Library·Patanjali: Vyakaranamahabhasya·6·6.1

Patanjali: Vyakaranamahabhasya 6.1

क्अ इइइ।१।१-३।२३ रो इव्।२७९-२८७ एकाचः इति किम् अयम् बहुव्रीहिः । एकः अच् अस्मिन् सः एकाच् । एकाचः इति । आहोस्वित् तत्पुरुषः अयम् समानाधिकरणः । एकः अच् एकाच् । एकाचः । किम् च अतः । यदि बहुव्रीहिः सिद्धम् पपाच पपाठ । इयाय । आर इति न सिध्यति । अथ तत्पुरुषः समानाधिकरणः सिद्धम् इयाय । आर इति । पपाच पपाठ इति न सिध्यति । अतः उत्तरम् पठति । एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः । एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः अयम् । एकवर्णेषु कथम् । एकवर्णेषु व्यपदेशिवद्वचनात् । व्यपदेशिवत् एकस्मिन् कार्यम् भवति इति वक्तव्यम् । एवम् एकवर्णेषु द्विर्वचनम् भविष्यति । एकाचः द्वे भवतः इति उच्यते । तत्र न ज्ञायते कस्य एकाचः द्वे भवतः इति । वक्ष्यति लिटि धातोः अनभ्यासस्य इति । तेन धातोः एकाचः इति विज्ञायते । यदि धातोः एकाचः सिद्धम् पपाच पपाठ । जजागार पुपुत्रीयिषति इति न सिध्यति । धातोः इति न एषा एकाच्समानाधिकरणा षष्ठी । धातोः एकाचः इति । किम् तर्हि अवयवयोगा एषा षष्ठी । धातोः यः एकाच् अवयवः इति । अवयवयोगा एषा षष्ठी इति चेत् सिद्धम् जजागार पुपुत्रीयिषति इति । पपाच पपाठ इति न सिध्यति । एषः अपि व्यपदेशिवद्भावेन धातोः एकाच् अवयवः भवति । एकाचः द्वे प्रथमस्य इति उच्यते । तेन यत्र एव प्रथमः च अप्रथमः च तत्र द्विर्वचनम् स्यात् । जजागार पुपुत्रीयिषति इति । पपाच पपाठ इति अत्र न स्यात् । प्रथमत्वे च । प्रथमत्वे च किम् । व्यपदेशिवद्वचनात् सिद्धम् इति एव । सः तर्हि व्यपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । उक्तम् वा । किम् उक्तम् । तत्र व्यपदेशिवद्वचनम् । एकाचः द्वे प्रथमार्थम् । षत्वे च आदेशसम्प्रत्ययार्थम् । अवचनात् लोकविज्ञानात् सिद्धम् इति एव । योगविभागः वा । अथ वा योगविभागः करिष्यते । एकाचः द्वे भवतः । किमर्थः योगविभागः । एकाज्मात्रस्य द्विर्वचनार्थः । एकाज्मात्रय्त द्विर्वचनम् यथा स्यात् । इयाय पपाच । ततः प्रथमस्य । प्रथमस्य एकाचः द्वे भवतः । इदम् इदानीम् किमर्थम् । नियमाऋथम् । यत्र प्रथमः च अप्रथमः च अस्ति तत्र प्रथमस्य एकाचः द्विर्वचनम् यथा स्यात् । अप्रथमस्य मा भूत् । जजागार पुपुत्रीयिषति इति । एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनप्रसङ्गः । एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनम् प्राप्नोति । नेनिजति इति अत्र निज्शब्दः अपि एकाच् इज्शब्दः अपि एकाच् इकारः अपि एकाच् निशब्दः अपि । तत्र निज्शब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः च न सन्ति । इज्शब्दस्य द्विर्वचने रूपम् न सिध्यति दोषाः च न सन्ति । इकारस्य द्विर्वचने रूपम् न सिधति दोषाः च न सन्ति । निशब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः तु सन्ति । तत्र कः दोषः । तत्र जुस्भाववचनम् । तत्र जुस्भावः वक्तव्यः । अनेनिजुः । पर्यवेविषुः । अभ्यस्तात् झेः जुस्भावः भवति इति जुस्भावः न प्राप्नोति जकारेणव्यवधानात् । स्वरः च । स्वरः च न सिध्यति । नेनिजति । यत् परिवेविषति इति । अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति । अद्भावः च । अद्भावः च न सिध्यति । नेनिजति । परिवेविषति इति । अभ्यस्तात् इति अद्भावः न प्राप्नोति । नुम्प्रतिषेधः च । नुम्प्रतिषेधः च न सिध्यति । नेनिजत् । परिवेविषत् । न अभ्यास्तात् शतुः इत् नुम्प्रतिषेधः न प्राप्नोति जकारेणव्यवधानात् । शास्त्रहानिः च । शास्त्रहानिः च भवति । समुदायैकाचः शास्त्रम् हीयते । सिद्धम् तु तत्समुदायैकाच्त्वात् शास्त्राहानेः । सिद्धम् एतत् । कथम् । तत्समुदायैकाच्त्वात् । किम् इदम् तत्समुदायैकाच्त्वात् इति । तस्य समुदायः तत्समुदायः । एकाज्भावः एकाच्त्वम् । तत्समुदायस्य एकाच्त्वम् तत्समुदायैकाच्त्वम् । तत्समुदायैकाच्त्वात् । तत्समुदायैकाचः द्विर्वचनम् भविष्यति । कुतः । शास्त्राहानेः । एवम् हि शास्त्रम् अहीनम् भवति । ननु च समुदायैकाचः द्विर्वचने क्रियमाणे अपि अवयवैकाचः

KA III.1.1-3.23 Ro IV.279-287 ekācaḥ iti kim ayam bahuvrīhiḥ . ekaḥ ac asmin saḥ ekāc . ekācaḥ iti . āhosvit tatpuruṣaḥ ayam samānādhikaraṇaḥ . ekaḥ ac ekāc . ekācaḥ . kim ca ataḥ . yadi bahuvrīhiḥ siddham papāca papāṭha . iyāya . āra iti na sidhyati . atha tatpuruṣaḥ samānādhikaraṇaḥ siddham iyāya . āra iti . papāca papāṭha iti na sidhyati . ataḥ uttaram paṭhati . ekācaḥ dve prathamasya iti bahuvrīhinirdeśaḥ . ekācaḥ dve prathamasya iti bahuvrīhinirdeśaḥ ayam . ekavarṇeṣu katham . ekavarṇeṣu vyapadeśivadvacanāt . vyapadeśivat ekasmin kāryam bhavati iti vaktavyam . evam ekavarṇeṣu dvirvacanam bhaviṣyati . ekācaḥ dve bhavataḥ iti ucyate . tatra na jñāyate kasya ekācaḥ dve bhavataḥ iti . vakṣyati liṭi dhātoḥ anabhyāsasya iti . tena dhātoḥ ekācaḥ iti vijñāyate . yadi dhātoḥ ekācaḥ siddham papāca papāṭha . jajāgāra puputrīyiṣati iti na sidhyati . dhātoḥ iti na eṣā ekācsamānādhikaraṇā ṣaṣṭhī . dhātoḥ ekācaḥ iti . kim tarhi avayavayogā eṣā ṣaṣṭhī . dhātoḥ yaḥ ekāc avayavaḥ iti . avayavayogā eṣā ṣaṣṭhī iti cet siddham jajāgāra puputrīyiṣati iti . papāca papāṭha iti na sidhyati . eṣaḥ api vyapadeśivadbhāvena dhātoḥ ekāc avayavaḥ bhavati . ekācaḥ dve prathamasya iti ucyate . tena yatra eva prathamaḥ ca aprathamaḥ ca tatra dvirvacanam syāt . jajāgāra puputrīyiṣati iti . papāca papāṭha iti atra na syāt . prathamatve ca . prathamatve ca kim . vyapadeśivadvacanāt siddham iti eva . saḥ tarhi vyapadeśivadbhāvaḥ vaktavyaḥ . na vaktavyaḥ . uktam vā . kim uktam . tatra vyapadeśivadvacanam . ekācaḥ dve prathamārtham . ṣatve ca ādeśasampratyayārtham . avacanāt lokavijñānāt siddham iti eva . yogavibhāgaḥ vā . atha vā yogavibhāgaḥ kariṣyate . ekācaḥ dve bhavataḥ . kimarthaḥ yogavibhāgaḥ . ekājmātrasya dvirvacanārthaḥ . ekājmātrayta dvirvacanam yathā syāt . iyāya papāca . tataḥ prathamasya . prathamasya ekācaḥ dve bhavataḥ . idam idānīm kimartham . niyamāṛtham . yatra prathamaḥ ca aprathamaḥ ca asti tatra prathamasya ekācaḥ dvirvacanam yathā syāt . aprathamasya mā bhūt . jajāgāra puputrīyiṣati iti . ekācaḥ avayavaikāctvāt avayavānām dvirvacanaprasaṅgaḥ . ekācaḥ avayavaikāctvāt avayavānām dvirvacanam prāpnoti . nenijati iti atra nijśabdaḥ api ekāc ijśabdaḥ api ekāc ikāraḥ api ekāc niśabdaḥ api . tatra nijśabdasya dvirvacane rūpam siddham doṣāḥ ca na santi . ijśabdasya dvirvacane rūpam na sidhyati doṣāḥ ca na santi . ikārasya dvirvacane rūpam na sidhati doṣāḥ ca na santi . niśabdasya dvirvacane rūpam siddham doṣāḥ tu santi . tatra kaḥ doṣaḥ . tatra jusbhāvavacanam . tatra jusbhāvaḥ vaktavyaḥ . anenijuḥ . paryaveviṣuḥ . abhyastāt jheḥ jusbhāvaḥ bhavati iti jusbhāvaḥ na prāpnoti jakāreṇavyavadhānāt . svaraḥ ca . svaraḥ ca na sidhyati . nenijati . yat pariveviṣati iti . abhyastānām ādiḥ udāttaḥ bhavati ajādau lasārvadhātuke iti eṣaḥ svaraḥ na prāpnoti . adbhāvaḥ ca . adbhāvaḥ ca na sidhyati . nenijati . pariveviṣati iti . abhyastāt iti adbhāvaḥ na prāpnoti . numpratiṣedhaḥ ca . numpratiṣedhaḥ ca na sidhyati . nenijat . pariveviṣat . na abhyāstāt śatuḥ it numpratiṣedhaḥ na prāpnoti jakāreṇavyavadhānāt . śāstrahāniḥ ca . śāstrahāniḥ ca bhavati . samudāyaikācaḥ śāstram hīyate . siddham tu tatsamudāyaikāctvāt śāstrāhāneḥ . siddham etat . katham . tatsamudāyaikāctvāt . kim idam tatsamudāyaikāctvāt iti . tasya samudāyaḥ tatsamudāyaḥ . ekājbhāvaḥ ekāctvam . tatsamudāyasya ekāctvam tatsamudāyaikāctvam . tatsamudāyaikāctvāt . tatsamudāyaikācaḥ dvirvacanam bhaviṣyati . kutaḥ . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . nanu ca samudāyaikācaḥ dvirvacane kriyamāṇe api avayavaikācaḥ

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३।२४-५।१९ रो इव्।२८७-२९३ अथ यस्य द्विर्वचनम् आरभ्यते किम् तस्य स्थाने भवति आहोस्वित् द्विःप्रयोगः इति । कः च अत्र विशेषः । स्थाने द्विर्वचने णिलोपवचनम् समुदायादेशत्वात् । स्थाने द्विर्वचने णिलोपः वक्तव्यः । आटिटत् । आशिशत् । किम् कारणम् । समुदायादेशत्वात् । समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययसमुदायस्य नष्टः णिः भवति इति णेः अनिटि इति णिलोपः न प्राप्नोति । इदम् इह सम्प्रधार्यम् । द्विर्वचनम् क्रियताम् णिलोपः इति किम् अत्र कर्तव्यम् । परत्वात् णिलोपः । नित्यम् द्विर्वचनम् । कृते अपि णिलोपे प्राप्नोति अकृते अपि । द्विर्वचनम् अपि नित्यम् । अन्यस्य कृते णिलोपे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । नित्यम् एव द्विर्वचनम् । कथम् । रूपस्य स्थानिवत्वात् । यत् च सन्यङन्तस्य द्विर्वचने । यत् च सन्यङन्तस्य द्विर्वचने चोद्यम् तत् इह अपि चोद्यम् । किम् पुनः तत् । सन्यङन्तस्य चेत् अशेः सनि अनिटः । दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् । आबृध्योः च अभ्यस्तविप्रतिषेधः । सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः आमिश्रत्वात् इति । अस्तु तर्हि द्विःप्रयोगः द्विर्वचनम् । द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्ववचनम् लिटि । द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्वम् लिटि वक्तव्यम् । नेमतुः । नेमुः । सेहे । सेहाते । सहिरे । अनादेशादेः इति प्रतिषेधः प्राप्नोति । स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः आदेशादिः भवति । द्विःप्रयोगे अपि द्विर्वचने सति न दोषः । वक्ष्यति तत्र लिड्ग्रहणस्य प्रयोजनम् । लिटि यः आदेशादिः तदादेः न इति । इड्वचनम् च यङ्लोपे । इट् च यङ्लोपे वक्तव्यः । बेभिदिता । बेभिदितुम् । एकाचः उपदेशे अनुदात्तात् इति इट्प्रतिषेधः प्राप्नोति । स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः भवति यः एकाच् उपदेशे अनुदात्तः । द्विःप्रयोगे अपि द्विर्वचने सति न दोषः । एकाज्ग्रहणेन अङ्गम् विशेषयिष्यामः । एकाचः अङ्गात् इति । ननु च एकैकम् अत्र अङ्गम् । समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति । कुतः एतत् । शास्त्राहानेः । एवम् हि शास्त्रम् अहीनम् भवति । इड्दीर्घप्रतिषेधः च । इटः दीर्घत्वस्य च प्रतिषेधः वक्तव्यः । जरीगृहिता । जरीगृहितुम् । ग्रहः अलिटि दीर्घः इति दीर्घत्वम् प्राप्नोति । स्थाने पुनः द्विर्वचने समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः ग्रहिः । द्विःप्रयोगे अपि द्विर्वचने न दोषः । ग्रहिणा अङ्गम् विशेषयिष्यामः । ग्रहेः अङ्गात् इति । ननु च एकैकम् अत्र अङ्गम् । समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति । कुतः एतत् । शास्त्राहानेः । एवम् हि शास्त्रम् अहीनम् भवति । पदादिविधिप्रतिषेधः च । पदादिलक्षण विधेः प्रतिषेधः वक्तव्यः । सिषेच । सुष्वाप । सात्पदाद्योः इति षत्वप्रतिषेधः प्राप्नोति । स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः पदादिः भवति । द्विःप्रयोगे च अपि द्विर्वचने न दोषः । सुप्तिङ्भ्याम् पदम् विशेषयिष्यामः । यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् तिङन्तम् च । ननु च एकैकस्मात् [अपि अत्र (र्)] सुप्तिङ्विधिः । समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा भविष्यति । कुतः एतत् । शास्त्राहानेः । एवम् हि शास्त्रम् अहीनम् भवति । तौ एव सुप्तिङौ ततः परौ सा एव च प्रकृतिः आद्या । आदिग्रहणम् प्रकृतम् । समुदायपदत्वम् एतेन ।

KA III.3.24-5.19 Ro IV.287-293 atha yasya dvirvacanam ārabhyate kim tasya sthāne bhavati āhosvit dviḥprayogaḥ iti . kaḥ ca atra viśeṣaḥ . sthāne dvirvacane ṇilopavacanam samudāyādeśatvāt . sthāne dvirvacane ṇilopaḥ vaktavyaḥ . āṭiṭat . āśiśat . kim kāraṇam . samudāyādeśatvāt . samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasamudāyasya naṣṭaḥ ṇiḥ bhavati iti ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti . idam iha sampradhāryam . dvirvacanam kriyatām ṇilopaḥ iti kim atra kartavyam . paratvāt ṇilopaḥ . nityam dvirvacanam . kṛte api ṇilope prāpnoti akṛte api . dvirvacanam api nityam . anyasya kṛte ṇilope prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . nityam eva dvirvacanam . katham . rūpasya sthānivatvāt . yat ca sanyaṅantasya dvirvacane . yat ca sanyaṅantasya dvirvacane codyam tat iha api codyam . kim punaḥ tat . sanyaṅantasya cet aśeḥ sani aniṭaḥ . dīrghakutvaprasāraṇaṣatvam adhikasya dvirvacanāt . ābṛdhyoḥ ca abhyastavipratiṣedhaḥ . saṅāśraye ca samudāyasya samudāyādeśatvāt jhalāśraye ca avyapadeśaḥ āmiśratvāt iti . astu tarhi dviḥprayogaḥ dvirvacanam . dviḥprayogaḥ iti cet ṇakāraṣakārādeśādeḥ ettvavacanam liṭi . dviḥprayogaḥ iti cet ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam . nematuḥ . nemuḥ . sehe . sehāte . sahire . anādeśādeḥ iti pratiṣedhaḥ prāpnoti . sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ ādeśādiḥ bhavati . dviḥprayoge api dvirvacane sati na doṣaḥ . vakṣyati tatra liḍgrahaṇasya prayojanam . liṭi yaḥ ādeśādiḥ tadādeḥ na iti . iḍvacanam ca yaṅlope . iṭ ca yaṅlope vaktavyaḥ . bebhiditā . bebhiditum . ekācaḥ upadeśe anudāttāt iti iṭpratiṣedhaḥ prāpnoti . sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ bhavati yaḥ ekāc upadeśe anudāttaḥ . dviḥprayoge api dvirvacane sati na doṣaḥ . ekājgrahaṇena aṅgam viśeṣayiṣyāmaḥ . ekācaḥ aṅgāt iti . nanu ca ekaikam atra aṅgam . samudāye yā vākyaparisamāptiḥ tasya aṅgasañjñā bhaviṣyati . kutaḥ etat . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . iḍdīrghapratiṣedhaḥ ca . iṭaḥ dīrghatvasya ca pratiṣedhaḥ vaktavyaḥ . jarīgṛhitā . jarīgṛhitum . grahaḥ aliṭi dīrghaḥ iti dīrghatvam prāpnoti . sthāne punaḥ dvirvacane samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ grahiḥ . dviḥprayoge api dvirvacane na doṣaḥ . grahiṇā aṅgam viśeṣayiṣyāmaḥ . graheḥ aṅgāt iti . nanu ca ekaikam atra aṅgam . samudāye yā vākyaparisamāptiḥ tasya aṅgasañjñā bhaviṣyati . kutaḥ etat . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . padādividhipratiṣedhaḥ ca . padādilakṣaṇa vidheḥ pratiṣedhaḥ vaktavyaḥ . siṣeca . suṣvāpa . sātpadādyoḥ iti ṣatvapratiṣedhaḥ prāpnoti . sthāne punaḥ dvirvacane sati samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ saḥ padādiḥ bhavati . dviḥprayoge ca api dvirvacane na doṣaḥ . suptiṅbhyām padam viśeṣayiṣyāmaḥ . yasmāt suptiṅvidhiḥ tadādi subantam tiṅantam ca . nanu ca ekaikasmāt [api atra (R)] suptiṅvidhiḥ . samudāye yā vākyaparisamāptiḥ tayā padasañjñā bhaviṣyati . kutaḥ etat . śāstrāhāneḥ . evam hi śāstram ahīnam bhavati . tau eva suptiṅau tataḥ parau sā eva ca prakṛtiḥ ādyā . ādigrahaṇam prakṛtam . samudāyapadatvam etena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५।२१-२४ रो इव्।२९४ द्वितीयस्य इति अवचनम् अजादेः इति कर्मधारयात् पञ्चमी । द्वितीयस्य इति शक्यम् अवक्तुम् । कथम् । अजादेः इति न एषा बहुव्रीहेः षष्ठी । अच् आदिः यस्य सः अयम् अजादिः । अजादेः । किम् तर्हि कर्मधारयात् पञ्चमी । अच् आदिः अजादिः । अजादेः परस्य इति । तत्र अन्तरेण द्वितीयग्रहणम् द्वितीयस्य एव भविष्यति ।

KA III.5.21-24 Ro IV.294 dvitīyasya iti avacanam ajādeḥ iti karmadhārayāt pañcamī . dvitīyasya iti śakyam avaktum . katham . ajādeḥ iti na eṣā bahuvrīheḥ ṣaṣṭhī . ac ādiḥ yasya saḥ ayam ajādiḥ . ajādeḥ . kim tarhi karmadhārayāt pañcamī . ac ādiḥ ajādiḥ . ajādeḥ parasya iti . tatra antareṇa dvitīyagrahaṇam dvitīyasya eva bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।६।१-८।७ रो इव्।२९४-३०१ द्वितीयद्विर्वचने प्रथमनिवृत्तिः प्राप्तत्वात् । द्वितीयद्विर्वचने प्रथमस्य निवृत्तिः वक्तव्या । अटिटिषति । अशिशिषति इति । किम् कारणम् । प्राप्तत्वात् । प्राप्नोति एकाचः द्वे प्रथमस्य इति । ननु च द्वितीयद्विर्वचनम् प्रथमद्विर्वचनम् बाधिष्यते । कथम् अन्यस्य उच्यमानस्य बाधकम् स्यात् । असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् । न वा प्रथमविज्ञाने हि द्वितीयाप्राप्तिः अद्वितीयत्वात् । न वा वक्तव्यम् । किम् कारणम् । प्रथमविज्ञाने हि सति द्वितीयस्य अप्राप्तिः स्यात् । किम् कारणम् । अद्वितीयत्वात् । न हि इदानीम् प्रथमद्विर्वचने कृते द्वितीयः द्वितीयः भवति । कः तर्हि । तृतीयः । तत् यथा द्वयोः आसीनयोः तृतीये उपजाते न द्वितीयः द्वितीयः भवति । कः तर्हि । तृतीयः । न हि किम् चित् उच्यते अकृते द्विर्वचने यः द्वितीयः तस्य भवितव्यम् इति । किम् तर्हि कृते द्विर्वचने यः द्वितीयः तस्य भविष्यति । अनारम्भसमम् एवम् स्यात् । अटेः प्रथमस्य द्विर्वचनम् स्यात् । हलादिशेषः । द्वितीयस्य द्विर्वचनम् । हलादिशेषः । त्रयाणाम् अकाराणाम् पररूपत्वे अटिषति इति एवम् रूपम् स्यात् । न अनारम्भसमम् । अटेः प्रथमस्य द्विर्वचनम् । हलादिशेषः । इत्त्वम् । द्वितीयस्य द्विर्वचनम् । हलादिशेषः । इत्त्वम् ड्वयोः इकारयोः सवर्णदीर्घत्वम् । अभ्यासस्य असवर्णे इति इयङादेशः । इयटिषति इति एतत् रूपम् यथा स्यात् । ओणेः च उवणिषति इति । न अनिष्टार्था शास्त्रप्रवृत्तिः भवितुम् अर्हति । यथा वा आदिविकारे अलः अन्त्यविकाराभावः । यथा वा आदिविविधौ अलः अन्त्यविधिः न भवति एवम् द्वितीयद्विर्वचने प्रथमद्विर्वचनम् न भविष्यति । विषमः उपन्यासः । न अप्राप्ते अलः अन्त्यविधौ आदिविधिः आरभ्यते । सः तस्य बाधकः भविष्यति । इदम् अपि एवञ्जातीयकम् । न अप्राप्ते प्रथमद्विर्वचने द्वितीयद्विर्वचनमारभ्यते । तत् बाधकम् भविष्यति । यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति । न एतत् अस्ति । सति अपि सम्भवे बाधनम् भवति । तत् यथा दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति । सति अपि दधिदानस्य सम्भवे तक्रदानम् निवर्तकम् भवति । एवम् इह अपि सति अपि सम्भवे प्रथमद्विर्वचनस्य द्वितीयद्विर्वचनम् बाधिष्यते । तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः वक्तव्या । अटिटिषति इति । यथा एव अचः निवृत्तिः भवति एवम् व्यञ्जनस्य अपि प्राप्नोति । तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनानिवृत्तिः अशासनात् पूर्वस्य । तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः सिद्धा । कुतः । अशासनात् पूर्वस्य । न इह वयम् पूर्वस्य प्रतिषेधम् शिष्मः । किम् तर्हि द्वितीयस्य द्विर्वचनम् आरभामहे । व्यञ्जनानि पुनः नटभार्यवत् भवन्ति । तत् यथा । नटानाम् स्त्रियः रङ्गम् गताः यः यः पृच्छति कस्य यूयम् कस्य यूयम् इति तम् तम् तव तव इति आहुः । एवम् व्यञ्जनानि यस्य यस्य अचः कार्यम् उच्यते तम् तम् भजन्ते । न्द्रादिप्रतिषेधात् च । यत् अयम् न न्द्राः संयोगादयः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः पूर्वनिवृत्तौ व्यञ्जनस्य अनिवृत्तिः इति । तत्र द्वितीयाभावे प्रथमाद्विर्वचनम् प्रतिषिद्धत्वात् । तत्र द्वितीयस्य एकाचः अभावे प्रथमस्य द्विर्वचनम् न प्राप्नोति । आटतुः । आटुः । किम् कारणम् । प्रतिषिद्धत्वात् । अजादेः द्वितीयस्य इति प्रतिषेधात् । न एष दोषः । सति तस्मिन् प्रतिषेधः । सति द्वितीयद्विर्वचने प्रथमस्य प्रतिषेधः । सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः । सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः भवति । हलादिशेषे सति आद्ये हलि अनाद्यस्य लोपः स्यात् । इह एव स्यात् । पपाच ।

KA III.6.1-8.7 Ro IV.294-301 dvitīyadvirvacane prathamanivṛttiḥ prāptatvāt . dvitīyadvirvacane prathamasya nivṛttiḥ vaktavyā . aṭiṭiṣati . aśiśiṣati iti . kim kāraṇam . prāptatvāt . prāpnoti ekācaḥ dve prathamasya iti . nanu ca dvitīyadvirvacanam prathamadvirvacanam bādhiṣyate . katham anyasya ucyamānasya bādhakam syāt . asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt . na vā prathamavijñāne hi dvitīyāprāptiḥ advitīyatvāt . na vā vaktavyam . kim kāraṇam . prathamavijñāne hi sati dvitīyasya aprāptiḥ syāt . kim kāraṇam . advitīyatvāt . na hi idānīm prathamadvirvacane kṛte dvitīyaḥ dvitīyaḥ bhavati . kaḥ tarhi . tṛtīyaḥ . tat yathā dvayoḥ āsīnayoḥ tṛtīye upajāte na dvitīyaḥ dvitīyaḥ bhavati . kaḥ tarhi . tṛtīyaḥ . na hi kim cit ucyate akṛte dvirvacane yaḥ dvitīyaḥ tasya bhavitavyam iti . kim tarhi kṛte dvirvacane yaḥ dvitīyaḥ tasya bhaviṣyati . anārambhasamam evam syāt . aṭeḥ prathamasya dvirvacanam syāt . halādiśeṣaḥ . dvitīyasya dvirvacanam . halādiśeṣaḥ . trayāṇām akārāṇām pararūpatve aṭiṣati iti evam rūpam syāt . na anārambhasamam . aṭeḥ prathamasya dvirvacanam . halādiśeṣaḥ . ittvam . dvitīyasya dvirvacanam . halādiśeṣaḥ . ittvam ḍvayoḥ ikārayoḥ savarṇadīrghatvam . abhyāsasya asavarṇe iti iyaṅādeśaḥ . iyaṭiṣati iti etat rūpam yathā syāt . oṇeḥ ca uvaṇiṣati iti . na aniṣṭārthā śāstrapravṛttiḥ bhavitum arhati . yathā vā ādivikāre alaḥ antyavikārābhāvaḥ . yathā vā ādivividhau alaḥ antyavidhiḥ na bhavati evam dvitīyadvirvacane prathamadvirvacanam na bhaviṣyati . viṣamaḥ upanyāsaḥ . na aprāpte alaḥ antyavidhau ādividhiḥ ārabhyate . saḥ tasya bādhakaḥ bhaviṣyati . idam api evañjātīyakam . na aprāpte prathamadvirvacane dvitīyadvirvacanamārabhyate . tat bādhakam bhaviṣyati . yat api ucyate asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt iti . na etat asti . sati api sambhave bādhanam bhavati . tat yathā dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti . sati api dadhidānasya sambhave takradānam nivartakam bhavati . evam iha api sati api sambhave prathamadvirvacanasya dvitīyadvirvacanam bādhiṣyate . tatra pūrvasya acaḥ nivṛttau vyañjanasya anivṛttiḥ vaktavyā . aṭiṭiṣati iti . yathā eva acaḥ nivṛttiḥ bhavati evam vyañjanasya api prāpnoti . tatra pūrvasya acaḥ nivṛttau vyañjanānivṛttiḥ aśāsanāt pūrvasya . tatra pūrvasya acaḥ nivṛttau vyañjanasya anivṛttiḥ siddhā . kutaḥ . aśāsanāt pūrvasya . na iha vayam pūrvasya pratiṣedham śiṣmaḥ . kim tarhi dvitīyasya dvirvacanam ārabhāmahe . vyañjanāni punaḥ naṭabhāryavat bhavanti . tat yathā . naṭānām striyaḥ raṅgam gatāḥ yaḥ yaḥ pṛcchati kasya yūyam kasya yūyam iti tam tam tava tava iti āhuḥ . evam vyañjanāni yasya yasya acaḥ kāryam ucyate tam tam bhajante . ndrādipratiṣedhāt ca . yat ayam na ndrāḥ saṃyogādayaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ pūrvanivṛttau vyañjanasya anivṛttiḥ iti . tatra dvitīyābhāve prathamādvirvacanam pratiṣiddhatvāt . tatra dvitīyasya ekācaḥ abhāve prathamasya dvirvacanam na prāpnoti . āṭatuḥ . āṭuḥ . kim kāraṇam . pratiṣiddhatvāt . ajādeḥ dvitīyasya iti pratiṣedhāt . na eṣa doṣaḥ . sati tasmin pratiṣedhaḥ . sati dvitīyadvirvacane prathamasya pratiṣedhaḥ . sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ . sati tasmin pratiṣedhaḥ iti cet halādiśeṣe doṣaḥ bhavati . halādiśeṣe sati ādye hali anādyasya lopaḥ syāt . iha eva syāt . papāca .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८।९-२२ रो इव्।३०१-३०२ किमर्थम् इदम् उच्यते । न्द्रादेः द्विर्वचनप्रसङ्गः तत्र न्द्राणाम् प्रतिषेधः । न्द्रादेः एकाचः द्विर्वचनम् प्राप्नोति । तत्र न्द्राणाम् संयोगादीनाम् प्रतिषेधः उच्यते । ईर्ष्यतेः तृतीयस्य । ईर्ष्यतेः तृतीयस्य द्वे भवतः इति वक्तव्यम् । के चित् तावत् आहुः एकाचः इति । ईर्ष्यिषिषति । अपरः आह :व्यञ्जनस्य इति : ईर्ष्यियिषति । कण्ड्वादीनाम् च । कण्ड्वादीनाम् च तृतीयस्य द्वे भवतः इति वक्तव्यम् । कण्डूयियिषति । असूयियिषति । वा नामधातूनाम् । वा नामधातूनाम् तृतीयस्य द्वे भवतः इति वक्तव्यम् । अश्वीयियिषति । अशिश्वीयिषति । अपरः आह यथेष्टम् वा । यथेष्टम् वा नामधातूनाम् इति । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति ।

KA III.8.9-22 Ro IV.301-302 kimartham idam ucyate . ndrādeḥ dvirvacanaprasaṅgaḥ tatra ndrāṇām pratiṣedhaḥ . ndrādeḥ ekācaḥ dvirvacanam prāpnoti . tatra ndrāṇām saṃyogādīnām pratiṣedhaḥ ucyate . īrṣyateḥ tṛtīyasya . īrṣyateḥ tṛtīyasya dve bhavataḥ iti vaktavyam . ke cit tāvat āhuḥ ekācaḥ iti . īrṣyiṣiṣati . aparaḥ āha :vyañjanasya iti : īrṣyiyiṣati . kaṇḍvādīnām ca . kaṇḍvādīnām ca tṛtīyasya dve bhavataḥ iti vaktavyam . kaṇḍūyiyiṣati . asūyiyiṣati . vā nāmadhātūnām . vā nāmadhātūnām tṛtīyasya dve bhavataḥ iti vaktavyam . aśvīyiyiṣati . aśiśvīyiṣati . aparaḥ āha yatheṣṭam vā . yatheṣṭam vā nāmadhātūnām iti . puputrīyiṣati . putitrīyiṣati . putrīyiyiṣati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९।२-७ रो इव्।३०२ पूर्वः अभ्यासः इति उच्यते । कस्य पूर्वः अभ्याससञ्ज्ञः भवति । द्वे इति वर्तते । द्वयोः इति वक्तव्यम् । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । अर्थात् विभक्तिविपरिणामः भविष्यति । तत् यथा । उच्चानि देवदत्तस्य गृहाणि । आमन्त्रयस्व एनम् । देवदत्तम् इति गम्यते । देवदत्तस्य गावः अश्वाः हिरण्यम् इति । आढ्यः वैधवेयः । देवदत्तः इति गम्यते । पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति । एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति ।

KA III.9.2-7 Ro IV.302 pūrvaḥ abhyāsaḥ iti ucyate . kasya pūrvaḥ abhyāsasañjñaḥ bhavati . dve iti vartate . dvayoḥ iti vaktavyam . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . arthāt vibhaktivipariṇāmaḥ bhaviṣyati . tat yathā . uccāni devadattasya gṛhāṇi . āmantrayasva enam . devadattam iti gamyate . devadattasya gāvaḥ aśvāḥ hiraṇyam iti . āḍhyaḥ vaidhaveyaḥ . devadattaḥ iti gamyate . purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati . evam iha api purastāt prathamānirdiṣṭam sat arthāt ṣaṣṭhīnirdiṣṭam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९।९-११।३ रो इव्।३०२-३०७ अभ्यस्तसञ्ज्ञायाम् सहवचनम् । अभ्यस्तसञ्ज्ञायाम् सहग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । आद्युदात्तत्वे पृथगप्रसङ्गार्थम् । आद्युदात्तत्वम् सह भूतयोः यथा स्यात् । एकैकस्य मा भूत् इति । यस्मिन् एव अभ्यस्तकार्ये अदोषः तत् एव पठितम् अनुदात्तम् पदम् एकवर्जम् इति । न अस्ति यौगपद्येन सम्भवः । पर्यायः तर्हि प्रसज्येत । पर्यायः च । पूर्वस्य तावत् परेण रूपेण व्यवहितत्वात् न भविष्यति । परस्य तर्हि स्यात् । तत्र आचार्यप्रवृत्तिः ज्ञापयति न परस्य भवति इति यत् अयम् बिभेत्यादीनाम् पिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति आह । एवम् व्यवधानात् न पूर्वस्य ज्ञापकात् न परस्य उच्यते च इदम् अभ्यस्तानाम् आदिः उदात्तः भवति इति । तत्र सः एव दोषः पर्यायः प्रसज्येत । तस्मात् सहग्रहणम् कर्तव्यम् । न कर्तव्यम् । उभेग्रहणम् क्रियते । तत् सहार्थम् विज्ञास्यते । अस्ति अन्यत् उभेग्रहणस्य प्रयोजनम् । किम् । उभेग्रहणम् सञ्ज्ञिनिर्देशार्थम् । अन्तरेण अपि उभेग्रहणम् प्रकॢप्तः सञ्ज्ञिनिर्देशः । कथम् । द्वे इति वर्तते । इदम् तर्हि प्रयोजनम् । यत्र उभे शब्दरूपे श्रूयेते तत्र अभ्यस्तसञ्ज्ञा यथा स्यात् । इह मा भूत् : ईर्त्सन्ति , ईप्सन्ति , ईर्त्सन् , ईप्सन् , ऐर्त्सन् , ऐप्सन् । किम् च स्यात् । अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन् । अद्भावे तावत् न दोषः । सप्तमे योगविभागः करिष्यते । इदम् अस्ति : अत् अभ्यस्तात् । ततः आत्मनेपदेषु । आत्मनेपदेषु च अत् भवति । अनतः इति उभयोः शेषः । यत् अपि उच्यते नुम्प्रतिषेधः इति एकादेशे कृते व्यपवर्गाभावात् न भविष्यति । इदम् इह सम्प्रधार्यम् । नुम्प्रतिषेधः क्रियताम् एकादेशः इति । किम् अत्र कर्तव्यम् । परत्वात् नुम्प्रतिषेधः । नित्यः एकादेशः । कृते अपि नुम्प्रतिषेधे प्राप्नोति अकृते अपि । एकादेशः अपि नित्यः । अन्यस्य कृते नुम्प्रतिषेधे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । अन्तरङ्गः तर्हि एकादेशः । का अन्तरङ्गता । वर्णौ आश्रित्य एकादेशः । विधिविषये नुम्प्रतिषेधः विधिः च नुमः सर्वनामस्थाने प्राक् तु सर्वनामस्थानोत्पत्तेः एकादेशः । तत्र नित्यत्वात् च अन्तरङ्गत्वात् च एकादेशः । एकादेशे कृते व्यपवर्गाभावात् न भविष्यति । यत् अपि उच्यते जुस्भावः इति एकादेशे कृते व्यपवर्गाभावात् न भविष्यति । एकादेशे इति उच्यते केन च अत्र एकादेशः । अन्तिना । न अत्र अन्तिभावः प्राप्नोति । किम् कारणम् । जुस्भावेन बाध्यते । न अत्र जुस्भावः प्राप्नोति । किम् कारणम् । शपा व्यवहितत्वात् । एकादेशे कृते न अस्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवत् भवति इति व्यवधानम् एव । किम् पुणः कारणम् निमित्तवान् अन्तिः एकादेशम् तावत् प्रतीक्षते न पुनः तावति एव निमित्तम् अस्ति इति अन्तिभावेन भाव्यम् । इह अपि तर्हि तावति एव निमित्तम् अस्ति इति अन्तिभावः स्यात् । अनेनिजुः । पर्यवेविषुः इति । अस्तु । अन्तिभावे कृते स्थानिवद्भावात् झिग्रहणेन ग्रहणात् जुस्भावः भविष्यति । अथ वा यदि अपि निमित्तवान् अन्तिः अयम् तस्य जुस्भावः अपवादः । न च अपवादविषये उत्सर्गाः अभिनिविशन्ते । पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः । प्रकल्प्य वा अपवादविषयम् ततः उतस्र्गः प्रवर्तते । न तावत् अत्र कदा चित् अपि अन्तिभावः भवति । अपवादम् जुस्भावम् प्रतीक्षते । न खलु अपि क्व चित् अभ्यस्तानाम् झेः च आनन्तर्यम् । सर्वत्र विकरणैः व्यवधानम् । तेन अनेन अवश्यम् विकरणनाशः प्रतीक्ष्यः क्व चित् लुका क्व चित् श्लुना क्व चित् एकादेशेन । सः यथा श्लुलुकौ प्रतीक्षते एवम् एकादेशम् अपि प्रतीक्षते । एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति । किम् । स्थानिवद्भावम् । स्थानिवद्भावात् व्यवधानम् । व्यवधानात् न भविष्यति । पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वस्य विधिः । पूर्वस्मात् अपि विधिः पूर्वविधिः । तत् एतत् असति प्रयोजने उभेग्रहणम् सहार्थम् विज्ञास्यते । कथम् कृत्वा एकैकस्य अभ्यस्तसञ्ज्ञा प्राप्नोति । प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा । तत् यथा । वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः । ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति । तत् यथा । गर्गाः शतम् दण्ड्यन्ताम् इति । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति । सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् । अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् गुण्वृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन ।

KA III.9.9-11.3 Ro IV.302-307 abhyastasañjñāyām sahavacanam . abhyastasañjñāyām sahagrahaṇam kartavyam . kim prayojanam . ādyudāttatve pṛthagaprasaṅgārtham . ādyudāttatvam saha bhūtayoḥ yathā syāt . ekaikasya mā bhūt iti . yasmin eva abhyastakārye adoṣaḥ tat eva paṭhitam anudāttam padam ekavarjam iti . na asti yaugapadyena sambhavaḥ . paryāyaḥ tarhi prasajyeta . paryāyaḥ ca . pūrvasya tāvat pareṇa rūpeṇa vyavahitatvāt na bhaviṣyati . parasya tarhi syāt . tatra ācāryapravṛttiḥ jñāpayati na parasya bhavati iti yat ayam bibhetyādīnām piti pratyayāt pūrvam udāttam bhavati iti āha . evam vyavadhānāt na pūrvasya jñāpakāt na parasya ucyate ca idam abhyastānām ādiḥ udāttaḥ bhavati iti . tatra saḥ eva doṣaḥ paryāyaḥ prasajyeta . tasmāt sahagrahaṇam kartavyam . na kartavyam . ubhegrahaṇam kriyate . tat sahārtham vijñāsyate . asti anyat ubhegrahaṇasya prayojanam . kim . ubhegrahaṇam sañjñinirdeśārtham . antareṇa api ubhegrahaṇam prakḷptaḥ sañjñinirdeśaḥ . katham . dve iti vartate . idam tarhi prayojanam . yatra ubhe śabdarūpe śrūyete tatra abhyastasañjñā yathā syāt . iha mā bhūt : īrtsanti , īpsanti , īrtsan , īpsan , airtsan , aipsan . kim ca syāt . adbhāvaḥ numpratiṣedhaḥ jusbhāvaḥ iti ete vidhayaḥ prasajyeran . adbhāve tāvat na doṣaḥ . saptame yogavibhāgaḥ kariṣyate . idam asti : at abhyastāt . tataḥ ātmanepadeṣu . ātmanepadeṣu ca at bhavati . anataḥ iti ubhayoḥ śeṣaḥ . yat api ucyate numpratiṣedhaḥ iti ekādeśe kṛte vyapavargābhāvāt na bhaviṣyati . idam iha sampradhāryam . numpratiṣedhaḥ kriyatām ekādeśaḥ iti . kim atra kartavyam . paratvāt numpratiṣedhaḥ . nityaḥ ekādeśaḥ . kṛte api numpratiṣedhe prāpnoti akṛte api . ekādeśaḥ api nityaḥ . anyasya kṛte numpratiṣedhe prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . antaraṅgaḥ tarhi ekādeśaḥ . kā antaraṅgatā . varṇau āśritya ekādeśaḥ . vidhiviṣaye numpratiṣedhaḥ vidhiḥ ca numaḥ sarvanāmasthāne prāk tu sarvanāmasthānotpatteḥ ekādeśaḥ . tatra nityatvāt ca antaraṅgatvāt ca ekādeśaḥ . ekādeśe kṛte vyapavargābhāvāt na bhaviṣyati . yat api ucyate jusbhāvaḥ iti ekādeśe kṛte vyapavargābhāvāt na bhaviṣyati . ekādeśe iti ucyate kena ca atra ekādeśaḥ . antinā . na atra antibhāvaḥ prāpnoti . kim kāraṇam . jusbhāvena bādhyate . na atra jusbhāvaḥ prāpnoti . kim kāraṇam . śapā vyavahitatvāt . ekādeśe kṛte na asti vyavadhānam . ekādeśaḥ pūrvavidhau sthānivat bhavati iti vyavadhānam eva . kim puṇaḥ kāraṇam nimittavān antiḥ ekādeśam tāvat pratīkṣate na punaḥ tāvati eva nimittam asti iti antibhāvena bhāvyam . iha api tarhi tāvati eva nimittam asti iti antibhāvaḥ syāt . anenijuḥ . paryaveviṣuḥ iti . astu . antibhāve kṛte sthānivadbhāvāt jhigrahaṇena grahaṇāt jusbhāvaḥ bhaviṣyati . atha vā yadi api nimittavān antiḥ ayam tasya jusbhāvaḥ apavādaḥ . na ca apavādaviṣaye utsargāḥ abhiniviśante . pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . prakalpya vā apavādaviṣayam tataḥ utasrgaḥ pravartate . na tāvat atra kadā cit api antibhāvaḥ bhavati . apavādam jusbhāvam pratīkṣate . na khalu api kva cit abhyastānām jheḥ ca ānantaryam . sarvatra vikaraṇaiḥ vyavadhānam . tena anena avaśyam vikaraṇanāśaḥ pratīkṣyaḥ kva cit lukā kva cit ślunā kva cit ekādeśena . saḥ yathā ślulukau pratīkṣate evam ekādeśam api pratīkṣate . evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati . kim . sthānivadbhāvam . sthānivadbhāvāt vyavadhānam . vyavadhānāt na bhaviṣyati . pūrvavidhau sthānivadbhāvaḥ na ca ayam pūrvasya vidhiḥ . pūrvasmāt api vidhiḥ pūrvavidhiḥ . tat etat asati prayojane ubhegrahaṇam sahārtham vijñāsyate . katham kṛtvā ekaikasya abhyastasañjñā prāpnoti . pratyekam vākyaparisamāptiḥ dṛṣṭā . tat yathā . vṛddhiguṇasañjñe pratyekam bhavataḥ . nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ iti . tat yathā . gargāḥ śatam daṇḍyantām iti . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . sati etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam kartavyam . atha tatra antareṇa pratyekam iti vacanam pratyekam guṇvṛddhisañjñe bhavataḥ iha api na arthaḥ sahagrahaṇena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११।६-१९ रो इव्।३०७-३०९ जक्षित्यादिषु सप्तग्रहणम् वेवीत्यर्थम् । जक्षित्यादिषु सप्तग्रहणम् कर्तव्यम् । सप्त जक्षित्यादयः अभ्यस्तसञ्ज्ञकाः भवन्ति इति वक्तव्यम् । किम् प्रयोजनम् । वेवीत्यर्थम् । वेवीतेः अभ्यस्तसञ्ज्ञा यथा स्यात् । वेव्यते । अपरिगणनम् वा आगणान्तत्वात् । न वा अर्थः परिगणनेन । अस्तु आगणान्तम् अभ्यस्तसञ्ज्ञा । इह अपि तर्हि प्राप्नोति । आङः शासु । अस्तु । अभ्यस्तकार्याणि कस्मात् न भवन्ति । भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयम् । स्वरः तर्हि प्राप्नोति । यत्र अपि अस्य आत्मनेपदेषु अभ्यस्तकार्यम् स्वरः तत्र अपि अनुदात्तेतः परम् लसार्वधातुकम् अनुदात्तम् भवति इति अनुदात्तत्वे कृते न अस्ति विशेषः धातुस्वरेण उदात्तत्वे सति अभ्यस्तस्वरेण वा । षसिवशी छान्दसौ । दृष्टानुविधिः छन्दसि भवति । चर्करीतम् अभ्यस्तम् एव । ह्नुङः तर्हि प्राप्नोति । अस्तु । अभ्यस्तकार्याणि कस्मात् न भवन्ति । भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयम् । स्वरः तर्हि प्राप्नोति । अह्न्विङोः इति प्रतिषेधविधानसामर्थ्यात् स्वरः न भविष्यति । अथ वा सप्त एव इमे धातवः पठ्यन्ते । जक्ष् अभ्यस्तसञ्ज्ञः भवति । इत्यादयः च षट् । जक्ष् इत्यादयः षट् इति ।

KA III.11.6-19 Ro IV.307-309 jakṣityādiṣu saptagrahaṇam vevītyartham . jakṣityādiṣu saptagrahaṇam kartavyam . sapta jakṣityādayaḥ abhyastasañjñakāḥ bhavanti iti vaktavyam . kim prayojanam . vevītyartham . vevīteḥ abhyastasañjñā yathā syāt . vevyate . aparigaṇanam vā āgaṇāntatvāt . na vā arthaḥ parigaṇanena . astu āgaṇāntam abhyastasañjñā . iha api tarhi prāpnoti . āṅaḥ śāsu . astu . abhyastakāryāṇi kasmāt na bhavanti . bhūyiṣṭhāni parasmaipadeṣu ātmanepadī ca ayam . svaraḥ tarhi prāpnoti . yatra api asya ātmanepadeṣu abhyastakāryam svaraḥ tatra api anudāttetaḥ param lasārvadhātukam anudāttam bhavati iti anudāttatve kṛte na asti viśeṣaḥ dhātusvareṇa udāttatve sati abhyastasvareṇa vā . ṣasivaśī chāndasau . dṛṣṭānuvidhiḥ chandasi bhavati . carkarītam abhyastam eva . hnuṅaḥ tarhi prāpnoti . astu . abhyastakāryāṇi kasmāt na bhavanti . bhūyiṣṭhāni parasmaipadeṣu ātmanepadī ca ayam . svaraḥ tarhi prāpnoti . ahnviṅoḥ iti pratiṣedhavidhānasāmarthyāt svaraḥ na bhaviṣyati . atha vā sapta eva ime dhātavaḥ paṭhyante . jakṣ abhyastasañjñaḥ bhavati . ityādayaḥ ca ṣaṭ . jakṣ ityādayaḥ ṣaṭ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११।२१-१२।९ रो इव्।३०९-३१० तुजादिषु छन्दःप्रत्ययग्रहणम् । तुजादिषु छन्दःप्रत्ययग्रहणम् कर्तव्यम् । छन्दसि तुजादीनाम् दीर्घः भवति इति वक्तव्यम् । अस्मिन् च अस्मिन् च प्रत्यये इति वक्तव्यम् । इह मा भूत् । तुतोज शबलान् हरान् । अनारम्भः वा अपरिगणितत्वात् । अनारम्भः वा छन्दसि दीर्घत्वस्य न्याय्यः । कुतः । अपरिगणितत्वात् । न हि छन्दसि दीर्घत्वस्य परिगणनम् कर्तुम् शक्यम् । किम् कारणम् । अन्येषाम् च दर्शनात् । येषाम् अपि दीर्घत्वम् न आरभ्यते तेषाम् अपि छन्दसि दीर्घत्वम् दृश्यते । तत् यथा पूरुषः । नारकः इति । अनेकान्तत्वात् च । येषाम् च अपि आरभ्यते तेषाम् अपि अनेकान्तः । यस्मिन् एव च प्रत्यये दीर्घत्वम् दृश्यते तस्मिन् एव च न दृश्यते । मामहानः उक्थपात्रम् । ममहानः इति च ।

