क्अ इइ।४३७।१६-४३८।२१ रो इव्।२६३-२६५ अन्तग्रहणम् किमर्थम् । अन्तः यथा स्यात् । न एअतत् अस्ति प्रयोजनम् । प्रत्यय्परत्वेन अपि एतत् सिद्धम् । इदम् तर्हि प्रयोजनम् । तद्ग्रहणेन ग्रहणम् यथा स्यात् । कानि पुनः तद्ग्रहणस्य प्रयोजनानि । प्रयोजनम् अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसञ्ज्ञाः । अव्ययीभावः प्रयोजनम् । प्रतिराजम् । उपराजम् । अव्ययीभावः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् । न एतत् अस्ति प्रयोजनम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य । इदम् तर्हि प्रयोजनम् । न अव्ययीभावात् अतः अम् तु अपञ्चम्याः इति एषः विधिः यथा स्यात् । अव्ययीभाव । द्विगु । द्विगुसञ्ज्ञा च प्रयोजनम् । पञ्चगवम् । दशगवम् । द्विगुः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् । न एतत् अस्ति प्रयोजनम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य । इदम् तर्हि प्रयोजनम् । द्विपुरी । त्रिपुरी । द्विगोः अकारान्तात् इति ईकारः यथा स्यात् । एतत् अपि न अस्ति प्रयोजनम् । पुरशब्दः अयम् अकारान्तः । तेन समासः भविष्यति । आतः च अकारान्तः इति आह । क्षेमे सुभिक्षे कृतसञ्चयानि पुराणि विनयन्ति कोपम् इति । इदम् तर्हि प्रयोजनम् । द्विधुरी त्रिधुरी । द्विगोः अकारान्तात् इति ङीप् यथा स्यात् । द्विगु । द्वन्द्व । द्वन्द्वसञ्ज्ञा च प्रयोजनम् । वाक्त्वचम् । स्रक्त्वचम् । द्वन्द्वः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् । न एतत् अस्ति प्रयोजनम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य । इदम् तर्हि प्रयोजनम् । इदम् तर्हि प्रयोजनम् । कोशः च निषत् च कोशनिषदम् । कोशनिषदिनी । द्वन्द्वोपतापगर्ह्यात् प्राणिस्थात् इनिः इति इनिः यथा स्यात् । द्वन्द्व । तत्पुरुष । तत्पुरुषसञ्ज्ञा च प्रयोजनम् । परमधुरा उत्तमधुरा । परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति परवल्लिङ्गता यथा स्यात् । न एतत् अस्ति प्रय्जोनम् । उत्तरपदार्थप्रधानः तत्पुरुषः । इदम् तर्हि प्रयोजनम् । अर्धधुरा । एतत् अपि न अस्ति प्रयोजनम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य । इदम् तर्हि प्रयोजनम् । इदम् तर्हि । निर्धुरः । अव्ययम् तत्पुरुषे प्रकृतिस्वरम् भवति इति एषः स्वरः यथा स्यात् । तत्पुरुष । बहुव्रीहि । बहुव्रीहिसञ्ज्ञा च प्रयोजनम् । उच्चधुरः । नीचधुरः । बहुव्रीहौ प्रकृत्या पूर्वपदम् भवति इति एषः स्वरः यथा स्यात् ।
KA II.437.16-438.21 Ro IV.263-265 antagrahaṇam kimartham . antaḥ yathā syāt . na eatat asti prayojanam . pratyayparatvena api etat siddham . idam tarhi prayojanam . tadgrahaṇena grahaṇam yathā syāt . kāni punaḥ tadgrahaṇasya prayojanāni . prayojanam avyayībhāvadvigudvandvatatpuruṣabahuvrīhisañjñāḥ . avyayībhāvaḥ prayojanam . pratirājam . uparājam . avyayībhāvaḥ ca samāsaḥ napuṃsakaliṅgaḥ bhavati iti napuṃsakaliṅgatā yathā syāt . na etat asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . idam tarhi prayojanam . na avyayībhāvāt ataḥ am tu apañcamyāḥ iti eṣaḥ vidhiḥ yathā syāt . avyayībhāva . dvigu . dvigusañjñā ca prayojanam . pañcagavam . daśagavam . dviguḥ ca samāsaḥ napuṃsakaliṅgaḥ bhavati iti napuṃsakaliṅgatā yathā syāt . na etat asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . idam tarhi prayojanam . dvipurī . tripurī . dvigoḥ akārāntāt iti īkāraḥ yathā syāt . etat api na asti prayojanam . puraśabdaḥ ayam akārāntaḥ . tena samāsaḥ bhaviṣyati . ātaḥ ca akārāntaḥ iti āha . kṣeme subhikṣe kṛtasañcayāni purāṇi vinayanti kopam iti . idam tarhi prayojanam . dvidhurī tridhurī . dvigoḥ akārāntāt iti ṅīp yathā syāt . dvigu . dvandva . dvandvasañjñā ca prayojanam . vāktvacam . sraktvacam . dvandvaḥ ca samāsaḥ napuṃsakaliṅgaḥ bhavati iti napuṃsakaliṅgatā yathā syāt . na etat asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . idam tarhi prayojanam . idam tarhi prayojanam . kośaḥ ca niṣat ca kośaniṣadam . kośaniṣadinī . dvandvopatāpagarhyāt prāṇisthāt iniḥ iti iniḥ yathā syāt . dvandva . tatpuruṣa . tatpuruṣasañjñā ca prayojanam . paramadhurā uttamadhurā . paravat liṅgam dvandvatatpuruṣayoḥ iti paravalliṅgatā yathā syāt . na etat asti prayjonam . uttarapadārthapradhānaḥ tatpuruṣaḥ . idam tarhi prayojanam . ardhadhurā . etat api na asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . idam tarhi prayojanam . idam tarhi . nirdhuraḥ . avyayam tatpuruṣe prakṛtisvaram bhavati iti eṣaḥ svaraḥ yathā syāt . tatpuruṣa . bahuvrīhi . bahuvrīhisañjñā ca prayojanam . uccadhuraḥ . nīcadhuraḥ . bahuvrīhau prakṛtyā pūrvapadam bhavati iti eṣaḥ svaraḥ yathā syāt .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.