाति । समम् वसति समम् गृह्णाति । समावत् देवयज्ञे हस्तौ । समम् । समावत् वीर्यावहानि । समानि । समावत् विर्याणि करोति । समानि । उ ईवते उ लोकम् । यः ईवते ब्रह्मणे । यः इयते । नवस्य नूत्नप्तनखाः च । नवस्य नू इति अयम् आदेशः वक्तव्यः त्नप्तनखाः च प्रत्ययाः वक्तव्याः । नूत्नम् । नूतनम् । नवीनम् । नः च पुराणे प्रात् । नः च पुराणे प्रात् वक्तव्यः त्नप्तनखाः च प्रत्ययाः वक्तव्याः । प्रणम् । प्रत्नम् । प्रतनम् । प्रीणम् ।

KA II.433.22-435.3 Ro IV.257-259 lohitāt liṅgabādhanam vā . lohitāt liṅgabādhanam vā iti vaktavyam . lohitika . lohinikā . akṣarasamūhe chandasaḥ upasaṅkhyānam . akṣarasamūhe chandasaḥ upasaṅkhyānam kartavyam . o śrāvaya iti caturakṣaram . astu śrauṣaṭ iti caturakṣaram . ye yajāmahe iti pañcākṣaram . yaja iti dvyakṣaram . dvyakṣaraḥ vaṣaṭkāraḥ . eṣaḥ vai saptadaśākṣaraḥ chandasyaḥ prajñāpatiḥ yajñam anu vihitaḥ . chandasi bahubhirvasavyairupasaṅkhyānam . chandasi bahubhirvasavyairupasaṅkhyānam . hastau pṛṇasva bahuviḥ vasavyaiḥ . agnirīśevasavyasya . agnirīśevasavyasya upasaṅkhyānam kartavyam . uktam vā . kim uktam . svārthavijñānāt siddham iti . apasyaḥ vasānāḥ . apaḥ vasānāḥ . sve okye . sve oke . kavyaḥ asi havyasūdana . kaviḥ asi . raudreṇa anīkena kavyatāyai . kavitayai . āmuṣyāyaṇasya . amuṣyaputrasya . kṣemyasya īśe . kṣemasya īśe . kṣemyam adhyavasyati . kṣemam adhyavasyati . āyuḥ varcasyam . varcaḥ eva varcasyam . niṣkevalyam . niṣkevalam . ukthyam . uktham . janyam tābhiḥ sajanyam tābhiḥ . janam tābhiḥ sajanaṃ tābhiḥ . stomaiḥ janayāmi navyam . navam . pra naḥ navyebhiḥ . navaiḥ . brahma pūrvyam . pāthaḥ pūrvyam . tanuṣu pūrvyam . pūrvam . pūrvyāhaḥ . pūrvāhaḥ . pūrvyāḥ viśaḥ . pūrvāḥ viśaḥ . pūrvyāsaḥ . pūrvāsaḥ . saḥ pra pūrvyaḥ . saḥ pra pūrvaḥ . agnim vai pūrvyam . pūrvam . tam juṣasva yaviṣṭhya . yaviṣṭha . hotravāham yaviṣṭhyam . yaviṣṭham . tvam ha yat yaviṣṭhya . yaviṣṭha . samāvat vasati samāvat gṛhṇāti . samam vasati samam gṛhṇāti . samāvat devayajñe hastau . samam . samāvat vīryāvahāni . samāni . samāvat vIryāṇi karoti . samāni . u īvate u lokam . yaḥ īvate brahmaṇe . yaḥ iyate . navasya nūtnaptanakhāḥ ca . navasya nū iti ayam ādeśaḥ vaktavyaḥ tnaptanakhāḥ ca pratyayāḥ vaktavyāḥ . nūtnam . nūtanam . navīnam . naḥ ca purāṇe prāt . naḥ ca purāṇe prāt vaktavyaḥ tnaptanakhāḥ ca pratyayāḥ vaktavyāḥ . praṇam . pratnam . pratanam . prīṇam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३५।५-४३६।४ रो इव्।२५९-२६० तत् इति अनेन किम् प्रतिनिर्दिश्यते । वाक् एव । यत् एव वाचा व्यवहिर्यते तत् कर्मणा क्रियते । अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि । अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि उपसङ्ख्यानम् कर्तव्यम् । कौलालः । वाऋउडः । नैषादः । चाण्डालः । आमित्रः । भागरूपनामभ्यः धेयः । भागरूपनामभ्यः धेयः वक्तव्यः । भागधेयम् । रूपधेयम् । नामधेयम् । मित्रात् छन्दसि । मित्रात् छन्दसि धेयः वक्तव्यः । मित्रधेये यतस्व । अण् अमित्रात् च । अण् अमित्रात् च इति वक्तव्यम् । मैत्रः । आमित्रः । सान्नाय्यानुजावरानुषूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनानि निपात्न्यन्ते । सान्नाय्यम् । आनुजावरः । आनुषूकः । चातुष्प्राश्यः । राक्षोघ्नः । वैयातः । वैकृतः । वारिवस्कृतः । आग्रायणः । आग्रहायणः । सान्तपनः । अग्नीध्रसाधारणात् अञ् । अग्नीध्रसाधारणात् अञ् वक्तव्यः । आग्नीध्रम् । साधारणम् । अयवसमरुद्भ्याम् छन्दसि । अयवसमरुद्भ्याम् छन्दसि अञ् वक्तव्यः । आयवसे वर्धन्ते । मारुतम् शर्धः । नवसूरमर्तयविष्ठेभ्यः यत् । नवसूरमर्तयविष्ठेभ्यः यत् वक्तव्यः । नव्यः । सूर्यः । मर्त्यः । यविष्थ्यः । क्षेमात् यः । क्षेमात् यः वक्तव्यः । क्षेम्यः तिष्ठन् प्रतरणः सुवीरः ।