KA III.11.21-12.9 Ro IV.309-310 tujādiṣu chandaḥpratyayagrahaṇam . tujādiṣu chandaḥpratyayagrahaṇam kartavyam . chandasi tujādīnām dīrghaḥ bhavati iti vaktavyam . asmin ca asmin ca pratyaye iti vaktavyam . iha mā bhūt . tutoja śabalān harān . anārambhaḥ vā aparigaṇitatvāt . anārambhaḥ vā chandasi dīrghatvasya nyāyyaḥ . kutaḥ . aparigaṇitatvāt . na hi chandasi dīrghatvasya parigaṇanam kartum śakyam . kim kāraṇam . anyeṣām ca darśanāt . yeṣām api dīrghatvam na ārabhyate teṣām api chandasi dīrghatvam dṛśyate . tat yathā pūruṣaḥ . nārakaḥ iti . anekāntatvāt ca . yeṣām ca api ārabhyate teṣām api anekāntaḥ . yasmin eva ca pratyaye dīrghatvam dṛśyate tasmin eva ca na dṛśyate . māmahānaḥ ukthapātram . mamahānaḥ iti ca .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२।११-१३।५ रो इव्।३१०-३११ धातोः इति किमर्थम् । ईहाम् चक्रे । न एतत् अस्ति । लिटि इति उच्यते न च अत्र लिटम् पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः । इदम् तर्हि । ससृवांसः विशृण्विरे । लिटि द्विर्वचने जागर्तेः वावचनम् । लिटि द्विर्वचने जागर्तेः वा इति वक्तव्यम् । यः जागर तम् ऋचः कामयन्ते । यः जजागार तम् ऋचः कामयन्ते । अनभ्यासस्य इति किम् । कृष्णः नोनाव वृषभः यदि इदम् । नोनूयतेः नोनाव । अभ्यासप्रतिषेधानर्थक्यम् च छन्दसि वावचनात् । अभ्यासप्रतिषेधः च अनर्थकः । किम् कारणम् । छन्दसि वावचनात् । अवश्यम् छन्दसि वा द्वे भवतः इति वक्तव्यम् । किम् प्रयोजनम् । प्रयोजनम् आदित्यान् याचिषामहे । यियाचिषामहे इति प्राप्ते । देवता नो दाति प्रियाणि । ददाति प्रियाणि । मघवा दातु । मघवा ददातु । सः नः स्तुतः वीरवत् धातु । वीरवत् दधातु । यावता इदानीम् छन्दसि वा द्वे भवतः इति उच्यते धातुग्रहणेन अपि न अर्थः । कस्मात् न भवति ससृवांसः विशृण्विरे इति । छन्दसि वावचनात् । तत् एतत् धातुग्रहणम् सान्न्यासिकम् तिष्ठतु तावत् ।

KA III.12.11-13.5 Ro IV.310-311 dhātoḥ iti kimartham . īhām cakre . na etat asti . liṭi iti ucyate na ca atra liṭam paśyāmaḥ . pratyayalakṣaṇena . na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ . idam tarhi . sasṛvāṃsaḥ viśṛṇvire . liṭi dvirvacane jāgarteḥ vāvacanam . liṭi dvirvacane jāgarteḥ vā iti vaktavyam . yaḥ jāgara tam ṛcaḥ kāmayante . yaḥ jajāgāra tam ṛcaḥ kāmayante . anabhyāsasya iti kim . kṛṣṇaḥ nonāva vṛṣabhaḥ yadi idam . nonūyateḥ nonāva . abhyāsapratiṣedhānarthakyam ca chandasi vāvacanāt . abhyāsapratiṣedhaḥ ca anarthakaḥ . kim kāraṇam . chandasi vāvacanāt . avaśyam chandasi vā dve bhavataḥ iti vaktavyam . kim prayojanam . prayojanam ādityān yāciṣāmahe . yiyāciṣāmahe iti prāpte . devatā no dāti priyāṇi . dadāti priyāṇi . maghavā dātu . maghavā dadātu . saḥ naḥ stutaḥ vīravat dhātu . vīravat dadhātu . yāvatā idānīm chandasi vā dve bhavataḥ iti ucyate dhātugrahaṇena api na arthaḥ . kasmāt na bhavati sasṛvāṃsaḥ viśṛṇvire iti . chandasi vāvacanāt . tat etat dhātugrahaṇam sānnyāsikam tiṣṭhatu tāvat .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३।७-१६।७ रो इव्।३११-३१७ किम् इयम् षष्ठी आहोस्वित् सप्तमी । कुतः सन्देहः । समानः निर्देशः । किम् च अतः । यदि षष्ठी सन्यङन्तस्य द्विर्वचनेन भवितव्यम् । अथ सप्तमी सन्यङोः परतः पूर्वस्य द्विर्वचनम् । कः च अत्र विशेषः । सन्यङोः परतः इति चेत् इटः द्विर्वचनम् परादित्वात् । सन्यङोः परतः इति चेत् इटः द्विर्वचनम् कर्तव्यम् । अटिटिषति । अशिशिषति । किम् पुनः कारणम् न सिध्यति । परादित्वात् । इट् परादिः । हन्तेः च ईटः । हन्तेः च ईटः द्विर्वचनम् कर्तव्यम् । जेघ्नीयते । ननु च यस्य अपि सन्यङन्तस्य द्विर्वचनम् तस्य अपि स्थानिवद्भावप्रसङ्गः । ईटि स्थानिवद्भावात् ईटः द्विर्वचनम् न प्राप्नोति । न एषः दोषः । द्विर्वचननिमित्ते अचि स्थानिवत् इति उच्यते न च असौ द्विर्वचननिमित्तम् । यस्मिन् अपि द्विर्वचनम् यस्य अपि द्विर्वचनम् सर्वः असौ द्विर्वचननिमित्तम् । तस्मात् ईटः द्विर्वचनम् । तस्मात् उभाभ्याम् ईटः द्विर्वचनम् कर्तव्यम् । यः च उभयोः दोषः न तम् एकः चोद्यः भवति । एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् उदात्तविशेषणम् चेत् सनः इट्प्रतिषेधः । एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् उदात्तविशेषणम् चेत् सनः इट्प्रतिषेधः वक्तव्यः । बिभित्सति । चिच्छित्सति । द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति । अस्तु तर्हि सन्यङन्तस्य । सन्यङन्तस्य इति चेत् अशेः सनि अनिटः । सन्यङन्तस्य इति चेत् अशेः सनि अनिटः द्विर्वचनम् वक्तव्यम् । इयक्षमाणाः भृगुभिः सजोषाः । यस्य अपि सन्यङोः परतः द्विर्वचनम् तेन अपि अत्र अवश्यम् इडभावे यत्नः कर्तव्यः । किम् कारणम् । अशेः हि प्रतिपदम् इट् विधीयते स्मिपूङ्रञ्ज्वशाम् सनि इति । तेन एव द्वितीयद्विर्वचनम् अपि न भविष्यति । अथ वा न एतत् अशेः रूपम् । यजेः एषः छान्दसः वर्णलोपः । तत् यथा तुभ्य इदम् अग्ने । तुभ्यम् इदम् अग्ने इति प्राप्ते । अम्बानाम् चरुम् । नाम्बानाम् चरुम् इति प्राप्ते । आव्याधिनीः उगणाः । सुगणाः इति प्राप्ते । इष्कर्तरम् अध्वरस्य । निष्कर्तारम् इति प्राप्ते । शिवा उद्रस्य भेषजी । शिवा रुद्रस्य भेषजी इति प्राप्ते । अश्यर्थः वै गम्यते । कः पुनः अशेः अर्थः । अश्नोतिः व्यप्तिकर्मा । यजिः अपि अश्यर्थे वर्तते । कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । बह्वर्थाः अपि धातवः भवन्ति इति । तत् यथा । वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते । केशान् वपति इति । ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते । अग्निः वै इतः वृष्टिम् ईट्टे । मरुतः अमुतः च्यावयन्ति । करोतिः अयम् अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते । पृष्ठम् कुरु । पादौ कुरु । उन्मृदान इति गम्यते । निक्षेपणे च अपि दृश्यते । कटे कुरु । घटे कुरु । अश्मानम् इतः कुरु । स्थापय इति गम्यते । एवम् तर्हि दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् । दीर्घत्वम् द्विर्वचनाधिकस्य न सिध्यति । चिचीषति । तुष्टूषति । समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति । तत्र अजन्तानाम् सनि इति दीर्घत्वम् न प्राप्नोति । इदम् इह सम्प्रधार्यम् दीर्घत्वम् क्रियताम् द्विर्वचनम् इति किम् अत्र कर्तव्यम् । परत्वात् दीर्घत्वम् । नित्यम् द्विर्वचनम् । कृते अपि दीर्घत्वे प्राप्नोति अकृते अपि प्राप्नोति । दीर्घत्वम् अपि नित्यम् । कृते अपि द्विर्वचने प्राप्नोति अकृते अपि प्राप्नोति । अनित्यम् दीर्घत्वम् । न हि कृते द्विर्वचने प्राप्नोति । किम् कारणम् । समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य अजन्तता न अस्ति इति दीर्घत्वम् न प्राप्नोति । द्विर्वचनम् अपि अनित्यम् । अन्यस्य कृते दीर्घत्वे प्राप्नोति अन्यस्य अकृते । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वात् दीर्घत्वम् । यत् तर्हि न अकृते द्विर्वचने दीर्घत्वम् तत् न सिध्यति । जुहूषति इति । कुत्वम् द्विर्वचनाधिकस्य न सिध्यति । जिघांसति । जङ्घन्यते । किम् कारणम् । समुदायस्य समुदायः आदेशः । तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः हन्तिः भवति ।

KA III.13.7-16.7 Ro IV.311-317 kim iyam ṣaṣṭhī āhosvit saptamī . kutaḥ sandehaḥ . samānaḥ nirdeśaḥ . kim ca ataḥ . yadi ṣaṣṭhī sanyaṅantasya dvirvacanena bhavitavyam . atha saptamī sanyaṅoḥ parataḥ pūrvasya dvirvacanam . kaḥ ca atra viśeṣaḥ . sanyaṅoḥ parataḥ iti cet iṭaḥ dvirvacanam parāditvāt . sanyaṅoḥ parataḥ iti cet iṭaḥ dvirvacanam kartavyam . aṭiṭiṣati . aśiśiṣati . kim punaḥ kāraṇam na sidhyati . parāditvāt . iṭ parādiḥ . hanteḥ ca īṭaḥ . hanteḥ ca īṭaḥ dvirvacanam kartavyam . jeghnīyate . nanu ca yasya api sanyaṅantasya dvirvacanam tasya api sthānivadbhāvaprasaṅgaḥ . īṭi sthānivadbhāvāt īṭaḥ dvirvacanam na prāpnoti . na eṣaḥ doṣaḥ . dvirvacananimitte aci sthānivat iti ucyate na ca asau dvirvacananimittam . yasmin api dvirvacanam yasya api dvirvacanam sarvaḥ asau dvirvacananimittam . tasmāt īṭaḥ dvirvacanam . tasmāt ubhābhyām īṭaḥ dvirvacanam kartavyam . yaḥ ca ubhayoḥ doṣaḥ na tam ekaḥ codyaḥ bhavati . ekācaḥ upadeśe anudāttāt iti upadeśavacanam udāttaviśeṣaṇam cet sanaḥ iṭpratiṣedhaḥ . ekācaḥ upadeśe anudāttāt iti upadeśavacanam udāttaviśeṣaṇam cet sanaḥ iṭpratiṣedhaḥ vaktavyaḥ . bibhitsati . cicchitsati . dvirvacane kṛte upadeśe anudāttāt ekācaḥ śrūyamāṇāt iti iṭpratiṣedhaḥ na prāpnoti . astu tarhi sanyaṅantasya . sanyaṅantasya iti cet aśeḥ sani aniṭaḥ . sanyaṅantasya iti cet aśeḥ sani aniṭaḥ dvirvacanam vaktavyam . iyakṣamāṇāḥ bhṛgubhiḥ sajoṣāḥ . yasya api sanyaṅoḥ parataḥ dvirvacanam tena api atra avaśyam iḍabhāve yatnaḥ kartavyaḥ . kim kāraṇam . aśeḥ hi pratipadam iṭ vidhīyate smipūṅrañjvaśām sani iti . tena eva dvitīyadvirvacanam api na bhaviṣyati . atha vā na etat aśeḥ rūpam . yajeḥ eṣaḥ chāndasaḥ varṇalopaḥ . tat yathā tubhya idam agne . tubhyam idam agne iti prāpte . ambānām carum . nāmbānām carum iti prāpte . āvyādhinīḥ ugaṇāḥ . sugaṇāḥ iti prāpte . iṣkartaram adhvarasya . niṣkartāram iti prāpte . śivā udrasya bheṣajī . śivā rudrasya bheṣajī iti prāpte . aśyarthaḥ vai gamyate . kaḥ punaḥ aśeḥ arthaḥ . aśnotiḥ vyaptikarmā . yajiḥ api aśyarthe vartate . katham punaḥ anyaḥ nāma anyasya arthe vartate . bahvarthāḥ api dhātavaḥ bhavanti iti . tat yathā . vapiḥ prakiraṇe dṛṣṭaḥ chedane ca api vartate . keśān vapati iti . īḍiḥ studicodanāyācñāsu dṛṣṭaḥ īraṇe ca api vartate . agniḥ vai itaḥ vṛṣṭim īṭṭe . marutaḥ amutaḥ cyāvayanti . karotiḥ ayam abhūtaprādurbhāve dṛṣṭaḥ nirmalīkaraṇe ca api vartate . pṛṣṭham kuru . pādau kuru . unmṛdāna iti gamyate . nikṣepaṇe ca api dṛśyate . kaṭe kuru . ghaṭe kuru . aśmānam itaḥ kuru . sthāpaya iti gamyate . evam tarhi dīrghakutvaprasāraṇaṣatvam adhikasya dvirvacanāt . dīrghatvam dvirvacanādhikasya na sidhyati . cicīṣati . tuṣṭūṣati . samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ san bhavati . tatra ajantānām sani iti dīrghatvam na prāpnoti . idam iha sampradhāryam dīrghatvam kriyatām dvirvacanam iti kim atra kartavyam . paratvāt dīrghatvam . nityam dvirvacanam . kṛte api dīrghatve prāpnoti akṛte api prāpnoti . dīrghatvam api nityam . kṛte api dvirvacane prāpnoti akṛte api prāpnoti . anityam dīrghatvam . na hi kṛte dvirvacane prāpnoti . kim kāraṇam . samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya ajantatā na asti iti dīrghatvam na prāpnoti . dvirvacanam api anityam . anyasya kṛte dīrghatve prāpnoti anyasya akṛte . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . ubhayoḥ anityayoḥ paratvāt dīrghatvam . yat tarhi na akṛte dvirvacane dīrghatvam tat na sidhyati . juhūṣati iti . kutvam dvirvacanādhikasya na sidhyati . jighāṃsati . jaṅghanyate . kim kāraṇam . samudāyasya samudāyaḥ ādeśaḥ . tatra sampramugdhatvāt prakṛtipratyayasya naṣṭaḥ hantiḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१६।९-२३ रो इव्।३१७-३१८ दाश्वान् इति किम् निपात्यते । दाशेः वसौ द्वित्वेट्प्रतिषेधौ । दाशेः वसौ द्वित्वेट्प्रतिषेधौ निपात्येते । दाश्वंसः दाशुषः सुतम् । दाश्वान् । साह्वान् इति किम् निपात्यते । सहेः दीर्घत्वम् च । किम् च । द्वित्वेट्प्रतिषेधौ च । साह्वान् बलाहकः । साह्वान् । मीढ्वान् इति किम् निपात्यते । मिहेः ढत्वम् च । किम् च । यत् च पूर्वयोः । किम् च पूर्वयोः । द्वित्वेट्प्रतिषेधौ दीर्घत्वम् च । मीढ्वः तोकय तनयाय मृडय । यथा इयम् इन्द्र मीढ्वः । मह्यर्थः वै गम्यते । कः पुनः मह्यर्थः । महतिः दानकर्मा । अतः किम् । इत्वम् अपि निपात्यम् । मह्यर्थः इति चेत् मिहेः तदर्थत्वात् सिद्धम् । मह्यर्थः इति चेत् मिहिः अपि मह्यर्थे वर्तते । कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । बह्वर्थाः अपि धातवः भवन्ति इति । अस्ति पुनः अन्यत्र अपि क्व चित् मिहिः मह्यर्थे वर्तते । अस्ति इति आह । मिहेः मेघः । मेघः च कस्मात् भवति । अपः ददाति इति ।

KA III.16.9-23 Ro IV.317-318 dāśvān iti kim nipātyate . dāśeḥ vasau dvitveṭpratiṣedhau . dāśeḥ vasau dvitveṭpratiṣedhau nipātyete . dāśvaṃsaḥ dāśuṣaḥ sutam . dāśvān . sāhvān iti kim nipātyate . saheḥ dīrghatvam ca . kim ca . dvitveṭpratiṣedhau ca . sāhvān balāhakaḥ . sāhvān . mīḍhvān iti kim nipātyate . miheḥ ḍhatvam ca . kim ca . yat ca pūrvayoḥ . kim ca pūrvayoḥ . dvitveṭpratiṣedhau dīrghatvam ca . mīḍhvaḥ tokaya tanayāya mṛḍaya . yathā iyam indra mīḍhvaḥ . mahyarthaḥ vai gamyate . kaḥ punaḥ mahyarthaḥ . mahatiḥ dānakarmā . ataḥ kim . itvam api nipātyam . mahyarthaḥ iti cet miheḥ tadarthatvāt siddham . mahyarthaḥ iti cet mihiḥ api mahyarthe vartate . katham punaḥ anyaḥ nāma anyasya arthe vartate . bahvarthāḥ api dhātavaḥ bhavanti iti . asti punaḥ anyatra api kva cit mihiḥ mahyarthe vartate . asti iti āha . miheḥ meghaḥ . meghaḥ ca kasmāt bhavati . apaḥ dadāti iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१७।१-११ रो इव्।३१८-३१९ द्विर्वचनप्रकरणे कृञादीनाम् के । द्विर्वचनप्रकरणे कृञादीनाम् के उपसङ्ख्यानम् कर्तव्यम् । चक्रम् । चिक्लिदम् । चक्नम् इति । कादिषु इति वक्तव्यम् इह अपि यथा स्यात् । बभ्रुः । ययुः इति । चरिचलिपतिवदीनाम् अचि आक् च अभ्यासस्य । चरिचलिपतिवदीनाम् अचि द्वे भवतः इति वक्तव्यम् आक् च अभ्यासस्य । चराचरः । चलाचलः । पतापतः । वदावदः । हन्तेः घः च । हन्तेः घः च वक्तव्यः । अचि द्वे भवतः आक् च अभ्यासस्य । घनाघनः । पाटेः णिलुक् च दीर्घः च अभ्यासस्य ऊक् च । पाटयतेः णिलुक् च वक्तव्यः । अचि द्वे भवतः इति वक्तव्यम् । दीर्घः च अभ्यासस्य ऊक् च आगमः । पाटुपटः ।

KA III.17.1-11 Ro IV.318-319 dvirvacanaprakaraṇe kṛñādīnām ke . dvirvacanaprakaraṇe kṛñādīnām ke upasaṅkhyānam kartavyam . cakram . ciklidam . caknam iti . kādiṣu iti vaktavyam iha api yathā syāt . babhruḥ . yayuḥ iti . caricalipativadīnām aci āk ca abhyāsasya . caricalipativadīnām aci dve bhavataḥ iti vaktavyam āk ca abhyāsasya . carācaraḥ . calācalaḥ . patāpataḥ . vadāvadaḥ . hanteḥ ghaḥ ca . hanteḥ ghaḥ ca vaktavyaḥ . aci dve bhavataḥ āk ca abhyāsasya . ghanāghanaḥ . pāṭeḥ ṇiluk ca dīrghaḥ ca abhyāsasya ūk ca . pāṭayateḥ ṇiluk ca vaktavyaḥ . aci dve bhavataḥ iti vaktavyam . dīrghaḥ ca abhyāsasya ūk ca āgamaḥ . pāṭupaṭaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१७।१२-१९।१० रो इव्।३१९-३२३ द्विर्वचनम् यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्त्वेभ्यः । यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्त्वेभ्यः द्विर्वचनम् भवति विप्रतिषेधेन । द्विर्वचनस्य अवकाशः । बिभिदतुः । बिभिदुः । यणादेशस्य अवकाशः । दधि अत्र । मधु अत्र । इह उभयम् प्राप्नोति । चक्रतुः । चक्रुः । अयवायावादेशानाम् अवकाशः । चयनम् । चायकः । लवनम् । लावकः । द्विर्वचनस्य सः एव । इह उभयम् प्राप्नोति । चिचाय । चिचयिथ । लुलाव । लुलविथ । आल्लोपस्य अवकाशः । । गोदः । कम्बलदः । द्विर्वचनस्य सः एव । इह उभयम् प्राप्नोति । ययतुः । ययुः । तस्थतुः । तस्थुः । उपधालोपास्य अवकाशः । श्लेष्मघ्नम् मधु । पित्तघ्नम् घृतम् । द्विर्वचनस्य सः एव । इह उभयम् प्राप्नोति । आटितत् । आशिशत् । उत्त्वस्य अवकाशः निपूर्ताः पिण्डाः । द्विर्वचनस्य सः एव । इह उभयम् प्राप्नोति । मित्रात्वरुणौ ततुरिः । दूरे ह्यध्वा जगुरिः । द्विर्वचनम् भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । इष्टवाची परशब्दः । विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति । द्विर्वचनात् प्रसारणात्त्वधात्वादिविकाररीत्वेत्त्वोत्त्वगुणवृद्धिविधयः । द्विर्वचनात् प्रसारणात्त्वधात्वादिविकाररीत्वेत्त्वोत्त्वगुणवृद्धिविधयः भवन्ति विप्रतिषेधेन । द्विर्वचनस्य अवकाशः । बिभिदतुः । बिभिदुः । सम्प्रसारणस्य अवकाशः । इष्टम् । सुप्तम् । इह उभयम् प्राप्नोति । ईजतुः । ईजुः । न एतत् अस्ति प्रयोजनम् । अस्तु अत्र द्विर्वचनम् । द्विर्वचने कृते परस्य रूपस्य किति इति भविष्यति पूर्वस्य लिटि अभ्यासस्य उभयेषाम् इति । इदम् तर्हि सोषुप्यते । इदम् च अपि उदाहरणम् । ईजतुः , ईजुः इति । ननु च उक्तम् । अस्तु अत्र द्विर्वचनम् । द्विर्वचने कृते परस्य रूपस्य किति इति भविष्यति पूर्वस्य लिटि अभ्यासस्य उभयेषाम् इति । न सिध्यति । न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः प्राप्नोति । अकारेण व्यव्हितत्वात् न भविष्यति । एकादेशे कृते न अस्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव । एवम् तर्हि समानाङ्गग्रहणम् तत्र चोदयिष्यति । आत्त्वस्य अवकाशः । ग्लाता । म्लाता । द्विर्वचनस्य सः एव । इह उभयम् प्राप्नोति । जग्ले । मम्ले । धात्वादिविकाराणाम् अवकाशः । नमति । सिञ्चति । द्विर्वचनस्य सः एव । इह उभयम् प्राप्नोति । ननाम । सिसेच । सस्नौ । रीत्वस्य अवकाशः । मात्रीयति । पित्रीयति । द्विर्वचनस्य सः एव । इह उभयम् प्राप्नोति । चेक्रीयते । जेह्रीयते । ईत्वस्य अवकाशः । पीयते । गीयते । द्विर्वचनस्य सः एव । इह उभयम् प्राप्नोति । पेपीयते । जेगीयते । इत्त्वोत्त्वयोः अवकाशः । आस्तीर्णम् । निपूर्ताः । द्विर्वचनस्य सः एव । इह उभयम् प्राप्नोति । आतेस्तीर्यते । निपोपूर्यते । गुणवृद्ध्योः अवकाशः । चेता । गौः । द्विर्वचनस्य सः एव । इह उभयम् प्राप्नोति । चिचाय । चिचयिथ । लुलाव । लुलविथ । न एतत् अस्ति प्रयोजनम् । अस्तु अत्र द्विर्वचनम् । द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः । इदम् तर्हि प्रयोजनम् । इयाय । इययिथ । ननु च उक्तम् न एतत् अस्ति प्रयोजनम् । अस्तु अत्र द्विर्वचनम् । द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः । न सिध्यति । अन्तरङ्गत्वात् सवर्णदीर्घत्वम् प्राप्नोति । वार्णात् आङ्गम् बलीयः इति गुणवृद्धी भविष्यतः । किम्

KA III.17.12-19.10 Ro IV.319-323 dvirvacanam yaṇayavāyāvādeśāllopopadhālopaṇilopakikinoruttvebhyaḥ . yaṇayavāyāvādeśāllopopadhālopaṇilopakikinoruttvebhyaḥ dvirvacanam bhavati vipratiṣedhena . dvirvacanasya avakāśaḥ . bibhidatuḥ . bibhiduḥ . yaṇādeśasya avakāśaḥ . dadhi atra . madhu atra . iha ubhayam prāpnoti . cakratuḥ . cakruḥ . ayavāyāvādeśānām avakāśaḥ . cayanam . cāyakaḥ . lavanam . lāvakaḥ . dvirvacanasya saḥ eva . iha ubhayam prāpnoti . cicāya . cicayitha . lulāva . lulavitha . āllopasya avakāśaḥ . . godaḥ . kambaladaḥ . dvirvacanasya saḥ eva . iha ubhayam prāpnoti . yayatuḥ . yayuḥ . tasthatuḥ . tasthuḥ . upadhālopāsya avakāśaḥ . śleṣmaghnam madhu . pittaghnam ghṛtam . dvirvacanasya saḥ eva . iha ubhayam prāpnoti . āṭitat . āśiśat . uttvasya avakāśaḥ nipūrtāḥ piṇḍāḥ . dvirvacanasya saḥ eva . iha ubhayam prāpnoti . mitrātvaruṇau taturiḥ . dūre hyadhvā jaguriḥ . dvirvacanam bhavati pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . iṣṭavācī paraśabdaḥ . vipratiṣedhe param yat iṣṭam tat bhavati iti . dvirvacanāt prasāraṇāttvadhātvādivikārarītvettvottvaguṇavṛddhividhayaḥ . dvirvacanāt prasāraṇāttvadhātvādivikārarītvettvottvaguṇavṛddhividhayaḥ bhavanti vipratiṣedhena . dvirvacanasya avakāśaḥ . bibhidatuḥ . bibhiduḥ . samprasāraṇasya avakāśaḥ . iṣṭam . suptam . iha ubhayam prāpnoti . ījatuḥ . ījuḥ . na etat asti prayojanam . astu atra dvirvacanam . dvirvacane kṛte parasya rūpasya kiti iti bhaviṣyati pūrvasya liṭi abhyāsasya ubhayeṣām iti . idam tarhi soṣupyate . idam ca api udāharaṇam . ījatuḥ , ījuḥ iti . nanu ca uktam . astu atra dvirvacanam . dvirvacane kṛte parasya rūpasya kiti iti bhaviṣyati pūrvasya liṭi abhyāsasya ubhayeṣām iti . na sidhyati . na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ prāpnoti . akāreṇa vyavhitatvāt na bhaviṣyati . ekādeśe kṛte na asti vyavadhānam . ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . evam tarhi samānāṅgagrahaṇam tatra codayiṣyati . āttvasya avakāśaḥ . glātā . mlātā . dvirvacanasya saḥ eva . iha ubhayam prāpnoti . jagle . mamle . dhātvādivikārāṇām avakāśaḥ . namati . siñcati . dvirvacanasya saḥ eva . iha ubhayam prāpnoti . nanāma . siseca . sasnau . rītvasya avakāśaḥ . mātrīyati . pitrīyati . dvirvacanasya saḥ eva . iha ubhayam prāpnoti . cekrīyate . jehrīyate . ītvasya avakāśaḥ . pīyate . gīyate . dvirvacanasya saḥ eva . iha ubhayam prāpnoti . pepīyate . jegīyate . ittvottvayoḥ avakāśaḥ . āstīrṇam . nipūrtāḥ . dvirvacanasya saḥ eva . iha ubhayam prāpnoti . ātestīryate . nipopūryate . guṇavṛddhyoḥ avakāśaḥ . cetā . gauḥ . dvirvacanasya saḥ eva . iha ubhayam prāpnoti . cicāya . cicayitha . lulāva . lulavitha . na etat asti prayojanam . astu atra dvirvacanam . dvirvacane kṛte parasya rūpasya guṇavṛddhī bhaviṣyataḥ . idam tarhi prayojanam . iyāya . iyayitha . nanu ca uktam na etat asti prayojanam . astu atra dvirvacanam . dvirvacane kṛte parasya rūpasya guṇavṛddhī bhaviṣyataḥ . na sidhyati . antaraṅgatvāt savarṇadīrghatvam prāpnoti . vārṇāt āṅgam balīyaḥ iti guṇavṛddhī bhaviṣyataḥ . kim

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०।२-२२ रो इव्।३२३-३२६ ष्यङः सम्प्रसारणे पुत्रपत्योः तदादौ अतिप्रसङ्गः । ष्यङः सम्प्रसारणे पुत्रपत्योः तदादौ अतिप्रसङ्गः भवति । पुत्रपत्यादौ सम्प्रसारणम् प्राप्नोति । कारीषगन्ध्यापुत्रकुलम् , कारीषगन्ध्यापतिकुलम् । वर्णग्रहणात् सिद्धम् । वर्णग्रहणे एतत् भवति यस्मिन् विधिः तदादौ इति न च इदम् वर्णग्रहणम् । वर्णग्रहणे इति चेत् तदन्तप्रतिषेधः । वर्णग्रहणे इति चेत् तदन्तस्य प्रतिषेधः वक्तव्यः । पुत्रपत्यन्ते सम्प्रसारणम् प्राप्नोति । कारीषगन्ध्यापरमपुत्रः , कारीषगन्ध्यापरमपतिः । कौमुदगन्ध्यापरमपुत्रः , कौमुदगन्ध्यापरमपतिः । किम् कारणम् । यत्र हि तदादिविधिः न अस्ति तदन्तविधिना तत्र भवितव्यम् । सिद्धम् तु उत्तरपदवचनात् । सिद्धम् एतत् । कथम् । उत्तरपदवचनात् । पुत्रपत्योः उत्तरपदयोः इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । पूर्वपदम् उत्तरपदम् इति सम्बन्धिशब्दौ एतौ । सति पूर्वपदे उत्तरपदम् भवति सति च उत्तरपदे पूर्वपदम् इति । न च अत्र पुत्रपती उत्तरपदे । इह अपि तर्हि न प्राप्नोति । कारीषगन्धीपुत्रः , कारीषगन्धीपतिः इति । किम् कारणम् । पूर्वपदम् इति उच्यते । न हि अत्र ष्यङ् पूर्वपदम् अस्ति । ष्यङन्तम् एतत् पूर्वपदम् । कथम् । प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति । यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते परमकारीषगन्धीपुत्रः , परमकारीषगन्धीपतिः इति न सिध्यति । प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति अस्त्रीप्रत्ययेन इति । यदि अस्त्रीप्रत्ययेन इति उच्यते अतिक्रान्तः कारीषगन्ध्याम् अतिकारीषगन्ध्यः , तस्य पुत्रः अतिकारीषगन्ध्यपुत्रः , अतिकारीषगन्ध्यपतिः इति अत्र अपि प्राप्नोति । अस्त्रीप्रत्ययेन अनुपसर्जनेन । यः हि उपसर्जनम् स्त्रीप्रत्ययः भवति एषा तत्र परिभाषा प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।

KA III.20.2-22 Ro IV.323-326 ṣyaṅaḥ samprasāraṇe putrapatyoḥ tadādau atiprasaṅgaḥ . ṣyaṅaḥ samprasāraṇe putrapatyoḥ tadādau atiprasaṅgaḥ bhavati . putrapatyādau samprasāraṇam prāpnoti . kārīṣagandhyāputrakulam , kārīṣagandhyāpatikulam . varṇagrahaṇāt siddham . varṇagrahaṇe etat bhavati yasmin vidhiḥ tadādau iti na ca idam varṇagrahaṇam . varṇagrahaṇe iti cet tadantapratiṣedhaḥ . varṇagrahaṇe iti cet tadantasya pratiṣedhaḥ vaktavyaḥ . putrapatyante samprasāraṇam prāpnoti . kārīṣagandhyāparamaputraḥ , kārīṣagandhyāparamapatiḥ . kaumudagandhyāparamaputraḥ , kaumudagandhyāparamapatiḥ . kim kāraṇam . yatra hi tadādividhiḥ na asti tadantavidhinā tatra bhavitavyam . siddham tu uttarapadavacanāt . siddham etat . katham . uttarapadavacanāt . putrapatyoḥ uttarapadayoḥ iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . pūrvapadam uttarapadam iti sambandhiśabdau etau . sati pūrvapade uttarapadam bhavati sati ca uttarapade pūrvapadam iti . na ca atra putrapatī uttarapade . iha api tarhi na prāpnoti . kārīṣagandhīputraḥ , kārīṣagandhīpatiḥ iti . kim kāraṇam . pūrvapadam iti ucyate . na hi atra ṣyaṅ pūrvapadam asti . ṣyaṅantam etat pūrvapadam . katham . pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati . yadi pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti ucyate paramakārīṣagandhīputraḥ , paramakārīṣagandhīpatiḥ iti na sidhyati . pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati astrīpratyayena iti . yadi astrīpratyayena iti ucyate atikrāntaḥ kārīṣagandhyām atikārīṣagandhyaḥ , tasya putraḥ atikārīṣagandhyaputraḥ , atikārīṣagandhyapatiḥ iti atra api prāpnoti . astrīpratyayena anupasarjanena . yaḥ hi upasarjanam strīpratyayaḥ bhavati eṣā tatra paribhāṣā pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०।२३-२३।२५ रो इव्।३२६-३३० ष्यङन्ते यावन्तः यणः तेषाम् सर्वेषाम् सम्प्रसारणम् प्राप्नोति । वाराहिपुत्रः , तार्णकर्णीपुत्रः । तत्र अप्रत्ययस्थस्य प्रतिषेधः वक्तव्यः । यथागृहीतस्य आदेशवचनात् अप्रत्ययस्थे सिद्धम् । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् अप्रत्ययस्थस्य न भविष्यति । अनन्त्यविकारे अन्त्यसदेशस्य वा । अथ वा अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति एषा परिभाषा कर्तव्या । कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत अप्रत्ययस्थस्य वा प्रतिषेधः उच्येत । अवश्यम् एषा परिभाषा कर्तव्या । बहूनि एतस्याः परिभाषायाः प्रयोजनानि । कानि । प्रयोजनम् न सम्प्रसारणे सम्प्रसारणम् । न सम्प्रसारणे सम्प्रसारणम् इति एतत् न वक्तव्यम् भवति । कथम् व्यधेः विद्धः इति । अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति । न एतत् अस्ति प्रयोजनम् । क्रियते न्यासे एव । सान्तमहतः दीर्घत्वे । सान्तमहतः दीर्घत्वे प्रयोजनम् । पयांसि, यशांसि । प इति अस्य अपि प्राप्नोति । अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । नोपधायाः इति तत्र वर्तते । एवम् अपि अनांसि, मनांसि इति अत्र अपि प्राप्नोति । न एषः दोषः । सान्तसंयोगेन नोपधाम् विशेषयिष्यामः । सान्तसंयोगस्य नोपाधायाः इति । एवम् अपि हंसशिरांसि , ध्वंसशिरांसै इति अत्र अपि प्राप्नोति । न एषः दोषः । हम्मतेः हंसः । कः पुनः आह हम्मतेः हंसः इति । किम् तर्हि हन्तेः हंसः । हन्ति अध्वानम् इति । एवम् तर्हि सर्वनामस्थाने इति वर्तते । सर्वनामस्थानपरतया सान्तसंयोगम् विशेषयिष्यामः । सर्वनामस्थानपरस्य सान्तसंयोगस्य नोपाधायाः इति । अन्कारान्तस्य अल्लोपे । अन्कारान्तस्य अल्लोपे प्रयोजनम् । तक्ष्णा , तक्ष्णे इति । त इति अत्र अपि प्राप्नोति । अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । अना अकारम् विशेषयिष्यामः । अनः यः अकारः इति । एवम् अपि अनसा , अनसे इति अत्र अपि प्राप्नोति । अन्कारेण अङ्गम् विशेषयिष्यामः । अन्कारान्तस्य अङ्गस्य अनः यः अकारः इति । एवम् अपि अनस्तक्ष्णा , अनस्तक्ष्णे इति अत्र अपि प्राप्नोति । एवम् तर्हि कार्यकालम् सञ्ज्ञापरिभाषम् । यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् । भस्य इति उपस्थितम् इदम् भवति यचि भम् इति । तत्र यजादिपरत्या अन्कारम् विशेषयिष्यामः अना अकारम् । यजादिपरस्य अनः यः अकारः इति । मृजेः वृद्धिविधौ । मृजेः वृद्धिविधौ प्रयोजनम् । न्यमार्ट् । अटः अपि वृद्धिः प्राप्नोति । अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । यथापरिभाषितम् इकः गुणवृद्धी इति इकः एव वृद्धिः भविष्यति । एवम् अपि मिमार्जिषति इति अत्र प्राप्नोति । अस्तु । अभ्यासनिर्ह्रासेन ह्रस्वः भविष्यति । वसोः सम्प्रसारणे च । वसोः सम्प्रसारणे च प्रयोजनम् । विदुषः पश्य । विदिवकारस्य अपि प्राप्नोति । अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः भविष्यति । दकारेण (र्: इद्कारेण) व्यवहितत्वात् न प्राप्नोति । एवम् तर्हि निर्दिश्यमानस्य आदेशाः भवन्ति इति न भविष्यति । युवादीनाम् च । युवादीनाम् च सम्प्रसारणे प्रयोजनम् । यूनः , यूना , यूने । यकारस्य अपि प्राप्नोति । अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । न सम्प्रसारणे सम्प्रसारणम् इति न भविष्यति । उकारेण व्यवहितत्वात् न प्राप्नोति । एकादेशे कृते न अस्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव । एवम् तर्हि समानाङ्गग्रहणम् अत्र चोदयिष्यति । र्वोः उपधाग्रहणम् च । र्वोः उपधाग्रहणम् च न कर्तव्यम् भवति । इह कस्मात् न भवति । अबिभः भवान् । अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । क्रियते न्यासे एव ।

KA III.20.23-23.25 Ro IV.326-330 ṣyaṅante yāvantaḥ yaṇaḥ teṣām sarveṣām samprasāraṇam prāpnoti . vārāhiputraḥ , tārṇakarṇīputraḥ . tatra apratyayasthasya pratiṣedhaḥ vaktavyaḥ . yathāgṛhītasya ādeśavacanāt apratyayasthe siddham . nirdiśyamānasya ādeśāḥ bhavanti iti evam apratyayasthasya na bhaviṣyati . anantyavikāre antyasadeśasya vā . atha vā anantyavikāre antyasadeśasya kāryam bhavati iti eṣā paribhāṣā kartavyā . kaḥ punaḥ atra viśeṣaḥ eṣā vā paribhāṣā kriyeta apratyayasthasya vā pratiṣedhaḥ ucyeta . avaśyam eṣā paribhāṣā kartavyā . bahūni etasyāḥ paribhāṣāyāḥ prayojanāni . kāni . prayojanam na samprasāraṇe samprasāraṇam . na samprasāraṇe samprasāraṇam iti etat na vaktavyam bhavati . katham vyadheḥ viddhaḥ iti . anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . na etat asti prayojanam . kriyate nyāse eva . sāntamahataḥ dīrghatve . sāntamahataḥ dīrghatve prayojanam . payāṃsi, yaśāṃsi . pa iti asya api prāpnoti . anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . etat api na asti prayojanam . nopadhāyāḥ iti tatra vartate . evam api anāṃsi, manāṃsi iti atra api prāpnoti . na eṣaḥ doṣaḥ . sāntasaṃyogena nopadhām viśeṣayiṣyāmaḥ . sāntasaṃyogasya nopādhāyāḥ iti . evam api haṃsaśirāṃsi , dhvaṃsaśirāṃsai iti atra api prāpnoti . na eṣaḥ doṣaḥ . hammateḥ haṃsaḥ . kaḥ punaḥ āha hammateḥ haṃsaḥ iti . kim tarhi hanteḥ haṃsaḥ . hanti adhvānam iti . evam tarhi sarvanāmasthāne iti vartate . sarvanāmasthānaparatayā sāntasaṃyogam viśeṣayiṣyāmaḥ . sarvanāmasthānaparasya sāntasaṃyogasya nopādhāyāḥ iti . ankārāntasya allope . ankārāntasya allope prayojanam . takṣṇā , takṣṇe iti . ta iti atra api prāpnoti . anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . etat api na asti prayojanam . anā akāram viśeṣayiṣyāmaḥ . anaḥ yaḥ akāraḥ iti . evam api anasā , anase iti atra api prāpnoti . ankāreṇa aṅgam viśeṣayiṣyāmaḥ . ankārāntasya aṅgasya anaḥ yaḥ akāraḥ iti . evam api anastakṣṇā , anastakṣṇe iti atra api prāpnoti . evam tarhi kāryakālam sañjñāparibhāṣam . yatra kāryam tatra upasthitam draṣṭavyam . bhasya iti upasthitam idam bhavati yaci bham iti . tatra yajādiparatyā ankāram viśeṣayiṣyāmaḥ anā akāram . yajādiparasya anaḥ yaḥ akāraḥ iti . mṛjeḥ vṛddhividhau . mṛjeḥ vṛddhividhau prayojanam . nyamārṭ . aṭaḥ api vṛddhiḥ prāpnoti . anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . etat api na asti prayojanam . yathāparibhāṣitam ikaḥ guṇavṛddhī iti ikaḥ eva vṛddhiḥ bhaviṣyati . evam api mimārjiṣati iti atra prāpnoti . astu . abhyāsanirhrāsena hrasvaḥ bhaviṣyati . vasoḥ samprasāraṇe ca . vasoḥ samprasāraṇe ca prayojanam . viduṣaḥ paśya . vidivakārasya api prāpnoti . anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . etat api na asti prayojanam . na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ bhaviṣyati . dakāreṇa (R: idkāreṇa) vyavahitatvāt na prāpnoti . evam tarhi nirdiśyamānasya ādeśāḥ bhavanti iti na bhaviṣyati . yuvādīnām ca . yuvādīnām ca samprasāraṇe prayojanam . yūnaḥ , yūnā , yūne . yakārasya api prāpnoti . anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . etat api na asti prayojanam . na samprasāraṇe samprasāraṇam iti na bhaviṣyati . ukāreṇa vyavahitatvāt na prāpnoti . ekādeśe kṛte na asti vyavadhānam . ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . evam tarhi samānāṅgagrahaṇam atra codayiṣyati . rvoḥ upadhāgrahaṇam ca . rvoḥ upadhāgrahaṇam ca na kartavyam bhavati . iha kasmāt na bhavati . abibhaḥ bhavān . anantyavikāre antyasadeśasya kāryam bhavati iti na doṣaḥ bhavati . etat api na asti prayojanam . kriyate nyāse eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२४।२-५ रो इव्।३३१ मातच् । कारीषगन्ध्या माता अस्य कारीषगन्धीमातः , कारीषगन्ध्यामातः । मातच् । मातृक । कारीषगन्धीमातृकः , कारीषगन्ध्यामातृकः । मातृक । मातृ । कारीषगन्धीमाता , कारीषगन्ध्यामाता । मातृ ।

KA III.24.2-5 Ro IV.331 mātac . kārīṣagandhyā mātā asya kārīṣagandhīmātaḥ , kārīṣagandhyāmātaḥ . mātac . mātṛka . kārīṣagandhīmātṛkaḥ , kārīṣagandhyāmātṛkaḥ . mātṛka . mātṛ . kārīṣagandhīmātā , kārīṣagandhyāmātā . mātṛ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२४।८-२५।५ रो इव्।३३१-३३३ वयिग्रहणम् किमर्थम् न वेञ् यजादिषु पठ्यते वेञः च वयिः आदेशः क्रियते तत्र यजादीनाम् किति इति एव सिद्धम् । तत्र एतत् स्यात् । ङिदर्थः अयम् आरम्भः इति । तत् च न । लिटि अयम् आदेशः लिट् च कित् एव । अतः उत्तरम् पठति । वयिग्रहणम् वेञः प्रतिषेधात् । वयिग्रहणम् क्रियते वेञः प्रतिषेधात् । वेञः लिटि प्रतिषेधम् वक्ष्यति । सः वयेः मा भूत् इति । यथा एव हि वेञ्ग्रहणात् विधिः प्रार्थ्यते एवम् प्रतिषेधः अपि प्राप्नोति । न वा यकारप्रतिषेधः ज्ञापकः अप्रतिषेधस्य । न वा एषः दोषः । किम् कारणम् । यत् अयम् लिटि वयः यः इति वयेः यकारस्य सम्प्रसारणप्रतिषेधम् शास्ति तत् ज्ञापति आचार्यः न वेञ्ग्रहणात् सम्प्रसारणप्रतिषेधः भवति इति । न एतत् अस्ति ज्ञापकम् । पिति अभ्यासार्थम् एतत् स्यात् । वयेः पित्सु वचनेषु अभ्यासस्य यकारस्य सम्प्रसारणम् मा भूत् इति । ननु च वेञ्ग्रहणात् वयेः पित्सु अपि वचनेषु अभ्यासयकारस्य सम्प्रसारणप्रतिषेधः सिद्धः । न सिध्यति । किम् कारणम् । किति इति तत्र अनुवर्तते । एवम् अपि वयेः पित्सु अपि वचनेषु अभ्यासयकारस्य सम्प्रसारणम् न प्राप्नोति । किम् कारणम् । हलादिशेषेण बाध्यते । न अत्र हलादिशेषः प्राप्नोति । किम् कारणम् । वक्ष्यति हि एतत् अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति । सः एषः वयेः यकारस्य सम्प्रसारणप्रतिषेधः पिति अभ्यासार्थः न ज्ञापकार्थः भवति । पिति अभ्यासार्थम् इति चेत् न अविशिष्टत्वात् । पिति अभ्यासार्थम् इति चेत् तत् न । किम् कारणम् । अविशिष्टत्वात् । अविशेषेण प्रतिषेधः । निवृत्तम् तत्र किति इति । आतः च अविशेषेण । वेञः अपि हि पित्सु वचनेषु अभ्यासस्य सम्प्रसारणम् न इष्यते । ववौ वविथ इति । विकृतिग्रहणम् खलु अपि प्रतिषेधे क्रियते न च विकृतिः प्रकृतिम् गृह्णाति ।

KA III.24.8-25.5 Ro IV.331-333 vayigrahaṇam kimartham na veñ yajādiṣu paṭhyate veñaḥ ca vayiḥ ādeśaḥ kriyate tatra yajādīnām kiti iti eva siddham . tatra etat syāt . ṅidarthaḥ ayam ārambhaḥ iti . tat ca na . liṭi ayam ādeśaḥ liṭ ca kit eva . ataḥ uttaram paṭhati . vayigrahaṇam veñaḥ pratiṣedhāt . vayigrahaṇam kriyate veñaḥ pratiṣedhāt . veñaḥ liṭi pratiṣedham vakṣyati . saḥ vayeḥ mā bhūt iti . yathā eva hi veñgrahaṇāt vidhiḥ prārthyate evam pratiṣedhaḥ api prāpnoti . na vā yakārapratiṣedhaḥ jñāpakaḥ apratiṣedhasya . na vā eṣaḥ doṣaḥ . kim kāraṇam . yat ayam liṭi vayaḥ yaḥ iti vayeḥ yakārasya samprasāraṇapratiṣedham śāsti tat jñāpati ācāryaḥ na veñgrahaṇāt samprasāraṇapratiṣedhaḥ bhavati iti . na etat asti jñāpakam . piti abhyāsārtham etat syāt . vayeḥ pitsu vacaneṣu abhyāsasya yakārasya samprasāraṇam mā bhūt iti . nanu ca veñgrahaṇāt vayeḥ pitsu api vacaneṣu abhyāsayakārasya samprasāraṇapratiṣedhaḥ siddhaḥ . na sidhyati . kim kāraṇam . kiti iti tatra anuvartate . evam api vayeḥ pitsu api vacaneṣu abhyāsayakārasya samprasāraṇam na prāpnoti . kim kāraṇam . halādiśeṣeṇa bādhyate . na atra halādiśeṣaḥ prāpnoti . kim kāraṇam . vakṣyati hi etat abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena iti . saḥ eṣaḥ vayeḥ yakārasya samprasāraṇapratiṣedhaḥ piti abhyāsārthaḥ na jñāpakārthaḥ bhavati . piti abhyāsārtham iti cet na aviśiṣṭatvāt . piti abhyāsārtham iti cet tat na . kim kāraṇam . aviśiṣṭatvāt . aviśeṣeṇa pratiṣedhaḥ . nivṛttam tatra kiti iti . ātaḥ ca aviśeṣeṇa . veñaḥ api hi pitsu vacaneṣu abhyāsasya samprasāraṇam na iṣyate . vavau vavitha iti . vikṛtigrahaṇam khalu api pratiṣedhe kriyate na ca vikṛtiḥ prakṛtim gṛhṇāti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२५।७-१० रो इव्।३३३ ग्रहिवृश्चतिपृच्छतिभृज्जतीनाम् अविशेषः । यत् उच्यते वृश्चेः अविशेषः इति तत् न । यदि अत्र रेफस्य सम्प्रसारणम् न स्यात् वकारस्य प्रसज्येत । रेफस्य पुनः सम्प्रसारणे सति उः अदत्त्वस्य स्थानिवद्भावात् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः सिद्धः भवति । तस्मात् वक्तव्यम् ग्रहेः अविषेषः पृच्छतिभृज्जत्योः अविशेषः इति ।

