क्अ इइइ।९६।२-९ रो इव्।४८२-४८३ आश्चर्यम् अद्भुते । आश्चर्यम् अद्भुते इति वक्तव्यम् इह अपि यथा स्यात् । आश्चर्यम् उच्चता वृक्षस्य । आश्चर्यम् नीला द्यौः । आश्चर्यम् अन्तरिक्षे अबन्धनानि नक्षत्राणि न पतन्ति इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अनित्ये इति एव सिद्धम् । इह तावत् आश्चर्यम् उच्चता वृक्षस्य इति । आश्चर्यग्रहणेन न वृक्षः अभिसम्बध्यते । किम् तर्हि । उच्चता । सा च अनित्या । आश्चर्यम् नीला द्यौः इति । न आश्चर्यग्रहणेन द्यौः अभिसम्बध्यते । किम् तर्हि । नीलता । सा च अनित्या । आश्चर्यम् अन्तरिक्षे अबन्धनानि नक्षत्राणि न पतन्ति इति । न आश्चर्यग्रहणेन नक्षत्राणि अभिसम्बध्यन्ते । किम् तर्हि । पतनक्रिया । सा च अनित्या । तत्र अनित्ये इति एव सिद्धम् ।
KA III.96.2-9 Ro IV.482-483 āścaryam adbhute . āścaryam adbhute iti vaktavyam iha api yathā syāt . āścaryam uccatā vṛkṣasya . āścaryam nīlā dyauḥ . āścaryam antarikṣe abandhanāni nakṣatrāṇi na patanti iti . tat tarhi vaktavyam . na vaktavyam . anitye iti eva siddham . iha tāvat āścaryam uccatā vṛkṣasya iti . āścaryagrahaṇena na vṛkṣaḥ abhisambadhyate . kim tarhi . uccatā . sā ca anityā . āścaryam nīlā dyauḥ iti . na āścaryagrahaṇena dyauḥ abhisambadhyate . kim tarhi . nīlatā . sā ca anityā . āścaryam antarikṣe abandhanāni nakṣatrāṇi na patanti iti . na āścaryagrahaṇena nakṣatrāṇi abhisambadhyante . kim tarhi . patanakriyā . sā ca anityā . tatra anitye iti eva siddham .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.