KA II.435.5-436.4 Ro IV.259-260 tat iti anena kim pratinirdiśyate . vāk eva . yat eva vācā vyavahiryate tat karmaṇā kriyate . aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi . aṇprakaraṇe kulālavaruḍaniṣādacaṇḍālāmitrebhyaḥ chandasi upasaṅkhyānam kartavyam . kaulālaḥ . vāṛuḍaḥ . naiṣādaḥ . cāṇḍālaḥ . āmitraḥ . bhāgarūpanāmabhyaḥ dheyaḥ . bhāgarūpanāmabhyaḥ dheyaḥ vaktavyaḥ . bhāgadheyam . rūpadheyam . nāmadheyam . mitrāt chandasi . mitrāt chandasi dheyaḥ vaktavyaḥ . mitradheye yatasva . aṇ amitrāt ca . aṇ amitrāt ca iti vaktavyam . maitraḥ . āmitraḥ . sānnāyyānujāvarānuṣūkacātuṣprāśyarākṣoghnavaiyātavaikṛtavārivaskṛtāgrāyaṇāgrahāyaṇasāntapanāni nipātnyante . sānnāyyam . ānujāvaraḥ . ānuṣūkaḥ . cātuṣprāśyaḥ . rākṣoghnaḥ . vaiyātaḥ . vaikṛtaḥ . vārivaskṛtaḥ . āgrāyaṇaḥ . āgrahāyaṇaḥ . sāntapanaḥ . agnīdhrasādhāraṇāt añ . agnīdhrasādhāraṇāt añ vaktavyaḥ . āgnīdhram . sādhāraṇam . ayavasamarudbhyām chandasi . ayavasamarudbhyām chandasi añ vaktavyaḥ . āyavase vardhante . mārutam śardhaḥ . navasūramartayaviṣṭhebhyaḥ yat . navasūramartayaviṣṭhebhyaḥ yat vaktavyaḥ . navyaḥ . sūryaḥ . martyaḥ . yaviṣthyaḥ . kṣemāt yaḥ . kṣemāt yaḥ vaktavyaḥ . kṣemyaḥ tiṣṭhan prataraṇaḥ suvīraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३६।६-९ रो इव्।२६०-२६१ बह्वल्पार्थात् मङ्गलवचनम् [र्: मङ्गलामङ्गलवचनम्] । बह्वल्पार्थात् मङ्गलवचनम् [मङ्गलामङ्गलवचनम् ] कर्तव्यम् । बहुशः देहि । अनिष्टेषु श्राद्धादिषु मा भूत् । इष्टेषु प्राशित्रादिषु यथा स्यात् । अल्पशः देहि । इष्टेषु प्राशित्रादिषु मा भूत् । अनिष्टेषु श्राद्धादिषु यथा स्यात् ।

KA II.436.6-9 Ro IV.260-261 bahvalpārthāt maṅgalavacanam [R: maṅgalāmaṅgalavacanam] . bahvalpārthāt maṅgalavacanam [maṅgalāmaṅgalavacanam ] kartavyam . bahuśaḥ dehi . aniṣṭeṣu śrāddhādiṣu mā bhūt . iṣṭeṣu prāśitrādiṣu yathā syāt . alpaśaḥ dehi . iṣṭeṣu prāśitrādiṣu mā bhūt . aniṣṭeṣu śrāddhādiṣu yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३६।११-१२ रो इव्। २६१ तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानम् । तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । आदितः । मध्यतः । अन्ततः ।

KA II.436.11-12 Ro IV. 261 tasiprakaraṇe ādyādibhyaḥ upasaṅkhyānam . tasiprakaraṇe ādyādibhyaḥ upasaṅkhyānam kartavyam . āditaḥ . madhyataḥ . antataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३६।१४-४३७।३ रो इव्।२६१-२६२ च्विविधौ अभूततद्भावग्रहणम् । च्विविधौ अभूततद्भावग्रहणम् कर्तव्यम् । इह मा भूत् । सम्पद्यन्ते यवाः । सम्पद्यन्ते शालयः इति । अथ क्रियमाणे अपि वा अभूततद्भावग्रहणे इह कस्मात् न भवति । सम्पद्यन्ते अस्मिन् क्षेत्र शालयः इति । प्रकृतिविवक्षाग्रहणम् च । प्रकृतिविवक्षाग्रहणम् च कर्तव्यम् । समीपादिभ्यः उपसङ्ख्यानम् । समीपादिभ्यः उपसङ्ख्यानम् कर्तव्यम् । समीपी भवति । अभ्याशी भवति । अन्तिकी भवति । किम् पुनः कारणम् न सिध्यति । न हि असमीपम् समीपम् भवति । किम् तर्हि । असमीपस्थम् समीपस्थम् भवति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । तात्स्थ्यात् ताच्छब्द्यम् भविष्यति ।