KA III.25.7-10 Ro IV.333 grahivṛścatipṛcchatibhṛjjatīnām aviśeṣaḥ . yat ucyate vṛśceḥ aviśeṣaḥ iti tat na . yadi atra rephasya samprasāraṇam na syāt vakārasya prasajyeta . rephasya punaḥ samprasāraṇe sati uḥ adattvasya sthānivadbhāvāt na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ siddhaḥ bhavati . tasmāt vaktavyam graheḥ aviṣeṣaḥ pṛcchatibhṛjjatyoḥ aviśeṣaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२५।११-२२ रो इव्। ३३३-३३४ अथ उभयग्रहणम् किमर्थम् । उभयेषाम् अभ्यासस्य सम्प्रसारणम् यथा स्यात् वचिस्वपियजादीनाम् ग्रहादीनाम् च । न एतत् अस्ति प्रयोजनम् । प्रकृतम् उभयेषाम् ग्रहणम् अनुवर्तते । यदि अनुवर्तते ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च इति यजादीनाम् ङिति अपि प्राप्नोति । न एषः दोषः । सम्बन्धम् अनुवर्तिष्यते । वचिस्वपियजादीनाम् किति । ग्रहादीनाम् ङिति च वचिस्वपियजादीनाम् किति । ततः लिटि अभ्यासस्य उभयेषाम् । किति ङिति इति निवृत्तम् । अथ वा मण्डूकगतयः अधिकाराः । यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः । अथ वा एकयोगः करिष्यते । वचिस्वपियजादीनाम् किति ग्रहादीनाम् ङिति च इति । ततः लिटि अभ्यासस्य इति । न च एकयोगे अनुवृत्तिः भवति । अथ वा उभयम् निवृत्तम् । तत् अपेक्षिष्यामहे । इदम् तर्हि उभयेषाङ्ग्रहणस्य प्रयोजनम् । उभयेषाम् अभ्यासस्य सम्प्रसारणम् एव यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति । किम् च अन्यत् प्राप्नोति । हलादिशेषः । अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति वक्ष्यति । सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।

KA III.25.11-22 Ro IV. 333-334 atha ubhayagrahaṇam kimartham . ubhayeṣām abhyāsasya samprasāraṇam yathā syāt vacisvapiyajādīnām grahādīnām ca . na etat asti prayojanam . prakṛtam ubhayeṣām grahaṇam anuvartate . yadi anuvartate grahijyāvayivyadhivaṣṭivicativṛścatipṛcchatibhṛjjatīnām ṅiti ca iti yajādīnām ṅiti api prāpnoti . na eṣaḥ doṣaḥ . sambandham anuvartiṣyate . vacisvapiyajādīnām kiti . grahādīnām ṅiti ca vacisvapiyajādīnām kiti . tataḥ liṭi abhyāsasya ubhayeṣām . kiti ṅiti iti nivṛttam . atha vā maṇḍūkagatayaḥ adhikārāḥ . yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . atha vā ekayogaḥ kariṣyate . vacisvapiyajādīnām kiti grahādīnām ṅiti ca iti . tataḥ liṭi abhyāsasya iti . na ca ekayoge anuvṛttiḥ bhavati . atha vā ubhayam nivṛttam . tat apekṣiṣyāmahe . idam tarhi ubhayeṣāṅgrahaṇasya prayojanam . ubhayeṣām abhyāsasya samprasāraṇam eva yathā syāt . yat anyat prāpnoti tat mā bhūt iti . kim ca anyat prāpnoti . halādiśeṣaḥ . abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena iti vakṣyati . saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२५।२३-२७।३ रो इव्।३३४-३३६ अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन । अभ्याससम्प्रसारणम् हलादिशेषात् भवति [भवति हलादिशेषात् : र्] विप्रतिषेधेन । अभ्याससम्प्रसारणस्य अवकाशः : इयाज, उवाप । हलादिशेषस्य अवकाशः : बिभिदतुः , बिभिदुः । इह उभयम् प्राप्नोति विव्याध , विव्यधिथ । अभ्याससम्प्रसारणम् भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वा सम्प्रसारणाश्रयबलीयस्त्वात् अन्यत्र अपि । न वा वक्तव्यः । किम् कारणम् । सम्प्रसारणाश्रयबलीयस्त्वात् अन्यत्र अपि । सम्प्रसारणम् सम्प्रसारणाश्रयम् च बलीयः भवति इति वक्तव्यम् । अन्यत्र अपि न अवश्यम् इह एव वक्तव्यम् । किम् प्रयोजनम् । प्रयोजनम् रमाल्लोपेयिअङ्यणः । रम् । भृष्टः, भृष्टवान् । सम्प्रसारणम् च प्राप्नोति रम्भावः च । परत्वात् रम्भावः स्यात् । सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् । रम् । आल्लोपः । जुहुवतुः , जुहुवुः । सम्प्रसारणम् च प्राप्नोति आल्लोपः च । परत्वात् आल्लोपः स्यात् । सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् । सम्प्रसारणे कृते पूर्वत्वम् च प्राप्नोति आल्लोपः च । परत्वात् आल्लोपः स्यात् । सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वत्वम् यथा स्यात् । इयङ् । शुशुवतुः , शुशुवुः । सम्प्रसारणम् च प्राप्नोति इयङादेशः च । परत्वात् इयङादेशः स्यात् । सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् । यण् । सम्प्रसारणे कृते पूर्वत्वम् च प्राप्नोति यणादेशः च । परत्वात् यणादेशः स्यात् । सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वत्वम् यथा स्यात् । इयङ् । न एतानि सन्ति प्रयोजनानि । यत् तावत् उच्यते रम् इति इदम् इह सम्प्रधार्यम् : रम्भावः क्रियताम् सम्प्रसारणम् इति । किम् अत्र कर्तव्यम् । परत्वात् रम्भावः । नित्यम् सम्प्रसारणम् । कृते अपि रम्भाबे प्राप्नोति अकृते अपि । रम्भावः अपि नित्यः । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि । कथम् । यः असौ ऋकारे रेफः तस्य च उपधायाः च प्राप्नोति । अनित्यः रम्भावः । न हि कृते सम्प्रसारणे प्राप्नोति । किम् कारणम् । उपदेशे इति वर्तते । तत् च अवश्यम् उपदेशग्रहणम् अनुवर्त्यम् बरीभृज्यते इति एवमर्थम् । आल्लोपेयङ्यणः इति । नित्यम् सम्प्रसारणम् । अन्तरङ्गम् पूर्वत्वम् । तत् एतत् अनन्यार्थम् सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वविप्रतिषेधः वा वक्तव्यः । उभयम् न वक्तव्यम् । उक्तम् अत्र उभयेषाङ्ग्रहणस्य प्रयोजनम् उभयेषाम् अभ्यासस्य सम्प्रसारणम् एव यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

KA III.25.23-27.3 Ro IV.334-336 abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena . abhyāsasamprasāraṇam halādiśeṣāt bhavati [bhavati halādiśeṣāt : R] vipratiṣedhena . abhyāsasamprasāraṇasya avakāśaḥ : iyāja, uvāpa . halādiśeṣasya avakāśaḥ : bibhidatuḥ , bibhiduḥ . iha ubhayam prāpnoti vivyādha , vivyadhitha . abhyāsasamprasāraṇam bhavati pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vā samprasāraṇāśrayabalīyastvāt anyatra api . na vā vaktavyaḥ . kim kāraṇam . samprasāraṇāśrayabalīyastvāt anyatra api . samprasāraṇam samprasāraṇāśrayam ca balīyaḥ bhavati iti vaktavyam . anyatra api na avaśyam iha eva vaktavyam . kim prayojanam . prayojanam ramāllopeyiaṅyaṇaḥ . ram . bhṛṣṭaḥ, bhṛṣṭavān . samprasāraṇam ca prāpnoti rambhāvaḥ ca . paratvāt rambhāvaḥ syāt . samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam yathā syāt . ram . āllopaḥ . juhuvatuḥ , juhuvuḥ . samprasāraṇam ca prāpnoti āllopaḥ ca . paratvāt āllopaḥ syāt . samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam yathā syāt . samprasāraṇe kṛte pūrvatvam ca prāpnoti āllopaḥ ca . paratvāt āllopaḥ syāt . samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam yathā syāt . iyaṅ . śuśuvatuḥ , śuśuvuḥ . samprasāraṇam ca prāpnoti iyaṅādeśaḥ ca . paratvāt iyaṅādeśaḥ syāt . samprasāraṇam balīyaḥ bhavati iti vaktavyam samprasāraṇam yathā syāt . yaṇ . samprasāraṇe kṛte pūrvatvam ca prāpnoti yaṇādeśaḥ ca . paratvāt yaṇādeśaḥ syāt . samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvatvam yathā syāt . iyaṅ . na etāni santi prayojanāni . yat tāvat ucyate ram iti idam iha sampradhāryam : rambhāvaḥ kriyatām samprasāraṇam iti . kim atra kartavyam . paratvāt rambhāvaḥ . nityam samprasāraṇam . kṛte api rambhābe prāpnoti akṛte api . rambhāvaḥ api nityaḥ . kṛte api samprasāraṇe prāpnoti akṛte api . katham . yaḥ asau ṛkāre rephaḥ tasya ca upadhāyāḥ ca prāpnoti . anityaḥ rambhāvaḥ . na hi kṛte samprasāraṇe prāpnoti . kim kāraṇam . upadeśe iti vartate . tat ca avaśyam upadeśagrahaṇam anuvartyam barībhṛjyate iti evamartham . āllopeyaṅyaṇaḥ iti . nityam samprasāraṇam . antaraṅgam pūrvatvam . tat etat ananyārtham samprasāraṇāśrayam balīyaḥ bhavati iti vaktavyam pūrvavipratiṣedhaḥ vā vaktavyaḥ . ubhayam na vaktavyam . uktam atra ubhayeṣāṅgrahaṇasya prayojanam ubhayeṣām abhyāsasya samprasāraṇam eva yathā syāt . yat anyat prāpnoti tat mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२७।४-७ रो इव्।३३६ व्यचेः कुटादित्वम् अनसि अञ्णिति सम्प्रसारणार्थम् । व्यचेः कुटादित्वम् अनसि इति वक्तव्यम् । किम् प्रयोजनम् । अञ्णिति सम्प्रसारणार्थम् । अञ्णिति सम्प्रसारणम् यथा स्यात् । उद्विचिता , उद्विचितुम् , उद्विचितव्यम् । अनसि इति किमर्थम् । उरुव्यचाः कण्टकः ।

KA III.27.4-7 Ro IV.336 vyaceḥ kuṭāditvam anasi añṇiti samprasāraṇārtham . vyaceḥ kuṭāditvam anasi iti vaktavyam . kim prayojanam . añṇiti samprasāraṇārtham . añṇiti samprasāraṇam yathā syāt . udvicitā , udvicitum , udvicitavyam . anasi iti kimartham . uruvyacāḥ kaṇṭakaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२७।९-१० रो इव्।३३६-३३७ चङ्ग्रहणम् शक्यम् अकर्तुम् । कथम् । ङिति इति वर्तते न च अन्यः स्वापेः ङित् अस्ति अन्यत् अतः चङः ।

KA III.27.9-10 Ro IV.336-337 caṅgrahaṇam śakyam akartum . katham . ṅiti iti vartate na ca anyaḥ svāpeḥ ṅit asti anyat ataḥ caṅaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२७।१२-१६ रो इव्।३३७ वशेः यङि प्रतिषेधः । वशेः यङि प्रतिषेधः वक्तव्यः सम्प्रसारणस्य । वावश्यते । क्व मा भूत् । उष्टः , उशन्ति इति । सः तर्हि तथा प्रतिषेधः वक्तव्यः । न वक्तव्यः । यङि इति वर्तते । एवम् तर्हि अन्वाचष्टे यङि इति वर्तते इति । न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति । एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् इति ।

KA III.27.12-16 Ro IV.337 vaśeḥ yaṅi pratiṣedhaḥ . vaśeḥ yaṅi pratiṣedhaḥ vaktavyaḥ samprasāraṇasya . vāvaśyate . kva mā bhūt . uṣṭaḥ , uśanti iti . saḥ tarhi tathā pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . yaṅi iti vartate . evam tarhi anvācaṣṭe yaṅi iti vartate iti . na etat anvākhyeyam adhikārāḥ anuvartante iti . eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२७।१८-२८।५ रो इव्।३३७-३३८ किम् निपात्यते । श्रास्रप्योः शृभावः । श्रास्रप्योः शृभावः निपात्यते । क्षीरहविषोः इति वक्तव्यम् । शृतम् क्षीरम् । शृतम् हविः । क्व मा भूत् । श्राणा यवागूः , श्रपिता यवागूः इति । श्रपेः शृतम् अन्यत्र हेतोः । श्रपेः शृतम् अन्यत्र हेतोः इति वक्तव्यम् इह मा भूत् । श्रपितम् क्षीरम् देवदत्तेन यज्ञदत्तेन इति ।

KA III.27.18-28.5 Ro IV.337-338 kim nipātyate . śrāsrapyoḥ śṛbhāvaḥ . śrāsrapyoḥ śṛbhāvaḥ nipātyate . kṣīrahaviṣoḥ iti vaktavyam . śṛtam kṣīram . śṛtam haviḥ . kva mā bhūt . śrāṇā yavāgūḥ , śrapitā yavāgūḥ iti . śrapeḥ śṛtam anyatra hetoḥ . śrapeḥ śṛtam anyatra hetoḥ iti vaktavyam iha mā bhūt . śrapitam kṣīram devadattena yajñadattena iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२८।७-१२ रो इव्।३३८-३३९ आङ्पूर्वात् अन्धूधसोः । आङ्पूर्वात् अन्धूधसोः इति वक्तव्यम् । आपीनः अन्धुः , आपीनम् ऊधः । किम् प्रयोजनम् । नियमार्थम् । आङ्पूर्वात् अन्धूधसोः एव । क्व मा भूत् । आप्यानः चन्द्रमाः इति । उभयतः नियमः च अयम् द्रष्टव्यः । आङ्पूर्वात् एव अन्धूधसोः , अन्धूधसोः एव आङ्पूर्वात् इति । क्व मा भूत् । प्रप्यानः अन्धुः , प्रप्यानम् ऊधः । आङ्पूर्वात् च एष नियमः द्रष्टव्यः । भवति हि पीनम् मुखम् , पीनाः शम्बट्यः , श्लक्ष्णपीनमुखी कन्या इति ।

KA III.28.7-12 Ro IV.338-339 āṅpūrvāt andhūdhasoḥ . āṅpūrvāt andhūdhasoḥ iti vaktavyam . āpīnaḥ andhuḥ , āpīnam ūdhaḥ . kim prayojanam . niyamārtham . āṅpūrvāt andhūdhasoḥ eva . kva mā bhūt . āpyānaḥ candramāḥ iti . ubhayataḥ niyamaḥ ca ayam draṣṭavyaḥ . āṅpūrvāt eva andhūdhasoḥ , andhūdhasoḥ eva āṅpūrvāt iti . kva mā bhūt . prapyānaḥ andhuḥ , prapyānam ūdhaḥ . āṅpūrvāt ca eṣa niyamaḥ draṣṭavyaḥ . bhavati hi pīnam mukham , pīnāḥ śambaṭyaḥ , ślakṣṇapīnamukhī kanyā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२८।१४-२९।६ रो इव्।३३९-३४० श्वेः लिटि अभ्यासलक्षणप्रतिषेधः । श्वेः लिटि अभ्यासलक्षणम् सम्प्रसारणम् नित्यम् प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः । शिश्वियतुः , शिश्वियुः । किम् उच्यते लिटि अभ्यासलक्षणस्य इति न पुनः किल्लक्षणस्य अपि । किल्लक्षणम् अपि हि नित्यम् अत्र प्राप्नोति । किल्लक्षणम् श्वयतिलक्षणम् बाधिष्यते । यथा एव तर्हि किल्लक्षणम् श्वयतिलक्षणम् बाधते एवम् अभ्यासलक्षणम् अपि बाधेत । न ब्रूमः अपवादत्वात् किल्लक्षणम् श्वयतिलक्षणम् बाधिष्यते इति । किम् तर्हि । परत्वात् । श्वयतिलक्षणस्य अवकाशः पिति वचनानि । शुशाव, शुशविथ , शिश्वाय, शिश्वयिथ । किल्लक्षणस्य अवकाशः अन्ये कितः । शूनः, शूनवान् । इह उभयम् प्राप्नोति । शिश्वियतुः , शिश्वियुः इति । श्वयतिलक्षणम् भवति विप्रतिषेधेन । अभ्यासलक्षणात् अपि तर्हि श्वयतिलक्षणम् भविष्यति विप्रतिषेधेन । अभ्यासलक्षणस्य अवकाशः अन्ये यजादयः । इयाज, उवाप । श्वयतिलक्षणस्य अवकाशः परम् धातुरूपम् । शुशुवतुः , शुशुवुः , शुशुविथ । श्वयतेः अभ्यासस्य उभयम् प्राप्नोति । शिशिवियतुः , शिश्वियुः । श्वयतिलक्षणम् भविष्यति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । न हि श्वयतेः अभ्यासस्य अन्ये यजादयः अवकाशः । श्वयतेः यजादिषु यः पाठः सः अनवकाशः । तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः । तस्मात् सुष्ठु उक्तम् श्वेः लिटि अभ्यासलक्षणप्रतिषेधः इति ।

KA III.28.14-29.6 Ro IV.339-340 śveḥ liṭi abhyāsalakṣaṇapratiṣedhaḥ . śveḥ liṭi abhyāsalakṣaṇam samprasāraṇam nityam prāpnoti . tasya pratiṣedhaḥ vaktavyaḥ . śiśviyatuḥ , śiśviyuḥ . kim ucyate liṭi abhyāsalakṣaṇasya iti na punaḥ killakṣaṇasya api . killakṣaṇam api hi nityam atra prāpnoti . killakṣaṇam śvayatilakṣaṇam bādhiṣyate . yathā eva tarhi killakṣaṇam śvayatilakṣaṇam bādhate evam abhyāsalakṣaṇam api bādheta . na brūmaḥ apavādatvāt killakṣaṇam śvayatilakṣaṇam bādhiṣyate iti . kim tarhi . paratvāt . śvayatilakṣaṇasya avakāśaḥ piti vacanāni . śuśāva, śuśavitha , śiśvāya, śiśvayitha . killakṣaṇasya avakāśaḥ anye kitaḥ . śūnaḥ, śūnavān . iha ubhayam prāpnoti . śiśviyatuḥ , śiśviyuḥ iti . śvayatilakṣaṇam bhavati vipratiṣedhena . abhyāsalakṣaṇāt api tarhi śvayatilakṣaṇam bhaviṣyati vipratiṣedhena . abhyāsalakṣaṇasya avakāśaḥ anye yajādayaḥ . iyāja, uvāpa . śvayatilakṣaṇasya avakāśaḥ param dhāturūpam . śuśuvatuḥ , śuśuvuḥ , śuśuvitha . śvayateḥ abhyāsasya ubhayam prāpnoti . śiśiviyatuḥ , śiśviyuḥ . śvayatilakṣaṇam bhaviṣyati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . na hi śvayateḥ abhyāsasya anye yajādayaḥ avakāśaḥ . śvayateḥ yajādiṣu yaḥ pāṭhaḥ saḥ anavakāśaḥ . tasya anavakāśatvāt ayuktaḥ vipratiṣedhaḥ . tasmāt suṣṭhu uktam śveḥ liṭi abhyāsalakṣaṇapratiṣedhaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२९।८-३०।१४ रो इव्।३४१-३४४ ह्वः सम्प्रसारणे योगविभागः । ह्वः सम्प्रसारणे योगविभागः कर्तव्यः । ह्वः सम्प्रसारणम् भवति णौ च संश्चङोः । ततः अभ्यस्तस्य च । अभ्यस्तस्य च ह्वः सम्प्रसारणम् भवति इति । किमर्थः योगविभागः । णौ संश्चङ्विषयाऋथः । णौ च संश्चङ्विषये ह्वः सम्प्रसारणम् यथा स्यात् । जुहावयिषति , अजूहवत् । किम् पुनः कारणम् न सिध्यति । ह्वः अभ्यस्तस्य इति उच्यते न च एतत् ह्वः अभ्यस्तम् । कस्य तर्हि । ह्वाययतेः । ह्वः एतत् अभ्यस्तम् । कथम् । एकाचः द्वे प्रथमस्य । एवम् तर्हि ह्वयतेः अभ्यस्तस्य इति उच्यते न च अत्र ह्वयतिः अभ्यस्तः । कः तर्हि । ह्वाययतिः । ह्वयतिः एव अत्र अभ्यस्तः । कथम् । एकाचः द्वे प्रथमस्य इति । एवम् अपि अभ्यस्तिनिमित्ते अनभ्यस्तप्रसारणार्थम् । अभ्यस्तिनिमित्ते इति वक्तव्यम् । किम् प्रयोजनम् । अनभ्यस्तप्रसारणार्थम् । अनभ्यस्तस्य प्रसारणम् यथा स्यात् । जुहूषति , जोहूयते । अभ्यस्तप्रसारणे हि अभ्यासप्रसारणाप्राप्तिः । अभ्यस्तप्रसारणे हि अभ्यासप्रसारणस्य अप्राप्तिः स्यात् । न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः प्रसज्येत । न एषः दोषः । व्यवहितत्वात् न भविष्यति । समानाङ्गे प्रसारणप्रतिषेधात् प्रतिषेधः । समानाङ्गे प्रसारणप्रतिषेधात् प्रतिषेधः प्राप्नोति । समानाङ्गग्रहणम् तत्र चोदयिष्यति । कृदन्तप्रतिषेधार्थम् च । कृदन्तप्रतिषेधार्थम् च अभ्यस्तिनिमित्ते इति वक्तव्यम् । किम् प्रयोजनम् । ह्वायकम् इच्छति ह्वायकीयति । ह्वायकीयतेः सन् । जिह्वायकीयिषति । सः तर्हि निमित्तशब्दः उपादेयः । न हि अन्तरेण निमित्तशब्दम् निमित्तार्थः गम्यते । अन्तरेण अपि निमित्तशब्दम् निमित्तार्थः गम्यते । तत् यथा : दधित्रपुसम् प्रत्यक्षः ज्वरः । ज्वरनिमित्तम् इति गम्यते । नड्वलोदकम् पादरोगः । पादरोगनिमित्तम् इति गम्यते । आयुः घृतम् । आयुषः निमित्तम् इति गम्यते । अथ वा अकारः मत्वर्थीयः । अभ्यस्तम् अस्मिन् अस्ति सः अयम् अभ्यस्तः । अभ्यस्तस्य इति । अथ वा अभ्यस्तस्य इति न एषा ह्वयतिसमानाधिकरणा षष्ठी । का तर्हि । सम्बन्धषष्ठी । अभ्यस्तस्य यः ह्वयतिः । किम् च अभ्यस्तस्य ह्वयतिः । प्रकृतिः । ह्वः अभ्यस्तस्य प्रकृतेः इति । योगविभागः तु कर्तव्यः एव । न अत्र ह्वयतिः अभ्यस्तस्य प्रकृतिः । किम् तर्हि । ह्वाययतिः ।

KA III.29.8-30.14 Ro IV.341-344 hvaḥ samprasāraṇe yogavibhāgaḥ . hvaḥ samprasāraṇe yogavibhāgaḥ kartavyaḥ . hvaḥ samprasāraṇam bhavati ṇau ca saṃścaṅoḥ . tataḥ abhyastasya ca . abhyastasya ca hvaḥ samprasāraṇam bhavati iti . kimarthaḥ yogavibhāgaḥ . ṇau saṃścaṅviṣayāṛthaḥ . ṇau ca saṃścaṅviṣaye hvaḥ samprasāraṇam yathā syāt . juhāvayiṣati , ajūhavat . kim punaḥ kāraṇam na sidhyati . hvaḥ abhyastasya iti ucyate na ca etat hvaḥ abhyastam . kasya tarhi . hvāyayateḥ . hvaḥ etat abhyastam . katham . ekācaḥ dve prathamasya . evam tarhi hvayateḥ abhyastasya iti ucyate na ca atra hvayatiḥ abhyastaḥ . kaḥ tarhi . hvāyayatiḥ . hvayatiḥ eva atra abhyastaḥ . katham . ekācaḥ dve prathamasya iti . evam api abhyastinimitte anabhyastaprasāraṇārtham . abhyastinimitte iti vaktavyam . kim prayojanam . anabhyastaprasāraṇārtham . anabhyastasya prasāraṇam yathā syāt . juhūṣati , johūyate . abhyastaprasāraṇe hi abhyāsaprasāraṇāprāptiḥ . abhyastaprasāraṇe hi abhyāsaprasāraṇasya aprāptiḥ syāt . na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ prasajyeta . na eṣaḥ doṣaḥ . vyavahitatvāt na bhaviṣyati . samānāṅge prasāraṇapratiṣedhāt pratiṣedhaḥ . samānāṅge prasāraṇapratiṣedhāt pratiṣedhaḥ prāpnoti . samānāṅgagrahaṇam tatra codayiṣyati . kṛdantapratiṣedhārtham ca . kṛdantapratiṣedhārtham ca abhyastinimitte iti vaktavyam . kim prayojanam . hvāyakam icchati hvāyakīyati . hvāyakīyateḥ san . jihvāyakīyiṣati . saḥ tarhi nimittaśabdaḥ upādeyaḥ . na hi antareṇa nimittaśabdam nimittārthaḥ gamyate . antareṇa api nimittaśabdam nimittārthaḥ gamyate . tat yathā : dadhitrapusam pratyakṣaḥ jvaraḥ . jvaranimittam iti gamyate . naḍvalodakam pādarogaḥ . pādaroganimittam iti gamyate . āyuḥ ghṛtam . āyuṣaḥ nimittam iti gamyate . atha vā akāraḥ matvarthīyaḥ . abhyastam asmin asti saḥ ayam abhyastaḥ . abhyastasya iti . atha vā abhyastasya iti na eṣā hvayatisamānādhikaraṇā ṣaṣṭhī . kā tarhi . sambandhaṣaṣṭhī . abhyastasya yaḥ hvayatiḥ . kim ca abhyastasya hvayatiḥ . prakṛtiḥ . hvaḥ abhyastasya prakṛteḥ iti . yogavibhāgaḥ tu kartavyaḥ eva . na atra hvayatiḥ abhyastasya prakṛtiḥ . kim tarhi . hvāyayatiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३०।१७-३१।२ रो इव्।३४४-३४५ अपस्पृधेथाम् इति किम् निपात्यते । स्पर्धेः लङि आत्मनेपदानाम् मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनम् सम्प्रसारणम् अकारलोपः च निपात्यते । इन्द्रः च विष्णो यत् अपस्पृधेथाम् । अस्पृधेथाम् इति भाषायाम् । अपरः आह : अपपूर्वात् स्पर्धेः लङि आत्मनेपदानाम् मध्यमपुरुषस्य द्विवचने आथामि द्विर्वचनम् सम्प्रसारणम् अकारलोपः च निपात्यते । इन्द्रः च विष्णो यत् अपस्पृधेथाम् । अपास्पृधेथाम् इति भाषायाम् । श्राताः श्रितम् इति किम् निपात्यते । श्रीणातेः क्ते श्राभावश्रिभावौ निपात्येते । क्व पुनः श्राभावः क्व वा श्रिभावः । सोमे श्राभावः अन्यत्र श्रिभावः । न तर्हि इदानीम् इदम् भवति : श्रितः सोमः इति । बहुवचने श्राभावः । न तर्हि इदानीम् इदम् भवति : श्रिताः नः ग्रहाः इति । सोमबहुत्वे श्राभावः अन्यत्र श्रिभावः ।

KA III.30.17-31.2 Ro IV.344-345 apaspṛdhethām iti kim nipātyate . spardheḥ laṅi ātmanepadānām madhyamapuruṣasya dvivacane āthāmi dvirvacanam samprasāraṇam akāralopaḥ ca nipātyate . indraḥ ca viṣṇo yat apaspṛdhethām . aspṛdhethām iti bhāṣāyām . aparaḥ āha : apapūrvāt spardheḥ laṅi ātmanepadānām madhyamapuruṣasya dvivacane āthāmi dvirvacanam samprasāraṇam akāralopaḥ ca nipātyate . indraḥ ca viṣṇo yat apaspṛdhethām . apāspṛdhethām iti bhāṣāyām . śrātāḥ śritam iti kim nipātyate . śrīṇāteḥ kte śrābhāvaśribhāvau nipātyete . kva punaḥ śrābhāvaḥ kva vā śribhāvaḥ . some śrābhāvaḥ anyatra śribhāvaḥ . na tarhi idānīm idam bhavati : śritaḥ somaḥ iti . bahuvacane śrābhāvaḥ . na tarhi idānīm idam bhavati : śritāḥ naḥ grahāḥ iti . somabahutve śrābhāvaḥ anyatra śribhāvaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३१।४-३२।१४ रो इव्।३४५-३४७ किमर्थम् इदम् उच्यते । वचिस्पवियजादीनाम् ग्रहादीनाम् च सम्प्रसारणम् उक्तम् । तत्र यावन्तः यणः सर्वेषाम् सम्प्रसारणम् प्राप्नोति । इष्यते च परस्य यथा स्यात् न पूर्वस्य तत् च अन्तरेण यत्नम् न सिध्यति इति न सम्प्रसारणे सम्प्रसारणम् । किम् अन्ये अपि एवम् विधयः भवन्ति । अतः दीर्घः यञि । सुपि च इति । घटाभ्याम् । अकारमात्रस्य दीर्घत्वम् कस्मात् न भवति । अस्ति अत्र विशेषः । इयम् अत्र परिभाषा उपतिष्ठते । अलः अन्त्यस्य इति । ननु च इदानीम् एतया परिभाषया इह (र्: इह अपि) शक्यम् उपस्थातुम् । न इति आह । न हि वचिस्पवियजादीनाम् ग्रहादीनाम् च अन्त्यः यण् अस्ति । एवम् तर्हि अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति अन्त्यसस्देशः यः यण् तस्य कार्यम् भविष्यति । न एतस्याः परिभाषायाः सन्ति प्रयोजनानि । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य यणः सम्प्रसारणम् भवति इति यत् अयम् प्यायः पीभावम् शास्ति । कथम् कृत्वा ज्ञापकम् । पीभाववचने एतत् प्रयोजनम् आपीनः अन्धुः , आपीनम् ऊधः एतत् रूपम् यथा स्यात् इति । यदि च अत्र सर्वस्य यणः सम्प्रसारणम् स्यात् पीभाववचनम् अनर्थकम् स्यात् । सम्प्रसारणे कृते सम्प्रसारणपरपूर्वत्वे च द्वयोः इकारयोः एकादेशे सिद्धम् रूपम् स्यात् आपीनः अन्धुः , आपीनम् ऊधः इति । पश्यति तु आचार्यः न सर्वस्य यणः सम्प्रसारणम् भवति इति । ततः अयम् प्यायः पीभावम् शास्ति । न एतत् अस्ति ज्ञापकम् । सिद्धे हि विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च प्यायः सम्प्रसारणेन सिध्यति । सम्प्रसारणे हि सति अन्त्यस्य प्रसज्येत । एवम् अपि ज्ञापकम् एव । कथम् । प्यायः इति न एषा स्थानषष्ठी । का तर्हि । विशेषणषष्ठी । प्यायः यः यण् इति । तत् एतत् ज्ञापयति आचार्यः न सर्वस्य यणः सम्प्रसारणम् भवति इति यत् अयम् प्यायः पीभावम् शास्ति । एवम् अपि अनैकान्तिकम् एतत् । एतावत् ज्ञाप्यते न सर्वस्य यणः सम्प्रसारणम् भवति इति । तत्र कुतः एतत् परस्य भविष्यति न पूर्वस्य इति । उच्यमाने अपि एतस्मिन् कुतः एतत् परस्य भविष्यति न पूर्वस्य इति । एकयोगक्षणम् खलु अपि सम्प्रसारणम् । तत् यदि तावत् परम् अभिनिर्वृत्तम् पूर्वम् अपि अभिनिर्वृत्तम् एव । प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् न अभिनिर्वृत्तस्य । यः हि भुक्तवन्तम् ब्रूयात् मा भुक्थाः इति किम् तेन कृतम् स्यात् । अथ अपि पूर्वम् अनभिनिर्वृत्तम् परम् अपि अनभिनिर्वृत्तम् एव । तत्र निमित्तसंश्रयः अनुपपन्नः न सम्प्रसारणे सम्प्रसारणम् इति । न एषः दोषः । यत् तावत् उच्यते उच्यमाने अपि एतस्मिन् कुतः एतत् परस्य भविष्यति न पूर्वस्य इति । इह इङ्गितेन चेष्टितेन निमिषितेन महता वा सूत्रप्रबन्धेन आचार्याणाम् अभिप्रायः गम्यते । एतत् एव ज्ञापयति परस्य भविष्यति न पूर्वस्य इति यत् अयम् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधम् शास्ति । यत् अपि उच्यते एकयोगलक्षणम् खलु अपि सम्प्रसारणम् । तत् यदि तावत् परम् अभिनिर्वृत्तम् पूर्वम् अपि अभिनिर्वृत्तम् एव । प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् इति । अस्तु उभयोः अभिनिर्वृत्तिः । न वयम् पूर्वस्य प्रतिषेधम् शिष्मः । किम् तर्हि । सम्प्रसारणाश्रयम् यत् प्राप्नोति तस्य प्रतिषेधम् । ततः पूर्वत्वे प्रतिषिद्धे यणादेशेन सिद्धम् । यत् अपि उच्यते अथ अपि पूर्वम् अनभिनिर्वृत्तम् परम् अपि अनभिनिर्वृत्तम् एव । तत्र निमित्तसंश्रयः अनुपपन्नः इति । तादर्थ्यात् ताच्छब्द्यम् भविष्यति । तत् यथा इन्द्रार्था स्थूणा इन्द्रः इति एवम् इह अपि सम्प्रसारणार्थम् सम्प्रसारणम् । तत् यत् प्रसारणार्थम् प्रसारणम् तस्मिन् प्रतिषेधः भविष्यति ।

KA III.31.4-32.14 Ro IV.345-347 kimartham idam ucyate . vacispaviyajādīnām grahādīnām ca samprasāraṇam uktam . tatra yāvantaḥ yaṇaḥ sarveṣām samprasāraṇam prāpnoti . iṣyate ca parasya yathā syāt na pūrvasya tat ca antareṇa yatnam na sidhyati iti na samprasāraṇe samprasāraṇam . kim anye api evam vidhayaḥ bhavanti . ataḥ dīrghaḥ yañi . supi ca iti . ghaṭābhyām . akāramātrasya dīrghatvam kasmāt na bhavati . asti atra viśeṣaḥ . iyam atra paribhāṣā upatiṣṭhate . alaḥ antyasya iti . nanu ca idānīm etayā paribhāṣayā iha (R: iha api) śakyam upasthātum . na iti āha . na hi vacispaviyajādīnām grahādīnām ca antyaḥ yaṇ asti . evam tarhi anantyavikāre antyasadeśasya kāryam bhavati iti antyasasdeśaḥ yaḥ yaṇ tasya kāryam bhaviṣyati . na etasyāḥ paribhāṣāyāḥ santi prayojanāni . evam tarhi ācāryapravṛttiḥ jñāpayati na sarvasya yaṇaḥ samprasāraṇam bhavati iti yat ayam pyāyaḥ pībhāvam śāsti . katham kṛtvā jñāpakam . pībhāvavacane etat prayojanam āpīnaḥ andhuḥ , āpīnam ūdhaḥ etat rūpam yathā syāt iti . yadi ca atra sarvasya yaṇaḥ samprasāraṇam syāt pībhāvavacanam anarthakam syāt . samprasāraṇe kṛte samprasāraṇaparapūrvatve ca dvayoḥ ikārayoḥ ekādeśe siddham rūpam syāt āpīnaḥ andhuḥ , āpīnam ūdhaḥ iti . paśyati tu ācāryaḥ na sarvasya yaṇaḥ samprasāraṇam bhavati iti . tataḥ ayam pyāyaḥ pībhāvam śāsti . na etat asti jñāpakam . siddhe hi vidhiḥ ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca pyāyaḥ samprasāraṇena sidhyati . samprasāraṇe hi sati antyasya prasajyeta . evam api jñāpakam eva . katham . pyāyaḥ iti na eṣā sthānaṣaṣṭhī . kā tarhi . viśeṣaṇaṣaṣṭhī . pyāyaḥ yaḥ yaṇ iti . tat etat jñāpayati ācāryaḥ na sarvasya yaṇaḥ samprasāraṇam bhavati iti yat ayam pyāyaḥ pībhāvam śāsti . evam api anaikāntikam etat . etāvat jñāpyate na sarvasya yaṇaḥ samprasāraṇam bhavati iti . tatra kutaḥ etat parasya bhaviṣyati na pūrvasya iti . ucyamāne api etasmin kutaḥ etat parasya bhaviṣyati na pūrvasya iti . ekayogakṣaṇam khalu api samprasāraṇam . tat yadi tāvat param abhinirvṛttam pūrvam api abhinirvṛttam eva . prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum na abhinirvṛttasya . yaḥ hi bhuktavantam brūyāt mā bhukthāḥ iti kim tena kṛtam syāt . atha api pūrvam anabhinirvṛttam param api anabhinirvṛttam eva . tatra nimittasaṃśrayaḥ anupapannaḥ na samprasāraṇe samprasāraṇam iti . na eṣaḥ doṣaḥ . yat tāvat ucyate ucyamāne api etasmin kutaḥ etat parasya bhaviṣyati na pūrvasya iti . iha iṅgitena ceṣṭitena nimiṣitena mahatā vā sūtraprabandhena ācāryāṇām abhiprāyaḥ gamyate . etat eva jñāpayati parasya bhaviṣyati na pūrvasya iti yat ayam na samprasāraṇe samprasāraṇam iti pratiṣedham śāsti . yat api ucyate ekayogalakṣaṇam khalu api samprasāraṇam . tat yadi tāvat param abhinirvṛttam pūrvam api abhinirvṛttam eva . prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum iti . astu ubhayoḥ abhinirvṛttiḥ . na vayam pūrvasya pratiṣedham śiṣmaḥ . kim tarhi . samprasāraṇāśrayam yat prāpnoti tasya pratiṣedham . tataḥ pūrvatve pratiṣiddhe yaṇādeśena siddham . yat api ucyate atha api pūrvam anabhinirvṛttam param api anabhinirvṛttam eva . tatra nimittasaṃśrayaḥ anupapannaḥ iti . tādarthyāt tācchabdyam bhaviṣyati . tat yathā indrārthā sthūṇā indraḥ iti evam iha api samprasāraṇārtham samprasāraṇam . tat yat prasāraṇārtham prasāraṇam tasmin pratiṣedhaḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३२।१५-३३।८ रो इव्।३४७-३४९ अथ सम्प्रसारणम् इति वर्तमाने पुनः सम्प्रसारणग्रहणम् किमर्थम् । प्रसारणप्रकरणे पुनः प्रसारणग्रहणम् अतः अन्यत्र प्रसारणप्रतिषेधार्थम् । सम्प्रसारणप्रकरणे पुनः प्रसारणग्रहणे (र्: सम्प्रसारणग्रहणे) एतत् प्रयोजनम् । विदेशस्थम् अपि यत् सम्प्रसारणम् तस्य अपि प्रतिषेधः यथा स्यात् । व्यथः लिटि । विव्यथे । न एतत् अस्ति प्रयोजनम् । हलादिशेषापवादः अत्र सम्प्रसारणम् । इदम् तर्हि श्वयुवमघोनाम् अतद्धिते । यूना , यूने । उच्यमाने अपि एतस्मिन् न सिध्यति । किम् कारणम् । उकारेण व्यवधानात् । एकादेशे कृते न अस्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव । एवम् तर्हि समानाङ्गग्रहणम् च । समानाङ्गग्रहणम् च कर्तव्यम् । न सम्प्रसारणे सम्प्रसारणम् समानाङ्गे इति वक्तव्यम् । तत्र उपोषुषि दोषः । तत्र उपोषुषि दोषः भवति । न वा यस्य अङ्गस्य प्रसारणप्राप्तिः तस्मिन् प्राप्तिप्रतिषेधात् । न वा एषः दोषः । किम् कारणम् यस्य अङ्गस्य प्रसारणप्राप्तिः तस्मिन् द्वितीया या प्राप्तिः सा प्रतिषिध्यते । अत्र च वसिः क्वसौ अङ्गम् क्वसन्तम् पुनः विभक्तौ । अथ वा यस्य अङ्गस्य प्रसारणप्राप्तिः इति अनेन किम् क्रियते । यावत् ब्रूयात् प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् इति । अत्र च यदा वसेः न तदा क्वसोः यदा च क्वसोः अभिनिर्वृत्तम् तदा वसेः भवति । अथ वा यस्य अङ्गस्य प्रसारणप्राप्तिः इति अनेन किम् क्रियते । यावत् ब्रूयात् असिद्धम् बहिरङ्गम् अन्तरङ्गे इति । असिद्धत्वात् बहिरङ्गलक्षणस्य वसौसम्प्रसारणस्य अन्तरङ्गलक्षणः प्रतिषेधः न भविष्यति ।

KA III.32.15-33.8 Ro IV.347-349 atha samprasāraṇam iti vartamāne punaḥ samprasāraṇagrahaṇam kimartham . prasāraṇaprakaraṇe punaḥ prasāraṇagrahaṇam ataḥ anyatra prasāraṇapratiṣedhārtham . samprasāraṇaprakaraṇe punaḥ prasāraṇagrahaṇe (R: samprasāraṇagrahaṇe) etat prayojanam . videśastham api yat samprasāraṇam tasya api pratiṣedhaḥ yathā syāt . vyathaḥ liṭi . vivyathe . na etat asti prayojanam . halādiśeṣāpavādaḥ atra samprasāraṇam . idam tarhi śvayuvamaghonām ataddhite . yūnā , yūne . ucyamāne api etasmin na sidhyati . kim kāraṇam . ukāreṇa vyavadhānāt . ekādeśe kṛte na asti vyavadhānam . ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . evam tarhi samānāṅgagrahaṇam ca . samānāṅgagrahaṇam ca kartavyam . na samprasāraṇe samprasāraṇam samānāṅge iti vaktavyam . tatra upoṣuṣi doṣaḥ . tatra upoṣuṣi doṣaḥ bhavati . na vā yasya aṅgasya prasāraṇaprāptiḥ tasmin prāptipratiṣedhāt . na vā eṣaḥ doṣaḥ . kim kāraṇam yasya aṅgasya prasāraṇaprāptiḥ tasmin dvitīyā yā prāptiḥ sā pratiṣidhyate . atra ca vasiḥ kvasau aṅgam kvasantam punaḥ vibhaktau . atha vā yasya aṅgasya prasāraṇaprāptiḥ iti anena kim kriyate . yāvat brūyāt prasaktasya anabhinirvṛttasya pratiṣedhena nivṛttiḥ śakyā kartum iti . atra ca yadā vaseḥ na tadā kvasoḥ yadā ca kvasoḥ abhinirvṛttam tadā vaseḥ bhavati . atha vā yasya aṅgasya prasāraṇaprāptiḥ iti anena kim kriyate . yāvat brūyāt asiddham bahiraṅgam antaraṅge iti . asiddhatvāt bahiraṅgalakṣaṇasya vasausamprasāraṇasya antaraṅgalakṣaṇaḥ pratiṣedhaḥ na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३३।९-१७ रो इव्।३४९-३५० ऋचि त्रेः उत्तरपदादिलोपः छन्दसि । ऋचि त्रेः सम्प्रसारणम् वक्तव्यम् । उत्तरपदादिलोपः छन्दसि वक्तव्यः । तृचम् सूक्तम् । तृचम् साम । छन्दसि इति किम् । त्र्यृचानि । रयेः मतौ बहुलम् । रयेः मतौ सम्प्रसारणम् बहुलम् वक्तव्यम् । आ रेवान् एतु नः विशः । न च भवति । रयिमन् पुष्टिवर्धनः । कक्ष्यायाः सञ्ज्ञायाम् । कक्ष्यायाः सञ्ज्ञायाम् मतौ सम्प्रसारणम् वक्तव्यम् । कक्षीवन्तम् यः आशिजः । कण्वः कक्षीवान् । सञ्ज्ञायाम् इति किम् । कष्यावान् हस्ती ।

KA III.33.9-17 Ro IV.349-350 ṛci treḥ uttarapadādilopaḥ chandasi . ṛci treḥ samprasāraṇam vaktavyam . uttarapadādilopaḥ chandasi vaktavyaḥ . tṛcam sūktam . tṛcam sāma . chandasi iti kim . tryṛcāni . rayeḥ matau bahulam . rayeḥ matau samprasāraṇam bahulam vaktavyam . ā revān etu naḥ viśaḥ . na ca bhavati . rayiman puṣṭivardhanaḥ . kakṣyāyāḥ sañjñāyām . kakṣyāyāḥ sañjñāyām matau samprasāraṇam vaktavyam . kakṣīvantam yaḥ āśijaḥ . kaṇvaḥ kakṣīvān . sañjñāyām iti kim . kaṣyāvān hastī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३३।१९-३४।२ रो इव्।३५० वश्चास्यग्रहणम् शक्यम् अकर्तुम् । अन्यतरस्याम् किति वेञः न सम्प्रसारणम् भवति इति एव सिद्धम् । कथम् । सम्प्रसारणे कृते उवङादेशे च द्विर्वचनम् सवर्णदीर्घत्वम् । तेन सिद्धम् ववतुः, ववुः , ऊवतुः, ऊवुः । वयेः अपि नित्यम् यकारस्य प्रतिषेधः सम्प्रसारणस्य ऊयतुः , ऊयुः । त्रैशब्यम् च इह साध्यम् । तत् च एवम् सति सिद्धम् भवति । यदि एवम् ववौ, वविथ इति न सिध्यति । ल्यपि च इति अनेन चकारेण लिट् अपि अनुकृष्यते । तस्मिन् नित्ये प्रसारणप्रतिषेधे प्राप्ते इयम् किति विभाषा आरभ्यते ।

KA III.33.19-34.2 Ro IV.350 vaścāsyagrahaṇam śakyam akartum . anyatarasyām kiti veñaḥ na samprasāraṇam bhavati iti eva siddham . katham . samprasāraṇe kṛte uvaṅādeśe ca dvirvacanam savarṇadīrghatvam . tena siddham vavatuḥ, vavuḥ , ūvatuḥ, ūvuḥ . vayeḥ api nityam yakārasya pratiṣedhaḥ samprasāraṇasya ūyatuḥ , ūyuḥ . traiśabyam ca iha sādhyam . tat ca evam sati siddham bhavati . yadi evam vavau, vavitha iti na sidhyati . lyapi ca iti anena cakāreṇa liṭ api anukṛṣyate . tasmin nitye prasāraṇapratiṣedhe prāpte iyam kiti vibhāṣā ārabhyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३४।६-३५।१९ रो इव्।३५१-३५५ कथम् इदम् विज्ञायते : एच् यः उपदेशे इति आहोस्वित् एजन्तन्तम् यत् उपदेशे इति । किम् च अतः । यदि विज्ञायते : एच् यः उपदेशे इति ढौकिता त्रौकिता इति अत्र अपि प्राप्नोति । अथ विज्ञायते : एजन्तन्तम् यत् उपदेशे इति न दोषः भवति । ननु च एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने अत्र अपि प्राप्नोति । एतत् अपि व्यपदेशिवद्भावेन एजन्तम् भवति उपदेशे । अर्थवता व्यपदेशिवद्भावः । ननु च एच् यः उपदेशे इति अपि विज्ञायमाने न दोषः भवति । अशिति इति उच्यते न च अत्र अशितम् पश्यामः । ननु च ककारः एव अत्र अशित् । न ककारे भवितव्यम् । किम् कारणम् । नञिवयुक्तम् अन्यसदृशाधिकरणे । तथा हि अर्थगतिः । नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते । तथा हि अर्थः गम्यते । तत् यथा लोके : अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् आनयति । न असौ लोष्टम् आनीय कृती भवति । एवम् इह अपि अशिति इति शित्प्रतिषेधात् अन्यस्मिन् अशिति शित्सदृशे कार्यम् विज्ञास्यते । किम् च अन्यत् शित्सदृशम् । प्रत्ययः । इह तर्हि : ग्लै : ग्लानीयम् , म्लै : म्लानीयम् , वेञ् : वानीयम् , शो : निशामीयम् : परत्वात् आयादयः प्राप्नुवन्ति । ननु च एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने परत्वात् आयादयः प्राप्नुवन्ति । सन्तु । आयादिषु कृतेषु स्थानिवद्भावात् एज्ग्रहणेन ग्रहणात् पुनः आत्त्वम् भविष्यति । ननु च एच् यः उपदेशे इति अपि विज्ञायमाने परत्वात् आयादिषु कृतेषु स्थानिवद्भावात् एज्ग्रहणेन ग्रहणात् आत्त्वम् भविष्यति । न भविष्यति । अनल्विधौ स्थानिवद्भावः अल्विधिः च अयम् । एवम् तर्हि एजन्तन्तम् यत् उपदेशे इति अपि विज्ञायमाने हूतः , हूतवान् इति अत्र अपि प्राप्नोति । भवतु एव अत्र आत्त्वम् । श्रवणम् कस्मात् न भवति । पूर्वत्वम् अस्य भविष्यति । न सिध्यति । इदम् इह सम्प्रधार्यम् : आत्त्वम् क्रियताम् पूर्वत्वम् इति । किम् अत्र कर्तव्यम् । परत्वात् पूर्वत्वम् । एवम् तर्हि इदम् इह सम्प्रधार्यम् । आत्त्वम् क्रियताम् सम्प्रसारणम् इति । किम् अत्र कर्तव्यम् । परत्वात् आत्त्वम् । नित्यम् सम्प्रसारणम् । कृते अपि आत्त्वे प्राप्नोति अकृते अपि । आत्त्वम् अपि नित्यम् । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि । अनित्यम् आत्त्वम् । न हि कृते सम्प्रसारणे प्राप्नोति । किम् कारणम् । अन्तरङ्गम् पूर्वत्वम् । तेन बाध्यते । यस्य लक्षणन्तरेण निमित्तम् विहन्यते न तत् अनित्यम् । न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् हन्ति । अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् । उभयोः नित्ययोः परत्वात् आत्त्वे कृते सम्प्रसारणम् सम्प्रसारणपूर्वत्वम् । कार्यकृतत्वात् पुनः आत्त्वम् न भविष्यति । अथ अपि कथम् चित् आत्त्वम् अनित्यम् स्यात् एवम् अपि न दोषः । उपदेशग्रहणम् न करिष्यते । यदि न क्रियते चेता स्तोता इति अत्र अपि प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न परनिमित्तकस्य आत्त्वम् भवति इति यत् अयम् क्रीङ्जीणाम् णौ आत्त्वम् शास्ति । न एतत् अस्ति ज्ञापकम् । नियमार्थम् एतत् स्यात् । क्रीङ्जीणाम् णौ एव इति । यत् तर्हि मीनातिमिनोतिदीङाम् ल्यपि च इति अत्र एज्ग्रहणम् अनुवर्तयति । इह तर्हि ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति । अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न आयादयः आत्त्वम् बाधन्ते इति यत् अयम् अशिति इति प्रतिषेधम् शास्ति । यदि हि बाधेरन् शिति अपि बाधेरन् । अथ वा पुनः अस्तु एच् यः उपदेशे इति । ननु च उक्तम् ग्लै ग्लानीयम् , म्लै म्लानीयम् , वेञ् वानीयम् , शो निशामीयम् परत्वात् आयादयः प्राप्नुवन्ति इति । अत्र अपि शित्प्रतिषेधः ज्ञापकः न आयादयः आत्त्वम् बाधन्ते इति । आत्त्वे एशि उपसङ्ख्यानम् । आत्त्वे एशि उपसङ्ख्यानम् कर्तव्यम् । जग्ले मम्ले । अशिति इति प्रतिषेधः प्राप्नोति । न एषः दोषः । न एवम् विज्ञायते

