क्अ इइ।४४०।१३-२३ रो इव्।२६८ आद्याः त्रयः बहुव्रीहयः । अद्रष्टा चतुर्णाम् अचतुरः । विद्रष्टा चतुर्णाम् विचतुरः । सुद्रष्टा चतुर्णाम् सुचतुरः । ततः परे एकादश द्वन्द्वाः । स्त्रीपुंस धेन्वनडुह ऋक्साम वाङ्मनस अक्षिभ्रुव दारगव ऊर्वष्ठीव पदष्ठीव नक्तन्दिव रात्रिन्दिव अहर्दिव । ततः अव्ययीभावः । सह रजसा सरजसम् । ततः तत्पुरुषः । निश्रितम् श्रेयः निःश्रेयसम् । ततः षष्ठीसमासः । पुरुषस्य आयुः पुरुषायुषम् । ततः द्विगू । द्वे आयुषी द्व्यायुषम् । त्रीणि आयूंषि त्र्यायुषम् । ततः द्वन्द्वः । ऋक् च यजुः च र्ग्यजुषम् । जातादयः उक्षान्ताः समानाधिकरणाः । जातः उक्षा जातोक्षः । महान् उक्षा महोक्षः । वृद्धः उक्षा वृद्धोक्षः । ततः अव्ययीभावः । शुनः समीपम् उपशुनम् । ततः सप्तमीसमासः गोष्ठे श्वा गोष्ठश्वः । चतुरः अच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम् । चतुरः अच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम् कर्तव्यम् । त्रिचतुराः । उपचतुराः ।
KA II.440.13-23 Ro IV.268 ādyāḥ trayaḥ bahuvrīhayaḥ . adraṣṭā caturṇām acaturaḥ . vidraṣṭā caturṇām vicaturaḥ . sudraṣṭā caturṇām sucaturaḥ . tataḥ pare ekādaśa dvandvāḥ . strīpuṃsa dhenvanaḍuha ṛksāma vāṅmanasa akṣibhruva dāragava ūrvaṣṭhīva padaṣṭhīva naktandiva rātrindiva ahardiva . tataḥ avyayībhāvaḥ . saha rajasā sarajasam . tataḥ tatpuruṣaḥ . niśritam śreyaḥ niḥśreyasam . tataḥ ṣaṣṭhīsamāsaḥ . puruṣasya āyuḥ puruṣāyuṣam . tataḥ dvigū . dve āyuṣī dvyāyuṣam . trīṇi āyūṃṣi tryāyuṣam . tataḥ dvandvaḥ . ṛk ca yajuḥ ca rgyajuṣam . jātādayaḥ ukṣāntāḥ samānādhikaraṇāḥ . jātaḥ ukṣā jātokṣaḥ . mahān ukṣā mahokṣaḥ . vṛddhaḥ ukṣā vṛddhokṣaḥ . tataḥ avyayībhāvaḥ . śunaḥ samīpam upaśunam . tataḥ saptamīsamāsaḥ goṣṭhe śvā goṣṭhaśvaḥ . caturaḥ acprakaraṇe tryupābhyām upasaṅkhyānam . caturaḥ acprakaraṇe tryupābhyām upasaṅkhyānam kartavyam . tricaturāḥ . upacaturāḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.