KA II.436.14-437.3 Ro IV.261-262 cvividhau abhūtatadbhāvagrahaṇam . cvividhau abhūtatadbhāvagrahaṇam kartavyam . iha mā bhūt . sampadyante yavāḥ . sampadyante śālayaḥ iti . atha kriyamāṇe api vā abhūtatadbhāvagrahaṇe iha kasmāt na bhavati . sampadyante asmin kṣetra śālayaḥ iti . prakṛtivivakṣāgrahaṇam ca . prakṛtivivakṣāgrahaṇam ca kartavyam . samīpādibhyaḥ upasaṅkhyānam . samīpādibhyaḥ upasaṅkhyānam kartavyam . samīpī bhavati . abhyāśī bhavati . antikī bhavati . kim punaḥ kāraṇam na sidhyati . na hi asamīpam samīpam bhavati . kim tarhi . asamīpastham samīpastham bhavati . tat tarhi vaktavyam . na vaktavyam . tātsthyāt tācchabdyam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३७।५-१२ रो इव्।२६२-२६३ किमर्थः चकारः । स्वरार्थः । चितः अन्तः उदात्तत्ः भवति इति उदात्तत्वम् यथा स्यात् । न एतत् अस्ति प्रयोजनम् । एकाच् अयम् । तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन । प्रत्ययस्वरेण एव सिद्धम् । अतः उत्तरम् पठति । डाचि चित्करणम् विशेषणार्थम् । डाचि चित्करणम् क्रियते विशेषणार्थम् । क्व विशेषणाऋथेन अर्थः । लोहितादिडाज्भ्यः क्यष् इति । डा इति हि उच्यमाने इडा अतः अपि प्रसज्येत । अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति । इह तर्हि प्राप्नोति । नाभा पृथिव्याः निहितः दविद्युतत् । तस्मात् चकारः कर्तव्यः ।

KA II.437.5-12 Ro IV.262-263 kimarthaḥ cakāraḥ . svarārthaḥ . citaḥ antaḥ udāttatḥ bhavati iti udāttatvam yathā syāt . na etat asti prayojanam . ekāc ayam . tatra na arthaḥ svarārthena cakāreṇa anubandhena . pratyayasvareṇa eva siddham . ataḥ uttaram paṭhati . ḍāci citkaraṇam viśeṣaṇārtham . ḍāci citkaraṇam kriyate viśeṣaṇārtham . kva viśeṣaṇāṛthena arthaḥ . lohitādiḍājbhyaḥ kyaṣ iti . ḍā iti hi ucyamāne iḍā ataḥ api prasajyeta . arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati . iha tarhi prāpnoti . nābhā pṛthivyāḥ nihitaḥ davidyutat . tasmāt cakāraḥ kartavyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३७।१४ रो इव्।२६३ भद्रात् च इति वक्तव्यम् । भद्रा करोति ।

KA II.437.14 Ro IV.263 bhadrāt ca iti vaktavyam . bhadrā karoti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३७।१६-४३८।२१ रो इव्।२६३-२६५ अन्तग्रहणम् किमर्थम् । अन्तः यथा स्यात् । न एअतत् अस्ति प्रयोजनम् । प्रत्यय्परत्वेन अपि एतत् सिद्धम् । इदम् तर्हि प्रयोजनम् । तद्ग्रहणेन ग्रहणम् यथा स्यात् । कानि पुनः तद्ग्रहणस्य प्रयोजनानि । प्रयोजनम् अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसञ्ज्ञाः । अव्ययीभावः प्रयोजनम् । प्रतिराजम् । उपराजम् । अव्ययीभावः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् । न एतत् अस्ति प्रयोजनम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य । इदम् तर्हि प्रयोजनम् । न अव्ययीभावात् अतः अम् तु अपञ्चम्याः इति एषः विधिः यथा स्यात् । अव्ययीभाव । द्विगु । द्विगुसञ्ज्ञा च प्रयोजनम् । पञ्चगवम् । दशगवम् । द्विगुः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् । न एतत् अस्ति प्रयोजनम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य । इदम् तर्हि प्रयोजनम् । द्विपुरी । त्रिपुरी । द्विगोः अकारान्तात् इति ईकारः यथा स्यात् । एतत् अपि न अस्ति प्रयोजनम् । पुरशब्दः अयम् अकारान्तः । तेन समासः भविष्यति । आतः च अकारान्तः इति आह । क्षेमे सुभिक्षे कृतसञ्चयानि पुराणि विनयन्ति कोपम् इति । इदम् तर्हि प्रयोजनम् । द्विधुरी त्रिधुरी । द्विगोः अकारान्तात् इति ङीप् यथा स्यात् । द्विगु । द्वन्द्व । द्वन्द्वसञ्ज्ञा च प्रयोजनम् । वाक्त्वचम् । स्रक्त्वचम् । द्वन्द्वः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् । न एतत् अस्ति प्रयोजनम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य । इदम् तर्हि प्रयोजनम् । इदम् तर्हि प्रयोजनम् । कोशः च निषत् च कोशनिषदम् । कोशनिषदिनी । द्वन्द्वोपतापगर्ह्यात् प्राणिस्थात् इनिः इति इनिः यथा स्यात् । द्वन्द्व । तत्पुरुष । तत्पुरुषसञ्ज्ञा च प्रयोजनम् । परमधुरा उत्तमधुरा । परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति परवल्लिङ्गता यथा स्यात् । न एतत् अस्ति प्रय्जोनम् । उत्तरपदार्थप्रधानः तत्पुरुषः । इदम् तर्हि प्रयोजनम् । अर्धधुरा । एतत् अपि न अस्ति प्रयोजनम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य । इदम् तर्हि प्रयोजनम् । इदम् तर्हि । निर्धुरः । अव्ययम् तत्पुरुषे प्रकृतिस्वरम् भवति इति एषः स्वरः यथा स्यात् । तत्पुरुष । बहुव्रीहि । बहुव्रीहिसञ्ज्ञा च प्रयोजनम् । उच्चधुरः । नीचधुरः । बहुव्रीहौ प्रकृत्या पूर्वपदम् भवति इति एषः स्वरः यथा स्यात् ।