KA III.34.6-35.19 Ro IV.351-355 katham idam vijñāyate : ec yaḥ upadeśe iti āhosvit ejantantam yat upadeśe iti . kim ca ataḥ . yadi vijñāyate : ec yaḥ upadeśe iti ḍhaukitā traukitā iti atra api prāpnoti . atha vijñāyate : ejantantam yat upadeśe iti na doṣaḥ bhavati . nanu ca ejantantam yat upadeśe iti api vijñāyamāne atra api prāpnoti . etat api vyapadeśivadbhāvena ejantam bhavati upadeśe . arthavatā vyapadeśivadbhāvaḥ . nanu ca ec yaḥ upadeśe iti api vijñāyamāne na doṣaḥ bhavati . aśiti iti ucyate na ca atra aśitam paśyāmaḥ . nanu ca kakāraḥ eva atra aśit . na kakāre bhavitavyam . kim kāraṇam . nañivayuktam anyasadṛśādhikaraṇe . tathā hi arthagatiḥ . nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate . tathā hi arthaḥ gamyate . tat yathā loke : abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam ānayati . na asau loṣṭam ānīya kṛtī bhavati . evam iha api aśiti iti śitpratiṣedhāt anyasmin aśiti śitsadṛśe kāryam vijñāsyate . kim ca anyat śitsadṛśam . pratyayaḥ . iha tarhi : glai : glānīyam , mlai : mlānīyam , veñ : vānīyam , śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti . nanu ca ejantantam yat upadeśe iti api vijñāyamāne paratvāt āyādayaḥ prāpnuvanti . santu . āyādiṣu kṛteṣu sthānivadbhāvāt ejgrahaṇena grahaṇāt punaḥ āttvam bhaviṣyati . nanu ca ec yaḥ upadeśe iti api vijñāyamāne paratvāt āyādiṣu kṛteṣu sthānivadbhāvāt ejgrahaṇena grahaṇāt āttvam bhaviṣyati . na bhaviṣyati . analvidhau sthānivadbhāvaḥ alvidhiḥ ca ayam . evam tarhi ejantantam yat upadeśe iti api vijñāyamāne hūtaḥ , hūtavān iti atra api prāpnoti . bhavatu eva atra āttvam . śravaṇam kasmāt na bhavati . pūrvatvam asya bhaviṣyati . na sidhyati . idam iha sampradhāryam : āttvam kriyatām pūrvatvam iti . kim atra kartavyam . paratvāt pūrvatvam . evam tarhi idam iha sampradhāryam . āttvam kriyatām samprasāraṇam iti . kim atra kartavyam . paratvāt āttvam . nityam samprasāraṇam . kṛte api āttve prāpnoti akṛte api . āttvam api nityam . kṛte api samprasāraṇe prāpnoti akṛte api . anityam āttvam . na hi kṛte samprasāraṇe prāpnoti . kim kāraṇam . antaraṅgam pūrvatvam . tena bādhyate . yasya lakṣaṇantareṇa nimittam vihanyate na tat anityam . na ca samprasāraṇam eva āttvasya nimittam hanti . avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam . ubhayoḥ nityayoḥ paratvāt āttve kṛte samprasāraṇam samprasāraṇapūrvatvam . kāryakṛtatvāt punaḥ āttvam na bhaviṣyati . atha api katham cit āttvam anityam syāt evam api na doṣaḥ . upadeśagrahaṇam na kariṣyate . yadi na kriyate cetā stotā iti atra api prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na paranimittakasya āttvam bhavati iti yat ayam krīṅjīṇām ṇau āttvam śāsti . na etat asti jñāpakam . niyamārtham etat syāt . krīṅjīṇām ṇau eva iti . yat tarhi mīnātiminotidīṅām lyapi ca iti atra ejgrahaṇam anuvartayati . iha tarhi glai glānīyam , mlai mlānīyam , veñ vānīyam , śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti . atra api ācāryapravṛttiḥ jñāpayati na āyādayaḥ āttvam bādhante iti yat ayam aśiti iti pratiṣedham śāsti . yadi hi bādheran śiti api bādheran . atha vā punaḥ astu ec yaḥ upadeśe iti . nanu ca uktam glai glānīyam , mlai mlānīyam , veñ vānīyam , śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti iti . atra api śitpratiṣedhaḥ jñāpakaḥ na āyādayaḥ āttvam bādhante iti . āttve eśi upasaṅkhyānam . āttve eśi upasaṅkhyānam kartavyam . jagle mamle . aśiti iti pratiṣedhaḥ prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३५।२०-३७।५ रो इव्।३५५-३५८ किम् पुनः अयम् पर्युदासः : यत् अन्यत् शितः इति आहोस्वित् प्रसज्य अयम् प्रतिषेधः : शिति न इति । कः च अत्र विशेषः । अशिति एकादेशे प्रतिषेधः आदिवत्त्वात् । अशिति एकादेशे प्रतिषेधः वक्तव्यः : ग्लायन्ति म्लयन्ति । किम् कारणम् । आदिवत्त्वात् । शिदशितोः एकादेशः आदिवत् स्यात् । अस्ति अन्यत् शितः इति कृत्वा आत्त्वम् प्राप्नोति । प्रत्ययविधिः । प्रत्ययविधिः च न सिध्यति । सुग्लः सुम्लः । आकारान्तलक्षणः प्रत्ययविधिः न प्राप्नोति । अनिष्टस्य प्रत्ययस्य श्रवणम् प्रसज्येत । अभ्यासरूपम् च । अभ्यासरूपम् च न सिध्यति : जग्ले मम्ले । इवर्णाभ्यासता प्राप्नोति । अयवायावाम् प्रतिषेधः च । अयवायावाम् च प्रतिषेधः वक्तव्यः : ग्लै : ग्लानीयम् , म्लै : म्लानीयम् , वेञ् : वानीयम् , शो : निशामीयम् : परत्वात् आयादयः प्राप्नुवन्ति । अस्तु तर्हि प्रसज्य प्रतिषेधः शिति न इति । शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानम् ररीध्वम् त्राध्वम् शिशीते । शिति प्रतिषेधे श्लुलुकोः उपसङ्ख्यानम् कर्तव्यम् । दिवः नः वृष्टिम् मरुतः ररीध्वम् । लुक् । त्राध्वम् नः देवा निजुरः वृकस्य । शिशीते शृङ्गे रक्षसे विनिक्षे । न एषः दोषः । इह तावत् दिवः नः वृष्टिम् मरुतः ररीध्वम् इति । न एतत् रै इति अस्य रूपम् । कस्य तर्हि । रातेः दानकर्मणः । शिशीते शृङ्गे इति न एतत् श्यतेः रूपम् । कस्य तर्हि । शीङः । श्यत्यर्थः वै गम्यते । कः पुनः श्यतेः अर्थः । श्यतिः निशाने वर्तते । शीङ् अपि श्यत्यर्थे वर्तते । कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते । बह्वर्थाः अपि धातवः भवन्ति इति । तत् यथा । वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते । केशान् वपति इति । ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते । अग्निः वै इतः वृष्टिम् ईट्टे । मरुतः अमुतः च्यावयन्ति । करोतिः अयम् अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते । पृष्ठम् कुरु । पादौ कुरु । उन्मृदान इति गम्यते । निक्षेपणे च अपि दृश्यते । कटे कुरु । घटे कुरु । अश्मानम् इतः कुरु । स्थापय इति गम्यते । सर्वेषाम् एव परिहारः । शिति इति उच्यते न च अत्र शितम् पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः । त्राध्वम् इति लुङि एषः व्यत्ययेन भविष्यति । अथ वा पुनः अस्तु पर्युदासः । ननु च उक्तम् अशिति एकादेशे प्रतिषेधः आदिवत्त्वात् इति । न एषः दोषः । एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् । यत् अपि प्रत्ययविधिः इति । आचार्यप्रवृत्तिः ज्ञापयति भवति एजन्तेभ्यः आकारान्तलक्षणः प्रत्ययविधिः इति यत् अयम् ह्वावामः च इति अणम् कबाधनार्थम् शास्ति । यत् अपि अभ्यासरूपम् इति : प्रत्याख्यायते सः योगः । अथ अपि क्रियते एवम् अपि न दोषः । कथम् । लिटि इति अनुवर्तते । द्विलकारकः च अयम् निर्देशः : लिटि लकारादौ इति । एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् आत्त्वे एशि उपसङ्ख्यानम् इति । यत् अपि उक्तम् अयवायावाम् प्रतिषेधः च इति । शिति प्रतिषेधः ज्ञापकः न अयादयः आत्त्वम् बाधन्ते इति ।

KA III.35.20-37.5 Ro IV.355-358 kim punaḥ ayam paryudāsaḥ : yat anyat śitaḥ iti āhosvit prasajya ayam pratiṣedhaḥ : śiti na iti . kaḥ ca atra viśeṣaḥ . aśiti ekādeśe pratiṣedhaḥ ādivattvāt . aśiti ekādeśe pratiṣedhaḥ vaktavyaḥ : glāyanti mlayanti . kim kāraṇam . ādivattvāt . śidaśitoḥ ekādeśaḥ ādivat syāt . asti anyat śitaḥ iti kṛtvā āttvam prāpnoti . pratyayavidhiḥ . pratyayavidhiḥ ca na sidhyati . suglaḥ sumlaḥ . ākārāntalakṣaṇaḥ pratyayavidhiḥ na prāpnoti . aniṣṭasya pratyayasya śravaṇam prasajyeta . abhyāsarūpam ca . abhyāsarūpam ca na sidhyati : jagle mamle . ivarṇābhyāsatā prāpnoti . ayavāyāvām pratiṣedhaḥ ca . ayavāyāvām ca pratiṣedhaḥ vaktavyaḥ : glai : glānīyam , mlai : mlānīyam , veñ : vānīyam , śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti . astu tarhi prasajya pratiṣedhaḥ śiti na iti . śiti pratiṣedhe ślulukoḥ upasaṅkhyānam rarīdhvam trādhvam śiśīte . śiti pratiṣedhe ślulukoḥ upasaṅkhyānam kartavyam . divaḥ naḥ vṛṣṭim marutaḥ rarīdhvam . luk . trādhvam naḥ devā nijuraḥ vṛkasya . śiśīte śṛṅge rakṣase vinikṣe . na eṣaḥ doṣaḥ . iha tāvat divaḥ naḥ vṛṣṭim marutaḥ rarīdhvam iti . na etat rai iti asya rūpam . kasya tarhi . rāteḥ dānakarmaṇaḥ . śiśīte śṛṅge iti na etat śyateḥ rūpam . kasya tarhi . śīṅaḥ . śyatyarthaḥ vai gamyate . kaḥ punaḥ śyateḥ arthaḥ . śyatiḥ niśāne vartate . śīṅ api śyatyarthe vartate . katham punaḥ anyaḥ nāma anyasya arthe vartate . bahvarthāḥ api dhātavaḥ bhavanti iti . tat yathā . vapiḥ prakiraṇe dṛṣṭaḥ chedane ca api vartate . keśān vapati iti . īḍiḥ studicodanāyācñāsu dṛṣṭaḥ īraṇe ca api vartate . agniḥ vai itaḥ vṛṣṭim īṭṭe . marutaḥ amutaḥ cyāvayanti . karotiḥ ayam abhūtaprādurbhāve dṛṣṭaḥ nirmalīkaraṇe ca api vartate . pṛṣṭham kuru . pādau kuru . unmṛdāna iti gamyate . nikṣepaṇe ca api dṛśyate . kaṭe kuru . ghaṭe kuru . aśmānam itaḥ kuru . sthāpaya iti gamyate . sarveṣām eva parihāraḥ . śiti iti ucyate na ca atra śitam paśyāmaḥ . pratyayalakṣaṇena . na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ . trādhvam iti luṅi eṣaḥ vyatyayena bhaviṣyati . atha vā punaḥ astu paryudāsaḥ . nanu ca uktam aśiti ekādeśe pratiṣedhaḥ ādivattvāt iti . na eṣaḥ doṣaḥ . ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam . yat api pratyayavidhiḥ iti . ācāryapravṛttiḥ jñāpayati bhavati ejantebhyaḥ ākārāntalakṣaṇaḥ pratyayavidhiḥ iti yat ayam hvāvāmaḥ ca iti aṇam kabādhanārtham śāsti . yat api abhyāsarūpam iti : pratyākhyāyate saḥ yogaḥ . atha api kriyate evam api na doṣaḥ . katham . liṭi iti anuvartate . dvilakārakaḥ ca ayam nirdeśaḥ : liṭi lakārādau iti . evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam āttve eśi upasaṅkhyānam iti . yat api uktam ayavāyāvām pratiṣedhaḥ ca iti . śiti pratiṣedhaḥ jñāpakaḥ na ayādayaḥ āttvam bādhante iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३७।६-१६ रो इव्।३५८-३५९ प्रातिपदिकप्रतिषेधः । प्रातिपदिकानाम् प्रतिषेधः वक्तव्यः । गोभ्याम् , गोभिः , नौभ्याम् , नौभिः । सः तर्हि वक्तव्यः । न वक्तव्यः । आचार्यप्रवृत्तिः ज्ञापयति न प्रातिपदिकानाम् आत्त्वम् भवति इति यत् अयम् रायः हलः इति आत्त्वम् शास्ति । न एतत् अस्ति ज्ञापकम् । नियमार्थम् एतत् स्यात् । रायः हलि एव इति । यत् तर्हि आ ओतः अम्शसोः इति आत्त्वम् शास्ति । एतस्य अपि अस्ति वचने प्रयोजनम् । अमि वृद्धिबाधनार्थम् एतत् स्यात् शसि प्रतिषेधार्थम् च । तस्मात् प्रातिपदिकानाम् प्रतिषेधः वक्तव्यः । न वक्तव्यः । धात्वधिकारात् प्रातिपदिकस्याप्राप्तिः । धात्वधिकारात् प्रातिपदिकस्य आत्त्वम् न भविष्यति । धातोः इति वर्तते । क्व प्रकृतम् । लिटि धातोः अनभ्यासस्य इति । अथ अपि निवृत्तम् एवम् अपि अदोषः । उपदेशे इति उच्यते उद्देशः च प्रातिपदिकानाम् न उपदेशः ।

KA III.37.6-16 Ro IV.358-359 prātipadikapratiṣedhaḥ . prātipadikānām pratiṣedhaḥ vaktavyaḥ . gobhyām , gobhiḥ , naubhyām , naubhiḥ . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . ācāryapravṛttiḥ jñāpayati na prātipadikānām āttvam bhavati iti yat ayam rāyaḥ halaḥ iti āttvam śāsti . na etat asti jñāpakam . niyamārtham etat syāt . rāyaḥ hali eva iti . yat tarhi ā otaḥ amśasoḥ iti āttvam śāsti . etasya api asti vacane prayojanam . ami vṛddhibādhanārtham etat syāt śasi pratiṣedhārtham ca . tasmāt prātipadikānām pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . dhātvadhikārāt prātipadikasyāprāptiḥ . dhātvadhikārāt prātipadikasya āttvam na bhaviṣyati . dhātoḥ iti vartate . kva prakṛtam . liṭi dhātoḥ anabhyāsasya iti . atha api nivṛttam evam api adoṣaḥ . upadeśe iti ucyate uddeśaḥ ca prātipadikānām na upadeśaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३७।१८-२२ रो इव्।३५९ आत्त्वे णौ लीयतेः उपसङ्ख्यानम् प्रलम्भनशालीनीकरणयोः । आत्त्वे णौ लीयतेः उपसङ्ख्यानम् कर्तव्यम् । किम् प्रयोजनम् । प्रलम्भने च अर्थे शालीनीकरणे च नित्यम् आत्त्वम् यथा स्यात् । प्रलम्भने तावत् । जटाभिः आलापयते । श्मश्रुभिः आलापयते । शालीनीकरणे । श्येनः वार्तिकम् उल्लापयते । रथी रथिनम् उपलपयते ।

KA III.37.18-22 Ro IV.359 āttve ṇau līyateḥ upasaṅkhyānam pralambhanaśālīnīkaraṇayoḥ . āttve ṇau līyateḥ upasaṅkhyānam kartavyam . kim prayojanam . pralambhane ca arthe śālīnīkaraṇe ca nityam āttvam yathā syāt . pralambhane tāvat . jaṭābhiḥ ālāpayate . śmaśrubhiḥ ālāpayate . śālīnīkaraṇe . śyenaḥ vārtikam ullāpayate . rathī rathinam upalapayate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३८।२-८ रो इव्।३६०-३६१ सिध्यतेः अज्ञानार्थस्य । सिध्यतेः अज्ञानार्थस्य इति वक्तव्यम् । इतरथा हि अनिष्टप्रसङ्गः । अपारलौकिके इति उच्यमाने अनिष्टम् प्रसज्येत । अन्नम् साधयति ब्राह्मणेभ्यः दास्यामि इति । अस्ति पुनः अयम् सिध्यतिः क्व चित् अन्यत्र वर्तते । अस्ति इति आह । तपः तापसम् सेधयति । ज्ञानम् अस्य प्रकाशयति । स्वानि एव एनम् कर्माणि सेधयन्ति । ज्ञानम् अस्य प्रकाशयन्ति इति अर्थः ।

KA III.38.2-8 Ro IV.360-361 sidhyateḥ ajñānārthasya . sidhyateḥ ajñānārthasya iti vaktavyam . itarathā hi aniṣṭaprasaṅgaḥ . apāralaukike iti ucyamāne aniṣṭam prasajyeta . annam sādhayati brāhmaṇebhyaḥ dāsyāmi iti . asti punaḥ ayam sidhyatiḥ kva cit anyatra vartate . asti iti āha . tapaḥ tāpasam sedhayati . jñānam asya prakāśayati . svāni eva enam karmāṇi sedhayanti . jñānam asya prakāśayanti iti arthaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३८।१०-३९।१२ रो इव्।३६१-३६३ मीनात्यादीनाम् आत्त्वे उपदेशवचनम् प्रत्ययविध्यर्थम् । मीनात्यादीनाम् आत्त्वे उपदेशिवद्भावः वक्तव्यः । उपदेशावस्थायाम् आत्त्वम् भवति इति वक्तव्यम् । किम् प्रयोजनम् । प्रत्ययविध्यर्थम् । उपदेशावस्थायाम् आत्त्वे कृते इष्टः प्रत्ययविधिः यथा स्यात् । के पुनः प्रत्ययाः उपदेशिवद्भावम् प्रयोजयन्ति । काः । काः तावत् न प्रयोजयन्ति । किम् कारणम् । एचः इति उच्यते न च केषु एच् अस्ति । णघञ्युज्विधयः तर्हि प्रयोजयन्ति । ण । अवदायः । आतः इति णः सिद्धः भवति । घञ् । अवदायः वर्तते । आतः इति घञ् सिद्धः भवति । किम् च भो आतः इति भञ् उच्यते । न खलु अपि आतः इति उच्यते आतः तु विज्ञायते । कथम् । अविशेषेण घञ् उत्सर्गः । तस्य इवर्णान्तात् उवर्णान्तात् च अजपौ अपवादौ । तत्र उपदेशावस्थायाम् आत्त्वे कृते अपवादस्य निमित्तम् न अस्ति इति कृत्वा उत्सर्गेण घञ् सिद्धः भवति । एवम् च कृत्वा न च आतः इति उच्यते आतः तु विज्ञायते । युच् । ईषदवदानम् स्ववदानम् । आतः इति युच् सिद्धः भवति । इदम् विप्रतिषिद्धम् एचः उपदेशः इति । यदि एचः न उपदेशे अथ उपदेशे न एचः । एचः च उपदेशे च इति विप्रतिषिद्धम् । न एतत् विप्रतिषिद्धम् । आह अयम् एचः उपदेशे इति । यदि एचः न उपदेशे अथ उपदेश न एचः । ते वयम् विषयम् विज्ञास्यामः । एज्विषये इति । तत् तर्हि उपदेशग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । आत् एचः उपदेशे इति । तत् वै प्रकृतिविशेषणम् विषयविशेषणेन च इह अर्थः । न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति । न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति । न हि गोधा सर्पन्ती सर्पणात् अहिः भवति । यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति टत् यथा । शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते । यत् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति । न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति । भवेत् द्रव्येषु एतत् एवम् स्यात् । शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति । तत् यथ गौः शुक्लः अश्वः च । शुक्लः इति गम्यते ।

KA III.38.10-39.12 Ro IV.361-363 mīnātyādīnām āttve upadeśavacanam pratyayavidhyartham . mīnātyādīnām āttve upadeśivadbhāvaḥ vaktavyaḥ . upadeśāvasthāyām āttvam bhavati iti vaktavyam . kim prayojanam . pratyayavidhyartham . upadeśāvasthāyām āttve kṛte iṣṭaḥ pratyayavidhiḥ yathā syāt . ke punaḥ pratyayāḥ upadeśivadbhāvam prayojayanti . kāḥ . kāḥ tāvat na prayojayanti . kim kāraṇam . ecaḥ iti ucyate na ca keṣu ec asti . ṇaghañyujvidhayaḥ tarhi prayojayanti . ṇa . avadāyaḥ . ātaḥ iti ṇaḥ siddhaḥ bhavati . ghañ . avadāyaḥ vartate . ātaḥ iti ghañ siddhaḥ bhavati . kim ca bho ātaḥ iti bhañ ucyate . na khalu api ātaḥ iti ucyate ātaḥ tu vijñāyate . katham . aviśeṣeṇa ghañ utsargaḥ . tasya ivarṇāntāt uvarṇāntāt ca ajapau apavādau . tatra upadeśāvasthāyām āttve kṛte apavādasya nimittam na asti iti kṛtvā utsargeṇa ghañ siddhaḥ bhavati . evam ca kṛtvā na ca ātaḥ iti ucyate ātaḥ tu vijñāyate . yuc . īṣadavadānam svavadānam . ātaḥ iti yuc siddhaḥ bhavati . idam vipratiṣiddham ecaḥ upadeśaḥ iti . yadi ecaḥ na upadeśe atha upadeśe na ecaḥ . ecaḥ ca upadeśe ca iti vipratiṣiddham . na etat vipratiṣiddham . āha ayam ecaḥ upadeśe iti . yadi ecaḥ na upadeśe atha upadeśa na ecaḥ . te vayam viṣayam vijñāsyāmaḥ . ejviṣaye iti . tat tarhi upadeśagrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . āt ecaḥ upadeśe iti . tat vai prakṛtiviśeṣaṇam viṣayaviśeṣaṇena ca iha arthaḥ . na ca anyārtham prakṛtam anyārtham bhavati . na khalu api anyat prakṛtam anuvartanāt anyat bhavati . na hi godhā sarpantī sarpaṇāt ahiḥ bhavati . yat tāvat ucyate na ca anyārtham prakṛtam anyārtham bhavati iti anyārtham api prakṛtam anyārtham bhavati ṭat yathā . śālyartham kulyāḥ praṇīyante tābhyaḥ ca pāṇīyam pīyate upaśpṛśyate ca śālayaḥ ca bhāvyante . yat api ucyate na khalu api anyat prakṛtam anuvartanāt anyat bhavati . na hi godhā sarpantī sarpaṇāt ahiḥ bhavati iti . bhavet dravyeṣu etat evam syāt . śabdaḥ tu khalu yena yena viśeṣeṇa abhisambadhyate tasya tasya viśeṣakaḥ bhavati . tat yatha gauḥ śuklaḥ aśvaḥ ca . śuklaḥ iti gamyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३९।१३-१६ रो इव्।३६४ निमिमीलियाम् खलचोः प्रतिषेधः । निमिमीलियाम् खलचोः प्रतिषेधः वक्तव्यः । ईषन्निमयम् , सुनिमयम् , निमयः वर्तते । मि । मी । ईषप्रमयम् , सुप्रमयम् , प्रमयः वर्तते , प्रमयः । मी । ली । ईषद्विलयम् , सुविलयम् , विलयः वर्तते , विलयः ।

KA III.39.13-16 Ro IV.364 nimimīliyām khalacoḥ pratiṣedhaḥ . nimimīliyām khalacoḥ pratiṣedhaḥ vaktavyaḥ . īṣannimayam , sunimayam , nimayaḥ vartate . mi . mī . īṣapramayam , supramayam , pramayaḥ vartate , pramayaḥ . mī . lī . īṣadvilayam , suvilayam , vilayaḥ vartate , vilayaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३९।१८ रो इव्।३६४ किम् इदम् लीयतेः इति । लिनातिलीयत्योः यका निर्देशः ।

KA III.39.18 Ro IV.364 kim idam līyateḥ iti . linātilīyatyoḥ yakā nirdeśaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।३९।२०-२३ रो इव्।३६४-३६५ हेतुभये इति किमर्थम् । कुञ्चिकया एनम् भाययति । अहिना एनम् भाययति । हेतुभये इति उच्यमाने अपि अत्र प्राप्नोति । एतत् अपि हि हेतुभयम् । हेतुभये इति न एवम् विज्ञायते । हेतोः भयम् हेतुभयम् । हेतुभये इति । कथम् तर्हि । हेतुः एव भयम् हेतुभयम् । हेतुभये इति । यदि सः एव हेतुः भयम् भवति इति ।

KA III.39.20-23 Ro IV.364-365 hetubhaye iti kimartham . kuñcikayā enam bhāyayati . ahinā enam bhāyayati . hetubhaye iti ucyamāne api atra prāpnoti . etat api hi hetubhayam . hetubhaye iti na evam vijñāyate . hetoḥ bhayam hetubhayam . hetubhaye iti . katham tarhi . hetuḥ eva bhayam hetubhayam . hetubhaye iti . yadi saḥ eva hetuḥ bhayam bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४०।२-८ रो इव्।३६५ अमि सङ्ग्रहणम् । अमि सङ्ग्रहणम् । किम् इदम् सङ् इति । प्रत्याहारग्रहणम् । क्व सन्निविष्टानाम् प्रत्याहारः । सनः प्रभृति आ महिङः ङकारात् । किम् प्रयोजनम् । क्विप्प्रतिषेधाऋथम् । क्विबन्तस्य मा भूत् । रज्जुसृड्भ्याम् , रज्जुसृड्भिः , देवदृग्भ्याम् , देवदृग्भिः । उक्तम् वा । किम् उक्तम् । धातोः स्वरूपग्रहणे तत्प्रत्ययविज्ञानात् सिद्धम् इति ।

KA III.40.2-8 Ro IV.365 ami saṅgrahaṇam . ami saṅgrahaṇam . kim idam saṅ iti . pratyāhāragrahaṇam . kva sanniviṣṭānām pratyāhāraḥ . sanaḥ prabhṛti ā mahiṅaḥ ṅakārāt . kim prayojanam . kvippratiṣedhāṛtham . kvibantasya mā bhūt . rajjusṛḍbhyām , rajjusṛḍbhiḥ , devadṛgbhyām , devadṛgbhiḥ . uktam vā . kim uktam . dhātoḥ svarūpagrahaṇe tatpratyayavijñānāt siddham iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४०।१०-१५ रो इव्।३६५-३६६ शीर्षन् छन्दसि प्रकृत्यन्तरम् । शीर्षन् छन्दसि प्रकृत्यन्तरम् द्रष्टव्यम् । किम् प्रयोजनम् । किम् प्रयोजनम् । आदेशप्रतिषेधार्थम् । आदेशः मा विज्ञायि । प्रकृत्यन्तरम् यथा विज्ञायेत । किम् च स्यात् । अस्कारान्तस्य छन्दसि श्रवणम् न स्यात् । शिरः मे शीर्यशः मुखम् (र्: शीर्यते मुखे ) । इदम् ते शिरः भिनद्मि इति । तत् वै अथर्वणः शिरः ।

KA III.40.10-15 Ro IV.365-366 śīrṣan chandasi prakṛtyantaram . śīrṣan chandasi prakṛtyantaram draṣṭavyam . kim prayojanam . kim prayojanam . ādeśapratiṣedhārtham . ādeśaḥ mā vijñāyi . prakṛtyantaram yathā vijñāyeta . kim ca syāt . askārāntasya chandasi śravaṇam na syāt . śiraḥ me śīryaśaḥ mukham (R: śīryate mukhe ) . idam te śiraḥ bhinadmi iti . tat vai atharvaṇaḥ śiraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४०।१७-४१।१६ रो इव्।३६६-३६८ ये च तद्धिते शिरसः आदेशार्थम् । ये च तद्धिते इति अत्र शिरसः ग्रहणम् कर्तव्यम् । किम् प्रयोजनम् ।आदेशार्थम् । आदेशः यथा विज्ञायेत । प्रकृत्यन्तरम् मा विज्ञायि । किम् च स्यात् । यकारादौ तद्धिते अस्कारान्तस्य श्रवणम् प्रसज्येत । शीर्षण्यः हि मुख्यः भवति । शीर्षण्यः खरः । वा केशेषु । वा केशेषु शिरसः शीर्षन्भावः वक्तव्यः । शीर्षण्याः केशाः , शिरस्याः । अचि शीर्षः । अचि परतः शिरसः शीर्षभावः वक्तव्यः । हास्तिशीर्षिः , स्थौल्यशीर्षिः, पैलुशीर्षिः । छन्दसि च । छन्दसि च शिरसः शीर्षभावः वक्तव्यः । द्वे शीर्षे । इह हास्तिशीर्ष्या पैलुशीर्ष्या इति शिरसः ग्रहणेन ग्रहणात् शीर्षन्भावः प्राप्नोति । अस्तु । नः तद्धिते इति टिलोपः भविष्यति । न सिध्यति । ये च अभावकर्मणोः इति प्रकृतिभावः प्रसज्येत । यदि पुनः ये अचि तद्धिते इति उच्येत । किम् कृतम् भवति । इञि शीर्षन्भावे कृते टिलोपेन सिद्धम् । न एवम् शक्यम् । इह हि स्थूलशिरसः इदम् स्थौलशीर्षम् इति अनणि इति प्रकृतिभावः प्रसज्येत । तस्मात् न एवम् शक्यम् । न चेत् एवम् शिरसः ग्रहणेन ग्रहणात् शीर्षन्भावः प्राप्नोति । पाक्षिकः एषः दोषः । कतरस्मिन् पक्षे । ष्यङ्विधौ द्वैतम् भवति । अणिञोः वा आदेशः ष्यङ् अणिञ्भ्याम् वा परः इति । तत् यदा तावद् अणिञोः आदेशः तदा एषः दोषः । यदा हि अणिञ्भ्याम् परः न तदा दोषः भवति अणिञ्भ्याम् व्यवहितत्वात् ।

KA III.40.17-41.16 Ro IV.366-368 ye ca taddhite śirasaḥ ādeśārtham . ye ca taddhite iti atra śirasaḥ grahaṇam kartavyam . kim prayojanam .ādeśārtham . ādeśaḥ yathā vijñāyeta . prakṛtyantaram mā vijñāyi . kim ca syāt . yakārādau taddhite askārāntasya śravaṇam prasajyeta . śīrṣaṇyaḥ hi mukhyaḥ bhavati . śīrṣaṇyaḥ kharaḥ . vā keśeṣu . vā keśeṣu śirasaḥ śīrṣanbhāvaḥ vaktavyaḥ . śīrṣaṇyāḥ keśāḥ , śirasyāḥ . aci śīrṣaḥ . aci parataḥ śirasaḥ śīrṣabhāvaḥ vaktavyaḥ . hāstiśīrṣiḥ , sthaulyaśīrṣiḥ, pailuśīrṣiḥ . chandasi ca . chandasi ca śirasaḥ śīrṣabhāvaḥ vaktavyaḥ . dve śīrṣe . iha hāstiśīrṣyā pailuśīrṣyā iti śirasaḥ grahaṇena grahaṇāt śīrṣanbhāvaḥ prāpnoti . astu . naḥ taddhite iti ṭilopaḥ bhaviṣyati . na sidhyati . ye ca abhāvakarmaṇoḥ iti prakṛtibhāvaḥ prasajyeta . yadi punaḥ ye aci taddhite iti ucyeta . kim kṛtam bhavati . iñi śīrṣanbhāve kṛte ṭilopena siddham . na evam śakyam . iha hi sthūlaśirasaḥ idam sthaulaśīrṣam iti anaṇi iti prakṛtibhāvaḥ prasajyeta . tasmāt na evam śakyam . na cet evam śirasaḥ grahaṇena grahaṇāt śīrṣanbhāvaḥ prāpnoti . pākṣikaḥ eṣaḥ doṣaḥ . katarasmin pakṣe . ṣyaṅvidhau dvaitam bhavati . aṇiñoḥ vā ādeśaḥ ṣyaṅ aṇiñbhyām vā paraḥ iti . tat yadā tāvad aṇiñoḥ ādeśaḥ tadā eṣaḥ doṣaḥ . yadā hi aṇiñbhyām paraḥ na tadā doṣaḥ bhavati aṇiñbhyām vyavahitatvāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४१।१९-४२।६ रो इव्।३६८-३६९ शस्प्रभृतिषु इति उच्यते । अशस्प्रभृतिषु अपि दृश्यते । शला दोषणी । ककुत् दोषणी । याचते महादेवः । पदादिषु मांस्पृत्स्नूनाम् उपसङ्ख्यानम् । पदादिषु मांस्पृत्स्नूनाम् उपसङ्ख्यानम् कर्तव्यम् । मांस् । यत् नीक्षणम् मांस्पचन्याः । मांसपचन्याः इति प्राप्ते । मांस् । पृत्। पृत्सु मर्त्यम् । पृतनासु मर्त्यम् इति प्राप्ते । पृत् । स्नु । न ते दिवः न पृथिव्यः अधि स्नुषु । अधि सानुषु इति प्राप्ते । नस् नासिकायाः यत्तस्क्षुद्रेषु । यत्तस्क्षुद्रेषु परतः नासिकायाः नस्भावः वक्तव्यः । यत् । नस्यम् । यत् । तस् । नस्तः । तस्। क्षुद्र । नःक्षुद्रः । अवर्णनगरयोः इति वक्तव्यम् । इह मा भूत् । नासिक्यः वर्णः , नासिक्यम् नगरम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इह तावत् नासिक्यः वर्णः इति । परिमुखादिषु पाठः करिष्यते । नासिक्यम् नगरम् इति । सङ्काशादिषु पाठः करिष्यते ।

KA III.41.19-42.6 Ro IV.368-369 śasprabhṛtiṣu iti ucyate . aśasprabhṛtiṣu api dṛśyate . śalā doṣaṇī . kakut doṣaṇī . yācate mahādevaḥ . padādiṣu māṃspṛtsnūnām upasaṅkhyānam . padādiṣu māṃspṛtsnūnām upasaṅkhyānam kartavyam . māṃs . yat nīkṣaṇam māṃspacanyāḥ . māṃsapacanyāḥ iti prāpte . māṃs . pṛt. pṛtsu martyam . pṛtanāsu martyam iti prāpte . pṛt . snu . na te divaḥ na pṛthivyaḥ adhi snuṣu . adhi sānuṣu iti prāpte . nas nāsikāyāḥ yattaskṣudreṣu . yattaskṣudreṣu parataḥ nāsikāyāḥ nasbhāvaḥ vaktavyaḥ . yat . nasyam . yat . tas . nastaḥ . tas. kṣudra . naḥkṣudraḥ . avarṇanagarayoḥ iti vaktavyam . iha mā bhūt . nāsikyaḥ varṇaḥ , nāsikyam nagaram . tat tarhi vaktavyam . na vaktavyam . iha tāvat nāsikyaḥ varṇaḥ iti . parimukhādiṣu pāṭhaḥ kariṣyate . nāsikyam nagaram iti . saṅkāśādiṣu pāṭhaḥ kariṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४२।८-४३।१० रो इव्।३६९-३७१ धातुग्रहणम् किमर्थम् । इह मा भूत् : षोडन् , षण्डः , षोडिकः । अथ आदिग्रहणम् किमर्थम् । इह मा भूत् : पेष्टा पेष्टुम् । न एतत् अस्ति प्रयोजनम् । अस्तु अत्र सत्वम् । सत्वे कृते इणः उत्तरस्य आदेशसकारस्य इति षत्वम् भविष्यति । इदम् तर्हि : लषिता लषितुम् । इदम् च अपि उदार्हरणम् : पेष्टा पेष्टुम् । ननु च उक्तम् अस्तु अत्र सत्वम् । सत्वे कृते इणः उत्तरस्य आदेशसकारस्य इति षत्वम् भविष्यति इति । न एवम् शक्यम् । इह हि पेक्ष्यति इति षत्वस्य असिद्धत्वात् षढोः कः सि इति कत्वम् न स्यात् । सादेशे सुब्धातुष्ठिवुष्वष्कतीनाम् प्रतिषेधः । सादेशे सुब्धातुष्ठिवुष्वष्कतीनाम् प्रतिषेधः वक्तव्यः । सुब्धातु : षोडीयति षण्डीयति । ष्ठिवु : ष्ठीवति । ष्वष्क् : ष्वष्कते । सुब्धातूनाम् तावत् न वक्तव्यः । उपदेशे इति वर्तते उद्देशः च प्रातिपदिकानाम् न उपदेशः । यदि एवम् न अर्थः धातुग्रहणेन । कस्मात् न भवति षोडन् , षण्डः , षोडिकः इति । उपदेशे इति वर्तते उद्देशः च प्रातिपदिकानाम् न उपदेशः । ष्ठिवेः अपि द्वितीयः वर्णः ठकारः । यदि ठकारः तेष्ठीव्यते इति न सिध्यति । एवम् तर्हि थकारः । यदि थकारः टुष्ठ्यूषति टेष्ठीव्यतिए इति न सिध्यति । एवम् तर्हि द्वौ इमौ ष्ठिवू । अकस्य द्वितीयः वर्णः ठकारः अपरस्य थकारः । यस्य थकारः तस्य सत्वम् प्राप्नोति । एवम् तर्हि द्वौ इमौ द्विषकारौ ष्ठिवुष्वष्कती । किम् कृतम् भवति । पूर्वस्य सत्वे कृते परेण सन्निपाते ष्टुत्वम् भविष्यति । न एवम् शक्यम् । इह हि श्वलिट् ष्ठीवति मधुलिट् ष्वष्कते ष्टुत्वस्य असिद्धत्वात् डः सि धुट् इति धुट् प्रसज्येत । एवम् तर्हि यकारादी द्विषकारौ ष्ठिवुष्वष्कती । किम् यकारः न श्रूयते । लुप्तनिर्दिष्टः यकारः । अथ किमर्थम् षकारम् उपदिश्य तस्य सकारः आदेशः क्रियते न सकारः एव उपदिश्येत । लघ्वर्थम् इति आह । कथम् । अविशेषेण अयम् षकारम् उपदिश्य सकारम् आदेशम् उक्त्वा लघुना उपायेन षत्वम् निर्वर्तयति आदेशप्रत्यययोः इति । इतरथा हि येषाम् षत्वम् इष्यते तेषाम् तत्र ग्रहणम् कर्तव्यम् स्यात् । के पुनः षोपदेशाः धातवः । पठितव्याः । कः अत्र भवतः पुरुषकारः । यदि अन्तरेण पाठम् किम् चित् शक्यते वक्तुम् तत् उच्यताम् । अन्तरेण अपि पाठम् किम् चित् शक्यते वक्तुम् । कथम् । अज्दन्त्यपराः सादयः षोपदेशाः स्मिङ्स्वदिस्विदिस्वञ्जिस्वपयः च सृपिसृजिस्तृस्त्यासेकृसृवर्जम् ।

KA III.42.8-43.10 Ro IV.369-371 dhātugrahaṇam kimartham . iha mā bhūt : ṣoḍan , ṣaṇḍaḥ , ṣoḍikaḥ . atha ādigrahaṇam kimartham . iha mā bhūt : peṣṭā peṣṭum . na etat asti prayojanam . astu atra satvam . satve kṛte iṇaḥ uttarasya ādeśasakārasya iti ṣatvam bhaviṣyati . idam tarhi : laṣitā laṣitum . idam ca api udārharaṇam : peṣṭā peṣṭum . nanu ca uktam astu atra satvam . satve kṛte iṇaḥ uttarasya ādeśasakārasya iti ṣatvam bhaviṣyati iti . na evam śakyam . iha hi pekṣyati iti ṣatvasya asiddhatvāt ṣaḍhoḥ kaḥ si iti katvam na syāt . sādeśe subdhātuṣṭhivuṣvaṣkatīnām pratiṣedhaḥ . sādeśe subdhātuṣṭhivuṣvaṣkatīnām pratiṣedhaḥ vaktavyaḥ . subdhātu : ṣoḍīyati ṣaṇḍīyati . ṣṭhivu : ṣṭhīvati . ṣvaṣk : ṣvaṣkate . subdhātūnām tāvat na vaktavyaḥ . upadeśe iti vartate uddeśaḥ ca prātipadikānām na upadeśaḥ . yadi evam na arthaḥ dhātugrahaṇena . kasmāt na bhavati ṣoḍan , ṣaṇḍaḥ , ṣoḍikaḥ iti . upadeśe iti vartate uddeśaḥ ca prātipadikānām na upadeśaḥ . ṣṭhiveḥ api dvitīyaḥ varṇaḥ ṭhakāraḥ . yadi ṭhakāraḥ teṣṭhīvyate iti na sidhyati . evam tarhi thakāraḥ . yadi thakāraḥ ṭuṣṭhyūṣati ṭeṣṭhīvyatie iti na sidhyati . evam tarhi dvau imau ṣṭhivū . akasya dvitīyaḥ varṇaḥ ṭhakāraḥ aparasya thakāraḥ . yasya thakāraḥ tasya satvam prāpnoti . evam tarhi dvau imau dviṣakārau ṣṭhivuṣvaṣkatī . kim kṛtam bhavati . pūrvasya satve kṛte pareṇa sannipāte ṣṭutvam bhaviṣyati . na evam śakyam . iha hi śvaliṭ ṣṭhīvati madhuliṭ ṣvaṣkate ṣṭutvasya asiddhatvāt ḍaḥ si dhuṭ iti dhuṭ prasajyeta . evam tarhi yakārādī dviṣakārau ṣṭhivuṣvaṣkatī . kim yakāraḥ na śrūyate . luptanirdiṣṭaḥ yakāraḥ . atha kimartham ṣakāram upadiśya tasya sakāraḥ ādeśaḥ kriyate na sakāraḥ eva upadiśyeta . laghvartham iti āha . katham . aviśeṣeṇa ayam ṣakāram upadiśya sakāram ādeśam uktvā laghunā upāyena ṣatvam nirvartayati ādeśapratyayayoḥ iti . itarathā hi yeṣām ṣatvam iṣyate teṣām tatra grahaṇam kartavyam syāt . ke punaḥ ṣopadeśāḥ dhātavaḥ . paṭhitavyāḥ . kaḥ atra bhavataḥ puruṣakāraḥ . yadi antareṇa pāṭham kim cit śakyate vaktum tat ucyatām . antareṇa api pāṭham kim cit śakyate vaktum . katham . ajdantyaparāḥ sādayaḥ ṣopadeśāḥ smiṅsvadisvidisvañjisvapayaḥ ca sṛpisṛjistṛstyāsekṛsṛvarjam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४३।१२-१८ रो इव्।३७२ अथ किमर्थम् णकारम् उपदिश्य तस्य नकारः आदेशः क्रियते न नकारः एव उपदिश्येत । लघ्वर्थम् इति आह । कथम् । अविशेषेण अयम् णकारम् उपदिश्य नकारम् आदेशम् उक्त्वा लघुना उपायेन णत्वम् निर्वर्तयति उपसर्गात् असमासे अपि णोपदेशस्य इति । इतरथा हि येषाम् णत्वम् इष्यते तेषाम् तत्र ग्रहणम् कर्तव्यम् स्यात् । के पुनः णोपदेशाः धातवः । पठितव्याः । कः अत्र भवतः पुरुषकारः । यदि अन्तरेण पाठम् किम् चित् शक्यते वक्तुम् तत् उच्यताम् । अन्तरेण अपि पाठम् किम् चित् शक्यते वक्तुम् । कथम् । सर्वे नादयः णोपदेशाः नृतिनन्दिनर्दिनक्किनाटिनाथृनाधृनॄवर्जम् ।

KA III.43.12-18 Ro IV.372 atha kimartham ṇakāram upadiśya tasya nakāraḥ ādeśaḥ kriyate na nakāraḥ eva upadiśyeta . laghvartham iti āha . katham . aviśeṣeṇa ayam ṇakāram upadiśya nakāram ādeśam uktvā laghunā upāyena ṇatvam nirvartayati upasargāt asamāse api ṇopadeśasya iti . itarathā hi yeṣām ṇatvam iṣyate teṣām tatra grahaṇam kartavyam syāt . ke punaḥ ṇopadeśāḥ dhātavaḥ . paṭhitavyāḥ . kaḥ atra bhavataḥ puruṣakāraḥ . yadi antareṇa pāṭham kim cit śakyate vaktum tat ucyatām . antareṇa api pāṭham kim cit śakyate vaktum . katham . sarve nādayaḥ ṇopadeśāḥ nṛtinandinardinakkināṭināthṛnādhṛnṝvarjam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४३।२०-४४।७ रो इव्।३७२-३७४ व्योः लोपे क्वौ उपसङ्ख्यानम् । व्योः लोपे क्वौ उपसङ्ख्यानम् कर्तव्यम् इह अपि यथा स्यात् । कण्डूयतेः अप्रत्ययः कण्डूः इति । किम् पुनः कारणम् न सिध्यति । वलि इति उच्यते न च अत्र वलादिम् पश्यामः । ननु च अयम् क्विप् एव वलादिः भवति । क्विब्लोपे कृते वलाद्यभावात् न प्राप्नोति । इदम् इह सम्प्रधार्यम् । क्विब्लोपः क्रियताम् यलोपः इति । किम् अत्र कर्तव्यम् । परत्वात् क्विब्लोपः नित्यत्वात् च । नित्यः खलु अपि क्विब्लोपः । कृते अपि यलोपे प्राप्नोति अकृते अपि प्राप्नोति । नित्यत्वात् परत्वात् च क्विब्लोपः । क्विब्लोपे कृते वलाद्यभावात् यलोपः न प्राप्नोति । एवम् तर्हि प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये न अस्ति प्रत्ययलक्षणम् । यदि वा कानि चित् वर्णाश्रयाणि प्रत्ययलक्षणेन भवन्ति तथा इदम् अपि भविष्यति । अथ वा एवम् वक्ष्यामि । लोपः व्योः वलि । ततः वेः । व्यन्तयोः च व्योः लोपः भवति । ततः अपृक्तस्य । अपृक्तस्य च लोपः भवति । वेः इति एव ।

KA III.43.20-44.7 Ro IV.372-374 vyoḥ lope kvau upasaṅkhyānam . vyoḥ lope kvau upasaṅkhyānam kartavyam iha api yathā syāt . kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti . kim punaḥ kāraṇam na sidhyati . vali iti ucyate na ca atra valādim paśyāmaḥ . nanu ca ayam kvip eva valādiḥ bhavati . kviblope kṛte valādyabhāvāt na prāpnoti . idam iha sampradhāryam . kviblopaḥ kriyatām yalopaḥ iti . kim atra kartavyam . paratvāt kviblopaḥ nityatvāt ca . nityaḥ khalu api kviblopaḥ . kṛte api yalope prāpnoti akṛte api prāpnoti . nityatvāt paratvāt ca kviblopaḥ . kviblope kṛte valādyabhāvāt yalopaḥ na prāpnoti . evam tarhi pratyayalakṣaṇena bhaviṣyati . varṇāśraye na asti pratyayalakṣaṇam . yadi vā kāni cit varṇāśrayāṇi pratyayalakṣaṇena bhavanti tathā idam api bhaviṣyati . atha vā evam vakṣyāmi . lopaḥ vyoḥ vali . tataḥ veḥ . vyantayoḥ ca vyoḥ lopaḥ bhavati . tataḥ apṛktasya . apṛktasya ca lopaḥ bhavati . veḥ iti eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४४।८-४५।२ रो इव्।३७४-३७५ वलोपाप्रसिद्धिः ऊड्भाववचनात् । वलोपस्य अप्रसिद्धिः । आस्रेमाणम् , जीरदानुः इति । किम् कारणम् । ऊड्भाववचनात् । च्छ्वोः शूट् अनुनासिके च इति ऊठ् प्राप्नोति । अतिप्रसङ्गः व्रश्चादिषु । व्रश्चादिषु च अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । व्रश्चनः , व्रीहिः , व्रणः इति । उपदेशसामर्थ्यात् सिद्धम् । उपदेशसामर्थ्यात् व्रश्चादिषु लोपः न भविष्यति । उपदेशसामर्थ्यात् सिद्धम् इति चेत् सम्प्रसारणहलादिशेषेषु सामर्थ्यम् । उपदेशसामर्थ्यात् सिद्धम् इति चेत् अस्ति अन्यत् उपदेशवचने प्रयोजनम् । सम्प्रसारणहलादिशेषेषु कृतेषु वकारस्य श्रवणम् यथा स्यात् । (र्: वृक्णः ) वृक्णवान् , (र् वृश्चति ) विव्रश्चिषति इति । न वा बहिरङ्गलक्षणत्वात् । न वा एतत् प्रयोजनम् अस्ति । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गाः सम्प्रसारणहलादिशेषाः । अन्तरङ्गः लोपः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । अनारम्भः वा । अनारम्भः वा पुनः वलोपस्य न्याय्यः । कथम् आस्रेमाणम् , जीरदानुः इति । आस्रेमाणम् जीरदानुः इति वर्णलोपात् । आस्रेमाणम् , जीरदानुः इति छान्दसात् वर्णलोपात् सिद्धम् । यथा संस्फानः गयस्फानः । तत् यथा संस्फयनः , संस्फानः , गयस्फानः, गयस्फानः इति ।

KA III.44.8-45.2 Ro IV.374-375 valopāprasiddhiḥ ūḍbhāvavacanāt . valopasya aprasiddhiḥ . āsremāṇam , jīradānuḥ iti . kim kāraṇam . ūḍbhāvavacanāt . cchvoḥ śūṭ anunāsike ca iti ūṭh prāpnoti . atiprasaṅgaḥ vraścādiṣu . vraścādiṣu ca atiprasaṅgaḥ bhavati . iha api prāpnoti . vraścanaḥ , vrīhiḥ , vraṇaḥ iti . upadeśasāmarthyāt siddham . upadeśasāmarthyāt vraścādiṣu lopaḥ na bhaviṣyati . upadeśasāmarthyāt siddham iti cet samprasāraṇahalādiśeṣeṣu sāmarthyam . upadeśasāmarthyāt siddham iti cet asti anyat upadeśavacane prayojanam . samprasāraṇahalādiśeṣeṣu kṛteṣu vakārasya śravaṇam yathā syāt . (R: vṛkṇaḥ ) vṛkṇavān , (R vṛścati ) vivraściṣati iti . na vā bahiraṅgalakṣaṇatvāt . na vā etat prayojanam asti . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgāḥ samprasāraṇahalādiśeṣāḥ . antaraṅgaḥ lopaḥ . asiddham bahiraṅgam antaraṅge . anārambhaḥ vā . anārambhaḥ vā punaḥ valopasya nyāyyaḥ . katham āsremāṇam , jīradānuḥ iti . āsremāṇam jīradānuḥ iti varṇalopāt . āsremāṇam , jīradānuḥ iti chāndasāt varṇalopāt siddham . yathā saṃsphānaḥ gayasphānaḥ . tat yathā saṃsphayanaḥ , saṃsphānaḥ , gayasphānaḥ, gayasphānaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४५।४-२० रो इव्।३७५-३७६ दर्विजागृव्योः प्रतिषेधः वक्तव्यः : दर्विः , जागृविः । किम् उच्यते दर्विजागृव्योः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति उच्यति । भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति । तत् वा कर्तव्यम् दर्विजागृव्योः वा प्रतिषेधः वक्तव्यः ।वेः लोपे दर्विजागृव्योः अप्रतिषेधः अनुनासिकपरत्वात् । वेः लोपे दर्विजागृव्योः अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । लोपः कस्मात् न भवति । अनुनासिकपरत्वात् । अनुनासिकपरस्य विशब्दस्य ग्रहणम् न च अत्र अनुनासिकपरः विशब्दः । शुद्धपरः च अत्र विशब्दः । यदि अनुनासिकपरस्य विशब्दस्य ग्रहणम् इति उच्यते घृतस्पृक्, दलस्पृक् , अत्र न प्राप्नोति । न हि एतस्मात् विशब्दात् अनुनासिकम् परम् पश्यामः । अनुनासिकपरत्वात् इति न एवम् विज्ञायते । अनुनासिकः परः अस्मात् सः अयम् अनुनासिकपरः , अनुनासिकपरत्वात् इति । कथम् तर्हि । अनुनासिकः परः अस्मिन् सः अयम् अनुनासिकपरः , अनुनासिकपरत्वात् इति । एवम् अपि प्रियदर्वि , अत्र प्राप्नोति । असिद्धः अत्र अनुनासिकः । एवम् अपि धात्वन्तस्य प्रतिषेधः वक्तव्यः । इवि दिवि धिवि । धात्वन्तस्य च अर्थवद्ग्रहणात् । अर्थवतः विशब्दस्य ग्रहणम् । न धात्वन्तः अर्थवान् । वस्य वा अनुनासिकत्वात् सिद्धम् । अथ वा वकारस्य एव इदम् अनुनासिकस्य ग्रहणम् । सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च ।

KA III.45.4-20 Ro IV.375-376 darvijāgṛvyoḥ pratiṣedhaḥ vaktavyaḥ : darviḥ , jāgṛviḥ . kim ucyate darvijāgṛvyoḥ pratiṣedhaḥ vaktavyaḥ iti yadā apṛktasya iti ucyati . bhavati vai kim cit ācāryāḥ kriyamāṇam api codayanti . tat vā kartavyam darvijāgṛvyoḥ vā pratiṣedhaḥ vaktavyaḥ .veḥ lope darvijāgṛvyoḥ apratiṣedhaḥ anunāsikaparatvāt . veḥ lope darvijāgṛvyoḥ apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . lopaḥ kasmāt na bhavati . anunāsikaparatvāt . anunāsikaparasya viśabdasya grahaṇam na ca atra anunāsikaparaḥ viśabdaḥ . śuddhaparaḥ ca atra viśabdaḥ . yadi anunāsikaparasya viśabdasya grahaṇam iti ucyate ghṛtaspṛk, dalaspṛk , atra na prāpnoti . na hi etasmāt viśabdāt anunāsikam param paśyāmaḥ . anunāsikaparatvāt iti na evam vijñāyate . anunāsikaḥ paraḥ asmāt saḥ ayam anunāsikaparaḥ , anunāsikaparatvāt iti . katham tarhi . anunāsikaḥ paraḥ asmin saḥ ayam anunāsikaparaḥ , anunāsikaparatvāt iti . evam api priyadarvi , atra prāpnoti . asiddhaḥ atra anunāsikaḥ . evam api dhātvantasya pratiṣedhaḥ vaktavyaḥ . ivi divi dhivi . dhātvantasya ca arthavadgrahaṇāt . arthavataḥ viśabdasya grahaṇam . na dhātvantaḥ arthavān . vasya vā anunāsikatvāt siddham . atha vā vakārasya eva idam anunāsikasya grahaṇam . santi hi yaṇaḥ sānunāsikāḥ niranunāsikāḥ ca .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४६।२-४७।१२ रो इव्।३७७-३८० यदि पुनः अयम् अपृक्तलोपः संयोगान्तलोपः विज्ञायेत । किम् कृतम् भवति । द्विहलपृक्तग्रहणम् तिस्योः च ग्रहणम् न कर्तव्यम् भवति । हलन्तात् अपृक्तलोपः संयोगान्तलोपः चेत् नलोपाभावः यथा पचन् इति । हलन्तात् अपृक्तलोपः संयोगान्तलोपः चेत् नलोपाभावः । राजा तक्षा । संयोगान्तलोपस्य असिद्धत्वात् नलोपः न प्राप्नोति यथा पचन् इति । तत् यथा पचन्, यजन् इति अत्र संयोगान्तलोपस्य असिद्धत्वात् नलोपः न भवति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति सिद्धः संयोगान्तलोपः नलोपे इति यत् अयम् न ङिसम्बुद्ध्योः इति सम्बुद्धौ प्रतिषेधम् शास्ति । इह अपि तर्हि प्राप्नोति पचन्, यजन् । तुल्यजातीयस्य ज्ञापकम् भवति । कः च तुल्यजातीयः । यः सम्बुद्धौ अनन्तरः । वस्वादिषु दत्वम् संयोगादिलोपबलीयस्त्वात् । वस्वादिषु दत्वम् न सिध्यति । उखास्रत् , पर्णद्व्हत् । किम् कारणम् । संयोगादिलोपबलीयस्त्वात् । संयोगान्तलोपात् संयोगादिलोपः बलीयान् । यथा कूटतट् इति । तत् यथा कूटतट् , काष्ठतट् इति अत्र संयोगान्तलोपात् संयोगादिलोपः बलीयान् भवति । ननु च दत्वे कृते न भविष्यति । असिद्धम् दत्वम् । तस्य असिद्धत्वात् प्राप्नोति । सिद्धकाण्डे पठितम् वस्वादिषु दत्वम् सौ दीर्घत्वे इति । तत्र सौ दीर्घत्वग्रहणम् न करिष्यते । वस्वादिषु दत्वम् इति एव । एवम् अपि अपदान्तत्वात् न प्राप्नोति । अथ सौ अपि पदम् भवति राजा तक्षा नलोपे कृते विभक्तेः श्रवणम् प्राप्नोति । सा एषा उभयतस्पाशा रज्जुः भवति । रात्तलोपः नियमवचनात् । रात् तस्य लोपः वक्तव्यः । अबिभः भवान् । अजागः भवान् । किम् पुनः कारणम् न सिध्यति । नियमवचनात् । रात् सस्य इति एतस्मात् नियमात् न प्राप्नोति । न एषः दोषः । रात् सस्य इति अत्र तकारः अपि निर्दिश्यते । यदि एवम् कीर्तयतेः अप्रत्ययः कीः इति प्राप्नोति । कीर्त् इति च इष्यते । यथालक्षणम् अप्रयुक्ते । रोः उत्त्वम् च । रोः उत्त्वम् च वक्तव्यम् । अभिनः अत्र, अच्छिनः अत्र । संयोगान्तलोपस्य असिद्धत्वात् अतः अति इति उत्त्र्वम् न प्राप्नोति । न वा संयोगान्तलोपस्य उत्त्वे सिद्धत्वात् । न वा वक्तव्यम् । किम् कारणम् । संयोगान्तलोपस्य उत्त्वे सिद्धत्वात् । संयोगान्तलोपः उत्त्वे सिद्धः भवति । यथा हरिवः मेदिनम् इति । तत् यथा हरिवः मेदिनम् त्वा इति अत्र संयोगान्तलोपः उत्त्वे सिद्धः भवति । सः एव दर्हि दोषः सा एषा उभयतस्पाशा । तस्मात् अशक्यः अपृक्तलोपः संयोगान्तलोपः विज्ञातुम् । न चेत् विज्ञायते द्विहलपृक्तग्रहणम् तिस्योः च ग्रहणम् कर्तव्यम् एव ।

KA III.46.2-47.12 Ro IV.377-380 yadi punaḥ ayam apṛktalopaḥ saṃyogāntalopaḥ vijñāyeta . kim kṛtam bhavati . dvihalapṛktagrahaṇam tisyoḥ ca grahaṇam na kartavyam bhavati . halantāt apṛktalopaḥ saṃyogāntalopaḥ cet nalopābhāvaḥ yathā pacan iti . halantāt apṛktalopaḥ saṃyogāntalopaḥ cet nalopābhāvaḥ . rājā takṣā . saṃyogāntalopasya asiddhatvāt nalopaḥ na prāpnoti yathā pacan iti . tat yathā pacan, yajan iti atra saṃyogāntalopasya asiddhatvāt nalopaḥ na bhavati . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati siddhaḥ saṃyogāntalopaḥ nalope iti yat ayam na ṅisambuddhyoḥ iti sambuddhau pratiṣedham śāsti . iha api tarhi prāpnoti pacan, yajan . tulyajātīyasya jñāpakam bhavati . kaḥ ca tulyajātīyaḥ . yaḥ sambuddhau anantaraḥ . vasvādiṣu datvam saṃyogādilopabalīyastvāt . vasvādiṣu datvam na sidhyati . ukhāsrat , parṇadvhat . kim kāraṇam . saṃyogādilopabalīyastvāt . saṃyogāntalopāt saṃyogādilopaḥ balīyān . yathā kūṭataṭ iti . tat yathā kūṭataṭ , kāṣṭhataṭ iti atra saṃyogāntalopāt saṃyogādilopaḥ balīyān bhavati . nanu ca datve kṛte na bhaviṣyati . asiddham datvam . tasya asiddhatvāt prāpnoti . siddhakāṇḍe paṭhitam vasvādiṣu datvam sau dīrghatve iti . tatra sau dīrghatvagrahaṇam na kariṣyate . vasvādiṣu datvam iti eva . evam api apadāntatvāt na prāpnoti . atha sau api padam bhavati rājā takṣā nalope kṛte vibhakteḥ śravaṇam prāpnoti . sā eṣā ubhayataspāśā rajjuḥ bhavati . rāttalopaḥ niyamavacanāt . rāt tasya lopaḥ vaktavyaḥ . abibhaḥ bhavān . ajāgaḥ bhavān . kim punaḥ kāraṇam na sidhyati . niyamavacanāt . rāt sasya iti etasmāt niyamāt na prāpnoti . na eṣaḥ doṣaḥ . rāt sasya iti atra takāraḥ api nirdiśyate . yadi evam kīrtayateḥ apratyayaḥ kīḥ iti prāpnoti . kīrt iti ca iṣyate . yathālakṣaṇam aprayukte . roḥ uttvam ca . roḥ uttvam ca vaktavyam . abhinaḥ atra, acchinaḥ atra . saṃyogāntalopasya asiddhatvāt ataḥ ati iti uttrvam na prāpnoti . na vā saṃyogāntalopasya uttve siddhatvāt . na vā vaktavyam . kim kāraṇam . saṃyogāntalopasya uttve siddhatvāt . saṃyogāntalopaḥ uttve siddhaḥ bhavati . yathā harivaḥ medinam iti . tat yathā harivaḥ medinam tvā iti atra saṃyogāntalopaḥ uttve siddhaḥ bhavati . saḥ eva darhi doṣaḥ sā eṣā ubhayataspāśā . tasmāt aśakyaḥ apṛktalopaḥ saṃyogāntalopaḥ vijñātum . na cet vijñāyate dvihalapṛktagrahaṇam tisyoḥ ca grahaṇam kartavyam eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४७।१४-४८।२७ रो इव्।३८०-३८३ सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः । सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः वक्तव्यः । हे कतरत्, हे कतमत् । किम् उच्यते डतरादिभ्यः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति अनुवर्तते । अपृक्ताधिकारस्य निवृत्तत्वात् । निवृत्तः अपृक्ताधिकारः । किम् डतरादिभ्यः प्रतिषेधम् वक्ष्यामि इति अपृक्ताधिकारः निवर्त्यते । न इति आह । तत् च अमर्थम् । सः च अवश्यम् अपृक्ताधिकारः निवर्त्यः । किमर्थम् । अमर्थम् । अमः लोपः यथा स्यात् । हे कुण्ड , हे पीठ । निवृत्ते अपि अपृक्ताधिकारे अमः लोपः न प्राप्नोति । न हि लोपः सर्वापहारी । मा भूत् सर्वस्य लोपः । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य लोपे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् हे कुण्ड , हे पीठ इति । यदि एतत् लभ्येत कृतम् स्यात् । तत् तु न लभ्यते । किम् कारणम् । अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति अकारस्य लोपः प्राप्नोति । अकारलोपे च सति मकारे अतः दीर्घः यञि सुपि च इति दीर्घत्वे हे कुण्डाम् , हे पीठाम् इति एतत् रूपम् प्रसज्येत । एवम् तर्हि हलः लोपः सम्बुद्धिलोपः । तत् हल्ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तम् हल् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । न एषः दोषः । एङ् ह्रस्वात् इति एषा पञ्चमी हल् इति अस्याः प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । एवम् अपि प्रथमयोः पूर्वसवर्णदीर्घत्वे कृते हे पीठा इति एतत् रूपम् प्रसज्येत । अमि पूर्वत्वम् अत्र बाधकम् भविष्यति । अमि इति उच्यते न च अत्र अमम् पश्यामः । एकदेशविकृतम् अनन्यवत् भवति इति । अथ वा इदम् इह सम्प्रधार्यम् । सम्बुद्धिलोपः क्रियताम् एकादेशः इति । किम् अत्र कर्तव्यम् । परत्वात् एकादेशः । एवम् अपि एकादेशे कृते व्यपवर्गाभावात् सम्बुद्धिलोपः न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गः भविष्यति । उभयतः आश्रये न अन्तादिवत् । न उभयतः आश्रयः करिष्यते । कथम् । न एवम् विज्ञायते । ह्रस्वात् उत्तरस्याः सम्बुद्धेः लोपः भवति इति । कथम् तर्हि । ह्रस्वात् उत्तरस्य हलः लोपः भवति सः चेत् सम्बुद्धेः इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । उक्तम् वा । किम् उक्तम् । सिद्धम् अनुनासिकोपधत्वात् इति । एवम् अपि दलोपः साधीयः प्राप्नोति । दुक्करणात् वा । अथ वा दुक् डतरादीनाम् इति वक्ष्यामि । डित्करणात् वा । अथ वा डित् अयम् शब्दः करिष्यते । सः तर्हि डकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । द्विडकारः निर्देशः अद्ड् डतरादिभ्यः इति । एवम् अपि लोपः प्राप्नोति । विहितविशेषणम् ह्रस्वग्रहणम् । यस्मात् ह्रस्वात् सम्बुद्धिः विहिता इति ।

KA III.47.14-48.27 Ro IV.380-383 sambuddhilope ḍatarādibhyaḥ pratiṣedhaḥ . sambuddhilope ḍatarādibhyaḥ pratiṣedhaḥ vaktavyaḥ . he katarat, he katamat . kim ucyate ḍatarādibhyaḥ pratiṣedhaḥ vaktavyaḥ iti yadā apṛktasya iti anuvartate . apṛktādhikārasya nivṛttatvāt . nivṛttaḥ apṛktādhikāraḥ . kim ḍatarādibhyaḥ pratiṣedham vakṣyāmi iti apṛktādhikāraḥ nivartyate . na iti āha . tat ca amartham . saḥ ca avaśyam apṛktādhikāraḥ nivartyaḥ . kimartham . amartham . amaḥ lopaḥ yathā syāt . he kuṇḍa , he pīṭha . nivṛtte api apṛktādhikāre amaḥ lopaḥ na prāpnoti . na hi lopaḥ sarvāpahārī . mā bhūt sarvasya lopaḥ . alaḥ antyasya vidhayaḥ bhavanti iti antyasya lope kṛte dvayoḥ akārayoḥ pararūpeṇa siddham rūpam syāt he kuṇḍa , he pīṭha iti . yadi etat labhyeta kṛtam syāt . tat tu na labhyate . kim kāraṇam . atra hi tasmāt iti uttarasya ādeḥ parasya iti akārasya lopaḥ prāpnoti . akāralope ca sati makāre ataḥ dīrghaḥ yañi supi ca iti dīrghatve he kuṇḍām , he pīṭhām iti etat rūpam prasajyeta . evam tarhi halaḥ lopaḥ sambuddhilopaḥ . tat halgrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . halṅyābbhyaḥ dīrghāt sutisi apṛktam hal iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . na eṣaḥ doṣaḥ . eṅ hrasvāt iti eṣā pañcamī hal iti asyāḥ prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . evam api prathamayoḥ pūrvasavarṇadīrghatve kṛte he pīṭhā iti etat rūpam prasajyeta . ami pūrvatvam atra bādhakam bhaviṣyati . ami iti ucyate na ca atra amam paśyāmaḥ . ekadeśavikṛtam ananyavat bhavati iti . atha vā idam iha sampradhāryam . sambuddhilopaḥ kriyatām ekādeśaḥ iti . kim atra kartavyam . paratvāt ekādeśaḥ . evam api ekādeśe kṛte vyapavargābhāvāt sambuddhilopaḥ na prāpnoti . antādivadbhāvena vyapavargaḥ bhaviṣyati . ubhayataḥ āśraye na antādivat . na ubhayataḥ āśrayaḥ kariṣyate . katham . na evam vijñāyate . hrasvāt uttarasyāḥ sambuddheḥ lopaḥ bhavati iti . katham tarhi . hrasvāt uttarasya halaḥ lopaḥ bhavati saḥ cet sambuddheḥ iti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . uktam vā . kim uktam . siddham anunāsikopadhatvāt iti . evam api dalopaḥ sādhīyaḥ prāpnoti . dukkaraṇāt vā . atha vā duk ḍatarādīnām iti vakṣyāmi . ḍitkaraṇāt vā . atha vā ḍit ayam śabdaḥ kariṣyate . saḥ tarhi ḍakāraḥ kartavyaḥ . na kartavyaḥ . kriyate nyāse eva . dviḍakāraḥ nirdeśaḥ adḍ ḍatarādibhyaḥ iti . evam api lopaḥ prāpnoti . vihitaviśeṣaṇam hrasvagrahaṇam . yasmāt hrasvāt sambuddhiḥ vihitā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४९।१-१० रो इव्।३८३-३८४ अपृक्तसम्बुद्धिलोपाभ्याम् लुक् । अपृक्तसम्बुद्धिलोपाभ्याम् लुक् भवति विप्रतिषेधेन । अपृक्तलोपस्य अवकाशः गोमान् , यवमान् । लुकः अवकाशः त्रपु, जतु । इह उभयम् प्राप्नोति । तत् ब्राह्मणकुलम् , यत् ब्राह्मणकुलम् । सम्बुद्धिलोपस्य अवकाशः हे अग्ने, हे वायो । लुकः सः एव । इह उभयम् प्राप्नोति । हे त्रपु , हे जतु । लुक् भवति विप्रतिषेधेन । सः तर्हि विप्रतिषेधः वक्तव्यः । न वा लोपलुकोः लुगवधारणात् यथा अनडुह्यते इति । न वा अर्थः विप्रतिषेधेन । किम् कारणम् । लोपलुकोः लुगवधारणात् । लोपलुकोः हि लुक् अवधार्यते । लुक् लोपयणयवायावेकादेशेभ्यः । यथा अनडुह्यते इति । तत् यथा अनड्वान् इव आचरति अनडुह्यते इति अत्र लोपलुकोः लुक् अवधार्यते एवम् इह अपि ।

KA III.49.1-10 Ro IV.383-384 apṛktasambuddhilopābhyām luk . apṛktasambuddhilopābhyām luk bhavati vipratiṣedhena . apṛktalopasya avakāśaḥ gomān , yavamān . lukaḥ avakāśaḥ trapu, jatu . iha ubhayam prāpnoti . tat brāhmaṇakulam , yat brāhmaṇakulam . sambuddhilopasya avakāśaḥ he agne, he vāyo . lukaḥ saḥ eva . iha ubhayam prāpnoti . he trapu , he jatu . luk bhavati vipratiṣedhena . saḥ tarhi vipratiṣedhaḥ vaktavyaḥ . na vā lopalukoḥ lugavadhāraṇāt yathā anaḍuhyate iti . na vā arthaḥ vipratiṣedhena . kim kāraṇam . lopalukoḥ lugavadhāraṇāt . lopalukoḥ hi luk avadhāryate . luk lopayaṇayavāyāvekādeśebhyaḥ . yathā anaḍuhyate iti . tat yathā anaḍvān iva ācarati anaḍuhyate iti atra lopalukoḥ luk avadhāryate evam iha api .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४९।१२-१९ रो इव्।३८४ अयम् योगः शक्यः अवक्तुम् । कथम् अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् इति । पूर्वसवर्णेन अपि एतत् सिद्धम् । न सिध्यति । नुमा व्यवहितत्वात् पूर्वसवर्णः न प्राप्नोति । छन्दसि नपुंसकस्य पुंवद्भावः वक्तव्यः मधोः गृह्णाति , महोः तृप्ता इव आसते इति एवमर्थम् । तत्र पूंवद्भावेन नुमः निवृत्तिः । नुमि निवृत्ते पूर्वसवर्णेन सिद्धम् । भवेत् सिद्धम् अग्ने त्री ते वजिना त्री षधस्था इति । इदम् तु न सिध्यति त ता पिण्डानाम् इति । इदम् अपि सिद्धम् । कथम् । साप्तमिके पूर्वसवर्णे कृते पुनः षाष्ठिकः भविष्यति । एवम् अपि जसि गुणः प्राप्नोति । वक्ष्यति एतत् । जसादिषु छन्दोवावचनम् प्राक् णौ चङि उपधायाः इति ।

KA III.49.12-19 Ro IV.384 ayam yogaḥ śakyaḥ avaktum . katham agne trī te vajinā trī sadhasthā , ta tā piṇḍānām iti . pūrvasavarṇena api etat siddham . na sidhyati . numā vyavahitatvāt pūrvasavarṇaḥ na prāpnoti . chandasi napuṃsakasya puṃvadbhāvaḥ vaktavyaḥ madhoḥ gṛhṇāti , mahoḥ tṛptā iva āsate iti evamartham . tatra pūṃvadbhāvena numaḥ nivṛttiḥ . numi nivṛtte pūrvasavarṇena siddham . bhavet siddham agne trī te vajinā trī ṣadhasthā iti . idam tu na sidhyati ta tā piṇḍānām iti . idam api siddham . katham . sāptamike pūrvasavarṇe kṛte punaḥ ṣāṣṭhikaḥ bhaviṣyati . evam api jasi guṇaḥ prāpnoti . vakṣyati etat . jasādiṣu chandovāvacanam prāk ṇau caṅi upadhāyāḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४९।२१-५१।६ रो इव्।३८५-३८६ तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च । तुकि पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च न सिध्यति । आराशस्त्रि छत्रम् , धानाशष्कुलि छत्रम् । निष्कौशाम्बि छत्रम् , निर्वाराणसि छत्रम् । पञ्चारत्नि छत्रम् , दशारत्नि छत्रम् । तुके कृते अनन्त्यत्वात् एते विधयः न प्राप्नुवन्ति । न वा बहिरङ्गलक्षणत्वात् । न वा एषः दोषः । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणः तुक् । अन्तरङ्गाः एते विधयः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । इदम् तर्हि ग्रामणिपुत्रः , सेनानिपुत्रः इति ह्रस्वत्वे कृते तुक् प्राप्नोति । ग्रामणिपुत्रादिषु च अप्राप्तिः । ग्रामणिपुत्रादिषु च अप्राप्तिः । किम् कारणम् । बहिरङ्गलक्षणत्वात् एव । अथ वा परादिः करिष्यते । परादौ संयोगादेः इति अतिप्रसङ्गः । परादौ संयोगादेः इति अतिप्रसङ्गः भवति । अपच्छायात् । वा अन्यस्य संयोगादेः इति एत्वम् प्रसज्येत । विलोपवचनम् च । वेः च लोपः वक्तव्यः । अग्निचित् , सोमसुत् । अपृक्तस्य इति वेः लोपः न प्राप्नोति । न एषः दोषः । अपृक्तग्रहणम् न करिष्यते । यदि न क्रियते दर्विः , जागृविः , अत्र अपि प्राप्नोति । अनुनासिकपरस्य विशब्दस्य ग्रहणम् शुद्धपरः च अत्र विशब्दः । एवम् अपि सतुक्कस्य लोपः प्राप्नोति । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति । इट्प्रतिषेधः च । इट्प्रतिषेधः च वक्तव्यः । परीतत् । सतुक्कस्य वलादिलक्षणः इट् प्रसज्येत । एवम् तर्हि अभक्तः । अभक्ते स्वरः । यदि अभक्तः तर्हि स्वरे दोषः भवति । दधि छादयति , मधु छादयति । तिङ् अतिङः इति निघातः न प्राप्नोति । ननु च तुक् एव अतिङ् । न तुकः परस्य निघातः प्राप्नोति । किम् कारणम् । नञिवयुक्तम् अन्यसदृशाधिकरणे । तथा हि अर्थगतिः । नञ्युक्ते इवयुक्ते वा अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते । तथा हि अर्थः गम्यते । तत् यथा । अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् एव आनयति । न असौ लोष्टम् आनीय कृती भवति । एवम् इह अपि अतिङ् इति तिङ्प्रतिषेधात् अन्यस्मात् अतिङः तिङ्सदृशात् कार्यम् विज्ञास्यते । किम् च अन्यत् अतिङ् तिङ्सदृशम् । पदम् ।

KA III.49.21-51.6 Ro IV.385-386 tuki pūrvānte napuṃsakopasarjanahrasvatvam dvigusvaraḥ ca . tuki pūrvānte napuṃsakopasarjanahrasvatvam dvigusvaraḥ ca na sidhyati . ārāśastri chatram , dhānāśaṣkuli chatram . niṣkauśāmbi chatram , nirvārāṇasi chatram . pañcāratni chatram , daśāratni chatram . tuke kṛte anantyatvāt ete vidhayaḥ na prāpnuvanti . na vā bahiraṅgalakṣaṇatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgalakṣaṇaḥ tuk . antaraṅgāḥ ete vidhayaḥ . asiddham bahiraṅgam antaraṅge . idam tarhi grāmaṇiputraḥ , senāniputraḥ iti hrasvatve kṛte tuk prāpnoti . grāmaṇiputrādiṣu ca aprāptiḥ . grāmaṇiputrādiṣu ca aprāptiḥ . kim kāraṇam . bahiraṅgalakṣaṇatvāt eva . atha vā parādiḥ kariṣyate . parādau saṃyogādeḥ iti atiprasaṅgaḥ . parādau saṃyogādeḥ iti atiprasaṅgaḥ bhavati . apacchāyāt . vā anyasya saṃyogādeḥ iti etvam prasajyeta . vilopavacanam ca . veḥ ca lopaḥ vaktavyaḥ . agnicit , somasut . apṛktasya iti veḥ lopaḥ na prāpnoti . na eṣaḥ doṣaḥ . apṛktagrahaṇam na kariṣyate . yadi na kriyate darviḥ , jāgṛviḥ , atra api prāpnoti . anunāsikaparasya viśabdasya grahaṇam śuddhaparaḥ ca atra viśabdaḥ . evam api satukkasya lopaḥ prāpnoti . nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . iṭpratiṣedhaḥ ca . iṭpratiṣedhaḥ ca vaktavyaḥ . parītat . satukkasya valādilakṣaṇaḥ iṭ prasajyeta . evam tarhi abhaktaḥ . abhakte svaraḥ . yadi abhaktaḥ tarhi svare doṣaḥ bhavati . dadhi chādayati , madhu chādayati . tiṅ atiṅaḥ iti nighātaḥ na prāpnoti . nanu ca tuk eva atiṅ . na tukaḥ parasya nighātaḥ prāpnoti . kim kāraṇam . nañivayuktam anyasadṛśādhikaraṇe . tathā hi arthagatiḥ . nañyukte ivayukte vā anyasmin tatsadṛśe kāryam vijñāyate . tathā hi arthaḥ gamyate . tat yathā . abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam eva ānayati . na asau loṣṭam ānīya kṛtī bhavati . evam iha api atiṅ iti tiṅpratiṣedhāt anyasmāt atiṅaḥ tiṅsadṛśāt kāryam vijñāsyate . kim ca anyat atiṅ tiṅsadṛśam . padam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५१।८-११ रो इव्।३८७-३८८ अयम् योगः शक्यः अवक्तुम् । कथम् । अधिकरणम् नाम त्रिप्रकारम् व्यापकम् औपश्लेषिकम् वैषयिकम् इति । शब्दस्य च शब्देन कः अन्यः अभिसम्बन्धः भवितुम् अर्हति अन्यत् अतः उपश्लेषात् । इकः यण् अचि । अचि उपश्लिष्टस्य इति । तत्र अन्तरेण संहिताग्रहणम् संहितायाम् एव भविष्यति ।

KA III.51.8-11 Ro IV.387-388 ayam yogaḥ śakyaḥ avaktum . katham . adhikaraṇam nāma triprakāram vyāpakam aupaśleṣikam vaiṣayikam iti . śabdasya ca śabdena kaḥ anyaḥ abhisambandhaḥ bhavitum arhati anyat ataḥ upaśleṣāt . ikaḥ yaṇ aci . aci upaśliṣṭasya iti . tatra antareṇa saṃhitāgrahaṇam saṃhitāyām eva bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५१।१३-१७ रो इव्।३८८ अथ किमर्थम् आङ्माङोः सानुबन्धकयोः निर्देशः । आङ्माङोः सानुबन्धकनिर्देशः गतिकर्मप्रवचनीयप्रतिषेधसम्प्रत्ययार्थः । आङ्माङोः सानुबन्धकयोः निर्देशः क्रियते आङः गतिकर्मप्रवचनीयसम्प्रत्ययार्थः माङः प्रतिषेधसम्प्रत्ययार्थः । इह मा भूत् । आ छाया, आच् छाया । प्रमा छन्दः , प्रमाच् छन्दः ।

KA III.51.13-17 Ro IV.388 atha kimartham āṅmāṅoḥ sānubandhakayoḥ nirdeśaḥ . āṅmāṅoḥ sānubandhakanirdeśaḥ gatikarmapravacanīyapratiṣedhasampratyayārthaḥ . āṅmāṅoḥ sānubandhakayoḥ nirdeśaḥ kriyate āṅaḥ gatikarmapravacanīyasampratyayārthaḥ māṅaḥ pratiṣedhasampratyayārthaḥ . iha mā bhūt . ā chāyā, āc chāyā . pramā chandaḥ , pramāc chandaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५१।२०-२२ रो इव्।३८९ दीर्घात् पदान्तात् वा विश्वजनादीनाम् छन्दसि । दीर्घात् पदान्तात् वा इति अत्र विश्वजनादीनाम् छन्दसि उपसङ्ख्यनम् कर्तव्यम् । विश्वजनस्य छत्रम् , विश्वजनस्य च्छत्रम् । न छायाम् कुरवः अपराम् , नच् छायाम् कुरवः अपराम् ।

KA III.51.20-22 Ro IV.389 dīrghāt padāntāt vā viśvajanādīnām chandasi . dīrghāt padāntāt vā iti atra viśvajanādīnām chandasi upasaṅkhyanam kartavyam . viśvajanasya chatram , viśvajanasya cchatram . na chāyām kuravaḥ aparām , nac chāyām kuravaḥ aparām .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५२।२-५३।६ रो इव्।३८९-३९१ इग्ग्रहणम् किमर्थम् । इह मा भूत् । अग्निचित् अत्र , सोमसुत् अत्र । न एतत् अस्ति प्रयोजनम् । जश्त्वम् अत्र बाधकम् भविष्यति । जश्त्वम् न सिद्धम् यणम् अत्र पश्य । असिद्धम् अत्र जश्त्वम् । तस्य असिद्धत्वात् यणादेशः प्राप्नोति । यः च अपदान्तः हल् अचः च पूर्वः । यः च अपदान्तः हल् अचः च पूर्वः तस्य प्राप्नोति । पचति इति । एवम् तर्हि दीर्घस्य यण् । दीर्घस्य यण् आदेशम् वक्ष्यामि । तत् दीर्घग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । दीर्घात् पदान्तात् वा इति । तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । अचि इति एषा सप्तमी दीर्घात् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति । भवेत् सिद्धम् कुमारी अत्र , ब्रह्मबन्ध्वर्थम् इति । इदम् तु न सिध्यति । दधि अत्र , मधु अत्र इति । ह्रस्वः इति प्र्तवृत्तम् । ह्रस्वग्रहणम् अपि प्रकृतम् अनुवर्तते । क्व प्रकृतम् । ह्रस्व्यस्य पिति कृति तुक् इति । यदि तत् अनुवर्तते दीर्घात् पदान्तात् वा इति ह्रस्वात् अपि पदान्तात् विकल्पेन प्राप्नोति । सम्बन्धवृत्त्या । सम्बन्धम् अनुवर्तिष्यते । ह्रस्व्यस्य पिति कृति तुक् । संहितायाम् ह्रस्व्यस्य पिति कृति तुक् । छे च ह्रस्व्यस्य पिति कृति तुक् । आङ्माङोः च ह्रस्व्यस्य पिति कृति तुक् । दीर्घात् पदान्तात् वा ह्रस्व्यस्य पिति कृति तुक् । ततः इकः यण् अचि । ह्रस्व्यस्य इति वर्तते । पिति कृति तुक् इति निवृत्तम् । इह तर्हि प्राप्नोति चयनम् , चायकः , लवणम् , लावकः । अयादयः अत्र बाधकाः भविष्यन्ति । इह तर्हि प्राप्नोति खट्वा इन्द्रः , माला इन्द्रः , खट्वा एलका , माला एलका । गुणवृद्धिबाध्यः । गुणवृद्धी अत्र बाधिके भविष्यतः । इदम् तर्हि प्रयोजनम् । इकः अचि यण् एव स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति । किम् च अन्यत् प्राप्नोति । शाकलम् । सिन्नित्यसमासयोः शाकलप्रतिषेधम् चोदयिष्यति । स न वक्तव्यः भवति ।

KA III.52.2-53.6 Ro IV.389-391 iggrahaṇam kimartham . iha mā bhūt . agnicit atra , somasut atra . na etat asti prayojanam . jaśtvam atra bādhakam bhaviṣyati . jaśtvam na siddham yaṇam atra paśya . asiddham atra jaśtvam . tasya asiddhatvāt yaṇādeśaḥ prāpnoti . yaḥ ca apadāntaḥ hal acaḥ ca pūrvaḥ . yaḥ ca apadāntaḥ hal acaḥ ca pūrvaḥ tasya prāpnoti . pacati iti . evam tarhi dīrghasya yaṇ . dīrghasya yaṇ ādeśam vakṣyāmi . tat dīrghagrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . dīrghāt padāntāt vā iti . tat vai pañcamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . aci iti eṣā saptamī dīrghāt iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . bhavet siddham kumārī atra , brahmabandhvartham iti . idam tu na sidhyati . dadhi atra , madhu atra iti . hrasvaḥ iti prtavṛttam . hrasvagrahaṇam api prakṛtam anuvartate . kva prakṛtam . hrasvyasya piti kṛti tuk iti . yadi tat anuvartate dīrghāt padāntāt vā iti hrasvāt api padāntāt vikalpena prāpnoti . sambandhavṛttyā . sambandham anuvartiṣyate . hrasvyasya piti kṛti tuk . saṃhitāyām hrasvyasya piti kṛti tuk . che ca hrasvyasya piti kṛti tuk . āṅmāṅoḥ ca hrasvyasya piti kṛti tuk . dīrghāt padāntāt vā hrasvyasya piti kṛti tuk . tataḥ ikaḥ yaṇ aci . hrasvyasya iti vartate . piti kṛti tuk iti nivṛttam . iha tarhi prāpnoti cayanam , cāyakaḥ , lavaṇam , lāvakaḥ . ayādayaḥ atra bādhakāḥ bhaviṣyanti . iha tarhi prāpnoti khaṭvā indraḥ , mālā indraḥ , khaṭvā elakā , mālā elakā . guṇavṛddhibādhyaḥ . guṇavṛddhī atra bādhike bhaviṣyataḥ . idam tarhi prayojanam . ikaḥ aci yaṇ eva syāt . yat anyat prāpnoti tat mā bhūt iti . kim ca anyat prāpnoti . śākalam . sinnityasamāsayoḥ śākalapratiṣedham codayiṣyati . sa na vaktavyaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५३।७-५४।४ रो इव्।३९१-३९३ यणादेशः प्लुतपूर्वस्य च । यणादेशः प्लुतपूर्वस्य च इति वक्तव्यम् । अग्ना३इ* इन्द्रम् , अग्ना३य् इन्द्रम् , पटा३उ* उदकम् , पटा३व् उदकम् , अग्ना३इ* आशा , अग्ना३य् आशा , पटा३उ* आशा , पटा३व् आशा । किम् पुनः कारणम् न सिध्यति । असिद्धः प्लुतः प्लुतविकारौ च इमौ । सिद्धः प्लुतः स्वरसन्धिषु । कथम् ज्ञायते । यत् अयम् प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावम् शास्ति तत् ज्ञापयति आचार्यः सिद्धः प्लुतः स्वरसन्धिषु इति । कथम् कृत्वा ज्ञापकम् । सतः हि कार्यिणः कार्येण भवितव्यम् । इदम् तर्हि प्रयोजनम् दीर्घशाकलप्रतिषेधार्थम् । दीर्घत्वम् शाकलम् च मा भूत् इति । एतत् अपि न अस्ति प्रयोजनम् । आरभ्यते प्लुतपूर्वस्य यणादेशः तयोः य्वौ अचि संहितायाम् इति । तत् दीर्घशाकलप्रतिषेधार्थम् भविष्यति । तत् न वक्तव्यम् भवति । ननु च तस्मिन् अपि उच्यमाने इदम् न वक्तव्यम् भवति । अवश्यम् इदम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् । भो३इ इन्द्रम् , भो३य् इन्द्रम् , भो३इ इह भो३य् इह इति । यद् तर्हि अस्य निबन्धनम् अस्ति इदम् एव वक्तव्यम् । तत् न वक्तव्यम् । तत् अपि अवश्यम् स्वरार्थम् वक्तव्यम् । अनेन हि सति उदात्तस्वरितयोः यणः इति एषः स्वरः प्रसज्येत । तेन पुनः सति असिद्धत्वात् न भविष्यति । यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् । इदम् न वक्तव्यम् । ननु च उक्तम् इदम् अपि अवश्यम् वक्तव्यम् यौ प्लुतपूर्वौ इदुतौ अप्लुतविकारौ तदर्थम् । भो३इ इन्द्रम् , भो३य् इन्द्रम् , भो३इ इह भो३य् इह इति । छान्दसम् एतत् दृष्टानुविधिः छन्दसि भवति । यत् तर्हि न छान्दसम् भो३य् इन्द्रम् , भो३य् इह इति साम गायति । एषः अपि छन्दसि दृष्टस्य अनुप्रयोगः क्रियते । जश्त्वम् न सिद्धम् यणम् अत्र पश्य । यः च अपदान्तः हल् अचः च पूर्वः । दीर्घस्य यण् । ह्रस्वः इति प्र्तवृत्तम् । सम्बन्धवृत्त्या । गुणवृद्धिबाध्यः । नित्ये च यः शाकलभाक्समासे तदर्थम् एतद् भगवान् चकार । सामर्थ्ययोगात् न हि किम् चित् अस्मिन् पश्यामि शास्त्रे यत् अनर्थकम् स्यात् ।

KA III.53.7-54.4 Ro IV.391-393 yaṇādeśaḥ plutapūrvasya ca . yaṇādeśaḥ plutapūrvasya ca iti vaktavyam . agnā3i* indram , agnā3y indram , paṭā3u* udakam , paṭā3v udakam , agnā3i* āśā , agnā3y āśā , paṭā3u* āśā , paṭā3v āśā . kim punaḥ kāraṇam na sidhyati . asiddhaḥ plutaḥ plutavikārau ca imau . siddhaḥ plutaḥ svarasandhiṣu . katham jñāyate . yat ayam plutapragṛhyāḥ aci iti plutasya prakṛtibhāvam śāsti tat jñāpayati ācāryaḥ siddhaḥ plutaḥ svarasandhiṣu iti . katham kṛtvā jñāpakam . sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam . idam tarhi prayojanam dīrghaśākalapratiṣedhārtham . dīrghatvam śākalam ca mā bhūt iti . etat api na asti prayojanam . ārabhyate plutapūrvasya yaṇādeśaḥ tayoḥ yvau aci saṃhitāyām iti . tat dīrghaśākalapratiṣedhārtham bhaviṣyati . tat na vaktavyam bhavati . nanu ca tasmin api ucyamāne idam na vaktavyam bhavati . avaśyam idam vaktavyam yau plutapūrvau idutau aplutavikārau tadartham . bho3i indram , bho3y indram , bho3i iha bho3y iha iti . yad tarhi asya nibandhanam asti idam eva vaktavyam . tat na vaktavyam . tat api avaśyam svarārtham vaktavyam . anena hi sati udāttasvaritayoḥ yaṇaḥ iti eṣaḥ svaraḥ prasajyeta . tena punaḥ sati asiddhatvāt na bhaviṣyati . yadi tarhi tasya nibandhanam asti tat eva vaktavyam . idam na vaktavyam . nanu ca uktam idam api avaśyam vaktavyam yau plutapūrvau idutau aplutavikārau tadartham . bho3i indram , bho3y indram , bho3i iha bho3y iha iti . chāndasam etat dṛṣṭānuvidhiḥ chandasi bhavati . yat tarhi na chāndasam bho3y indram , bho3y iha iti sāma gāyati . eṣaḥ api chandasi dṛṣṭasya anuprayogaḥ kriyate . jaśtvam na siddham yaṇam atra paśya . yaḥ ca apadāntaḥ hal acaḥ ca pūrvaḥ . dīrghasya yaṇ . hrasvaḥ iti prtavṛttam . sambandhavṛttyā . guṇavṛddhibādhyaḥ . nitye ca yaḥ śākalabhāksamāse tadartham etad bhagavān cakāra . sāmarthyayogāt na hi kim cit asmin paśyāmi śāstre yat anarthakam syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५४।६-१६ रो इव्।३९३-३९४ वान्तादेशे स्थानिनिर्देशः । वान्तादेशे स्थानिनिर्देशः कर्तव्यः । ओकारौकारयोः इति वक्तव्यम् एकारैकारयोः मा भूत् इति । सः तर्हि कर्तव्यः । न कर्तव्यः । वान्तग्रहणम् न करिष्यते । एचः यि प्रत्यये अयादयः भवन्ति इति एव सिद्धम् । यदि वान्तग्रहणम् न क्रियते चेयम् , जेयम् इति अत्र अपि प्राप्नोति । क्षय्यजय्यौ शक्यार्थे इति एतत् नियमार्थम् भविष्यति । क्षिज्योः एव इति । तयोः तर्हि शक्यार्थात् अन्यत्र अपि प्राप्नोति । क्षेयम् पापम् , जेयः वृषलः इति । उभयतः नियमः विज्ञास्यते । क्षिज्योः एव एचः तयोः च शक्यार्थे एव इति । इह अपि तर्हि नियमात् न प्राप्नोति । लव्यम् , पव्यम् , अवश्यलाव्यम् , अवश्यपाव्यम् । तुल्यजातीयस्य नियमः । कः च तुल्यजातीयः । यथाजातीयकः क्षिज्योः एच् । कथञ्जातीयकः क्षिज्योः एच् । एकारः । एवम् अपि रायम् इच्छति , रैयति , अत्र अपि प्राप्नोति । रायिः छान्दसः । दृष्टानुविधिः छन्दसि भवति ।

KA III.54.6-16 Ro IV.393-394 vāntādeśe sthāninirdeśaḥ . vāntādeśe sthāninirdeśaḥ kartavyaḥ . okāraukārayoḥ iti vaktavyam ekāraikārayoḥ mā bhūt iti . saḥ tarhi kartavyaḥ . na kartavyaḥ . vāntagrahaṇam na kariṣyate . ecaḥ yi pratyaye ayādayaḥ bhavanti iti eva siddham . yadi vāntagrahaṇam na kriyate ceyam , jeyam iti atra api prāpnoti . kṣayyajayyau śakyārthe iti etat niyamārtham bhaviṣyati . kṣijyoḥ eva iti . tayoḥ tarhi śakyārthāt anyatra api prāpnoti . kṣeyam pāpam , jeyaḥ vṛṣalaḥ iti . ubhayataḥ niyamaḥ vijñāsyate . kṣijyoḥ eva ecaḥ tayoḥ ca śakyārthe eva iti . iha api tarhi niyamāt na prāpnoti . lavyam , pavyam , avaśyalāvyam , avaśyapāvyam . tulyajātīyasya niyamaḥ . kaḥ ca tulyajātīyaḥ . yathājātīyakaḥ kṣijyoḥ ec . kathañjātīyakaḥ kṣijyoḥ ec . ekāraḥ . evam api rāyam icchati , raiyati , atra api prāpnoti . rāyiḥ chāndasaḥ . dṛṣṭānuvidhiḥ chandasi bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५४।१७-२२ रो इव्। ३९४ गोः यूतौ छन्दसि । गोः यूतौ छन्दसि उपसङ्ख्यानम् कर्तव्यम् । अ नः मित्रावरुणा घृतैः गव्यूतिम् उक्षतम् । गोयूतिम् इति एव अन्यत्र । अध्वपरिमाणे च । अध्वपरिमाणे च गोः यूतौ उपसङ्ख्यानम् कर्तव्यम् । गव्यूतिम् अध्वानम् गतः । गोयूतिम् इति एव अन्यत्र ।