KA II.437.16-438.21 Ro IV.263-265 antagrahaṇam kimartham . antaḥ yathā syāt . na eatat asti prayojanam . pratyayparatvena api etat siddham . idam tarhi prayojanam . tadgrahaṇena grahaṇam yathā syāt . kāni punaḥ tadgrahaṇasya prayojanāni . prayojanam avyayībhāvadvigudvandvatatpuruṣabahuvrīhisañjñāḥ . avyayībhāvaḥ prayojanam . pratirājam . uparājam . avyayībhāvaḥ ca samāsaḥ napuṃsakaliṅgaḥ bhavati iti napuṃsakaliṅgatā yathā syāt . na etat asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . idam tarhi prayojanam . na avyayībhāvāt ataḥ am tu apañcamyāḥ iti eṣaḥ vidhiḥ yathā syāt . avyayībhāva . dvigu . dvigusañjñā ca prayojanam . pañcagavam . daśagavam . dviguḥ ca samāsaḥ napuṃsakaliṅgaḥ bhavati iti napuṃsakaliṅgatā yathā syāt . na etat asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . idam tarhi prayojanam . dvipurī . tripurī . dvigoḥ akārāntāt iti īkāraḥ yathā syāt . etat api na asti prayojanam . puraśabdaḥ ayam akārāntaḥ . tena samāsaḥ bhaviṣyati . ātaḥ ca akārāntaḥ iti āha . kṣeme subhikṣe kṛtasañcayāni purāṇi vinayanti kopam iti . idam tarhi prayojanam . dvidhurī tridhurī . dvigoḥ akārāntāt iti ṅīp yathā syāt . dvigu . dvandva . dvandvasañjñā ca prayojanam . vāktvacam . sraktvacam . dvandvaḥ ca samāsaḥ napuṃsakaliṅgaḥ bhavati iti napuṃsakaliṅgatā yathā syāt . na etat asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . idam tarhi prayojanam . idam tarhi prayojanam . kośaḥ ca niṣat ca kośaniṣadam . kośaniṣadinī . dvandvopatāpagarhyāt prāṇisthāt iniḥ iti iniḥ yathā syāt . dvandva . tatpuruṣa . tatpuruṣasañjñā ca prayojanam . paramadhurā uttamadhurā . paravat liṅgam dvandvatatpuruṣayoḥ iti paravalliṅgatā yathā syāt . na etat asti prayjonam . uttarapadārthapradhānaḥ tatpuruṣaḥ . idam tarhi prayojanam . ardhadhurā . etat api na asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . idam tarhi prayojanam . idam tarhi . nirdhuraḥ . avyayam tatpuruṣe prakṛtisvaram bhavati iti eṣaḥ svaraḥ yathā syāt . tatpuruṣa . bahuvrīhi . bahuvrīhisañjñā ca prayojanam . uccadhuraḥ . nīcadhuraḥ . bahuvrīhau prakṛtyā pūrvapadam bhavati iti eṣaḥ svaraḥ yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३८।२३-२६ रो इव्।२६५ इदम् विप्रतिषिद्धम् । कः प्रतिषेधः । परिगणिताभ्यः प्रकृतिभ्यः समासान्तः विधीयते न च तत्र का चित् पूजनान्ता प्रकृतिः निर्दिश्यते । न एतत् विप्रतिषिद्धम् । न एवम् विज्ञायते । याभ्यः प्रकृतिभ्यः समासान्तः विधीयते न चेत् ताः पूजनान्ताः भवन्ति इति । कथम् तर्हि । न चेत् ताः पूजनात् पराः भवन्ति इति ।

KA II.438.23-26 Ro IV.265 idam vipratiṣiddham . kaḥ pratiṣedhaḥ . parigaṇitābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate na ca tatra kā cit pūjanāntā prakṛtiḥ nirdiśyate . na etat vipratiṣiddham . na evam vijñāyate . yābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate na cet tāḥ pūjanāntāḥ bhavanti iti . katham tarhi . na cet tāḥ pūjanāt parāḥ bhavanti iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३९।१-५ रो इव्।२६५ पूजायाम् स्वतिग्रहणम् । पूजायाम् स्वतिग्रहणम् कर्तव्यम् । सुराजा । अतिराजा । क्व मा भूत् । परमगवः । उत्तमगवः । प्राग्बहुव्रीहिग्रहणम् च । प्राग्बहुव्रीहिग्रहणम् च कर्तव्यम् । इह मा भूत् । स्वक्षः । अत्यक्षः इति ।

KA II.439.1-5 Ro IV.265 pūjāyām svatigrahaṇam . pūjāyām svatigrahaṇam kartavyam . surājā . atirājā . kva mā bhūt . paramagavaḥ . uttamagavaḥ . prāgbahuvrīhigrahaṇam ca . prāgbahuvrīhigrahaṇam ca kartavyam . iha mā bhūt . svakṣaḥ . atyakṣaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३९।७-८ रो इव्।२६६ क्षेपे इति किमर्थम् । कस्य राजा किंराजा । क्षेपे इति शक्यम् अकर्तुम् । कस्मात् न भवति कस्य राजा किंराजा इति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

KA II.439.7-8 Ro IV.266 kṣepe iti kimartham . kasya rājā kiṃrājā . kṣepe iti śakyam akartum . kasmāt na bhavati kasya rājā kiṃrājā iti . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३९।१०-१७ रो इव्।२६६ डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् निस्त्रिंशाद्यर्थम् । डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् कर्तव्यम् । किम् प्रयोजनम् । निस्त्रिंशाद्यर्थम् । निस्त्रिंशानि वर्षाणि । निश्चत्वारिंशानि वर्षाणि । अन्यत्र अधिकलोपात् । अन्यत्र अधिकलोपात् इति वक्तव्यम् । इह मा भूत् । एकाधिका विंशतिः एकविंशतिः । द्व्यधिका विंशतिः द्वाविंशतिः । अव्ययादेः इति वक्तव्यम् । इह मा भूत् । गोत्रिंशत् । गोचत्वारिंशत् इति । तत् तर्हि वक्तव्यम् । यदि अपि एतत् उच्यते अथ वा एतर्हि अन्यत्र अधिकलोपात् इति एतत् न क्रियते ।

KA II.439.10-17 Ro IV.266 ḍacprakaraṇe saṅkhyāyāḥ tatpuruṣasya upasaṅkhyānam nistriṃśādyartham . ḍacprakaraṇe saṅkhyāyāḥ tatpuruṣasya upasaṅkhyānam kartavyam . kim prayojanam . nistriṃśādyartham . nistriṃśāni varṣāṇi . niścatvāriṃśāni varṣāṇi . anyatra adhikalopāt . anyatra adhikalopāt iti vaktavyam . iha mā bhūt . ekādhikā viṃśatiḥ ekaviṃśatiḥ . dvyadhikā viṃśatiḥ dvāviṃśatiḥ . avyayādeḥ iti vaktavyam . iha mā bhūt . gotriṃśat . gocatvāriṃśat iti . tat tarhi vaktavyam . yadi api etat ucyate atha vā etarhi anyatra adhikalopāt iti etat na kriyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४३९।१९-४४०।५ रो इव्।२६६-२६७ अनक्षे इति कथम् इदम् विज्ञायते । न चेत् अक्षधूरन्तः समासः इति आहोस्वित् न चेत् अक्षः समासार्थः इति । किम् च अतः । यदि विज्ञायते न चेत् अक्षधूरन्तः समासः इति सिद्धम् अक्षस्य धूः अक्षधूः इति । इदम् तु न सिध्यति । दृढधूः अयम् अक्षः । अस्तु तर्हि न चेत् अक्षः समासार्थः इति । सिद्धम् दृढधूः अक्षः इति । इदम् तु न सिध्यति । अक्षस्य धूः अक्षधूः इति । एवम् तर्हि न एवम् विज्ञायते न चेत् अक्षधूरन्तः समासः इति न अपि न चेत् अक्षः समासार्थः इति । कथम् तर्हि । न चेत् अक्षस्य धूः इति । एवम् च कृत्वा न अपि न चेत् अक्षधूरन्तः समासः इति विज्ञायते न अपि न चेत् अक्षः समासार्थः इति । अथ च उभयोः न भवति ।

KA II.439.19-440.5 Ro IV.266-267 anakṣe iti katham idam vijñāyate . na cet akṣadhūrantaḥ samāsaḥ iti āhosvit na cet akṣaḥ samāsārthaḥ iti . kim ca ataḥ . yadi vijñāyate na cet akṣadhūrantaḥ samāsaḥ iti siddham akṣasya dhūḥ akṣadhūḥ iti . idam tu na sidhyati . dṛḍhadhūḥ ayam akṣaḥ . astu tarhi na cet akṣaḥ samāsārthaḥ iti . siddham dṛḍhadhūḥ akṣaḥ iti . idam tu na sidhyati . akṣasya dhūḥ akṣadhūḥ iti . evam tarhi na evam vijñāyate na cet akṣadhūrantaḥ samāsaḥ iti na api na cet akṣaḥ samāsārthaḥ iti . katham tarhi . na cet akṣasya dhūḥ iti . evam ca kṛtvā na api na cet akṣadhūrantaḥ samāsaḥ iti vijñāyate na api na cet akṣaḥ samāsārthaḥ iti . atha ca ubhayoḥ na bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४०।७-८ रो इव्।२६७ अदर्शनात् इति उच्यते । तत्र इदम् न सिध्यति । कवराक्षम् । अदर्शनात् इति शक्यम् अकर्तुम् । कथम् ब्राह्मणक्षि क्षत्रियाक्षि । अप्राण्यङ्गात् इति वक्तव्यम् ।

KA II.440.7-8 Ro IV.267 adarśanāt iti ucyate . tatra idam na sidhyati . kavarākṣam . adarśanāt iti śakyam akartum . katham brāhmaṇakṣi kṣatriyākṣi . aprāṇyaṅgāt iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४०।१३-२३ रो इव्।२६८ आद्याः त्रयः बहुव्रीहयः । अद्रष्टा चतुर्णाम् अचतुरः । विद्रष्टा चतुर्णाम् विचतुरः । सुद्रष्टा चतुर्णाम् सुचतुरः । ततः परे एकादश द्वन्द्वाः । स्त्रीपुंस धेन्वनडुह ऋक्साम वाङ्मनस अक्षिभ्रुव दारगव ऊर्वष्ठीव पदष्ठीव नक्तन्दिव रात्रिन्दिव अहर्दिव । ततः अव्ययीभावः । सह रजसा सरजसम् । ततः तत्पुरुषः । निश्रितम् श्रेयः निःश्रेयसम् । ततः षष्ठीसमासः । पुरुषस्य आयुः पुरुषायुषम् । ततः द्विगू । द्वे आयुषी द्व्यायुषम् । त्रीणि आयूंषि त्र्यायुषम् । ततः द्वन्द्वः । ऋक् च यजुः च र्ग्यजुषम् । जातादयः उक्षान्ताः समानाधिकरणाः । जातः उक्षा जातोक्षः । महान् उक्षा महोक्षः । वृद्धः उक्षा वृद्धोक्षः । ततः अव्ययीभावः । शुनः समीपम् उपशुनम् । ततः सप्तमीसमासः गोष्ठे श्वा गोष्ठश्वः । चतुरः अच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम् । चतुरः अच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम् कर्तव्यम् । त्रिचतुराः । उपचतुराः ।