KA III.54.17-22 Ro IV. 394 goḥ yūtau chandasi . goḥ yūtau chandasi upasaṅkhyānam kartavyam . a naḥ mitrāvaruṇā ghṛtaiḥ gavyūtim ukṣatam . goyūtim iti eva anyatra . adhvaparimāṇe ca . adhvaparimāṇe ca goḥ yūtau upasaṅkhyānam kartavyam . gavyūtim adhvānam gataḥ . goyūtim iti eva anyatra .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५४।२४-५५।२ रो इव्।३९४ एवकारः किमर्थः । नियमार्थः । न एतत् प्रयोजनम् । न एतत् अस्ति प्रयोजनम् । सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थङ् भविष्यति । इष्टतः अवधारणार्थः तर्हि । यथा एवम् विज्ञायेत । धातोः तन्निमित्तस्य एव इति । मा एवम् विज्ञायि । धातोः एव तन्निमित्तस्य इति । किम् च स्यात् । अधातोः तन्निमित्तस्य न स्यात् । शङ्कव्यम् दारु , पिचव्यः कार्पासः इति ।

KA III.54.24-55.2 Ro IV.394 evakāraḥ kimarthaḥ . niyamārthaḥ . na etat prayojanam . na etat asti prayojanam . siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamārthaṅ bhaviṣyati . iṣṭataḥ avadhāraṇārthaḥ tarhi . yathā evam vijñāyeta . dhātoḥ tannimittasya eva iti . mā evam vijñāyi . dhātoḥ eva tannimittasya iti . kim ca syāt . adhātoḥ tannimittasya na syāt . śaṅkavyam dāru , picavyaḥ kārpāsaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५५।४-५ रो इव्।३९५ तत् इति अनेन किम् प्रतिनिर्दिश्यते । सः एव क्रीणात्यर्थः । इह मा भूत् । क्रेयम् नः धान्यम् । न च अस्ति क्रय्यम् इति ।

KA III.55.4-5 Ro IV.395 tat iti anena kim pratinirdiśyate . saḥ eva krīṇātyarthaḥ . iha mā bhūt . kreyam naḥ dhānyam . na ca asti krayyam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५५।७-१७ रो इव्।३९५-३९६ भय्यादिप्रकरणे ह्रदय्याः उपसङ्ख्यानम् । भय्यादिप्रकरणे ह्रदय्याः उपसङ्ख्यानम् कर्तव्यम् । ह्रदय्याः आपः । अव् शरस्य च । शरस्य च ह्रदस्य च अतः अव् वक्तयः । ह्रदव्याः आपः । शरव्याः वै तेजनम् । शरव्यस्य पशून् अभिघातकः स्यात् । शरुवृत्तात् वा सिद्धम् । शरुवृत्तात् वा सिद्धम् पुनः सिद्धम् एतत् । ऋञ्जती शरुः इति अपि दृश्यते । ऋञ्जती शरुः इति अपि शरुशब्दप्रवृत्तिः दृश्यते । शरुहस्तः इति च लोके । शरुहस्तः इति च लोके शरहस्तम् उपाचरन्ति ।

KA III.55.7-17 Ro IV.395-396 bhayyādiprakaraṇe hradayyāḥ upasaṅkhyānam . bhayyādiprakaraṇe hradayyāḥ upasaṅkhyānam kartavyam . hradayyāḥ āpaḥ . av śarasya ca . śarasya ca hradasya ca ataḥ av vaktayaḥ . hradavyāḥ āpaḥ . śaravyāḥ vai tejanam . śaravyasya paśūn abhighātakaḥ syāt . śaruvṛttāt vā siddham . śaruvṛttāt vā siddham punaḥ siddham etat . ṛñjatī śaruḥ iti api dṛśyate . ṛñjatī śaruḥ iti api śaruśabdapravṛttiḥ dṛśyate . śaruhastaḥ iti ca loke . śaruhastaḥ iti ca loke śarahastam upācaranti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५६।२-५७।६ रो इव्।३९६-३९८ एकवचनम् किमर्थम् । एकवचनम् पृथक् आदेशप्रतिषेधार्थम् । एकवचनम् क्रियते एकः आदेशः यथा स्यात् । पृथक् आदेशः मा भूत् इति । न वा द्रव्यवत् कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तेः । न वा एतत् प्रयोजनम् अस्ति । किम् कारणम् । द्रव्यवत् कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तेः एकः आदेशः भविष्यति । तत् यथा द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति । अनयोः पूलयोः कटम् कुरु । अनयोः मित्पिण्डयोः घटम् कुरु इति । न च उच्यते एकम् इति एकम् च असौ करोति । किम् पुनः कारणम् द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति । तत् च एकवाक्यभावात् । एकवाक्यभावात् द्रव्येषु कर्मचोदनायाम् द्वयोः एकस्य अभिनिर्वृत्तिः भवति । आतः च एकवाक्यभावात् । व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति । ज्वरत्वरस्रिव्यविमवाम् उपधायाः च । भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति । यत् तावत् उच्यते एकवाक्यभावात् इति तत् न । अर्थात् प्रकरणात् वा लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति । आतः च अर्थात् प्रकरणात् वा । व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः । रदाभ्याम् निष्ठातः नः पूर्वस्य च दः । उभौ साभ्यासस्य इति । कथम् यत् तत् उक्तम् व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः एकः आदेशः भवति । ज्वरत्वरस्रिव्यविमवाम् उपधायाः च । भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति । इह तावत् ज्वरत्वरस्रिव्यविमवाम् उपधायाः च इति । स्ताम् द्वौ ऊठौ । न अस्ति दोषः । सवर्णदीर्घत्वेन सिद्धम् । इह भ्रस्जः रोपधयोः रम् अन्यतरस्याम् इति । वक्ष्यति हि एतत् । भ्रस्जः रोपधयोः लोपः आगमः रम् विधीयते इति । यत् उच्यते अर्थात् प्रकरणात् वा इति तत् न । किम् कारणम् । एकवाक्यभावात् एव लोके द्वयोः एकस्य अभिनिर्वृत्तिः भवति । आतः च एकवाक्यभावात् । अङ्ग हि भवान् ग्राम्यम् पांसुलपादम् अप्रकरणज्ञम् आगतम् ब्रवीतु अनयोः पूलयोः कटम् कुरु । अनयोः मित्पिण्डयोः घटम् कुरु इति । एकम् एव असौ करिष्यति । कथम् यत् उक्तम् व्याकरणे अपि हि अन्यत्र द्वयोः स्थानिनोः द्वौ आदेशौ भवतः । रदाभ्याम् निष्ठातः नः पूर्वस्य च दः । उभौ साभ्यासस्य इति । इह तावत् रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति द्वे वाक्ये । कथम् । योगविभागः करिष्यते । रदाभ्याम् निष्ठातः नः । ततः पूर्वस्य च दः इति । इह उभौ साभ्यासस्य इति उभौग्रहणसामर्थ्यात् द्वौ आदेशौ भविष्यतः ।

KA III.56.2-57.6 Ro IV.396-398 ekavacanam kimartham . ekavacanam pṛthak ādeśapratiṣedhārtham . ekavacanam kriyate ekaḥ ādeśaḥ yathā syāt . pṛthak ādeśaḥ mā bhūt iti . na vā dravyavat karmacodanāyām dvayoḥ ekasya abhinirvṛtteḥ . na vā etat prayojanam asti . kim kāraṇam . dravyavat karmacodanāyām dvayoḥ ekasya abhinirvṛtteḥ ekaḥ ādeśaḥ bhaviṣyati . tat yathā dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati . anayoḥ pūlayoḥ kaṭam kuru . anayoḥ mitpiṇḍayoḥ ghaṭam kuru iti . na ca ucyate ekam iti ekam ca asau karoti . kim punaḥ kāraṇam dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati . tat ca ekavākyabhāvāt . ekavākyabhāvāt dravyeṣu karmacodanāyām dvayoḥ ekasya abhinirvṛttiḥ bhavati . ātaḥ ca ekavākyabhāvāt . vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ ekaḥ ādeśaḥ bhavati . jvaratvarasrivyavimavām upadhāyāḥ ca . bhrasjaḥ ropadhayoḥ ram anyatarasyām iti . yat tāvat ucyate ekavākyabhāvāt iti tat na . arthāt prakaraṇāt vā loke dvayoḥ ekasya abhinirvṛttiḥ bhavati . ātaḥ ca arthāt prakaraṇāt vā . vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ dvau ādeśau bhavataḥ . radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ . ubhau sābhyāsasya iti . katham yat tat uktam vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ ekaḥ ādeśaḥ bhavati . jvaratvarasrivyavimavām upadhāyāḥ ca . bhrasjaḥ ropadhayoḥ ram anyatarasyām iti . iha tāvat jvaratvarasrivyavimavām upadhāyāḥ ca iti . stām dvau ūṭhau . na asti doṣaḥ . savarṇadīrghatvena siddham . iha bhrasjaḥ ropadhayoḥ ram anyatarasyām iti . vakṣyati hi etat . bhrasjaḥ ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti . yat ucyate arthāt prakaraṇāt vā iti tat na . kim kāraṇam . ekavākyabhāvāt eva loke dvayoḥ ekasya abhinirvṛttiḥ bhavati . ātaḥ ca ekavākyabhāvāt . aṅga hi bhavān grāmyam pāṃsulapādam aprakaraṇajñam āgatam bravītu anayoḥ pūlayoḥ kaṭam kuru . anayoḥ mitpiṇḍayoḥ ghaṭam kuru iti . ekam eva asau kariṣyati . katham yat uktam vyākaraṇe api hi anyatra dvayoḥ sthāninoḥ dvau ādeśau bhavataḥ . radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ . ubhau sābhyāsasya iti . iha tāvat radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ iti dve vākye . katham . yogavibhāgaḥ kariṣyate . radābhyām niṣṭhātaḥ naḥ . tataḥ pūrvasya ca daḥ iti . iha ubhau sābhyāsasya iti ubhaugrahaṇasāmarthyāt dvau ādeśau bhaviṣyataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५७।७-५८।१७ रो इव्।३९९-४०२ तत्र अवयवे शास्त्रार्थसम्प्रत्ययः यथा लोके टत्र अवयवे शास्त्रार्थसम्प्रत्ययः प्राप्नोति यथा लोके । तत् यथा लोके । वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति सकृत् उपनीय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेत् इति सकृत् उपस्पृश्य कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । एवम् इह अपि खट्वेन्द्रे कृतः शास्त्रार्थः इति कृत्वा मालेन्द्रादिषु न स्यात् । सिद्धम् तु धर्मोपदेशने अनवयवविज्ञानात् यथा लौकिकवैदिकेषु । सिद्धम् एतत् । कथम् । धर्मोपदेशनम् इदम् शास्त्रम् । धर्मोपदेशने च अस्मिन् शास्त्रे अनवयवेन शास्त्रार्थः सम्प्रतीयते यथा लौकिकेषु वैदिकेषु च कृतान्तेषु । लोके तावत् : ब्राह्मणः न हन्तव्यः । सुरा न पेया इति । ब्राह्मणमात्रम् न हन्यते सुरामात्रम् च न पीयते । यदि च अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् एकम् च ब्राह्मणम् अहत्वा एकाम् च सुराम् अपीत्वा अन्यत्र कामचारः स्यात् । तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति पूर्ववयोमात्रम् प्रत्युत्थीयते । यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् एकम् पूर्ववयसम् प्रत्युत्थाय अन्यत्र कामचारः स्यात् । तथा वेदे खलु अपि । वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते । यदि अवयवेन शास्त्रार्थसम्प्रत्ययः स्यात् सकृत् इष्ट्वा पुनः इज्या न प्रवर्तेत । उभयथा इह लोके दृश्यते । अवयवेन अपि शास्त्रार्थसम्प्रत्ययः अनवयवेन अपि । कथम् पुनः इदम् उभयम् लभ्यम् । लभ्यम् इति आह । कथम् । इह तावत् वसन्ते ब्राह्मणः अग्नीन् आदधीत इति । अग्न्याधानम् यज्ञमुखप्र्तिपत्त्यर्थम् । सकृत् आधाय कृतः शास्त्रार्थः प्रतिपन्नम् यज्ञम् इति कृत्वा पुनः प्रवृत्तिः न भवति । अतः अत्र अवयवेन शास्त्रार्थः सम्प्रतीयते । तथा गर्भाष्टमे ब्राह्मणः उपनेयः इति । उपनयनम् संस्कारार्थम् । सकृत् च असौ उपनीतः संस्कृतः भवति । अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते । तथा त्रिः हृदयङ्गमाभिः अद्भिः अशब्दाभिः उपस्पृशेत् इति । उपस्पर्शनम् शौचार्थम् । सकृत् च असौ उपस्पृश्य शुचिः भवति । अतः अत्र अपि अवयवेन शास्त्रार्थः सम्प्रतीयते । इह इदानीम् ब्राह्मणः न हन्तव्यः । सुरा न पेया इति । ब्राह्मणवधे सुरापाने च महान् दोषः उक्तः । सः ब्राह्मणवधमात्रे सुरापानमात्रे च प्रसक्तः । अतः अत्र अनवयवेन शास्त्रार्थः सम्प्रतीयते । तथा पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः इति । पूर्ववयसः अप्रत्युत्थाने दोषः उक्तः प्रत्युत्थाने च गुणः । कथम् । ऊर्ध्वम् प्राणाः हि उत्क्रामन्ति यूनः स्थविरे आयति । प्रत्युत्थानाभाभिवादाभ्याम् पुनः तान् प्रतिपद्यते इति । सः च प्रूर्ववयोमात्रे प्रसक्तः । अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते । तथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति इज्यायाः किम् चित् प्रयोजनम् उक्तम् । किम् । स्वर्गे लोके अप्सरसः एनम् जायाः भूत्वा उपशेरते इति । तत् च द्वितीयस्याः तृतीयस्याः च इज्यायाः भवितुम् अर्हति । अतः अत्र अपि अनवयवेन शास्त्रार्थः सम्प्रतीयते । तथा शब्दस्य अपि ज्ञाने प्रयोगे प्रयोजनम् उक्तम् । किम् । एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति इति । यदि एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति किमर्थम् द्वितीयः तृतीयः च प्रयुज्यते । न वै कामानाम् तृप्तिः अस्ति ।

KA III.57.7-58.17 Ro IV.399-402 tatra avayave śāstrārthasampratyayaḥ yathā loke ṭatra avayave śāstrārthasampratyayaḥ prāpnoti yathā loke . tat yathā loke . vasante brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . tathā garbhāṣṭame brāhmaṇaḥ upaneyaḥ iti sakṛt upanīya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . tathā triḥ hṛdayaṅgamābhiḥ adbhiḥ aśabdābhiḥ upaspṛśet iti sakṛt upaspṛśya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . evam iha api khaṭvendre kṛtaḥ śāstrārthaḥ iti kṛtvā mālendrādiṣu na syāt . siddham tu dharmopadeśane anavayavavijñānāt yathā laukikavaidikeṣu . siddham etat . katham . dharmopadeśanam idam śāstram . dharmopadeśane ca asmin śāstre anavayavena śāstrārthaḥ sampratīyate yathā laukikeṣu vaidikeṣu ca kṛtānteṣu . loke tāvat : brāhmaṇaḥ na hantavyaḥ . surā na peyā iti . brāhmaṇamātram na hanyate surāmātram ca na pīyate . yadi ca avayavena śāstrārthasampratyayaḥ syāt ekam ca brāhmaṇam ahatvā ekām ca surām apītvā anyatra kāmacāraḥ syāt . tathā pūrvavayāḥ brāhmaṇaḥ pratyuttheyaḥ iti pūrvavayomātram pratyutthīyate . yadi avayavena śāstrārthasampratyayaḥ syāt ekam pūrvavayasam pratyutthāya anyatra kāmacāraḥ syāt . tathā vede khalu api . vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante vasante ijyate . yadi avayavena śāstrārthasampratyayaḥ syāt sakṛt iṣṭvā punaḥ ijyā na pravarteta . ubhayathā iha loke dṛśyate . avayavena api śāstrārthasampratyayaḥ anavayavena api . katham punaḥ idam ubhayam labhyam . labhyam iti āha . katham . iha tāvat vasante brāhmaṇaḥ agnīn ādadhīta iti . agnyādhānam yajñamukhaprtipattyartham . sakṛt ādhāya kṛtaḥ śāstrārthaḥ pratipannam yajñam iti kṛtvā punaḥ pravṛttiḥ na bhavati . ataḥ atra avayavena śāstrārthaḥ sampratīyate . tathā garbhāṣṭame brāhmaṇaḥ upaneyaḥ iti . upanayanam saṃskārārtham . sakṛt ca asau upanītaḥ saṃskṛtaḥ bhavati . ataḥ atra api avayavena śāstrārthaḥ sampratīyate . tathā triḥ hṛdayaṅgamābhiḥ adbhiḥ aśabdābhiḥ upaspṛśet iti . upasparśanam śaucārtham . sakṛt ca asau upaspṛśya śuciḥ bhavati . ataḥ atra api avayavena śāstrārthaḥ sampratīyate . iha idānīm brāhmaṇaḥ na hantavyaḥ . surā na peyā iti . brāhmaṇavadhe surāpāne ca mahān doṣaḥ uktaḥ . saḥ brāhmaṇavadhamātre surāpānamātre ca prasaktaḥ . ataḥ atra anavayavena śāstrārthaḥ sampratīyate . tathā pūrvavayāḥ brāhmaṇaḥ pratyuttheyaḥ iti . pūrvavayasaḥ apratyutthāne doṣaḥ uktaḥ pratyutthāne ca guṇaḥ . katham . ūrdhvam prāṇāḥ hi utkrāmanti yūnaḥ sthavire āyati . pratyutthānābhābhivādābhyām punaḥ tān pratipadyate iti . saḥ ca prūrvavayomātre prasaktaḥ . ataḥ atra api anavayavena śāstrārthaḥ sampratīyate . tathā vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti ijyāyāḥ kim cit prayojanam uktam . kim . svarge loke apsarasaḥ enam jāyāḥ bhūtvā upaśerate iti . tat ca dvitīyasyāḥ tṛtīyasyāḥ ca ijyāyāḥ bhavitum arhati . ataḥ atra api anavayavena śāstrārthaḥ sampratīyate . tathā śabdasya api jñāne prayoge prayojanam uktam . kim . ekaḥ śabdaḥ samyak jñātaḥ śāstrānvitaḥ suprayuktaḥ svarge loke kāmadhuk bhavati iti . yadi ekaḥ śabdaḥ samyak jñātaḥ śāstrānvitaḥ suprayuktaḥ svarge loke kāmadhuk bhavati kimartham dvitīyaḥ tṛtīyaḥ ca prayujyate . na vai kāmānām tṛptiḥ asti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५८।१८-५९।८ रो इव्।४०२-४०३ अथ पूर्वग्रहणम् किमर्थम् । पूर्वपरग्रहणम् परस्य आदेशप्रतिषेधार्थम् । पूर्वपरग्रहणम् क्रियते परस्य आदेशप्रतिषेधार्थम् । परस्य आदेशः मा भूत् । आत् गुणः इति । कथम् च प्राप्नोति । पञ्चमीनिर्दिष्टात् हि परस्य । पञ्चमीनिर्दिष्टात् हि परस्य कार्यम् उच्यते । तत् यथा द्व्यन्तरुपसर्गेभ्यः अपः ईत् इति । षष्ठीनिर्दिष्टार्थम् तु । षष्ठीनिर्दिष्टार्थम् च पूर्वपरग्रहणम् क्रियते । षष्ठीनिर्देशः यथा पकल्पेत । अनिर्दिष्टे हि षष्ठ्यर्थाप्रसिद्धिः । अक्रियमाणे हि पूर्वपरग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् । कस्य । स्थानेयोगत्वस्य । न एषः दोषः । आत् इति एषा पञ्चमी अचि इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । तथा च अचि इति एषा सप्तमी आत् इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति । एवम् तर्हि सिद्धे सति यत् पूर्वग्रहणम् करोति तत् ज्ञापयति आचार्यः न उभे युगपत् प्रकल्पिके भवतः इति । किम् एतस्य ज्ञापने प्रयोजनम् । यत् उक्तम् : सप्तमीपञ्चम्योः च भावात् उभयत्र षष्ठीप्रकॢप्तिः तत्र उभयकार्यप्रसङ्गः इति । सः न दोषः भवति ।

KA III.58.18-59.8 Ro IV.402-403 atha pūrvagrahaṇam kimartham . pūrvaparagrahaṇam parasya ādeśapratiṣedhārtham . pūrvaparagrahaṇam kriyate parasya ādeśapratiṣedhārtham . parasya ādeśaḥ mā bhūt . āt guṇaḥ iti . katham ca prāpnoti . pañcamīnirdiṣṭāt hi parasya . pañcamīnirdiṣṭāt hi parasya kāryam ucyate . tat yathā dvyantarupasargebhyaḥ apaḥ īt iti . ṣaṣṭhīnirdiṣṭārtham tu . ṣaṣṭhīnirdiṣṭārtham ca pūrvaparagrahaṇam kriyate . ṣaṣṭhīnirdeśaḥ yathā pakalpeta . anirdiṣṭe hi ṣaṣṭhyarthāprasiddhiḥ . akriyamāṇe hi pūrvaparagrahaṇe ṣaṣṭhyarthasya aprasiddhiḥ syāt . kasya . sthāneyogatvasya . na eṣaḥ doṣaḥ . āt iti eṣā pañcamī aci iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . tathā ca aci iti eṣā saptamī āt iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . evam tarhi siddhe sati yat pūrvagrahaṇam karoti tat jñāpayati ācāryaḥ na ubhe yugapat prakalpike bhavataḥ iti . kim etasya jñāpane prayojanam . yat uktam : saptamīpañcamyoḥ ca bhāvāt ubhayatra ṣaṣṭhīprakḷptiḥ tatra ubhayakāryaprasaṅgaḥ iti . saḥ na doṣaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।५९।१०-६०।६ रो इव्। ४०४-४०६ किमर्थम् इदम् उच्यते । अन्तादिवद्वचनम् आमिश्रस्य आदेशवचनात् । अन्तादिवत् इति उच्यते आमिश्रस्य आदेशवचनात् । आमिश्रस्य अयम् आदेशः उच्यते । सः न एव पूर्वग्रहणेन गृह्यते न अपि परग्रहणेन । तत् यथा क्षीरोदके सम्पृक्ते आमिश्रत्वात् न एव क्षीरग्रहणेन गृह्यते न अपि उदकग्रहणेन । इष्यते च ग्रहणम् स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति अन्तादिवच्वचनम् । एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र यस्य अन्तादिवत् तन्निर्देशः । तत्र यस्य अन्तादिवद्भावः इष्यते तन्निर्देशः कर्तव्यः । अस्य अन्तवत् भवति अस्य आदिवत् भवति इति वक्तव्यम् । सिद्धम् तु पूर्वपराधिकारात् । सिद्धम् एतत् । कथम् । पूर्वपराधिकारात् । पूर्वपरयोः इति वर्तते । पूर्वस्य कार्यम् प्रति अन्तवत् भवति । परस्य कार्यम् प्रति आदिवत् भवति । अथ यत्र उभयम् आश्रीयते किम् तत्र पूर्वस्य अन्तवत् भवति आहोस्वित् परस्य आदिवत् भवति । उभयतः आश्रये न अन्तादिवत् । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । लौकिकः अयम् दृष्टान्तः । तत् यथा लोके यः द्वयोः तुल्यबलयोः प्रेष्यः भवति सः तयोः पर्यायेण कार्यम् करोति । यदा तु तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तत्र यदि असौ अविरोधाऋथी भवति ततः उभयोः न करोति । किम् पुनः कारणम् उभयोः न करोति । यौगपद्यासम्भवात् । न अस्ति यौगपद्येन सम्भवः ।

KA III.59.10-60.6 Ro IV. 404-406 kimartham idam ucyate . antādivadvacanam āmiśrasya ādeśavacanāt . antādivat iti ucyate āmiśrasya ādeśavacanāt . āmiśrasya ayam ādeśaḥ ucyate . saḥ na eva pūrvagrahaṇena gṛhyate na api paragrahaṇena . tat yathā kṣīrodake sampṛkte āmiśratvāt na eva kṣīragrahaṇena gṛhyate na api udakagrahaṇena . iṣyate ca grahaṇam syāt iti . tat ca antareṇa yatnam na sidhyati iti antādivacvacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . tatra yasya antādivat tannirdeśaḥ . tatra yasya antādivadbhāvaḥ iṣyate tannirdeśaḥ kartavyaḥ . asya antavat bhavati asya ādivat bhavati iti vaktavyam . siddham tu pūrvaparādhikārāt . siddham etat . katham . pūrvaparādhikārāt . pūrvaparayoḥ iti vartate . pūrvasya kāryam prati antavat bhavati . parasya kāryam prati ādivat bhavati . atha yatra ubhayam āśrīyate kim tatra pūrvasya antavat bhavati āhosvit parasya ādivat bhavati . ubhayataḥ āśraye na antādivat . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . laukikaḥ ayam dṛṣṭāntaḥ . tat yathā loke yaḥ dvayoḥ tulyabalayoḥ preṣyaḥ bhavati saḥ tayoḥ paryāyeṇa kāryam karoti . yadā tu tam ubhau yugapat preṣayataḥ nānādikṣu ca kārye bhavataḥ tatra yadi asau avirodhāṛthī bhavati tataḥ ubhayoḥ na karoti . kim punaḥ kāraṇam ubhayoḥ na karoti . yaugapadyāsambhavāt . na asti yaugapadyena sambhavaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।६०।७-६३।७ रो इव्।४०६-४११ अथ अन्तवत्त्वे कानि प्रयोजनानि । अन्तवत्त्वे प्रयोजनम् बह्वच्पूर्वपदात् ठज्विधाने । अन्तवत्त्वे बह्वच्पूर्वपदात् ठज्विधाने प्रयोजनम् । द्वादशान्यिकः । पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदसय अन्तवत् भवति यथा शक्येत कर्तुम् बहुच्पूर्वपदात् ठच् भवति इति । क्व तर्हि स्यात् । यत्र कृते अपि एकादेशे बह्वच्पूर्वपदम् भवति । तरयोदशान्यिकः । प्रत्ययैकादेशः पूर्वविधौ । प्रत्ययैकादेशः पूर्वविधौ प्रयोजनम् । मधु पिबन्ति । शिदशितोः एकादेशः शितः अन्तवत् भवति यथा शक्येत कर्तुम् शिति इति पिबादेशः । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । पिबति । वैभक्तस्य णत्वे । वैभक्तस्य णत्वे प्रयोजनम् । क्षीरपेण , सुरापेण । उत्तरपदविभक्त्योः एकादेशः उत्तरपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् एकाजुत्तरपदे णः भवति इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । क्षीरपाणाम् , सुरापाणम् । अदसः ईत्त्वोत्त्वे । अदसः ईत्त्वोत्त्वे प्रयोजनम् । अमी अत्र , अमी आसते , अमू अत्र , अमू आसाते । अदस्विभक्त्योः एकादेशः अदसः अन्तवत् भवति यथा शक्येत कर्तुम् अदसः असेः दात् उ दः मः एतः ईत् बहुवचने इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । अमीभिः , अमूभ्याम् । स्वरितत्वे प्रयोजनम् । कार्या , हार्या । तिदतिरोः एकादेशः तितः अन्तवत् भवति यथा शक्येत कर्तुम् तित् स्वरितम् इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । कार्यः , हार्यः । स्वरितत्वम् विप्रतिषेधात् । स्वरितत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् । परत्वात् स्वरितत्वम् भविष्यति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । नित्यः एकादेशः । कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि । अनित्यः एकादेशः । अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरितत्वे प्राप्नोति । स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति । अन्तरङ्गः तर्हि एकादेशः । का अन्तरङ्गता । वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् । स्वरितत्वम् अपि अन्तरङ्गम् । कथम् । उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति । उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् । स्वरितत्वे कृते आन्तर्यतः स्वरितानुदात्तयोः एकादेशः स्वरितः भविष्यति । लिङ्गविशिष्तग्रहणात् वा । अथ वा प्रातिपदिकग्रहणे लिङ्गविशिष्तस्य अपि ग्रहण्म् भवति इति एवम् अत्र स्वरितत्वम् भविष्यति । पूर्वपदान्तोदात्तत्वम् च प्रयोजनम् । गुडोदकम् , मथितोदकम् । पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् उदके अकेवले पूर्वपदस्य अन्तः उदात्तः भवति इति । क्व तर्हि स्यात् । यत्र अकादेशः न भवति । उदश्विदुदकम् । पूर्वपदान्तोदात्तत्वम् च । पूर्वपदान्तोदात्तत्वम् च विप्रतिषेधात् । पूर्वपदान्तोदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् । परत्वात् पूर्वपदान्तोदात्तत्वम् । पूर्वपदान्तोदात्तत्वस्य अवकाशः उदश्विदुदकम् । एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् । इह उभयम् प्राप्नोति । मथितोदकम् , गुडोदकम् । पूर्वपदान्तोदात्तत्वम् भवति विप्रतिषेधेन । सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः । एकादेशे हि स्वरिताप्रसिद्धिः । एकादेशे हि स्वरितस्य अप्रसिद्धिः स्यात् । यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते पूर्वपदान्तोदात्तत्वम् भविष्यति इति स्वरितत्वम् तस्य न सिध्यति स्वरितः वा अनुदात्ते पदादौ इति । मथितोदकम् , गुडोदकम् । कृदन्तप्रकृतिस्वरत्वम् च प्रयोजनम् । प्राटिता , प्राशिता । कृद्गत्योः एकादेशः गतेः अन्तवत् भवति यथा शक्येत कर्तुम् गतिकारकोपपदात् कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति । क्व तर्हि स्यात् । यत्र न अकादेशः । प्रकारकः , प्रकरणम् । कृदन्तप्रकृतिस्वरत्वम् च । कृदन्तप्रकृतिस्वरत्वम् च विप्रतिषेधात् । कृदन्तप्रकृतिस्वरत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् । परत्वात् कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन । कृदन्तप्रकृतिस्वरत्वस्य अवकाशः प्रकारकः , प्रकरणम् । एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् । इह उभयम् प्राप्नोति । प्राटिता , प्राशिता । कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन । सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः । एकादेशे हि अ प्रसिद्धिः उत्तरपदस्य अपरत्वात् । यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते कृदन्तप्रकृतिस्वरत्वम् भविष्यति इति कृदन्तप्रकृतिस्वरत्वम् तस्य न सिध्यति । किम् कारणम् । उत्तरपदस्य अपरत्वात् । न हि इदानीम् एकादेशे कृते उत्तरपदम् परम् भवति । ननु च अन्तादिवद्भावेन परम् । उभयतः

KA III.60.7-63.7 Ro IV.406-411 atha antavattve kāni prayojanāni . antavattve prayojanam bahvacpūrvapadāt ṭhajvidhāne . antavattve bahvacpūrvapadāt ṭhajvidhāne prayojanam . dvādaśānyikaḥ . pūrvapadottarapadayoḥ ekādeśaḥ pūrvapadasaya antavat bhavati yathā śakyeta kartum bahucpūrvapadāt ṭhac bhavati iti . kva tarhi syāt . yatra kṛte api ekādeśe bahvacpūrvapadam bhavati . tarayodaśānyikaḥ . pratyayaikādeśaḥ pūrvavidhau . pratyayaikādeśaḥ pūrvavidhau prayojanam . madhu pibanti . śidaśitoḥ ekādeśaḥ śitaḥ antavat bhavati yathā śakyeta kartum śiti iti pibādeśaḥ . kva tarhi syāt . yatra ekādeśaḥ na bhavati . pibati . vaibhaktasya ṇatve . vaibhaktasya ṇatve prayojanam . kṣīrapeṇa , surāpeṇa . uttarapadavibhaktyoḥ ekādeśaḥ uttarapadasya antavat bhavati yathā śakyeta kartum ekājuttarapade ṇaḥ bhavati iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . kṣīrapāṇām , surāpāṇam . adasaḥ īttvottve . adasaḥ īttvottve prayojanam . amī atra , amī āsate , amū atra , amū āsāte . adasvibhaktyoḥ ekādeśaḥ adasaḥ antavat bhavati yathā śakyeta kartum adasaḥ aseḥ dāt u daḥ maḥ etaḥ īt bahuvacane iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . amībhiḥ , amūbhyām . svaritatve prayojanam . kāryā , hāryā . tidatiroḥ ekādeśaḥ titaḥ antavat bhavati yathā śakyeta kartum tit svaritam iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . kāryaḥ , hāryaḥ . svaritatvam vipratiṣedhāt . svaritatvam kriyatām ekādeśaḥ iti kim atra kartavyam . paratvāt svaritatvam bhaviṣyati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . nityaḥ ekādeśaḥ . kṛte api svaritatve prāpnoti akṛte api . anityaḥ ekādeśaḥ . anyathāsvarasya kṛte svaritatve prāpnoti anyathāsvarasya akṛte svaritatve prāpnoti . svarabhinnasya ca prāpnuvan vidhiḥ anityaḥ bhavati . antaraṅgaḥ tarhi ekādeśaḥ . kā antaraṅgatā . varṇau āśritya ekādeśaḥ padasya svaritatvam . svaritatvam api antaraṅgam . katham . uktam etat padagrahaṇam parimāṇārtham iti . ubhayoḥ antaraṅgayoḥ paratvāt svaritatvam . svaritatve kṛte āntaryataḥ svaritānudāttayoḥ ekādeśaḥ svaritaḥ bhaviṣyati . liṅgaviśiṣtagrahaṇāt vā . atha vā prātipadikagrahaṇe liṅgaviśiṣtasya api grahaṇm bhavati iti evam atra svaritatvam bhaviṣyati . pūrvapadāntodāttatvam ca prayojanam . guḍodakam , mathitodakam . pūrvapadottarapadayoḥ ekādeśaḥ pūrvapadasya antavat bhavati yathā śakyeta kartum udake akevale pūrvapadasya antaḥ udāttaḥ bhavati iti . kva tarhi syāt . yatra akādeśaḥ na bhavati . udaśvidudakam . pūrvapadāntodāttatvam ca . pūrvapadāntodāttatvam ca vipratiṣedhāt . pūrvapadāntodāttatvam kriyatām ekādeśaḥ iti kim atra kartavyam . paratvāt pūrvapadāntodāttatvam . pūrvapadāntodāttatvasya avakāśaḥ udaśvidudakam . ekādeśasya avakāśaḥ daṇḍāgram , kṣupāgram . iha ubhayam prāpnoti . mathitodakam , guḍodakam . pūrvapadāntodāttatvam bhavati vipratiṣedhena . saḥ ca avaśyam vipratiṣedhaḥ āśrayayitavyaḥ . ekādeśe hi svaritāprasiddhiḥ . ekādeśe hi svaritasya aprasiddhiḥ syāt . yaḥ hi manyate astu atra ekādeśaḥ ekādeśe kṛte pūrvapadāntodāttatvam bhaviṣyati iti svaritatvam tasya na sidhyati svaritaḥ vā anudātte padādau iti . mathitodakam , guḍodakam . kṛdantaprakṛtisvaratvam ca prayojanam . prāṭitā , prāśitā . kṛdgatyoḥ ekādeśaḥ gateḥ antavat bhavati yathā śakyeta kartum gatikārakopapadāt kṛdantam uttarapadam prakṛtisvaram bhavati iti . kva tarhi syāt . yatra na akādeśaḥ . prakārakaḥ , prakaraṇam . kṛdantaprakṛtisvaratvam ca . kṛdantaprakṛtisvaratvam ca vipratiṣedhāt . kṛdantaprakṛtisvaratvam kriyatām ekādeśaḥ iti kim atra kartavyam . paratvāt kṛdantaprakṛtisvaratvam bhavati vipratiṣedhena . kṛdantaprakṛtisvaratvasya avakāśaḥ prakārakaḥ , prakaraṇam . ekādeśasya avakāśaḥ daṇḍāgram , kṣupāgram . iha ubhayam prāpnoti . prāṭitā , prāśitā . kṛdantaprakṛtisvaratvam bhavati vipratiṣedhena . saḥ ca avaśyam vipratiṣedhaḥ āśrayayitavyaḥ . ekādeśe hi a prasiddhiḥ uttarapadasya aparatvāt . yaḥ hi manyate astu atra ekādeśaḥ ekādeśe kṛte kṛdantaprakṛtisvaratvam bhaviṣyati iti kṛdantaprakṛtisvaratvam tasya na sidhyati . kim kāraṇam . uttarapadasya aparatvāt . na hi idānīm ekādeśe kṛte uttarapadam param bhavati . nanu ca antādivadbhāvena param . ubhayataḥ

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।६३।८-६४।८ रो इव्।४११-४१२ अथ आदिवत्त्वे कानि प्रयोजनानि । आदिवत्त्वे प्रयोजनम् प्रगृह्यसञ्ज्ञायाम् । आदिवत्त्वे प्रगृह्यसञ्ज्ञायाम् प्रयोजनम् । अग्नी इति , वायू इति । द्विवचनाद्विवचनयोः एकादेशः द्विवचनस्य आदिवत् भवति यथा शक्येत कर्तुम् ईदूदेत् द्विवचनम् प्रगृह्यम् इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । त्रपुणी इति , जतुनी इति । सुप्तिङाब्विधिषु । सुप्तिङाब्विधिषु प्रयोजनम् । सुप् । वृक्षे तिष्ठति । प्लक्षे तिष्ठति । सुबसुपोः एकादेशः सुपः आदिवत् भवति यथा शक्येत कर्तुम् सुबन्तम् पदम् इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । वृक्षः तिष्ठति । प्लक्षः तिष्थति । सुप् । तिङ् । पचे, यजे इति । तिङतिङोः एकादेशः तिङः आदिवत् भवति यथा शक्येत कर्तुम् तिङन्तम् पदम् इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । पचति , यजति । तिङ् । आप् । खट्वा , माला । अबनापोः एकादेशः आपः आदिवत् भवति यथा शक्येत कर्तुम् आबन्तात् सोः लोपः भवति इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । क्रुञ्चा , उष्णिहा , देवदिशा । आङ्ग्रहणे पदविधौ । आङ्ग्रहणे पदविधौ प्रयोजनम् । अद्य आहते । कदा आहते । आङनाङोः एकादेशः आङः आदिवत् भवति यथा शक्येत कर्तुम् आङः यमहनः इति आत्मनेपदम् भवति इति । क्व तर्हि स्यात् । यत्र एकादेशः न भवति । आहते । आटः च वृद्धिविधौ । आटः च वृद्धिविधौ प्रयोजनम् । अद्य ऐहिष्ट । कदा ऐहिष्ट । आटः अद्यशब्दस्य च एकादेशः आटः आदिवत् भवति यथा शक्येत कर्तुम् आटः च अचि वृद्धिः भवति इति । क्व तर्हि स्यात् । यत्र एकादेशः न । ऐहिष्ट , ऐक्षिष्ट । कृदन्तप्रातिपदिकत्वे च । कृदन्तप्रातिपदिकत्वे च प्रयोजनम् । धारयः , पारयः । कृदकृतोः एकादेशः कृतः आदिवत् भवति यथा शक्येत कर्तुम् कृदन्तम् प्रातिपदिकम् इति । क्व तर्हि स्यात् । यत्र एकादेशः न । कारकः , हारकः ।

KA III.63.8-64.8 Ro IV.411-412 atha ādivattve kāni prayojanāni . ādivattve prayojanam pragṛhyasañjñāyām . ādivattve pragṛhyasañjñāyām prayojanam . agnī iti , vāyū iti . dvivacanādvivacanayoḥ ekādeśaḥ dvivacanasya ādivat bhavati yathā śakyeta kartum īdūdet dvivacanam pragṛhyam iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . trapuṇī iti , jatunī iti . suptiṅābvidhiṣu . suptiṅābvidhiṣu prayojanam . sup . vṛkṣe tiṣṭhati . plakṣe tiṣṭhati . subasupoḥ ekādeśaḥ supaḥ ādivat bhavati yathā śakyeta kartum subantam padam iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . vṛkṣaḥ tiṣṭhati . plakṣaḥ tiṣthati . sup . tiṅ . pace, yaje iti . tiṅatiṅoḥ ekādeśaḥ tiṅaḥ ādivat bhavati yathā śakyeta kartum tiṅantam padam iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . pacati , yajati . tiṅ . āp . khaṭvā , mālā . abanāpoḥ ekādeśaḥ āpaḥ ādivat bhavati yathā śakyeta kartum ābantāt soḥ lopaḥ bhavati iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . kruñcā , uṣṇihā , devadiśā . āṅgrahaṇe padavidhau . āṅgrahaṇe padavidhau prayojanam . adya āhate . kadā āhate . āṅanāṅoḥ ekādeśaḥ āṅaḥ ādivat bhavati yathā śakyeta kartum āṅaḥ yamahanaḥ iti ātmanepadam bhavati iti . kva tarhi syāt . yatra ekādeśaḥ na bhavati . āhate . āṭaḥ ca vṛddhividhau . āṭaḥ ca vṛddhividhau prayojanam . adya aihiṣṭa . kadā aihiṣṭa . āṭaḥ adyaśabdasya ca ekādeśaḥ āṭaḥ ādivat bhavati yathā śakyeta kartum āṭaḥ ca aci vṛddhiḥ bhavati iti . kva tarhi syāt . yatra ekādeśaḥ na . aihiṣṭa , aikṣiṣṭa . kṛdantaprātipadikatve ca . kṛdantaprātipadikatve ca prayojanam . dhārayaḥ , pārayaḥ . kṛdakṛtoḥ ekādeśaḥ kṛtaḥ ādivat bhavati yathā śakyeta kartum kṛdantam prātipadikam iti . kva tarhi syāt . yatra ekādeśaḥ na . kārakaḥ , hārakaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।६४।९-६५।६ रो इव्।४१३-४१४ न अभ्यासादीनाम् ह्रस्वत्वे । अभ्यासादीनाम् ह्रस्वत्वे न अन्तादिवत् भवति इति वक्तव्यम् । के पुनः अभ्यासादयः । अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि । अभ्यासह्रस्वत्वम् । उपेयाज , उपोवाप । ऊहेः ह्रस्ववम् । उपोह्यते , प्रोह्यते , परोह्यते । अम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि । अम्ब अत्र , अक्क अत्र । कुमारि इदम् , किशोरि इदम् । आराशस्त्रि इदम् , धानाशष्कुलि इदम् । निष्कौशाम्बि इदम् , निर्वाराणसि इदम् । अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनग्रहणेन ग्रहणात् ह्रस्वत्वम् प्राप्नोति । न वा बहिरङ्गलक्षणत्वात् । न वा एतत् वक्तव्यम् । किम् कारणम् । बहिरङ्गलक्षणत्वात् । अन्तरङ्गम् ह्रस्वत्वम् । बहिरङ्गाः एते विधयः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । वर्णाश्रयविधौ च । वर्णाश्रयविधौ च न अन्तादिवत् भवति इति वक्तव्यम् । किम् प्रयोजनम् । प्रयोजनम् खट्वाभिः जुहाव अस्यै अश्वः इति । इह खट्वाभिः , मालाभिः , अतः भिसः ऐस् भवति इति ऐस्भावः प्राप्नोति । न एषः दोषः । तपरकरणसामर्थ्यात् न भविष्यति । अस्ति अन्यत् तपरकरणे प्रयोजनम् । किम् । कीलालपाभिः , शुभंयाभिः । जुहाव । आतः औ णलः इति औत्वम् प्राप्नोति । अस्यै अश्वः इति । एङः पदान्तात् अति इति पूर्वत्वम् प्राप्नोति । न वा अताद्रूप्यातिदेशात् । न वा वक्तव्यम् । किम् कारणम् । अताद्रूप्यातिदेशात् । न इह ताद्रूप्यम् अतिदिश्यते । रूपाश्रयाः वै एते विधयः अताद्रूप्यात् न भविष्यन्ति ।

KA III.64.9-65.6 Ro IV.413-414 na abhyāsādīnām hrasvatve . abhyāsādīnām hrasvatve na antādivat bhavati iti vaktavyam . ke punaḥ abhyāsādayaḥ . abhyāsohāmbārthanadīnapuṃsakopasarjanahrasvatvāni . abhyāsahrasvatvam . upeyāja , upovāpa . ūheḥ hrasvavam . upohyate , prohyate , parohyate . ambārthanadīnapuṃsakopasarjanahrasvatvāni . amba atra , akka atra . kumāri idam , kiśori idam . ārāśastri idam , dhānāśaṣkuli idam . niṣkauśāmbi idam , nirvārāṇasi idam . abhyāsohāmbārthanadīnapuṃsakopasarjanagrahaṇena grahaṇāt hrasvatvam prāpnoti . na vā bahiraṅgalakṣaṇatvāt . na vā etat vaktavyam . kim kāraṇam . bahiraṅgalakṣaṇatvāt . antaraṅgam hrasvatvam . bahiraṅgāḥ ete vidhayaḥ . asiddham bahiraṅgam antaraṅge . varṇāśrayavidhau ca . varṇāśrayavidhau ca na antādivat bhavati iti vaktavyam . kim prayojanam . prayojanam khaṭvābhiḥ juhāva asyai aśvaḥ iti . iha khaṭvābhiḥ , mālābhiḥ , ataḥ bhisaḥ ais bhavati iti aisbhāvaḥ prāpnoti . na eṣaḥ doṣaḥ . taparakaraṇasāmarthyāt na bhaviṣyati . asti anyat taparakaraṇe prayojanam . kim . kīlālapābhiḥ , śubhaṃyābhiḥ . juhāva . ātaḥ au ṇalaḥ iti autvam prāpnoti . asyai aśvaḥ iti . eṅaḥ padāntāt ati iti pūrvatvam prāpnoti . na vā atādrūpyātideśāt . na vā vaktavyam . kim kāraṇam . atādrūpyātideśāt . na iha tādrūpyam atidiśyate . rūpāśrayāḥ vai ete vidhayaḥ atādrūpyāt na bhaviṣyanti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।६५।८-६६।७ रो इव्।४१४-४१५ किमर्थम् इदम् उच्यते । षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च । षत्वतुकोः असिद्धत्वम् उच्यते आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च । आदेशलक्षणप्रतिषेधाऋथम् तावत् । कोसिञ्चत् । योसिञ्चत् । एकादेशे कृते इणः इति षत्वम् प्राप्नोति । असिद्धत्वात् न भवति । उत्सर्गलक्षणभावार्थम् च । अधीत्य , प्रेत्य । एकादेशे कृते ह्रस्वस्य इति तुक् न प्राप्नोति । असिद्धत्वात् भवति । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र उत्सर्गलक्षणाप्रसिद्धिः उत्सर्गाभावात् । तत्र उत्सर्गलक्षणस्य कार्यस्य अप्रसिद्धिः । अधीत्य , प्रेत्य इति । किम् कारणम् । उत्सर्गाभावात् । ह्रस्वस्य इति उच्यते न च अत्र ह्रस्वम् पश्यामः । ननु च अत्र अपि असिद्धवचनात् सिद्धम् । असिद्धवचनात् सिद्धम् इति चेत् न अन्यस्य असिद्धवचनात् अन्यस्य भावः । असिद्धवचनात् सिद्धम् इति चेत् तत् न । किम् कारणम् । अन्यस्य असिद्धवचनात् अन्यस्य भावः । न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति । न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति । तस्मात् स्थानिवद्वचनम् असिद्धत्वम् च । तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च । अधीत्य , प्रेत्य इति स्थानिवद्भावः । कोसिञ्चत् , योसिञ्चत् इति अत्र असिद्धत्वम् । स्थानिवद्वचनानर्थक्यम् शास्त्रासिद्धत्वात् । स्थानिवद्वचनम् अनर्थकम् । किम् कारणम् । शास्त्रासिद्धत्वात् । न अनेन कार्यासिद्धत्वम् क्रियते । किम् तर्हि । शास्त्रासिद्धत्वम् अनेन क्रियते । एकादेशशास्त्रम् तुक्शास्त्रे असिद्धम् भवति इति ।

KA III.65.8-66.7 Ro IV.414-415 kimartham idam ucyate . ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca . ṣatvatukoḥ asiddhatvam ucyate ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca . ādeśalakṣaṇapratiṣedhāṛtham tāvat . kosiñcat . yosiñcat . ekādeśe kṛte iṇaḥ iti ṣatvam prāpnoti . asiddhatvāt na bhavati . utsargalakṣaṇabhāvārtham ca . adhītya , pretya . ekādeśe kṛte hrasvasya iti tuk na prāpnoti . asiddhatvāt bhavati . asti prayojanam etat . kim tarhi iti . tatra utsargalakṣaṇāprasiddhiḥ utsargābhāvāt . tatra utsargalakṣaṇasya kāryasya aprasiddhiḥ . adhītya , pretya iti . kim kāraṇam . utsargābhāvāt . hrasvasya iti ucyate na ca atra hrasvam paśyāmaḥ . nanu ca atra api asiddhavacanāt siddham . asiddhavacanāt siddham iti cet na anyasya asiddhavacanāt anyasya bhāvaḥ . asiddhavacanāt siddham iti cet tat na . kim kāraṇam . anyasya asiddhavacanāt anyasya bhāvaḥ . na hi anyasya asiddhavacanāt anyasya prādurbhāvaḥ bhavati . na hi devadattasya hantari hate devadattasya prādurbhāvaḥ bhavati . tasmāt sthānivadvacanam asiddhatvam ca . tasmāt sthānivadbhāvaḥ vaktavyaḥ asiddhatvam ca . adhītya , pretya iti sthānivadbhāvaḥ . kosiñcat , yosiñcat iti atra asiddhatvam . sthānivadvacanānarthakyam śāstrāsiddhatvāt . sthānivadvacanam anarthakam . kim kāraṇam . śāstrāsiddhatvāt . na anena kāryāsiddhatvam kriyate . kim tarhi . śāstrāsiddhatvam anena kriyate . ekādeśaśāstram tukśāstre asiddham bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।६६।८-२३ रो इव्।४१६-४१८ सम्प्रसारणङीट्सु सिद्धः । सम्प्रसारणङीट्सु सिद्धः एकादेशः इति वक्तव्यम् । शकहूषु , परिवीषु । सम्प्रसारण । ङि । वृक्षे च्छत्रम् , वृक्षे छत्रम् । ङि । इट् । अपचे च्छत्रम् , अपचे छत्रम् । सम्प्रसारणङीट्सु सिद्धः पदान्तपदाद्योः एकादेशस्य असिद्धवचनात् । सम्प्रसारणङीट्सु सिद्धः एकादेशः । कुतः । पदान्तपदाद्योः एकादेशस्य असिद्धवचनात् । पदान्तपदाद्योः एकादेशः असिद्धः भवति इति उच्यते न च एषः पदान्तपदाद्योः एकादेशः । यदि पदान्तपदाद्योः एकादेशः असिद्धः सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि , अत्र षत्वम् प्राप्नोति । तुग्विधिम् प्रति पदान्तपदाद्योः एकादेशः असिद्धः । षत्वम् प्रति एकादेशमात्रम् असिद्धम् भवति । यदि षत्वम् प्रति एकादेशमात्रम् असिद्धम् शकहूषु , परिवीषु , अत्र षत्वम् न प्राप्नोति । अस्तु तर्हि अविशेषेण । कथम् सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि इति । न एषः दोषः । भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य । यत् अयम् कस्कादिषु भ्रातुष्पुत्रग्रहणम् करोति तत् ज्ञापयति आचार्यः न एकादेशनिमित्तात् षत्वम् भवति इति । यदि एतत् ज्ञाप्यते शकहूषु , परिवीषु इति अत्र षत्वम् न प्राप्नोति । तुल्यजातीयकस्य ज्ञापकम् । किम् च तुल्ज्यजातीयम् । यः कुप्वोः । यदि एवम् वेञः अप्रत्यये परतः उः इति प्राप्नोति उत् इति च इष्यते । यथालक्षणम् अप्रयुक्ते । अथ वा न एवम् विज्ञायते । पूर्वस्य च पदादेः परस्य च पदान्तस्य इति । कथम् तर्हि । परस्य च पदादेः पूर्वस्य च पदान्तस्य इति ।