KA II.440.13-23 Ro IV.268 ādyāḥ trayaḥ bahuvrīhayaḥ . adraṣṭā caturṇām acaturaḥ . vidraṣṭā caturṇām vicaturaḥ . sudraṣṭā caturṇām sucaturaḥ . tataḥ pare ekādaśa dvandvāḥ . strīpuṃsa dhenvanaḍuha ṛksāma vāṅmanasa akṣibhruva dāragava ūrvaṣṭhīva padaṣṭhīva naktandiva rātrindiva ahardiva . tataḥ avyayībhāvaḥ . saha rajasā sarajasam . tataḥ tatpuruṣaḥ . niśritam śreyaḥ niḥśreyasam . tataḥ ṣaṣṭhīsamāsaḥ . puruṣasya āyuḥ puruṣāyuṣam . tataḥ dvigū . dve āyuṣī dvyāyuṣam . trīṇi āyūṃṣi tryāyuṣam . tataḥ dvandvaḥ . ṛk ca yajuḥ ca rgyajuṣam . jātādayaḥ ukṣāntāḥ samānādhikaraṇāḥ . jātaḥ ukṣā jātokṣaḥ . mahān ukṣā mahokṣaḥ . vṛddhaḥ ukṣā vṛddhokṣaḥ . tataḥ avyayībhāvaḥ . śunaḥ samīpam upaśunam . tataḥ saptamīsamāsaḥ goṣṭhe śvā goṣṭhaśvaḥ . caturaḥ acprakaraṇe tryupābhyām upasaṅkhyānam . caturaḥ acprakaraṇe tryupābhyām upasaṅkhyānam kartavyam . tricaturāḥ . upacaturāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४१।२ रो इव्।२६८ पल्यराजभ्याम् च इति वक्तव्यम् । पल्यवर्चसम् । राजवर्चसम् ।

KA II.441.2 Ro IV.268 palyarājabhyām ca iti vaktavyam . palyavarcasam . rājavarcasam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४१।४-६ रो इव्।२६८ अहर्ग्रहणम् द्वन्द्वार्थम् । अहर्ग्रहणम् द्वन्द्वार्थम् द्रष्टव्यम् । किम् उच्यते द्वन्द्वार्थम् इति न पुनः तत्पुरुषार्थम् अपि स्यात् । तत्पुरुषाभावात् । न हि रात्र्यन्तः अहरादिः तत्पुरुषः अस्ति ।

KA II.441.4-6 Ro IV.268 ahargrahaṇam dvandvārtham . ahargrahaṇam dvandvārtham draṣṭavyam . kim ucyate dvandvārtham iti na punaḥ tatpuruṣārtham api syāt . tatpuruṣābhāvāt . na hi rātryantaḥ aharādiḥ tatpuruṣaḥ asti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४१।८-१० रो इव्।२६९ अह्नः अह्नवचनानर्थक्यम् च अह्नः टखोः नियमवचनात् । अह्नः अह्नवचनम् अनर्थकम् । किम् कारणम् । अह्नः टखोः नियमवचनात् । अह्नः टखोः एव इति एतत् नियमार्थम् भविष्यति ।

KA II.441.8-10 Ro IV.269 ahnaḥ ahnavacanānarthakyam ca ahnaḥ ṭakhoḥ niyamavacanāt . ahnaḥ ahnavacanam anarthakam . kim kāraṇam . ahnaḥ ṭakhoḥ niyamavacanāt . ahnaḥ ṭakhoḥ eva iti etat niyamārtham bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४१।१२-१३ रो इव्।२६८ अनसन्तात् नपुंसकात् छन्दसि वा इति वक्तव्यम् । ब्रह्मसामम् । ब्रह्मसाम । देवच्छन्दसम् । देवच्छन्दः ।

KA II.441.12-13 Ro IV.268 anasantāt napuṃsakāt chandasi vā iti vaktavyam . brahmasāmam . brahmasāma . devacchandasam . devacchandaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४१।१५-४४२।३ रो इव्।२६९-२७० किमर्थम् षच् प्रत्ययान्तरम् विधीयते न टच् प्रकृतः सः अनुवर्तिष्यते । अतः उत्तरम् पठति । षचि प्रत्ययान्तरकरणम् अनन्तोदात्तार्थम् । षचि प्रत्ययान्तरम् क्रियते । किम् प्रयोजनम् । अनन्तोदात्तार्थम् । अनन्तोदात्ताः प्रयोजयन्ति । चक्रसक्थम् । चक्रसक्थी ।

KA II.441.15-442.3 Ro IV.269-270 kimartham ṣac pratyayāntaram vidhīyate na ṭac prakṛtaḥ saḥ anuvartiṣyate . ataḥ uttaram paṭhati . ṣaci pratyayāntarakaraṇam anantodāttārtham . ṣaci pratyayāntaram kriyate . kim prayojanam . anantodāttārtham . anantodāttāḥ prayojayanti . cakrasaktham . cakrasakthī .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४२।५-७ रो इव्।२७० किमर्थम् मूर्ध्नः ष प्रत्ययान्तरम् विधीयते न षच् प्रकृतः सः अनुवर्तिष्यते । मूर्ध्नः च षवचनम् । किम् । अनन्तोदात्तार्थम् इति एव । द्विमूर्धः । त्रिमूर्धः ।

KA II.442.5-7 Ro IV.270 kimartham mūrdhnaḥ ṣa pratyayāntaram vidhīyate na ṣac prakṛtaḥ saḥ anuvartiṣyate . mūrdhnaḥ ca ṣavacanam . kim . anantodāttārtham iti eva . dvimūrdhaḥ . trimūrdhaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४२।९-२० रो इव्।२७१ अपि प्रधानपूरणीग्रहणम् । अपि प्रधानपूरणीग्रहणम् कर्तव्यम् । प्रधानम् या पूरणी इति वक्तव्यम् । इह मा भूत् । कल्याणी पञ्चमी अस्य पक्षस्य कल्याणपञ्चमीकः पक्षः । अथ इह कथम् भवितव्यम् । कल्याणी पञ्चमी असाम् रात्रीणाम् इति । कल्याणीपञ्चमाः रात्रयः इति भवितव्यम् । रत्रयः अत्र प्रधानम् । नेतुः नक्षत्रे उपसङ्ख्यानम् । नेतुः नक्षत्रे उपसङ्ख्यानम् कर्तव्यम् । पुष्यनेत्राः । मृगनेत्राः । छन्दसि च । छन्दसि च नेतुः उपसङ्ख्यानम् कर्तव्यम् । बृहस्पतिनेत्राः । सोमनेत्राः । मासात् भृतिप्रत्ययपूर्वपदात् ठज्विधिः । मासात् भृतिप्रत्ययपूर्वपदात् ठच् विधेयः । पञ्चकमासिकः । षट्कमासिकः । दशकमासिकः ।

KA II.442.9-20 Ro IV.271 api pradhānapūraṇīgrahaṇam . api pradhānapūraṇīgrahaṇam kartavyam . pradhānam yā pūraṇī iti vaktavyam . iha mā bhūt . kalyāṇī pañcamī asya pakṣasya kalyāṇapañcamīkaḥ pakṣaḥ . atha iha katham bhavitavyam . kalyāṇī pañcamī asām rātrīṇām iti . kalyāṇīpañcamāḥ rātrayaḥ iti bhavitavyam . ratrayaḥ atra pradhānam . netuḥ nakṣatre upasaṅkhyānam . netuḥ nakṣatre upasaṅkhyānam kartavyam . puṣyanetrāḥ . mṛganetrāḥ . chandasi ca . chandasi ca netuḥ upasaṅkhyānam kartavyam . bṛhaspatinetrāḥ . somanetrāḥ . māsāt bhṛtipratyayapūrvapadāt ṭhajvidhiḥ . māsāt bhṛtipratyayapūrvapadāt ṭhac vidheyaḥ . pañcakamāsikaḥ . ṣaṭkamāsikaḥ . daśakamāsikaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४३।२-३ रो इव्।२७२ खरखुराभ्याम् च नस् वक्तव्यः । खरणाः । खुरणाः । शितिनाः अर्चनाः अहिनाः इति नैगमाः । शितिनाः अर्चनाः अहिनाः ।

KA II.443.2-3 Ro IV.272 kharakhurābhyām ca nas vaktavyaḥ . kharaṇāḥ . khuraṇāḥ . śitināḥ arcanāḥ ahināḥ iti naigamāḥ . śitināḥ arcanāḥ ahināḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४३।५ रो इव्।२७२ वेः ग्रः वक्तव्यः । विग्रः ।

KA II.443.5 Ro IV.272 veḥ graḥ vaktavyaḥ . vigraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४३।७-८ रो इव्।२७२ ऊधसः अनङि स्त्रीग्रहणम् । ऊधसः अनङि स्त्रीग्रहणम् कर्तव्यम् इह मा भूत् । महोधाः पर्जन्यः इति ।

KA II.443.7-8 Ro IV.272 ūdhasaḥ anaṅi strīgrahaṇam . ūdhasaḥ anaṅi strīgrahaṇam kartavyam iha mā bhūt . mahodhāḥ parjanyaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४३।१०-१३ रो इव्।२७२-२७३ गन्धस्य इत्त्वे तदेकान्तग्रहणम् । गन्धस्य इत्त्वे तदेकान्तग्रहणम् कर्तव्यम् इह मा भूत् । शोभनाः गन्धाः अस्य सुगन्धः आपणिकः इति । अथ अनुलिप्ते कथम् भवितव्यम् । यदि तावत् यत् अनुगतम् तत् अभिसमीक्षितम् सुगन्धिः इति भवितव्यम् । अथ यत् प्रविशीर्णम् सुगन्धः इति भवितव्यम् ।