KA III.66.8-23 Ro IV.416-418 samprasāraṇaṅīṭsu siddhaḥ . samprasāraṇaṅīṭsu siddhaḥ ekādeśaḥ iti vaktavyam . śakahūṣu , parivīṣu . samprasāraṇa . ṅi . vṛkṣe cchatram , vṛkṣe chatram . ṅi . iṭ . apace cchatram , apace chatram . samprasāraṇaṅīṭsu siddhaḥ padāntapadādyoḥ ekādeśasya asiddhavacanāt . samprasāraṇaṅīṭsu siddhaḥ ekādeśaḥ . kutaḥ . padāntapadādyoḥ ekādeśasya asiddhavacanāt . padāntapadādyoḥ ekādeśaḥ asiddhaḥ bhavati iti ucyate na ca eṣaḥ padāntapadādyoḥ ekādeśaḥ . yadi padāntapadādyoḥ ekādeśaḥ asiddhaḥ susasyāḥ oṣadhīḥ kṛdhi , supippalāḥ oṣadhīḥ kṛdhi , atra ṣatvam prāpnoti . tugvidhim prati padāntapadādyoḥ ekādeśaḥ asiddhaḥ . ṣatvam prati ekādeśamātram asiddham bhavati . yadi ṣatvam prati ekādeśamātram asiddham śakahūṣu , parivīṣu , atra ṣatvam na prāpnoti . astu tarhi aviśeṣeṇa . katham susasyāḥ oṣadhīḥ kṛdhi , supippalāḥ oṣadhīḥ kṛdhi iti . na eṣaḥ doṣaḥ . bhrātuṣputragrahaṇam jñāpakam ekādeśanimittāt ṣatvapratiṣedhasya . yat ayam kaskādiṣu bhrātuṣputragrahaṇam karoti tat jñāpayati ācāryaḥ na ekādeśanimittāt ṣatvam bhavati iti . yadi etat jñāpyate śakahūṣu , parivīṣu iti atra ṣatvam na prāpnoti . tulyajātīyakasya jñāpakam . kim ca tuljyajātīyam . yaḥ kupvoḥ . yadi evam veñaḥ apratyaye parataḥ uḥ iti prāpnoti ut iti ca iṣyate . yathālakṣaṇam aprayukte . atha vā na evam vijñāyate . pūrvasya ca padādeḥ parasya ca padāntasya iti . katham tarhi . parasya ca padādeḥ pūrvasya ca padāntasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।६६।२५-६८।३ रो इव्।४१८-४२० गुणग्रहणम् किमर्थम् न आत् एकः भवति इति एव उच्येत । आत् एकः चेत् गुणः केन । आत् एकः चेत् गुणः केन इदानीम् भविष्यति । खट्वेन्द्रः , मालेन्द्रः , खट्वोदकम् , मालोदकम् । स्थाने अन्तरतमः हि सः । स्थाने प्राप्यमाणानाम् अन्तरतमः आदेशः भवति । ऐदौतौ अपि तर्हि प्रप्नुतः । ऐदौतौ न एचि तौ उक्तौ । ऐदौतौ न भविष्यतः । किम् कारणम् । एचि हि ऐदौतौ उच्येते । इह तर्हि खट्वर्श्यः , मालर्श्यः , ऋकारः तर्हि प्राप्नोति । ऋकारः न उभयान्तरः । उभयोः यः अन्तरतमः तेन भवितव्यम् । न च ऋकारः उभयोः अन्तरतमः । आकारः तर्हि प्राप्नोति । आकारः न ऋति धातौ सः । आकारः न भविष्यति । किम् कारणम् । ऋति धातौ आकारः उच्यते । तत् नियमार्थम् भविष्यति । ऋकारादौ धातौ एव न अन्यत्र इति । प्लुतः तर्हि प्राप्नोति । प्लुतः च विषये स्मृतः । विषये प्लुतः उच्यते । यदा च सः विषयः भवितव्यम् तदा प्लुतेन । आन्तर्यात् त्रिमात्रचतुर्मात्राः । इदम् तर्हि प्रयोजनम् । आन्तर्यतः त्रिमात्रचतुर्मात्राणाम् स्थाने त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति । खट्वा इन्द्रः खट्वेन्द्रः । खट्वा उदकम् खट्वोदकम् । खट्वा ईषा खट्वेषा । खट्वा ऊढा खट्वोढा । खट्वा एलका खट्वैलका । खट्वा ओदनः खट्वौदनः खट्वा ऐतिकायनः खट्वैतिकायनः । खट्वा औपगवः खट्वौपगवः । अथ क्रियमाणे अपि गुणग्रहणे कस्मात् एव अत्र त्रिमात्रचतुर्मात्राणाम् स्थाने त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति । तपरत्वात् ने ते स्मृताः । तपरे गुणवृद्धी । ननु च भोः तः परः यस्मात् सः अयम् तपरः । न इति आह । तात् अपि परः तपरः इति । यदि तात् अपि परः तपरः ॠदोः अप् इति इह एव स्यात् । यवः स्तवः । लवः पवः इति अत्र न स्यात् । न एषः तकारः । कः तर्हि । दकारः । किम् दकारे प्रयोजनम् । अथ किम् तकारे प्रयोजनम् । यदि असन्देहार्थः तकारः दकारः अपि ।

KA III.66.25-68.3 Ro IV.418-420 guṇagrahaṇam kimartham na āt ekaḥ bhavati iti eva ucyeta . āt ekaḥ cet guṇaḥ kena . āt ekaḥ cet guṇaḥ kena idānīm bhaviṣyati . khaṭvendraḥ , mālendraḥ , khaṭvodakam , mālodakam . sthāne antaratamaḥ hi saḥ . sthāne prāpyamāṇānām antaratamaḥ ādeśaḥ bhavati . aidautau api tarhi prapnutaḥ . aidautau na eci tau uktau . aidautau na bhaviṣyataḥ . kim kāraṇam . eci hi aidautau ucyete . iha tarhi khaṭvarśyaḥ , mālarśyaḥ , ṛkāraḥ tarhi prāpnoti . ṛkāraḥ na ubhayāntaraḥ . ubhayoḥ yaḥ antaratamaḥ tena bhavitavyam . na ca ṛkāraḥ ubhayoḥ antaratamaḥ . ākāraḥ tarhi prāpnoti . ākāraḥ na ṛti dhātau saḥ . ākāraḥ na bhaviṣyati . kim kāraṇam . ṛti dhātau ākāraḥ ucyate . tat niyamārtham bhaviṣyati . ṛkārādau dhātau eva na anyatra iti . plutaḥ tarhi prāpnoti . plutaḥ ca viṣaye smṛtaḥ . viṣaye plutaḥ ucyate . yadā ca saḥ viṣayaḥ bhavitavyam tadā plutena . āntaryāt trimātracaturmātrāḥ . idam tarhi prayojanam . āntaryataḥ trimātracaturmātrāṇām sthāne trimātracaturmātrāḥ ādeśāḥ mā bhūvan iti . khaṭvā indraḥ khaṭvendraḥ . khaṭvā udakam khaṭvodakam . khaṭvā īṣā khaṭveṣā . khaṭvā ūḍhā khaṭvoḍhā . khaṭvā elakā khaṭvailakā . khaṭvā odanaḥ khaṭvaudanaḥ khaṭvā aitikāyanaḥ khaṭvaitikāyanaḥ . khaṭvā aupagavaḥ khaṭvaupagavaḥ . atha kriyamāṇe api guṇagrahaṇe kasmāt eva atra trimātracaturmātrāṇām sthāne trimātracaturmātrāḥ ādeśāḥ na bhavanti . taparatvāt ne te smṛtāḥ . tapare guṇavṛddhī . nanu ca bhoḥ taḥ paraḥ yasmāt saḥ ayam taparaḥ . na iti āha . tāt api paraḥ taparaḥ iti . yadi tāt api paraḥ taparaḥ ṝdoḥ ap iti iha eva syāt . yavaḥ stavaḥ . lavaḥ pavaḥ iti atra na syāt . na eṣaḥ takāraḥ . kaḥ tarhi . dakāraḥ . kim dakāre prayojanam . atha kim takāre prayojanam . yadi asandehārthaḥ takāraḥ dakāraḥ api .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।४-१० रो इव्।४२० गुणे ङिशीताम् उपसङ्ख्यानम् दीर्घत्वबाधनार्थम् । गुणे ङिशीताम् उपसङ्ख्यानम् कर्तव्यम् । ङि । वृक्षे इन्द्रः , प्लक्षे इन्द्रः । शी । ये इन्द्रम् , ते इन्द्रम् । इट् । अपचे इन्द्रम् , अयजे इन्द्रम् । किम् प्रयोजनम् । दीर्घत्वबाधनार्थम् । सवर्णदीर्घत्वम् मा भूत् इति । न वा बहिरङ्गलक्षणत्वात् । न वा कर्तव्यम् । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणम् सवर्णदीर्घत्वम् । असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

KA III.4-10 Ro IV.420 guṇe ṅiśītām upasaṅkhyānam dīrghatvabādhanārtham . guṇe ṅiśītām upasaṅkhyānam kartavyam . ṅi . vṛkṣe indraḥ , plakṣe indraḥ . śī . ye indram , te indram . iṭ . apace indram , ayaje indram . kim prayojanam . dīrghatvabādhanārtham . savarṇadīrghatvam mā bhūt iti . na vā bahiraṅgalakṣaṇatvāt . na vā kartavyam . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgalakṣaṇam savarṇadīrghatvam . asiddham bahiraṅgam antaraṅge .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।६८।११-१४ रो इव्।४२० आत् एकः चेत् गुणः केन । स्थाने अन्तरतमः हि सः । ऐदौतौ न एचि तौ उक्तौ । ऋकारः न उभयान्तरः । आकारः न ऋति धातौ सः । प्लुतः च विषये स्मृतः । आन्तर्यात् त्रिमात्रचतुर्मात्राः । तपरत्वात् ने ते स्मृताः ।

KA III.68.11-14 Ro IV.420 āt ekaḥ cet guṇaḥ kena . sthāne antaratamaḥ hi saḥ . aidautau na eci tau uktau . ṛkāraḥ na ubhayāntaraḥ . ākāraḥ na ṛti dhātau saḥ . plutaḥ ca viṣaye smṛtaḥ . āntaryāt trimātracaturmātrāḥ . taparatvāt ne te smṛtāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।६८।१६-६९।६ रो इव्।४२१-४२२ किम् इदम् एत्येधत्योः रूपग्रहणम् आहोस्वित् धातुग्रहणम् । किम् च अतः । यदि रूपग्रहणम् सिद्धम् उपैति , प्रैति । उपैषि , प्रैषि इति न सिध्यति । अथ धातुग्रहणम् सिद्धम् एतत् भवति । किम् तर्हि इति । इणि इकारादौ वृद्धिप्रतिषेधः । इणि इकारादौ वृद्धेः प्रतिषेधः वक्तव्यः । उपेतः प्रेतः इति । योगविभागात् सिद्धम् । योगविभागः करिष्यते । वृद्धिः एचि । ततः एत्येधत्योः । एत्येधत्योः च एचि वृद्धिः भवति । तत ऊठि । ऊठि च वृद्धिः भवति । एवम् अपि आ इतः एतः । उपेतः , प्रेतः इति अत्र अपि प्राप्नोति । आङि पररऊपम् अत्र बाधकम् भविष्यति । न अप्राप्ते पररूपम् इयम् वृद्धिः आरभ्यते । सा यथा एङि पररूपम् बाधते एवम् आङि पररूपम् बाधेत । न बाधते । किम् कारणम् । येन न अप्राप्ते तस्य बाधनम् भवति । न च अप्राप्ते एङि पररूपम् इयम् वृद्धिः आरभ्यते । आङि पररूपे पुनः प्राप्ते च अप्राप्ते च । अथवा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति इयम् वृद्धिः एङि पररूपम् बाधिष्यते न आङि पररूपम् ।

KA III.68.16-69.6 Ro IV.421-422 kim idam etyedhatyoḥ rūpagrahaṇam āhosvit dhātugrahaṇam . kim ca ataḥ . yadi rūpagrahaṇam siddham upaiti , praiti . upaiṣi , praiṣi iti na sidhyati . atha dhātugrahaṇam siddham etat bhavati . kim tarhi iti . iṇi ikārādau vṛddhipratiṣedhaḥ . iṇi ikārādau vṛddheḥ pratiṣedhaḥ vaktavyaḥ . upetaḥ pretaḥ iti . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . vṛddhiḥ eci . tataḥ etyedhatyoḥ . etyedhatyoḥ ca eci vṛddhiḥ bhavati . tata ūṭhi . ūṭhi ca vṛddhiḥ bhavati . evam api ā itaḥ etaḥ . upetaḥ , pretaḥ iti atra api prāpnoti . āṅi pararaūpam atra bādhakam bhaviṣyati . na aprāpte pararūpam iyam vṛddhiḥ ārabhyate . sā yathā eṅi pararūpam bādhate evam āṅi pararūpam bādheta . na bādhate . kim kāraṇam . yena na aprāpte tasya bādhanam bhavati . na ca aprāpte eṅi pararūpam iyam vṛddhiḥ ārabhyate . āṅi pararūpe punaḥ prāpte ca aprāpte ca . athavā purastāt apavādāḥ anantarān vidhīn bādhante iti iyam vṛddhiḥ eṅi pararūpam bādhiṣyate na āṅi pararūpam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।६९।७-२१ रो इव्।४२२-४२३ अक्षात् ऊहिन्याम् । अक्षात् ऊहिन्याम् वृद्धिः वक्तव्या । अक्षौहिणी । प्रात् ऊहोढोढ्येषैष्येषु । प्रात् ऊह, ऊढ, ऊढि, एष, एष्य इति एतेषु वृद्धिः वक्तव्या । प्रौहः , प्रौढः , प्रुढिः , प्रैषः , प्रैष्यः । स्वात् ईरेरिणोः । स्वात् ईर , ईरिन् इति एतयोः वृद्धिः वक्तव्या । स्वैरः , स्वैरी । ईरिन्ग्रहणम् शक्यम् अकर्तुम् । कथम् स्वरी इति । इनिना एतत् मत्वर्थीयेन सिद्धम् । स्वैरः अस्य अस्ति इति स्वैरी । ऋते च तृतीयासमासे । ऋते च तृतीयासमासे वृद्धिः वक्तव्या । सुखार्तः , दुःखार्तः । ऋते इति किम् । सुखेतः , दुःखेतः । तृतीयाग्रहणम् किम् । परमर्तः । समासे इति किम् । सुखेनर्तः । प्रवत्सतरकम्बल्वसनानाम् च ऋणे । प्रवत्सतरकम्बल्वसनानाम् च ऋणे वृद्धिः वक्तव्या । प्रार्णम् , वत्सतराणम् , वसनार्णम् । ऋणदशाभ्याम् च ।ऋणदशाभ्याम् च वृद्धिः वक्तव्या । ऋणार्णम् , दशार्णम् ।

KA III.69.7-21 Ro IV.422-423 akṣāt ūhinyām . akṣāt ūhinyām vṛddhiḥ vaktavyā . akṣauhiṇī . prāt ūhoḍhoḍhyeṣaiṣyeṣu . prāt ūha, ūḍha, ūḍhi, eṣa, eṣya iti eteṣu vṛddhiḥ vaktavyā . prauhaḥ , prauḍhaḥ , pruḍhiḥ , praiṣaḥ , praiṣyaḥ . svāt īreriṇoḥ . svāt īra , īrin iti etayoḥ vṛddhiḥ vaktavyā . svairaḥ , svairī . īringrahaṇam śakyam akartum . katham svarī iti . ininā etat matvarthīyena siddham . svairaḥ asya asti iti svairī . ṛte ca tṛtīyāsamāse . ṛte ca tṛtīyāsamāse vṛddhiḥ vaktavyā . sukhārtaḥ , duḥkhārtaḥ . ṛte iti kim . sukhetaḥ , duḥkhetaḥ . tṛtīyāgrahaṇam kim . paramartaḥ . samāse iti kim . sukhenartaḥ . pravatsatarakambalvasanānām ca ṛṇe . pravatsatarakambalvasanānām ca ṛṇe vṛddhiḥ vaktavyā . prārṇam , vatsatarāṇam , vasanārṇam . ṛṇadaśābhyām ca .ṛṇadaśābhyām ca vṛddhiḥ vaktavyā . ṛṇārṇam , daśārṇam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।७०।२-५ रो इव्।४२३ किमर्थः चकारः । वृद्धेः अनुकर्षणार्थः । न एतत् अस्ति प्रयोजनम् । प्रकृता वृद्धिः अनुवर्तिष्यते । इदम् तर्हि प्रयोजनम् । आतः अचि वृद्धिः एव यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति । किम् च अन्यत् प्राप्नोति । पररूपम् । उसि ओमाङ्क्षु आटः पररूपप्रतिषेधम् चोदयिष्यति । सः न वक्तव्यः भवति ।

KA III.70.2-5 Ro IV.423 kimarthaḥ cakāraḥ . vṛddheḥ anukarṣaṇārthaḥ . na etat asti prayojanam . prakṛtā vṛddhiḥ anuvartiṣyate . idam tarhi prayojanam . ātaḥ aci vṛddhiḥ eva yathā syāt . yat anyat prāpnoti tat mā bhūt iti . kim ca anyat prāpnoti . pararūpam . usi omāṅkṣu āṭaḥ pararūpapratiṣedham codayiṣyati . saḥ na vaktavyaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।७०।७-१४ रो इव्।४२३-४२४ धातौ इति किमर्थम् । इह मा भूत् । प्रर्षभम् वनम् । उपसर्गात् वृद्धिविधौ धातुग्रहणे उक्तम् । किम् उक्तम् । गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः प्रादयः तम् प्रति इति वचनम् इति । क्रियमाणे अपि धातुग्रहणे प्रर्च्छकः इति प्राप्नोति । यत्क्रियायुक्ताः प्रादयः तम् प्रति इति वचनात् न भवति । इदम् तर्हि प्रयोजनम् । उपसर्गात् ऋति धातौ वृद्धिः एव यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति । किम् च अन्यत् प्राप्नोति । ह्रस्वत्वम् । ऋति अकः इति । ऋति ह्रस्वात् उपसर्गात् वृद्धिः पूर्वविप्रतिषेधेन इति चोदयिष्यति । सः न वक्तव्यः भवति ।

KA III.70.7-14 Ro IV.423-424 dhātau iti kimartham . iha mā bhūt . prarṣabham vanam . upasargāt vṛddhividhau dhātugrahaṇe uktam . kim uktam . gatyupasargasañjñāḥ kriyāyoge yatkriyāyuktāḥ prādayaḥ tam prati iti vacanam iti . kriyamāṇe api dhātugrahaṇe prarcchakaḥ iti prāpnoti . yatkriyāyuktāḥ prādayaḥ tam prati iti vacanāt na bhavati . idam tarhi prayojanam . upasargāt ṛti dhātau vṛddhiḥ eva yathā syāt . yat anyat prāpnoti tat mā bhūt iti . kim ca anyat prāpnoti . hrasvatvam . ṛti akaḥ iti . ṛti hrasvāt upasargāt vṛddhiḥ pūrvavipratiṣedhena iti codayiṣyati . saḥ na vaktavyaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।७०।१५-७३।१४ रो इव्।४२४-४३१ छे तुकः सम्बुद्धिगुणः । छे तुक् भवति इति अस्मात् सम्बुद्धिगुणः भवति विप्रतिषेधेन । छे तुक् भवति इति अस्य अवकाशः । इच्छति , गच्छति । सम्बुद्धिगुणस्य अवकाशः । अग्ने, वायो । इह उभयम् प्राप्नोति । अग्नेच् छत्रम् , अग्ने छत्रम् , वायोच् छत्रम् , वायो छत्रम् । सम्बुद्धिगुणः भवति विप्रतिषेधेन । सः तर्हि विप्रतिषेधः वक्तव्यः । न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यः । किम् काऋअणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणः तुक् अन्तरङ्गलक्षणः सम्बुद्धिगुणः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । अन्तरेण विप्रतिषेधम् अन्तरेण अपि च एताम् परिभाषाम् सिद्धम् । कथम् । इदम् इह सम्प्रधार्यम् । सम्बुद्धिलोपः क्रियताम् गुणः इति । किम् अत्र कर्तव्यम् । परत्वात् गुणः । नित्यः सम्बुद्धिलोपः । कृते अपि गुणे प्राप्नोति अकृते अपि । गुणः अपि नित्यः । कृते अपि समुबुद्धिलोपे प्राप्नोति अकृते अपि । अनित्यः गुणः । न हि कृते सम्बुद्धिलोपे प्राप्नोति । तावति एव छेन आनन्तर्यम् । तत्र तुका भवितव्यम् । तस्मात् सुष्ठु उच्यते । छे तुकः सम्बुद्धिगुणः । न वा बहिरङ्गलक्षणत्वात् इति । सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयः च । सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयः च तुकः भवन्ति विप्रतिषेधेन । सम्प्रसारणदीर्घत्वस्य अवकाशः । हूतः , जीनः , संवीतः , शूनः । तुकः अवकाशः । अग्निचित् , सोमसुत् । इह उभयम् प्राप्नोति । परिवीषु , शकहूषु । णिलोपस्य अवकाशः ।कारणा , हारणा । तुकः सः एव । इह उभयम् प्राप्नोति । प्रकार्य गतः । प्रहार्य गतः । अल्लोपस्य अवकाशः । चिकीर्षिता , जिहीर्षिता । तुकः सः एव । इह उभयम् प्राप्नोति । प्रचिकीर्ष्य गतः , प्रजिहीर्ष्य गतः । अभ्यासगुणादयः च तुकः भवन्ति विप्रतिषेधेन । के पुनः अभ्यासगुणादयः । ह्रस्वत्वात्त्वेत्त्वगुणाः । ह्रस्वत्वस्य अवकाशः । पपतुः , पपुः , तस्थतुः , तस्थुः । तुकः सः एव । इह उभयम् प्राप्नोति । अपचच्छतुः , अपचच्छुः । अत्त्वस्य अवकाशः । चक्रतुः , चक्रुः । तुकः सः एव । इह उभयम् प्राप्नोति । अपचच्छृदतुः , अपचच्छृदुः । इत्त्वस्य अवकाशः । पिपक्षति , यियक्षति । तुकः सः एव । इह उभयम् प्राप्नोति । चिच्छादयिषति , चिच्छर्दयिषति । गुणस्य अवकाशः । लोलूयते , बेभिद्यते । तुकः सः एव । इह उभयम् प्राप्नोति । चेच्छिद्यते , चोच्छुप्यते । यणदेशात् आत् गुणः । यणदेशात् आत् गुणः भवति विप्रतिषेधेन । यणदेशस्य अवकाशः । दधि अत्र , मधु अत्र । आत् गुणस्य अवकाशः । खट्वेन्द्रः , खट्वोदकम् । इह उभयम् प्राप्नोति । वृक्षः अत्र, प्लक्शः अत्र । इरुर्गुणवृद्धिविधयः च । इरुर्गुणवृद्धिविधयः च यणदेशात् भवन्ति विप्रतिषेधेन । इरुरोः अवकाशः । आस्तीर्णम् , निपूर्ताः पिण्डाः । यणदेशस्य अवकाशः । चक्रतुः , चक्रुः । इह उभयम् प्राप्नोति । दूरे हि अध्वा जगुरिः । मित्रावरुणौ ततुरिः । किरति , गिरति । गुणवृद्ध्योः अवकाशः । चेता , गौः । यणदेशस्य सः एव । इह उभयम् प्राप्नोति । चयनम् , चायकः , लवनम् , लावकः । भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तनिवृत्तिस्वराः एकादेशात् च । भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तनिवृत्तिस्वराः एकादेशात् च यणदेशात् च भवन्ति विप्रतिषेधेन । भलोपस्य अवकाशः । गार्ग्यः , वात्स्यः । एकादेशयणादेशयोः अवकाशः । दधीन्द्रः , मधूदकम् । दधि अत्र , मधु अत्र। इह उभयम् प्राप्नोति । दाक्षी , दाक्षायणः , प्लाक्षी , प्लाक्षायणः । अचि भलोपः एकादेशात् भवति विप्र्तिषेधेन । अचि भलोपस्य अवकाशः । दाक्षी , दाक्षायणः , प्लाक्षी , प्लाक्षायणः । एकादेशस्य अवकाशः । दण्डाग्रम् ,

KA III.70.15-73.14 Ro IV.424-431 che tukaḥ sambuddhiguṇaḥ . che tuk bhavati iti asmāt sambuddhiguṇaḥ bhavati vipratiṣedhena . che tuk bhavati iti asya avakāśaḥ . icchati , gacchati . sambuddhiguṇasya avakāśaḥ . agne, vāyo . iha ubhayam prāpnoti . agnec chatram , agne chatram , vāyoc chatram , vāyo chatram . sambuddhiguṇaḥ bhavati vipratiṣedhena . saḥ tarhi vipratiṣedhaḥ vaktavyaḥ . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyaḥ . kim kāṛaṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgalakṣaṇaḥ tuk antaraṅgalakṣaṇaḥ sambuddhiguṇaḥ . asiddham bahiraṅgam antaraṅge . antareṇa vipratiṣedham antareṇa api ca etām paribhāṣām siddham . katham . idam iha sampradhāryam . sambuddhilopaḥ kriyatām guṇaḥ iti . kim atra kartavyam . paratvāt guṇaḥ . nityaḥ sambuddhilopaḥ . kṛte api guṇe prāpnoti akṛte api . guṇaḥ api nityaḥ . kṛte api samubuddhilope prāpnoti akṛte api . anityaḥ guṇaḥ . na hi kṛte sambuddhilope prāpnoti . tāvati eva chena ānantaryam . tatra tukā bhavitavyam . tasmāt suṣṭhu ucyate . che tukaḥ sambuddhiguṇaḥ . na vā bahiraṅgalakṣaṇatvāt iti . samprasāraṇadīrghatvaṇyallopābhyāsaguṇādayaḥ ca . samprasāraṇadīrghatvaṇyallopābhyāsaguṇādayaḥ ca tukaḥ bhavanti vipratiṣedhena . samprasāraṇadīrghatvasya avakāśaḥ . hūtaḥ , jīnaḥ , saṃvītaḥ , śūnaḥ . tukaḥ avakāśaḥ . agnicit , somasut . iha ubhayam prāpnoti . parivīṣu , śakahūṣu . ṇilopasya avakāśaḥ .kāraṇā , hāraṇā . tukaḥ saḥ eva . iha ubhayam prāpnoti . prakārya gataḥ . prahārya gataḥ . allopasya avakāśaḥ . cikīrṣitā , jihīrṣitā . tukaḥ saḥ eva . iha ubhayam prāpnoti . pracikīrṣya gataḥ , prajihīrṣya gataḥ . abhyāsaguṇādayaḥ ca tukaḥ bhavanti vipratiṣedhena . ke punaḥ abhyāsaguṇādayaḥ . hrasvatvāttvettvaguṇāḥ . hrasvatvasya avakāśaḥ . papatuḥ , papuḥ , tasthatuḥ , tasthuḥ . tukaḥ saḥ eva . iha ubhayam prāpnoti . apacacchatuḥ , apacacchuḥ . attvasya avakāśaḥ . cakratuḥ , cakruḥ . tukaḥ saḥ eva . iha ubhayam prāpnoti . apacacchṛdatuḥ , apacacchṛduḥ . ittvasya avakāśaḥ . pipakṣati , yiyakṣati . tukaḥ saḥ eva . iha ubhayam prāpnoti . cicchādayiṣati , cicchardayiṣati . guṇasya avakāśaḥ . lolūyate , bebhidyate . tukaḥ saḥ eva . iha ubhayam prāpnoti . cecchidyate , cocchupyate . yaṇadeśāt āt guṇaḥ . yaṇadeśāt āt guṇaḥ bhavati vipratiṣedhena . yaṇadeśasya avakāśaḥ . dadhi atra , madhu atra . āt guṇasya avakāśaḥ . khaṭvendraḥ , khaṭvodakam . iha ubhayam prāpnoti . vṛkṣaḥ atra, plakśaḥ atra . irurguṇavṛddhividhayaḥ ca . irurguṇavṛddhividhayaḥ ca yaṇadeśāt bhavanti vipratiṣedhena . iruroḥ avakāśaḥ . āstīrṇam , nipūrtāḥ piṇḍāḥ . yaṇadeśasya avakāśaḥ . cakratuḥ , cakruḥ . iha ubhayam prāpnoti . dūre hi adhvā jaguriḥ . mitrāvaruṇau taturiḥ . kirati , girati . guṇavṛddhyoḥ avakāśaḥ . cetā , gauḥ . yaṇadeśasya saḥ eva . iha ubhayam prāpnoti . cayanam , cāyakaḥ , lavanam , lāvakaḥ . bhalopadhātuprātipadikapratyayasamāsāntodāttanivṛttisvarāḥ ekādeśāt ca . bhalopadhātuprātipadikapratyayasamāsāntodāttanivṛttisvarāḥ ekādeśāt ca yaṇadeśāt ca bhavanti vipratiṣedhena . bhalopasya avakāśaḥ . gārgyaḥ , vātsyaḥ . ekādeśayaṇādeśayoḥ avakāśaḥ . dadhīndraḥ , madhūdakam . dadhi atra , madhu atra. iha ubhayam prāpnoti . dākṣī , dākṣāyaṇaḥ , plākṣī , plākṣāyaṇaḥ . aci bhalopaḥ ekādeśāt bhavati viprtiṣedhena . aci bhalopasya avakāśaḥ . dākṣī , dākṣāyaṇaḥ , plākṣī , plākṣāyaṇaḥ . ekādeśasya avakāśaḥ . daṇḍāgram ,

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।७३।१६-७५।८ रो इव्।४३१-४३३ ओतः तिङि प्रतिषेधः । ओतः तिङि प्रतिषेधः वक्तव्यः । अचिनवम् , असुनवम् । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । गोग्रहणम् करिष्यते । आ गोतः इति वक्तव्यम् । गोग्रहणे द्योः उपसङ्ख्यनम् । गोग्रहणे द्योः उपसङ्ख्यनम् कर्तव्यम् । द्यम् गच्छ । समासात् च प्रतिषेधः । समासात् च प्रतिषेधः वक्तव्यः । चित्रगुम् पश्य । शबलगुम् पश्य । ननु च आ ओतः इति उच्यमाने अपि समासात् प्रतिषेधः वक्तव्यः । न वक्तव्यः । ह्रस्वत्वे कृते न भविष्यति । इदम् इह सम्प्रधार्यम् । आत्वम् क्रियताम् ह्रस्वत्वम् इति किम् अत्र कर्तव्यम् । परत्वात् आत्वम् । न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यः । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणम् आत्वम् । अन्तरङ्गम् ह्रस्वत्वम् । असिद्धम् बहिरङ्गम् अन्तरङ्गे । ननु च आ गोतः इति उच्यमाने अपि समासात् प्रतिषेधः न वक्तव्यः । कथम् । ह्रस्वत्वे कृते न भविष्यति । स्थानिवद्भावात् प्राप्नोति । ननु च आ ओतः इति उच्यमाने अपि स्थानिवद्भावात् प्राप्नोति । न इति आह । अनल्विधौ स्थानिवद्भावः । आ गोतः इति उच्यमाने अपि न दोषः । प्रतिषिध्यते अत्र स्थानिवद्भावः । गोः पूर्वणित्वात्वस्वरेषु स्थानिवत् न भवति इति । सः एव तर्हि दोषः । गोग्रहणे द्योः उपसङ्ख्यनम् इति । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् ओतः तिङि प्रतिषेधः इति । सुबधिकारात् सिद्धम् । सुपि इति वर्तते । क्व प्रकृतम् । वा सुपि आपिशलेः इति । यदि अनुवर्तते इह अपि विभाषा प्राप्नोति । सुब्ग्रहणम् अनुवर्तते । वाग्रहणम् निवृत्तम् । कथम् पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तते एकदेशः न । एकयोगे च एकदेशानुवृत्तिः अन्यत्र अपि । एकयोग्निर्दिष्टानाम् अपि एकदेशानुवृत्तिः भवति । अन्यत्र अपि । न अवश्यम् इह एव । क्व अन्यत्र । अलुगधिकारः प्राक् आनङः । उत्तरपदाहिकारः प्राक् अङ्गाधिकारः । एवम् अपि अमि उपसङ्ख्यानम् वृद्धिबलीयस्त्वात् । अमि उपसङ्ख्यानम् कर्तव्यम् । गाम् पश्य । किम् पुनः कारणम् न सिध्यति । वृद्धिबलीयस्त्वात् । परत्वात् वृद्धिः प्राप्नोति । न वा अनवकाशत्वात् । न वा वक्तव्यम् । किम् कारणम् । अनवकाशत्वात् । अनवकाशम् आत्वम् वृद्धिम् बाधिष्यते । सावकाशम् आत्वम् । कः अवकाशः । द्याम् गच्छ । द्योः च सर्वनामस्थाने वृद्धिविधिः । द्योः च सर्वनामस्थाने वृद्धिः विधेया । किम् प्रयोजनम् । यत् द्यावः इन्द्र इति दर्शनात् । यत् द्यवः इन्द्र ते शतं शतम् भुमीः उत स्युः । यावता च इदानीम् द्योः अपि सर्वनामस्थाने वृद्धिः उच्यते अनवकाशम् आत्वम् वृद्धिम् बाधिष्यते ।

KA III.73.16-75.8 Ro IV.431-433 otaḥ tiṅi pratiṣedhaḥ . otaḥ tiṅi pratiṣedhaḥ vaktavyaḥ . acinavam , asunavam . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . gograhaṇam kariṣyate . ā gotaḥ iti vaktavyam . gograhaṇe dyoḥ upasaṅkhyanam . gograhaṇe dyoḥ upasaṅkhyanam kartavyam . dyam gaccha . samāsāt ca pratiṣedhaḥ . samāsāt ca pratiṣedhaḥ vaktavyaḥ . citragum paśya . śabalagum paśya . nanu ca ā otaḥ iti ucyamāne api samāsāt pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . hrasvatve kṛte na bhaviṣyati . idam iha sampradhāryam . ātvam kriyatām hrasvatvam iti kim atra kartavyam . paratvāt ātvam . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyaḥ . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgalakṣaṇam ātvam . antaraṅgam hrasvatvam . asiddham bahiraṅgam antaraṅge . nanu ca ā gotaḥ iti ucyamāne api samāsāt pratiṣedhaḥ na vaktavyaḥ . katham . hrasvatve kṛte na bhaviṣyati . sthānivadbhāvāt prāpnoti . nanu ca ā otaḥ iti ucyamāne api sthānivadbhāvāt prāpnoti . na iti āha . analvidhau sthānivadbhāvaḥ . ā gotaḥ iti ucyamāne api na doṣaḥ . pratiṣidhyate atra sthānivadbhāvaḥ . goḥ pūrvaṇitvātvasvareṣu sthānivat na bhavati iti . saḥ eva tarhi doṣaḥ . gograhaṇe dyoḥ upasaṅkhyanam iti . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam otaḥ tiṅi pratiṣedhaḥ iti . subadhikārāt siddham . supi iti vartate . kva prakṛtam . vā supi āpiśaleḥ iti . yadi anuvartate iha api vibhāṣā prāpnoti . subgrahaṇam anuvartate . vāgrahaṇam nivṛttam . katham punaḥ ekayoganirdiṣṭayoḥ ekadeśaḥ anuvartate ekadeśaḥ na . ekayoge ca ekadeśānuvṛttiḥ anyatra api . ekayognirdiṣṭānām api ekadeśānuvṛttiḥ bhavati . anyatra api . na avaśyam iha eva . kva anyatra . alugadhikāraḥ prāk ānaṅaḥ . uttarapadāhikāraḥ prāk aṅgādhikāraḥ . evam api ami upasaṅkhyānam vṛddhibalīyastvāt . ami upasaṅkhyānam kartavyam . gām paśya . kim punaḥ kāraṇam na sidhyati . vṛddhibalīyastvāt . paratvāt vṛddhiḥ prāpnoti . na vā anavakāśatvāt . na vā vaktavyam . kim kāraṇam . anavakāśatvāt . anavakāśam ātvam vṛddhim bādhiṣyate . sāvakāśam ātvam . kaḥ avakāśaḥ . dyām gaccha . dyoḥ ca sarvanāmasthāne vṛddhividhiḥ . dyoḥ ca sarvanāmasthāne vṛddhiḥ vidheyā . kim prayojanam . yat dyāvaḥ indra iti darśanāt . yat dyavaḥ indra te śataṃ śatam bhumīḥ uta syuḥ . yāvatā ca idānīm dyoḥ api sarvanāmasthāne vṛddhiḥ ucyate anavakāśam ātvam vṛddhim bādhiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।७५।१०-७६।५ रो इव्।४३४-४३५ पररूपप्रकरणे तुन्वोः वि निपाते उपसङ्ख्यानम् । पररूपप्रकरणे तु , नु, इति एतयोः वकारादौ निपाते उपसङ्ख्यानम् कर्तव्यम् । तु वै त्वै , नु वै न्वै । वकारादौ इति किमर्थम् । त्वावत् , न्वावत् । निपाते इति किमर्थम् । तु वानि , नु वानि । न वा निपातैकत्वात् । न वा कर्तव्यम् । किम् कारणम् । निपातैकत्वात् । एकः एव अयम् निपातः । त्वै , न्वै । एवे च अनियोगे । एवे च अनियोगे पररूपम् वक्तव्यम् । इह एव , इहेव । अद्येव । अनियोगे इति किमर्थम् । इहैव भव म स्म गाः । अत्रैव त्वम् इह वयम् सुशेवाः । शकन्ध्वादिषु च । शकन्ध्वादिषु च पररूपम् वक्तव्यम् । शक-अन्धुः शकन्धुः , कुल-अटा , कुलटा , सीम-अन्तः सीमन्तः । केशेषु इति वक्तव्यम् । यः हि सीम्नः अन्तः सीमान्तः सः भवति । ओत्वोष्ठयोः समासे वा । ओत्वोष्ठयोः समासे वा पररूपम् वक्तव्यम् । स्थूलौतुः , स्थूलोतुः । बिम्बौष्थी , बिम्बोष्ठी । एमनादिषु छन्दसि । एमनादिषु छन्दसि पररूपम् वक्तव्यम् । अपम् त्वेमन् सादयामि अपम् तोदयन् सादयामि इति ।

KA III.75.10-76.5 Ro IV.434-435 pararūpaprakaraṇe tunvoḥ vi nipāte upasaṅkhyānam . pararūpaprakaraṇe tu , nu, iti etayoḥ vakārādau nipāte upasaṅkhyānam kartavyam . tu vai tvai , nu vai nvai . vakārādau iti kimartham . tvāvat , nvāvat . nipāte iti kimartham . tu vāni , nu vāni . na vā nipātaikatvāt . na vā kartavyam . kim kāraṇam . nipātaikatvāt . ekaḥ eva ayam nipātaḥ . tvai , nvai . eve ca aniyoge . eve ca aniyoge pararūpam vaktavyam . iha eva , iheva . adyeva . aniyoge iti kimartham . ihaiva bhava ma sma gāḥ . atraiva tvam iha vayam suśevāḥ . śakandhvādiṣu ca . śakandhvādiṣu ca pararūpam vaktavyam . śaka-andhuḥ śakandhuḥ , kula-aṭā , kulaṭā , sīma-antaḥ sīmantaḥ . keśeṣu iti vaktavyam . yaḥ hi sīmnaḥ antaḥ sīmāntaḥ saḥ bhavati . otvoṣṭhayoḥ samāse vā . otvoṣṭhayoḥ samāse vā pararūpam vaktavyam . sthūlautuḥ , sthūlotuḥ . bimbauṣthī , bimboṣṭhī . emanādiṣu chandasi . emanādiṣu chandasi pararūpam vaktavyam . apam tveman sādayāmi apam todayan sādayāmi iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।७६।८-१४ रो इव्।४३५ किमर्थः चकारः । एङि इति अनुकृष्यते । किम् प्रयोजनम् । इह मा भूत् । अद्य आ ऋश्यात् , अद्यार्श्यात् , कदार्श्यात् । न एतत् अस्ति प्रयोजनम् । अद्यर्श्यात् इति एव भवितव्यम् । एवम् हि सौनागाः पठन्ति । चः अनर्थकः अनधिकारात् एङः । उस्योमाङ्क्षु आटः प्रतिषेधः । उसि पररूपे ओमाङोः च आटः प्रतिषेधः वक्तव्यः । औस्रीयत् , औढीयत् , औङ्कारीयत् । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । उक्तम् आतः च इति अत्र चकारस्य प्रयोजनम् । वृद्धिः एव यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

KA III.76.8-14 Ro IV.435 kimarthaḥ cakāraḥ . eṅi iti anukṛṣyate . kim prayojanam . iha mā bhūt . adya ā ṛśyāt , adyārśyāt , kadārśyāt . na etat asti prayojanam . adyarśyāt iti eva bhavitavyam . evam hi saunāgāḥ paṭhanti . caḥ anarthakaḥ anadhikārāt eṅaḥ . usyomāṅkṣu āṭaḥ pratiṣedhaḥ . usi pararūpe omāṅoḥ ca āṭaḥ pratiṣedhaḥ vaktavyaḥ . ausrīyat , auḍhīyat , auṅkārīyat . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . uktam ātaḥ ca iti atra cakārasya prayojanam . vṛddhiḥ eva yathā syāt . yat anyat prāpnoti tat mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।७६।१६-२१ रो इव्।४३६ अपदान्तात् इति किमर्थम् । का , उस्रा , कोस्रा । अपदान्तात् इति शक्यम् अकर्तुम् । कस्मात् न भवति का , उस्रा , कोस्रा । अर्थवद्ग्रहणे न अनर्थकस्य इति । न एषा परिभाषा इह शक्या विज्ञातुम् । इह हि दोषः स्यात् । भिन्द्या-उस् , भिन्द्युः , छिन्द्या-उस्, छिन्द्युः । एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति । उत्तरार्थम् तर्हि अपदान्तग्रहणम् कर्तव्यम् । अतः गुणे अपदान्तात् यथा स्यात् । इह मा भूत् । दण्डाग्रम् , क्षुपाग्रम् इति ।

KA III.76.16-21 Ro IV.436 apadāntāt iti kimartham . kā , usrā , kosrā . apadāntāt iti śakyam akartum . kasmāt na bhavati kā , usrā , kosrā . arthavadgrahaṇe na anarthakasya iti . na eṣā paribhāṣā iha śakyā vijñātum . iha hi doṣaḥ syāt . bhindyā-us , bhindyuḥ , chindyā-us, chindyuḥ . evam tarhi lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati . uttarārtham tarhi apadāntagrahaṇam kartavyam . ataḥ guṇe apadāntāt yathā syāt . iha mā bhūt . daṇḍāgram , kṣupāgram iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।७७।२-३ रो इव्।४३६ इतौ अनेकाज्ग्रहणम् श्रदर्थम् । इतौ अनेकाज्ग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । श्रदर्थम् । श्रत् इति ।

KA III.77.2-3 Ro IV.436 itau anekājgrahaṇam śradartham . itau anekājgrahaṇam kartavyam . kim prayojanam . śradartham . śrat iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।७७।५-९ रो इव्।४३७ नित्यम् आम्रेडिते डाचि । नित्यम् आम्रेडिते डाचि पररूपम् कर्तव्यम् । पटपटायति । अकारन्तात् अनुकरणात् वा । अथ वा अकारान्तम् एतद् उदाहरणम् । भवेत् सिद्धम् यदा अकारान्तम् । यदा तु खलु अच्छब्दान्तम् तदा न सिध्यति । विचित्राः तद्धितवृत्तयः । न अतः तद्धितः उत्पद्यते ।

KA III.77.5-9 Ro IV.437 nityam āmreḍite ḍāci . nityam āmreḍite ḍāci pararūpam kartavyam . paṭapaṭāyati . akārantāt anukaraṇāt vā . atha vā akārāntam etad udāharaṇam . bhavet siddham yadā akārāntam . yadā tu khalu acchabdāntam tadā na sidhyati . vicitrāḥ taddhitavṛttayaḥ . na ataḥ taddhitaḥ utpadyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।७७।११-४ रो इव्।४३७ सवर्णदीर्घत्वे ऋति ऋवावचनम् । सवर्णदीर्घत्वे ऋति ऋ वा भवति इति वक्तव्यम् । होतृ ऋकारः , होतॄकारः । लृति लृवावचनम् । लृति ऌ वा भवति इति वक्तव्यम् । होतृ ऌकारः , होताऌकारः ।

KA III.77.11-4 Ro IV.437 savarṇadīrghatve ṛti ṛvāvacanam . savarṇadīrghatve ṛti ṛ vā bhavati iti vaktavyam . hotṛ ṛkāraḥ , hotṝkāraḥ . lṛti lṛvāvacanam . lṛti ḷ vā bhavati iti vaktavyam . hotṛ ḷkāraḥ , hotĀḷkāraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।७८।२-१९ रो इव्।४३८-४४१ प्रथम्योः इति उच्यते । कयोः इह प्रथम्योः ग्रहणम् । किम् विभक्त्योः आहोस्वित् प्रत्यययोः । विभक्त्योः इति आह । कथम् ज्ञायते । अचि इति वर्तते न च अजादौ प्रथमौ प्रत्ययौ स्तः । ननु च एवम् विज्ञायते । अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति । यत् तर्हि तस्मात् शसः नः पुंसि इति अनुक्रान्तम् पूर्वसवर्णम् प्रतिनिर्दिशति तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति । अथ वा सुपि इति वर्तते । अथम् किमर्थम् पूर्वसवर्णदीर्घः अमि पूर्वत्वम् च उच्यते न प्रथम्योः पूर्वसवर्णः इति एव सिद्धम् । न सिध्यति । प्रथम्योः पूर्वसवर्णः इति उच्यमाने अमि अपि दीर्घः प्राप्नोति । वृक्षम् , प्लक्षम् । न एषः दोषः । यत् पूर्वस्मिन् योगे दीर्घग्रहणम् तत् उत्तरत्र निवृत्तम् । एवम् अपि इदम् इह पूर्वसवर्णग्रहणम् क्रियते । तेन अमि अपि पूर्वसवर्णः प्रसज्येत । वृक्षम् , प्लक्षम् । द्विमात्रः प्राप्नोति । न एषः दोषः । सवर्णग्रहणम् न करिष्यते । यदि सवर्णग्रहणम् न क्रियते कुतः व्यवस्था । आन्तर्यतः । यदि एवम् अग्नी वायू त्रिमात्रः प्राप्नोति वृक्षम् , प्लक्षम् द्विमात्रः । तस्मात् सवर्णग्रहणम् कर्तव्यम् । तस्मिन् च क्रियमाणे दीर्घग्रहणम् अनुवर्तते । तस्मिन् अनुवर्तमाने अमि पूर्वः इति अपि वक्तव्यम् । अथ किमर्थम् पृथक् उच्यते न इह एक एव उच्येत । प्रथमयोः पूर्वसवर्णः अमि च इति । यदि प्रथमयोः पूर्वसवर्णदीर्घः अमि च इति उच्यते तन अमि अपि दीर्घः प्रसज्येत । वृक्षम् , प्लक्षम् । न एषः दोषः । दीर्घग्रहणम् निवर्तयिष्यते । एवम् अपि पूर्वसवर्णः प्रसज्येत । सवर्णग्रहणम् न करिष्यते । यदि सवर्णग्रहणम् न क्रियते पूर्वस्मिन् योगे विप्रतिषिद्धम् । यदि पूर्वः न दीर्घः अथ दीर्घः न पूर्वः । पूर्वः दीर्घः च इति विप्रतिषिद्धम् । तस्मात् उभयम् आरब्धव्यम् पृथक् च कर्तव्यम् ।