KA II.443.10-13 Ro IV.272-273 gandhasya ittve tadekāntagrahaṇam . gandhasya ittve tadekāntagrahaṇam kartavyam iha mā bhūt . śobhanāḥ gandhāḥ asya sugandhaḥ āpaṇikaḥ iti . atha anulipte katham bhavitavyam . yadi tāvat yat anugatam tat abhisamīkṣitam sugandhiḥ iti bhavitavyam . atha yat praviśīrṇam sugandhaḥ iti bhavitavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४३।१४-४४४।११ रो इव्।२७३-२७५ शेषात् इति उच्यते । कः शेषः नाम । याभ्यः प्रकृतिभ्यः समासान्तः नि विधीयते सः शेषः । किमर्थम् पुनः शेषग्रहणम् क्रियते । याभ्यः प्रकृतिभ्यः समासान्तः विधीयते ताभ्यः मा भूत् इति । न एतत् अस्ति प्रयोजनम् । ये प्रतिपदम् विधीयन्ते ते तत्र बाधकाः भविष्यन्ति । अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशाः च समासान्ताः । कः अवकाशः । विभाषा कप् । यदा न कप् सः अवकाशः । कपः प्रसङ्गे उभयम् प्राप्नोति । परत्वात् कप् प्राप्नोति । तस्मात् शेषग्रहणम् कर्तव्यम् । किम् पुनः इदम् शेषग्रहणम् कबपेक्षम् यस्मात् बहुव्रीहेः कप् इति आहोस्वित् समासान्तापेक्षम् यस्मात् बहुव्रीहेः समासान्तः न विहितः इति । किम् च अतः । यदि विज्ञायते कबपेक्षम् अनृचः बह्वृचः इति अत्र अपि प्राप्नोति । अथ समासान्तापेक्षम् अनृक्कम् बह्वृक्कम् सूक्तम् इति न सिध्यति । अस्तु कबपेक्षम् । कथम् अनृचः बह्वृचः इति । विशेषे एतत् वक्तव्यम् । अनृचः माणवे बह्वृचः चरणशाखायाम् इति । इदम् तर्हि ऊधसः अनङि स्त्रीग्रहणम् चोदितम् । तस्मिन् क्रियमाणे अपि प्राप्नोति । एवम् तर्हि न एव कबपेक्षम् शेषग्रहणम् न अपि समासान्तापेक्षम् । किम् तर्हि अनन्तरः यः बहुव्रीह्यधिकारः सः अपेक्ष्यते । अनन्तरे बहुव्रीह्यधिकारे यस्मात् बहुव्रीहेः समासान्तः न विहितः इति । कथम् अनृचः बह्वृचः इति । वक्तव्यम् एव अनृचः माणवे बह्वृचः चरणशाखायाम् इति ।

KA II.443.14-444.11 Ro IV.273-275 śeṣāt iti ucyate . kaḥ śeṣaḥ nāma . yābhyaḥ prakṛtibhyaḥ samāsāntaḥ ni vidhīyate saḥ śeṣaḥ . kimartham punaḥ śeṣagrahaṇam kriyate . yābhyaḥ prakṛtibhyaḥ samāsāntaḥ vidhīyate tābhyaḥ mā bhūt iti . na etat asti prayojanam . ye pratipadam vidhīyante te tatra bādhakāḥ bhaviṣyanti . anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti sāvakāśāḥ ca samāsāntāḥ . kaḥ avakāśaḥ . vibhāṣā kap . yadā na kap saḥ avakāśaḥ . kapaḥ prasaṅge ubhayam prāpnoti . paratvāt kap prāpnoti . tasmāt śeṣagrahaṇam kartavyam . kim punaḥ idam śeṣagrahaṇam kabapekṣam yasmāt bahuvrīheḥ kap iti āhosvit samāsāntāpekṣam yasmāt bahuvrīheḥ samāsāntaḥ na vihitaḥ iti . kim ca ataḥ . yadi vijñāyate kabapekṣam anṛcaḥ bahvṛcaḥ iti atra api prāpnoti . atha samāsāntāpekṣam anṛkkam bahvṛkkam sūktam iti na sidhyati . astu kabapekṣam . katham anṛcaḥ bahvṛcaḥ iti . viśeṣe etat vaktavyam . anṛcaḥ māṇave bahvṛcaḥ caraṇaśākhāyām iti . idam tarhi ūdhasaḥ anaṅi strīgrahaṇam coditam . tasmin kriyamāṇe api prāpnoti . evam tarhi na eva kabapekṣam śeṣagrahaṇam na api samāsāntāpekṣam . kim tarhi anantaraḥ yaḥ bahuvrīhyadhikāraḥ saḥ apekṣyate . anantare bahuvrīhyadhikāre yasmāt bahuvrīheḥ samāsāntaḥ na vihitaḥ iti . katham anṛcaḥ bahvṛcaḥ iti . vaktavyam eva anṛcaḥ māṇave bahvṛcaḥ caraṇaśākhāyām iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइ।४४४।१३-१७ रो इव्।२७५-२७६ ईयसः उपसर्जनदीर्घत्वम् च । ईयसः उपसर्जनदीर्घत्वम् च वक्तव्यम् । बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी । विद्यमानश्रेयसी । पुंवद्वचनात् सिद्धम् । पुंवद्भावः अत्र भवति ईयसः बहुव्रीहौ पुंवद्वचनम् इति ।

KA II.444.13-17 Ro IV.275-276 īyasaḥ upasarjanadīrghatvam ca . īyasaḥ upasarjanadīrghatvam ca vaktavyam . bahvyaḥ śreyasyaḥ asya bahuśreyasī . vidyamānaśreyasī . puṃvadvacanāt siddham . puṃvadbhāvaḥ atra bhavati īyasaḥ bahuvrīhau puṃvadvacanam iti .

Sanskrit only: no published translation is held for this verse.