KA III.78.2-19 Ro IV.438-441 prathamyoḥ iti ucyate . kayoḥ iha prathamyoḥ grahaṇam . kim vibhaktyoḥ āhosvit pratyayayoḥ . vibhaktyoḥ iti āha . katham jñāyate . aci iti vartate na ca ajādau prathamau pratyayau staḥ . nanu ca evam vijñāyate . ajādī yau prathamau ajādīnām vā yau prathamau iti . yat tarhi tasmāt śasaḥ naḥ puṃsi iti anukrāntam pūrvasavarṇam pratinirdiśati tat jñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti . atha vā supi iti vartate . atham kimartham pūrvasavarṇadīrghaḥ ami pūrvatvam ca ucyate na prathamyoḥ pūrvasavarṇaḥ iti eva siddham . na sidhyati . prathamyoḥ pūrvasavarṇaḥ iti ucyamāne ami api dīrghaḥ prāpnoti . vṛkṣam , plakṣam . na eṣaḥ doṣaḥ . yat pūrvasmin yoge dīrghagrahaṇam tat uttaratra nivṛttam . evam api idam iha pūrvasavarṇagrahaṇam kriyate . tena ami api pūrvasavarṇaḥ prasajyeta . vṛkṣam , plakṣam . dvimātraḥ prāpnoti . na eṣaḥ doṣaḥ . savarṇagrahaṇam na kariṣyate . yadi savarṇagrahaṇam na kriyate kutaḥ vyavasthā . āntaryataḥ . yadi evam agnī vāyū trimātraḥ prāpnoti vṛkṣam , plakṣam dvimātraḥ . tasmāt savarṇagrahaṇam kartavyam . tasmin ca kriyamāṇe dīrghagrahaṇam anuvartate . tasmin anuvartamāne ami pūrvaḥ iti api vaktavyam . atha kimartham pṛthak ucyate na iha eka eva ucyeta . prathamayoḥ pūrvasavarṇaḥ ami ca iti . yadi prathamayoḥ pūrvasavarṇadīrghaḥ ami ca iti ucyate tana ami api dīrghaḥ prasajyeta . vṛkṣam , plakṣam . na eṣaḥ doṣaḥ . dīrghagrahaṇam nivartayiṣyate . evam api pūrvasavarṇaḥ prasajyeta . savarṇagrahaṇam na kariṣyate . yadi savarṇagrahaṇam na kriyate pūrvasmin yoge vipratiṣiddham . yadi pūrvaḥ na dīrghaḥ atha dīrghaḥ na pūrvaḥ . pūrvaḥ dīrghaḥ ca iti vipratiṣiddham . tasmāt ubhayam ārabdhavyam pṛthak ca kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।७८।२०-८०।२१ रो इव्।४४१-४४६ प्रथमयोः इति योगविभागः सवर्णदीर्घार्थः । प्रथमयोः इति योगविभागः कर्तव्यः । प्रथमयोः एकः सवर्णदीर्घः भवति । ततः पूर्वसवर्णः । पूर्वसवर्णदीर्घः भवति एकः प्रथमयोः इति । किमर्थः योगविभागः । सवर्णदीर्घत्वम् यथा स्यात् । एकयोगे हि जश्शहोः पररूपप्रसङ्गः । एकयोगे हि सति जश्शहोः पररूपम् प्रसज्येत । वृक्षाः , प्लक्षाः , वृक्षान् , प्लक्षान् । ननु च पूर्वसवर्णदीर्घत्वम् पररूपम् बाधिष्यते । न उत्सहते बाधितुम् । किम् कारणम् । आद्गुणयणादेशयोः अपवादाः वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः तेषाम् पररूपम् स्वरसन्धिषु । आद्गुणयणादेशौ उत्सर्गौ । तयोः अपवादाः वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः तेषाम् सर्वेषाम् पररूपम् अपवादः । तत् सर्वबाधकम् । सर्वबाधकत्वात् प्राप्नोति । अथ क्रियमाणे अपि योगविभागे यावता पररूपम् अपवादः कस्मात् एव न बाधते । योगविभागः अन्यशास्त्रनिवृत्तियर्थः । योगविभागः अन्यशास्त्रनिवृत्तियर्थः विज्ञायते । योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः । योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः भवति । वृक्षम् , प्लक्षम् । यथा एव हि योगविभागः पररूपम् बाधते एवम् अमि पूर्वत्वम् अपि बाधेत । नकाराभावः च तस्मात् इति अनन्तरनिर्देशात् । नत्वस्य च अभावः । वृक्षान् , प्लक्षान् । किम् कारणम् । च तस्मात् इति अनन्तरनिर्देशात् । तस्मात् इति अनेन अनन्तरः योगः प्रतिनिर्दिश्यते । किम् पुनः कारणम् तस्मात् इति अनेन अनन्तरः योगः प्रतिनिर्दिश्यते । इह मा भूत् । एतान् गाः पश्य [र्: एतान् गाः चतुरः बलिवर्दान् पश्य] इति । अस्तु तर्हि एकयोगः एव । ननु च उक्तम् एकयोगे हि जश्शहोः पररूपप्रसङ्गः इति । न एषः दोषः । इज्ग्रहणम् तु ज्ञापकम् पररूपाभावस्य । यत् अयम् न आत् इचि इति इज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः न जश्शसोः पररूपम् भवति इति । कथम् कृत्वा ज्ञापकम् । इज्ग्रहणस्य इदम् प्रयोजनम् । इह मा भूत् । वृक्षाः , प्लक्षाः , वृक्षान् , प्लक्षान् । यदि च जश्शसोः पररूपम् स्यात् इज्ग्रहणम् अनर्थकम् स्यात् । पश्यति तु आचार्यः न जश्शसोः पररूपम् भवति इति । ततः इज्ग्रहणम् करोति । न एतत् अस्ति ज्ञापकम् । उत्तरार्थम् एतत् स्यात् । दीर्घात् जसि च इचि च इति । यदि उत्तरार्थम् एतत् स्यात् अत्र एव अयम् इज्द्ग्रहणम् कुर्वीत । इह अपि तर्हि क्रियमाणम् यदि उत्तरार्थम् न ज्ञापकम् भवति । एवम् तर्हि यदि उत्तरार्थम् एतत् स्यात् न एव अयम् इज्द्ग्रहणम् कुर्वीत न अपि जस्ग्रहणम् । एतावत् अयम् ब्रूयात् । दीर्घात् शसि पूर्वसवर्णः भवति इति । तत् नियमार्थम् भविष्यति । दीर्घात् शसि एव न अन्यत्र इति । सः अयम् एवम् लघीयसा न्यासेन सिद्धे यत् इज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः न जश्शसोः पररूपम् भवति इति । अथ वा पुनः अस्तु योगविभागः । ननु च उक्तम् योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः इति । न एषः दोषः । अमि अपि योगविभागः करिष्यते । अमि । अमि यत् उक्तम् तत् न भवति इति । ततः पूर्वः । पूर्वः च भवति अमि इति । यत् अपि उच्यते नकाराभावः च तस्मात् इति अनन्तरनिर्देशात् इति । कः पुनः अर्हति तस्मात् इति अनेन अनन्तरम् योगम् प्रतिनिर्देष्टुम् । एवम् किल प्रतिनिर्दिश्यते । तस्मात् पूर्वसवर्णदीर्घात् इति । तत् च न । एवम् प्रतिनिर्दिश्यते । तस्मात् अकः सवर्णात् इति । अथ वा तस्मात् प्रथम्योः दीर्घात् इति । अथ वा पुनः अस्तु अमि एकयोगः । ननु च उक्तम् योगविभागः अन्यशास्त्रनिवृत्तियर्थः चेत् अमि अतिप्रसङ्गः इति । न एषः दोषः । मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् अयम् योगविभागः पररूपम् बाधिष्यते अमि पूर्वत्वम् न बाधिष्यते । यदि एतत् अस्ति मध्ये अपवादाः पुरस्तात् अपवादाः इति न अर्थः एकेन अपि योगविभागेन । पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् पररूपम् सवर्णदीर्घत्वम् बाधिष्यते प्रथमयोः पूर्वसवर्णदीर्घत्वम् न बाधिष्यते । अथ वा सप्तमे योगविभागः करिष्यते । इदम् अस्ति अतः दीर्घः यञि सुपि च इति । ततः वक्ष्यामि बहुवचने । बहुवचने च अतः दीर्घः भवति । एकारः च भवति बहुवचने झलि इति । इह अपि तर्हि प्राप्नोति । वृषाणाम् , प्लक्षाणाम् । तत्र कः दोषः । दीर्घत्वे कृते ह्रस्वाश्रयः नुट् न प्राप्नोति । इदम् इह सम्प्रधार्यम् । दीर्घत्वम् क्रियताम् नुट् इति किम्

KA III.78.20-80.21 Ro IV.441-446 prathamayoḥ iti yogavibhāgaḥ savarṇadīrghārthaḥ . prathamayoḥ iti yogavibhāgaḥ kartavyaḥ . prathamayoḥ ekaḥ savarṇadīrghaḥ bhavati . tataḥ pūrvasavarṇaḥ . pūrvasavarṇadīrghaḥ bhavati ekaḥ prathamayoḥ iti . kimarthaḥ yogavibhāgaḥ . savarṇadīrghatvam yathā syāt . ekayoge hi jaśśahoḥ pararūpaprasaṅgaḥ . ekayoge hi sati jaśśahoḥ pararūpam prasajyeta . vṛkṣāḥ , plakṣāḥ , vṛkṣān , plakṣān . nanu ca pūrvasavarṇadīrghatvam pararūpam bādhiṣyate . na utsahate bādhitum . kim kāraṇam . ādguṇayaṇādeśayoḥ apavādāḥ vṛddhisavarṇadīrghapūrvasavarṇādeśāḥ teṣām pararūpam svarasandhiṣu . ādguṇayaṇādeśau utsargau . tayoḥ apavādāḥ vṛddhisavarṇadīrghapūrvasavarṇādeśāḥ teṣām sarveṣām pararūpam apavādaḥ . tat sarvabādhakam . sarvabādhakatvāt prāpnoti . atha kriyamāṇe api yogavibhāge yāvatā pararūpam apavādaḥ kasmāt eva na bādhate . yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ . yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ vijñāyate . yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ . yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ bhavati . vṛkṣam , plakṣam . yathā eva hi yogavibhāgaḥ pararūpam bādhate evam ami pūrvatvam api bādheta . nakārābhāvaḥ ca tasmāt iti anantaranirdeśāt . natvasya ca abhāvaḥ . vṛkṣān , plakṣān . kim kāraṇam . ca tasmāt iti anantaranirdeśāt . tasmāt iti anena anantaraḥ yogaḥ pratinirdiśyate . kim punaḥ kāraṇam tasmāt iti anena anantaraḥ yogaḥ pratinirdiśyate . iha mā bhūt . etān gāḥ paśya [R: etān gāḥ caturaḥ balivardān paśya] iti . astu tarhi ekayogaḥ eva . nanu ca uktam ekayoge hi jaśśahoḥ pararūpaprasaṅgaḥ iti . na eṣaḥ doṣaḥ . ijgrahaṇam tu jñāpakam pararūpābhāvasya . yat ayam na āt ici iti ijgrahaṇam karoti tat jñāpayati ācāryaḥ na jaśśasoḥ pararūpam bhavati iti . katham kṛtvā jñāpakam . ijgrahaṇasya idam prayojanam . iha mā bhūt . vṛkṣāḥ , plakṣāḥ , vṛkṣān , plakṣān . yadi ca jaśśasoḥ pararūpam syāt ijgrahaṇam anarthakam syāt . paśyati tu ācāryaḥ na jaśśasoḥ pararūpam bhavati iti . tataḥ ijgrahaṇam karoti . na etat asti jñāpakam . uttarārtham etat syāt . dīrghāt jasi ca ici ca iti . yadi uttarārtham etat syāt atra eva ayam ijdgrahaṇam kurvīta . iha api tarhi kriyamāṇam yadi uttarārtham na jñāpakam bhavati . evam tarhi yadi uttarārtham etat syāt na eva ayam ijdgrahaṇam kurvīta na api jasgrahaṇam . etāvat ayam brūyāt . dīrghāt śasi pūrvasavarṇaḥ bhavati iti . tat niyamārtham bhaviṣyati . dīrghāt śasi eva na anyatra iti . saḥ ayam evam laghīyasā nyāsena siddhe yat ijgrahaṇam karoti tat jñāpayati ācāryaḥ na jaśśasoḥ pararūpam bhavati iti . atha vā punaḥ astu yogavibhāgaḥ . nanu ca uktam yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ iti . na eṣaḥ doṣaḥ . ami api yogavibhāgaḥ kariṣyate . ami . ami yat uktam tat na bhavati iti . tataḥ pūrvaḥ . pūrvaḥ ca bhavati ami iti . yat api ucyate nakārābhāvaḥ ca tasmāt iti anantaranirdeśāt iti . kaḥ punaḥ arhati tasmāt iti anena anantaram yogam pratinirdeṣṭum . evam kila pratinirdiśyate . tasmāt pūrvasavarṇadīrghāt iti . tat ca na . evam pratinirdiśyate . tasmāt akaḥ savarṇāt iti . atha vā tasmāt prathamyoḥ dīrghāt iti . atha vā punaḥ astu ami ekayogaḥ . nanu ca uktam yogavibhāgaḥ anyaśāstranivṛttiyarthaḥ cet ami atiprasaṅgaḥ iti . na eṣaḥ doṣaḥ . madhye apavādāḥ pūrvān vidhīn bādhante iti evam ayam yogavibhāgaḥ pararūpam bādhiṣyate ami pūrvatvam na bādhiṣyate . yadi etat asti madhye apavādāḥ purastāt apavādāḥ iti na arthaḥ ekena api yogavibhāgena . purastāt apavādāḥ anantarān vidhīn bādhante iti evam pararūpam savarṇadīrghatvam bādhiṣyate prathamayoḥ pūrvasavarṇadīrghatvam na bādhiṣyate . atha vā saptame yogavibhāgaḥ kariṣyate . idam asti ataḥ dīrghaḥ yañi supi ca iti . tataḥ vakṣyāmi bahuvacane . bahuvacane ca ataḥ dīrghaḥ bhavati . ekāraḥ ca bhavati bahuvacane jhali iti . iha api tarhi prāpnoti . vṛṣāṇām , plakṣāṇām . tatra kaḥ doṣaḥ . dīrghatve kṛte hrasvāśrayaḥ nuṭ na prāpnoti . idam iha sampradhāryam . dīrghatvam kriyatām nuṭ iti kim

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८०।२३-८१।१९ रो इव्।४४६-४४८ किम् इदम् नत्वम् पुंसाम् बहुत्वे भवति आहोस्वित् पुंशब्दात् बहुषु । कः च अत्र विशेषः । नत्वम् पुंसाम् बहुत्वे चेत् पुंशब्दात् इष्यते स्त्रियाम् । तत् न सिध्यति । भ्रूकुंसान् पश्य इति । नपुंसके तथा एव इष्टम् । तत् न सिध्यति । षण्ढान् पश्य । पण्डकान् पश्य इति । स्त्रीशब्दात् च प्रसज्यते । स्त्रीशब्दात् च प्राप्नोति : चञ्चाः पश्य , वध्रिकाः पश्य , खरकुटीः पश्य । अस्तु तर्हि पुंशब्दात् बहुषु । पुंशबात् इति चेत् इष्टम् स्थूरापत्यम् न सिध्यति । स्थूरान् पश्य इति । कुण्डिन्याः अररकायाः । अपत्यम् च न सिध्यति । कुण्डिनान् पश्य । अररकान् पश्य । पुंस्प्राधान्यात् प्रसिध्यति । पुंस्प्रधाना एते शब्दाः । ततः नत्वम् भविष्यति । पुंस्प्राधान्ये ते एव स्युः ये दोषाः पूर्वचोदिताः । भ्रूकुंसान् पश्य । षण्ढान् पश्य । पण्डकान् पश्य । चञ्चाः पश्य । वध्रिकाः पश्य । खरकुटीः पश्य इति । तस्मात् यस्मिन् पक्षे अल्पीयांसः दोषाः तम् आस्थाय प्रतिविधेयम् दोषेषु ।

KA III.80.23-81.19 Ro IV.446-448 kim idam natvam puṃsām bahutve bhavati āhosvit puṃśabdāt bahuṣu . kaḥ ca atra viśeṣaḥ . natvam puṃsām bahutve cet puṃśabdāt iṣyate striyām . tat na sidhyati . bhrūkuṃsān paśya iti . napuṃsake tathā eva iṣṭam . tat na sidhyati . ṣaṇḍhān paśya . paṇḍakān paśya iti . strīśabdāt ca prasajyate . strīśabdāt ca prāpnoti : cañcāḥ paśya , vadhrikāḥ paśya , kharakuṭīḥ paśya . astu tarhi puṃśabdāt bahuṣu . puṃśabāt iti cet iṣṭam sthūrāpatyam na sidhyati . sthūrān paśya iti . kuṇḍinyāḥ ararakāyāḥ . apatyam ca na sidhyati . kuṇḍinān paśya . ararakān paśya . puṃsprādhānyāt prasidhyati . puṃspradhānā ete śabdāḥ . tataḥ natvam bhaviṣyati . puṃsprādhānye te eva syuḥ ye doṣāḥ pūrvacoditāḥ . bhrūkuṃsān paśya . ṣaṇḍhān paśya . paṇḍakān paśya . cañcāḥ paśya . vadhrikāḥ paśya . kharakuṭīḥ paśya iti . tasmāt yasmin pakṣe alpīyāṃsaḥ doṣāḥ tam āsthāya pratividheyam doṣeṣu .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८१।२१-२२ रो इव्।४४८ वा छन्दसि इति एव । यमीम् च यम्यम् च । शमीम् च शम्यम् च । गरुईम् च गौर्यम् च । किशोरीम् च किशोर्यम् च ।

KA III.81.21-22 Ro IV.448 vā chandasi iti eva . yamīm ca yamyam ca . śamīm ca śamyam ca . garuīm ca gauryam ca . kiśorīm ca kiśoryam ca .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८२।२ रो इव्।४४८ वा छन्दसि इति एव । मित्रावरुणौ यज्यमानः । मित्रावरुणौ इज्यमानः ।

KA III.82.2 Ro IV.448 vā chandasi iti eva . mitrāvaruṇau yajyamānaḥ . mitrāvaruṇau ijyamānaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८२।३-२० रो इव्।४४९-४५० सम्प्रसारणात् पूर्वत्वे समानाङ्गग्रहणम् असमानाङ्गप्रतिषेधार्थम् । सम्प्रसारणात् पूर्वत्वे समानाङ्गग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । असमानाङ्गप्रतिषेधार्थम् । असमानाङ्गस्य मा भूत् इति । शकह्वर्थम् , परिव्यर्थम् । सिद्धम् असम्प्रसारणात् । सिद्धम् एतत् । कथम् । असम्प्रसारणात् । वाक्यस्य सम्प्रसारणसञ्ज्ञा न वर्णस्य । अथ वर्णस्य सम्प्रसारणसञ्ज्ञायाम् दोषः एव । वर्णस्य च सम्प्रसारणसञ्ज्ञायाम् न दोषः । कथम् । अन्यः अयम् सम्प्रसारणासम्प्रसारणयोः स्थाने एकः आदिश्यते । कार्यकृतत्वात् वा । अथ वा सकृत् कृतम् पूर्वत्वम् इति कृत्वा पुनः न भविष्यति । तत् यथा वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । विषमः उपन्यासः । युक्तम् यत् तस्य पुनः प्रवृत्तिः न भवति । यः तु तदाश्रयम् प्राप्नोति न तत् शक्यम् बाधितुम् । तत् यथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते । तस्मात् पूर्वोक्तः एव परिहारः सिद्धम् असम्प्रसारणात् इति । यदि तर्हि न इदम् सम्प्रसारणम् हूतः इति दीर्घत्वम् न प्राप्नोति । दीर्घत्वम् वचनप्रामाण्यात् । अनवकाशम् दीर्घत्वम् । तत् वचनप्रामाण्यात् भविष्यति । अन्तवत्त्वात् वा । अथ वा पूर्वस्य कार्यम् प्रति अन्तवत् भवति इति दीर्घत्वम् भविष्यति । क्अ इइइ।८२।२१-८४।२३ रो इव्।४५०-४५५ आटः वृद्धेः इयङ् । आटः वृद्धिः भवति इति एतस्मात् इयङ् भवति विप्रतिषेधेन । आटः वृद्धिः भवति इति अस्य अवकाशः ऐक्षिष्ट , ऐहिष्ट । इयङः अवकाशः : अधीयाते , अधीयते । इह उभयम् प्राप्नोति : अध्यैयाताम् अध्यैयत । इयङादेशः भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । अन्तरङ्गा आटः वृद्धिः । का अन्तरङ्गता । वर्णौ आश्रित्य आटः वृद्धिः । अङ्गस्य इयङ् आदेशः । एवम् तर्हि इदम् इह सम्प्रधार्यम् । आट् क्रियताम् इयङादेशः इति किम् अत्र कर्तव्यम् । परत्वात् इयङ् । नित्यः आट् आगमः । कृते अपि इयङि प्राप्नोति अकृते अपि । इयङ् अपि नित्यः । कृते अपि आटि प्राप्नोति अकृते अपि । अनित्यः इयङ् । न हि कृते आति प्राप्नोति । किम् कारणम् । अन्तरङ्गा आटः वृद्धिः । यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् । न च अत्र आत् एव इयङः निमित्तम् विहन्ति । अवश्यम् लक्षणान्तरम् आटः वृद्धिः प्रतीक्ष्या । उभयोः नित्ययोः परत्वात् इयङ् आदेशः । आत् गुणात् सवर्णदीर्घत्वम् आङभ्यासयोः । आत् गुणात् सवर्णदीर्घत्वम् भवति विप्रतिषेधेन । क्व । आङभ्यासयोः । आत् गुणस्य अवकाशः : खट्वेन्द्रः , खट्वोदकम् । सवर्णदीर्घत्वस्य अवकाशः : दण्डाग्रम् , क्षुपाग्रम् । इह उभयम् प्राप्नोति : अद्य , आ , ऊढा : अद्योढा , कदा , आ , ऊढा : कदोढा , उप , इ , इजतुः : उपेजतुः , उप , उ , उपतुः : उपोपतुः । सवर्णदीर्घत्वम् भवति विप्रतिषेधेन । अभ्यासार्थेन तावत् न अर्थः । अस्तु अत्र आत् गुणः अयवौ च हलादिशेषः । पुनः आत् गुणः भविष्यति । भवेत् सिद्धम् उपेजतुः , उपेजतुः इति । इदम् तु न सिध्यति : उपोपतुः , उपोपुः इति । अत्र हि आत् गुणे कृते ओदन्तः निपातः इति प्रगृह्यसञ्ज्ञा , प्रगृह्यः प्रकृत्या इति प्रगृह्याश्रयः प्रकृतिभावः प्राप्नोति । पदान्तप्रकरणे प्र्कृतिभावः न च एषः पदान्तः । पदान्तभक्तः पदान्तग्रहणेन ग्राहीष्यते । एवम् तर्हि एतत् एव अत्र न अस्ति ओदन्तः निपातः इति । किम् कारणम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । इह अपि तर्हि अद्योढा , कदोढा इति भवेत् रूपम् सिद्धम् स्यात् । स्वरे दोषः तु । स्वरे तु दोषः भवति । अद्योढा* एवम् स्वरः प्रसज्येत। अद्योढा* इति च इष्यते । आङि पररूपवचनम् च इदानीम् अनर्थकम् स्यात् । न अनर्थकम् । ज्ञापकार्थम् । किम् ज्ञाप्यम् । आङि पररूपवचनम् तु ज्ञापकम् अन्तरङ्गबलीयस्त्वात् । एतत् ज्ञापयति आचार्यः । अन्तरङ्गम् बलीयः भवति इति । किम् पुनः इह अन्तरङ्गम् किम् बहिरङ्गम् यावता द्वे पदे आश्रित्य सवर्णदीर्घत्वम् भवति आत् गुणः अपि । धातूपसर्गयोः यत् कार्यम् तत् अन्तरङ्गम् । कुतः एतत् । पूर्वम् उपसर्गस्य धातुन योगः भवति न अद्य शब्देन । किमर्थम् तर्हि अद्यशब्दः प्रयुज्यते । अद्यशब्दय्स अपि समुदायेन योगः भवति । किम् एतस्य ज्ञापने प्रयोजनम् । प्रयोजनम् पूर्वसवर्णपूर्वत्वतहिलोपटेनङेय्यङिस्मिन्ङिणलौत्वम् अन्तरङ्गम् बहिरङ्गलक्षणात् वर्णविकारात् । पूर्वसवर्णः प्रयोजनम् । अग्नी अत्र , वायू अत्र । पूर्वसवर्णः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः आवादेशः । पूर्वसवर्णदीर्घत्वम् भवति अन्तरङ्गतः । पूर्वत्व । शकह्वर्थम् , परिव्यर्थम् । पूर्वत्वम् च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् । पूर्वत्वम् भवति अन्तरङ्गतः । तहिलोप । अकारि अत्र । अहारि अत्र । पच इदम् । तहिलोपौ च प्राप्नुतः बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् । तहिलोपौ भवतः अन्तरङ्गतः । टेन । वृक्षेण अत्र , प्लक्षेण अत्र । इनादेशः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः सवर्णदीर्घत्वम् । इनादेशः भवति अन्तरङ्गतः । ङेर्य । वृक्षाय अत्र , प्लक्षाय अत्र । ङेः यादेशः च प्राप्नोति बहिरङ्गलक्षणः च वर्णविकारः एङः पदान्तात् अति इति पररूपत्वम् । ङेः यादेशः भवति अन्तरङ्गतः । ङिस्मिन् । यस्मिन् इदम् , तस्मिन् इदम् । स्मिन्भावः च प्राप्नोति

KA III.82.3-20 Ro IV.449-450 samprasāraṇāt pūrvatve samānāṅgagrahaṇam asamānāṅgapratiṣedhārtham . samprasāraṇāt pūrvatve samānāṅgagrahaṇam kartavyam . kim prayojanam . asamānāṅgapratiṣedhārtham . asamānāṅgasya mā bhūt iti . śakahvartham , parivyartham . siddham asamprasāraṇāt . siddham etat . katham . asamprasāraṇāt . vākyasya samprasāraṇasañjñā na varṇasya . atha varṇasya samprasāraṇasañjñāyām doṣaḥ eva . varṇasya ca samprasāraṇasañjñāyām na doṣaḥ . katham . anyaḥ ayam samprasāraṇāsamprasāraṇayoḥ sthāne ekaḥ ādiśyate . kāryakṛtatvāt vā . atha vā sakṛt kṛtam pūrvatvam iti kṛtvā punaḥ na bhaviṣyati . tat yathā vasante brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . viṣamaḥ upanyāsaḥ . yuktam yat tasya punaḥ pravṛttiḥ na bhavati . yaḥ tu tadāśrayam prāpnoti na tat śakyam bādhitum . tat yathā vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante vasante ijyate . tasmāt pūrvoktaḥ eva parihāraḥ siddham asamprasāraṇāt iti . yadi tarhi na idam samprasāraṇam hūtaḥ iti dīrghatvam na prāpnoti . dīrghatvam vacanaprāmāṇyāt . anavakāśam dīrghatvam . tat vacanaprāmāṇyāt bhaviṣyati . antavattvāt vā . atha vā pūrvasya kāryam prati antavat bhavati iti dīrghatvam bhaviṣyati . KA III.82.21-84.23 Ro IV.450-455 āṭaḥ vṛddheḥ iyaṅ . āṭaḥ vṛddhiḥ bhavati iti etasmāt iyaṅ bhavati vipratiṣedhena . āṭaḥ vṛddhiḥ bhavati iti asya avakāśaḥ aikṣiṣṭa , aihiṣṭa . iyaṅaḥ avakāśaḥ : adhīyāte , adhīyate . iha ubhayam prāpnoti : adhyaiyātām adhyaiyata . iyaṅādeśaḥ bhavati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . antaraṅgā āṭaḥ vṛddhiḥ . kā antaraṅgatā . varṇau āśritya āṭaḥ vṛddhiḥ . aṅgasya iyaṅ ādeśaḥ . evam tarhi idam iha sampradhāryam . āṭ kriyatām iyaṅādeśaḥ iti kim atra kartavyam . paratvāt iyaṅ . nityaḥ āṭ āgamaḥ . kṛte api iyaṅi prāpnoti akṛte api . iyaṅ api nityaḥ . kṛte api āṭi prāpnoti akṛte api . anityaḥ iyaṅ . na hi kṛte āti prāpnoti . kim kāraṇam . antaraṅgā āṭaḥ vṛddhiḥ . yasya ca lakṣaṇāntareṇa nimittam vihanyate na tat anityam . na ca atra āt eva iyaṅaḥ nimittam vihanti . avaśyam lakṣaṇāntaram āṭaḥ vṛddhiḥ pratīkṣyā . ubhayoḥ nityayoḥ paratvāt iyaṅ ādeśaḥ . āt guṇāt savarṇadīrghatvam āṅabhyāsayoḥ . āt guṇāt savarṇadīrghatvam bhavati vipratiṣedhena . kva . āṅabhyāsayoḥ . āt guṇasya avakāśaḥ : khaṭvendraḥ , khaṭvodakam . savarṇadīrghatvasya avakāśaḥ : daṇḍāgram , kṣupāgram . iha ubhayam prāpnoti : adya , ā , ūḍhā : adyoḍhā , kadā , ā , ūḍhā : kadoḍhā , upa , i , ijatuḥ : upejatuḥ , upa , u , upatuḥ : upopatuḥ . savarṇadīrghatvam bhavati vipratiṣedhena . abhyāsārthena tāvat na arthaḥ . astu atra āt guṇaḥ ayavau ca halādiśeṣaḥ . punaḥ āt guṇaḥ bhaviṣyati . bhavet siddham upejatuḥ , upejatuḥ iti . idam tu na sidhyati : upopatuḥ , upopuḥ iti . atra hi āt guṇe kṛte odantaḥ nipātaḥ iti pragṛhyasañjñā , pragṛhyaḥ prakṛtyā iti pragṛhyāśrayaḥ prakṛtibhāvaḥ prāpnoti . padāntaprakaraṇe prkṛtibhāvaḥ na ca eṣaḥ padāntaḥ . padāntabhaktaḥ padāntagrahaṇena grāhīṣyate . evam tarhi etat eva atra na asti odantaḥ nipātaḥ iti . kim kāraṇam . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . iha api tarhi adyoḍhā , kadoḍhā iti bhavet rūpam siddham syāt . svare doṣaḥ tu . svare tu doṣaḥ bhavati . adyoḍhā* evam svaraḥ prasajyeta. adyoḍhā* iti ca iṣyate . āṅi pararūpavacanam ca idānīm anarthakam syāt . na anarthakam . jñāpakārtham . kim jñāpyam . āṅi pararūpavacanam tu jñāpakam antaraṅgabalīyastvāt . etat jñāpayati ācāryaḥ . antaraṅgam balīyaḥ bhavati iti . kim punaḥ iha antaraṅgam kim bahiraṅgam yāvatā dve pade āśritya savarṇadīrghatvam bhavati āt guṇaḥ api . dhātūpasargayoḥ yat kāryam tat antaraṅgam . kutaḥ etat . pūrvam upasargasya dhātuna yogaḥ bhavati na adya śabdena . kimartham tarhi adyaśabdaḥ prayujyate . adyaśabdaysa api samudāyena yogaḥ bhavati . kim etasya jñāpane prayojanam . prayojanam pūrvasavarṇapūrvatvatahilopaṭenaṅeyyaṅisminṅiṇalautvam antaraṅgam bahiraṅgalakṣaṇāt varṇavikārāt . pūrvasavarṇaḥ prayojanam . agnī atra , vāyū atra . pūrvasavarṇaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ āvādeśaḥ . pūrvasavarṇadīrghatvam bhavati antaraṅgataḥ . pūrvatva . śakahvartham , parivyartham . pūrvatvam ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam . pūrvatvam bhavati antaraṅgataḥ . tahilopa . akāri atra . ahāri atra . paca idam . tahilopau ca prāpnutaḥ bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam . tahilopau bhavataḥ antaraṅgataḥ . ṭena . vṛkṣeṇa atra , plakṣeṇa atra . inādeśaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ savarṇadīrghatvam . inādeśaḥ bhavati antaraṅgataḥ . ṅerya . vṛkṣāya atra , plakṣāya atra . ṅeḥ yādeśaḥ ca prāpnoti bahiraṅgalakṣaṇaḥ ca varṇavikāraḥ eṅaḥ padāntāt ati iti pararūpatvam . ṅeḥ yādeśaḥ bhavati antaraṅgataḥ . ṅismin . yasmin idam , tasmin idam . sminbhāvaḥ ca prāpnoti

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८४।२५-८५।३ रो इव्।४५५-४५६ किम् इदम् ख्यत्यात् इति । सखिपत्योः विकृतग्रहणम् । किम् पुनः कारणम् सखिपत्योः विकृतग्रहणम् क्रियते न सखिपतिभ्याम् इति एव उच्येत । न एवम् शक्यम् । गरीयान् च एव हि निर्देशः स्यात् इह च प्रसज्येत । अतिसखेः आगच्छामि । अतिसखेः स्वम् । इह च न स्यात् : सखीयतेः अप्रत्ययः सख्युः , पत्युः । लुनीयतेः अप्रत्ययः । लून्युः , पून्युः ।

KA III.84.25-85.3 Ro IV.455-456 kim idam khyatyāt iti . sakhipatyoḥ vikṛtagrahaṇam . kim punaḥ kāraṇam sakhipatyoḥ vikṛtagrahaṇam kriyate na sakhipatibhyām iti eva ucyeta . na evam śakyam . garīyān ca eva hi nirdeśaḥ syāt iha ca prasajyeta . atisakheḥ āgacchāmi . atisakheḥ svam . iha ca na syāt : sakhīyateḥ apratyayaḥ sakhyuḥ , patyuḥ . lunīyateḥ apratyayaḥ . lūnyuḥ , pūnyuḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८५।५-२४ रो इव्।४५७-४५९ किमर्थम् अप्लुतात् अप्लुते इति उच्यते । प्लुतात् परस्य प्लुते वा परतः मा भूत् इति । प्लुतात् परस्य सुस्रोता३ अत्र नु असि । प्लुते परतः तिष्ठतु पयः आ३ग्निदत्त । अतः अति इति उच्यते । कः प्रसङ्गः प्लुतात् परस्य प्लुते वा परतः । असिद्धः प्लुतः । तस्य असिद्धत्वात् प्राप्नोति । अथ अप्लुतात् अप्लुते इति उच्यमाने यावता असिद्धः प्लुतः कस्मात् एव अत्र न प्राप्नोति । अप्लुतभाविनः अप्लुतभाविनि इति एवम् एतत् विज्ञायते । न एतत् अस्ति प्रयोजनम् । सिद्धः प्लुतः स्वरसन्धिषु । कथम् ज्ञायते । यत् अयम् प्लुतः प्रकृत्या इति प्लुतस्य प्रकृतिभावम् शास्ति । सतः हि कार्यिणः कार्येण भवितव्यम् । अप्लुतादप्लुतवचने अकारहशोः समानपदे प्रतिषेधः । अप्लुतादप्लुतवचने अकारहशोः समानपदे प्रतिषेधः वक्तव्यः । पयो३ट् , पयो३द । न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यः । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गः प्लुरः । अन्तरङ्गम् उत्त्वम् । असिद्धम् बहिरङ्गम् अन्तरङ्गे । इह अपि तर्हि प्राप्नोति । सुस्रोता३ अत्र नु असि । अन्तरङ्गः अत्र प्लुतः बहिरङ्गम् उत्त्वम् । क्व पुनः इह अन्तरङ्गः प्लुतः क्व वा बहिरङ्गम् उत्त्वम् उत्त्वम् वा अन्तरङ्गम् प्लुतः वा बहिरङ्गः । वाक्यान्तस्य वाक्यादौ अन्तरङ्गः प्लुतः बहिरङ्गम् उत्त्वम् । समानवाक्ये पदान्तस्य पदादौ उत्त्वम् अन्तरङ्गम् बहिरङ्गः प्लुतः । किम् पुनः कारणम् बहिरङ्गत्वम् उत्त्वे हेतुः व्यपदिश्यते न पुनः असिद्धत्वम् अपि । यथा एव हि अयम् बहिरङ्गः एवम् असिद्धः अपि । एवम् मन्यते । असिद्धः प्लुतः आश्रयात् सिद्धः भवति । अथ वा यस्याम् न अप्राप्तायाम् परिभाषायाम् उत्त्वम् आरभ्यते सा आश्रयात् सिद्धा स्यात् । कस्याम् च न अप्राप्तायाम् । असिद्धपरिभाषायाम् । बहिरङ्गपरिभाषायाम् पुनः प्राप्तायाम् अप्राप्तायाम् च ।

KA III.85.5-24 Ro IV.457-459 kimartham aplutāt aplute iti ucyate . plutāt parasya plute vā parataḥ mā bhūt iti . plutāt parasya susrotā3 atra nu asi . plute parataḥ tiṣṭhatu payaḥ ā3gnidatta . ataḥ ati iti ucyate . kaḥ prasaṅgaḥ plutāt parasya plute vā parataḥ . asiddhaḥ plutaḥ . tasya asiddhatvāt prāpnoti . atha aplutāt aplute iti ucyamāne yāvatā asiddhaḥ plutaḥ kasmāt eva atra na prāpnoti . aplutabhāvinaḥ aplutabhāvini iti evam etat vijñāyate . na etat asti prayojanam . siddhaḥ plutaḥ svarasandhiṣu . katham jñāyate . yat ayam plutaḥ prakṛtyā iti plutasya prakṛtibhāvam śāsti . sataḥ hi kāryiṇaḥ kāryeṇa bhavitavyam . aplutādaplutavacane akārahaśoḥ samānapade pratiṣedhaḥ . aplutādaplutavacane akārahaśoḥ samānapade pratiṣedhaḥ vaktavyaḥ . payo3ṭ , payo3da . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyaḥ . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgaḥ pluraḥ . antaraṅgam uttvam . asiddham bahiraṅgam antaraṅge . iha api tarhi prāpnoti . susrotā3 atra nu asi . antaraṅgaḥ atra plutaḥ bahiraṅgam uttvam . kva punaḥ iha antaraṅgaḥ plutaḥ kva vā bahiraṅgam uttvam uttvam vā antaraṅgam plutaḥ vā bahiraṅgaḥ . vākyāntasya vākyādau antaraṅgaḥ plutaḥ bahiraṅgam uttvam . samānavākye padāntasya padādau uttvam antaraṅgam bahiraṅgaḥ plutaḥ . kim punaḥ kāraṇam bahiraṅgatvam uttve hetuḥ vyapadiśyate na punaḥ asiddhatvam api . yathā eva hi ayam bahiraṅgaḥ evam asiddhaḥ api . evam manyate . asiddhaḥ plutaḥ āśrayāt siddhaḥ bhavati . atha vā yasyām na aprāptāyām paribhāṣāyām uttvam ārabhyate sā āśrayāt siddhā syāt . kasyām ca na aprāptāyām . asiddhaparibhāṣāyām . bahiraṅgaparibhāṣāyām punaḥ prāptāyām aprāptāyām ca .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८६।२-२० रो इव्।४५९-४६१ कस्य अयम् प्रतिषेधः । नान्तःपादम् इति सर्वप्रतिषेधः । नान्तःपादम् इति सर्वस्य अयम् प्रतिषेधः । कथम् । अचि इति वर्तते । अचि यत् प्राप्नोति तस्य प्रतिषेधः । नान्तःपादम् इति सर्वप्रतिषेधः चेत् अतिप्रसङ्गः । नान्तःपादम् इति सर्वप्रतिषेधः चेत् अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । अनु अग्निः उषसाम् अग्रम् अख्यत् , प्रति अग्निः उषसाम् अग्रम् अख्यत् । एवम् तर्हि अति इति वर्तते । अकाराश्रयम् यत् प्राप्नोति तस्य प्रतिषेधः । अकाराश्रयम् इति चेत् उत्त्ववचनम् । अकाराश्रयम् इति चेत् उत्त्वम् वक्तव्यम् । कालः अश्वः । शतधारः अयम् मणिः । अयवोः प्रतिषेधः च । अयवोः च प्रतिषेधः च वक्तव्यः । सुजाते अश्वसूनृते । अध्वरो अद्रिभिः सुतम् । शुक्रम् ते अन्यत् । एङ्प्रकरणात् सिद्धम् । एङः अति इति वर्तते । एङः अति यत् प्राप्नोति तस्य प्रतिषेधः । एङ्प्रकरणात् सिद्धम् चेत् उत्त्वप्रतिषेधः । एङ्प्रकरणात् सिद्धम् चेत् उत्त्वप्रतिषेधः वक्तव्यः । अग्नेः अत्र , वायोः अत्र। अतः रोः अप्लुतात् अप्लुते एङः च इति उत्त्वम् प्राप्नोति । पुनः एङ्ग्रहणात् सिद्धम् । पुनः एङ्ग्रहणम् कर्तव्यम् । तत् तर्हि कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । ननु च उक्तम् एङ्प्रकरणात् सिद्धम् चेत् उत्त्वप्रतिषेधः इति । न एषः दोषः । पदान्ताभिसम्बद्धम् एङ्ग्रहणम् अनुवर्तते न च एङः पदान्तात् परः रुः अस्ति ।

KA III.86.2-20 Ro IV.459-461 kasya ayam pratiṣedhaḥ . nāntaḥpādam iti sarvapratiṣedhaḥ . nāntaḥpādam iti sarvasya ayam pratiṣedhaḥ . katham . aci iti vartate . aci yat prāpnoti tasya pratiṣedhaḥ . nāntaḥpādam iti sarvapratiṣedhaḥ cet atiprasaṅgaḥ . nāntaḥpādam iti sarvapratiṣedhaḥ cet atiprasaṅgaḥ bhavati . iha api prāpnoti . anu agniḥ uṣasām agram akhyat , prati agniḥ uṣasām agram akhyat . evam tarhi ati iti vartate . akārāśrayam yat prāpnoti tasya pratiṣedhaḥ . akārāśrayam iti cet uttvavacanam . akārāśrayam iti cet uttvam vaktavyam . kālaḥ aśvaḥ . śatadhāraḥ ayam maṇiḥ . ayavoḥ pratiṣedhaḥ ca . ayavoḥ ca pratiṣedhaḥ ca vaktavyaḥ . sujāte aśvasūnṛte . adhvaro adribhiḥ sutam . śukram te anyat . eṅprakaraṇāt siddham . eṅaḥ ati iti vartate . eṅaḥ ati yat prāpnoti tasya pratiṣedhaḥ . eṅprakaraṇāt siddham cet uttvapratiṣedhaḥ . eṅprakaraṇāt siddham cet uttvapratiṣedhaḥ vaktavyaḥ . agneḥ atra , vāyoḥ atra. ataḥ roḥ aplutāt aplute eṅaḥ ca iti uttvam prāpnoti . punaḥ eṅgrahaṇāt siddham . punaḥ eṅgrahaṇam kartavyam . tat tarhi kartavyam . na kartavyam . prakṛtam anuvartate . nanu ca uktam eṅprakaraṇāt siddham cet uttvapratiṣedhaḥ iti . na eṣaḥ doṣaḥ . padāntābhisambaddham eṅgrahaṇam anuvartate na ca eṅaḥ padāntāt paraḥ ruḥ asti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८६।२२-८७।१८ रो इव्।४६१-४६३ गोः अग्वचनम् गवाग्रे स्वरसिद्ध्यर्थम् । गोः अक् वक्तव्यः । किम् प्रयोजनम् । गवाग्रे स्वरसिद्ध्यर्थम् । गवाग्रे स्वरसिद्धिः यथा स्यात् । गवाग्रम् । अवङादेशे हि स्वरे दोषः । अवङादेशे हि स्वरे दोषः स्यात् । अन्तोदात्तस्य आन्तर्यतः अन्तोदात्तः आदेशः प्रस्ज्यते । कथम् पुनः अयम् अन्तोदात्तः यदा एकाच् । व्यपदेशिवद्भावेन । यथा एव तर्हि व्यपदेशिवद्भावेन अन्तोदात्तः एवम् आद्युदात्तः अपि । तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भवति । सत्यम् एवम् एतत् । न तु इदम् लक्षणम् अस्ति । प्रातिपदिकस्य आदिः उदात्तः भवति इति । इदम् पुनः अस्ति । प्रातिपदिकस्य अन्तः उदात्तः भवति इति । सः असौ लक्षणेन अन्तोदात्तः । तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः प्रस्ज्येत । यदि पुनः गमेः डो विधीयेत । किम् कृतम् भवति । प्रत्ययाद्युदात्तत्वे कृते आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भविष्यति । कथम् पुनः अयम् आद्युदात्तः यदा एकाच् । व्यपदेशिवद्भावेन । यथा एव तर्हि व्यपदेशिवद्भावेन आद्युदात्तः एवम् अन्तोदात्तः अपि । तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः प्रस्ज्येत । सत्यम् एवम् एतत् । न तु इदम् लक्षणम् अस्ति । प्रत्ययस्य अन्तः उदात्तः भवति इति । इदम् पुनः अस्ति । प्रत्ययस्य आदिः उदात्तः भवति इति । सः असौ लक्षणेन आद्युदात्तः । तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः भविष्यति ।एतत् अपि आदेशे न अस्ति । आदेशस्य आदिः उदात्तः भवति इति । प्रकृतितः अनेन स्वरः लभ्यः । प्रकृतिः च अस्य यथा एव आद्युदात्ता एवम् अन्तोदात्ता अपि । एवम् तर्हि आद्युदात्तनिपातनम् करिष्यते । सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति । एवम् अपि उपदेशिवद्भावः वक्तयः । यथा एव निपातनस्वरः प्रकृत्स्वरस्य बाधकः एवम् समासस्वरस्य अपि । गवास्थि , गवाक्षि ।

KA III.86.22-87.18 Ro IV.461-463 goḥ agvacanam gavāgre svarasiddhyartham . goḥ ak vaktavyaḥ . kim prayojanam . gavāgre svarasiddhyartham . gavāgre svarasiddhiḥ yathā syāt . gavāgram . avaṅādeśe hi svare doṣaḥ . avaṅādeśe hi svare doṣaḥ syāt . antodāttasya āntaryataḥ antodāttaḥ ādeśaḥ prasjyate . katham punaḥ ayam antodāttaḥ yadā ekāc . vyapadeśivadbhāvena . yathā eva tarhi vyapadeśivadbhāvena antodāttaḥ evam ādyudāttaḥ api . tatra āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ bhavati . satyam evam etat . na tu idam lakṣaṇam asti . prātipadikasya ādiḥ udāttaḥ bhavati iti . idam punaḥ asti . prātipadikasya antaḥ udāttaḥ bhavati iti . saḥ asau lakṣaṇena antodāttaḥ . tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ prasjyeta . yadi punaḥ gameḥ ḍo vidhīyeta . kim kṛtam bhavati . pratyayādyudāttatve kṛte āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ bhaviṣyati . katham punaḥ ayam ādyudāttaḥ yadā ekāc . vyapadeśivadbhāvena . yathā eva tarhi vyapadeśivadbhāvena ādyudāttaḥ evam antodāttaḥ api . tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ prasjyeta . satyam evam etat . na tu idam lakṣaṇam asti . pratyayasya antaḥ udāttaḥ bhavati iti . idam punaḥ asti . pratyayasya ādiḥ udāttaḥ bhavati iti . saḥ asau lakṣaṇena ādyudāttaḥ . tatra āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ bhaviṣyati .etat api ādeśe na asti . ādeśasya ādiḥ udāttaḥ bhavati iti . prakṛtitaḥ anena svaraḥ labhyaḥ . prakṛtiḥ ca asya yathā eva ādyudāttā evam antodāttā api . evam tarhi ādyudāttanipātanam kariṣyate . saḥ nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati . evam api upadeśivadbhāvaḥ vaktayaḥ . yathā eva nipātanasvaraḥ prakṛtsvarasya bādhakaḥ evam samāsasvarasya api . gavāsthi , gavākṣi .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८७।२०-२२ रो इव्।४६३ इन्द्रादौ इति वक्तव्यम् इह अपि यथा स्यात् । गवेन्द्रयज्ञे वीहि इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न एवम् विज्ञायते इन्द्रे अचि इति । कथम् तर्हि । अचि भवति । कतरस्मिन् । इन्द्रे अचि इति ।

KA III.87.20-22 Ro IV.463 indrādau iti vaktavyam iha api yathā syāt . gavendrayajñe vīhi iti . tat tarhi vaktavyam . na vaktavyam . na evam vijñāyate indre aci iti . katham tarhi . aci bhavati . katarasmin . indre aci iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८७।२४-८८।११ रो इव्।४६४-४६५ नित्यग्रहणम् किमर्थम् । विभाषा मा भूत् इति । म एतत् अस्ति प्रयोजनम् । पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् । इदम् तर्हि प्रयोजनम् । प्लुतप्रगृह्याणम् अचि प्रकृतिभावः एव यथा स्यात् । यत् अन्यत् प्राप्नोति तत् मा भूत् इति । किम् च अन्यत् प्राप्नोति । शाकलम् । सिन्नित्यसमासयोः शाकलप्रतिषेधम् वक्ष्यति । सः न वक्तव्यः भवति । अथ अज्ग्रहणम् किमर्थम् । अचि प्रकृतिभावः यथा स्यात् । प्लुतप्रगृह्येषु अज्ग्रहणम् अनर्थकम् अधिकारात् सिद्धम् । प्लुतप्रगृह्येषु अज्ग्रहणम् अनर्थकम् । किम् कारणम् । अधिकारात् एव सिद्धम् । अचि इति प्रकृतम् अनुवर्तते । क्व प्रकृतम् । इकः यण् अचि इति । तत् तु तस्मिन् प्रकृतिभावार्थम् । तत् तु द्वितीयम् अज्ग्रहणम् कर्तव्यम् प्रकृतिभावार्थम् । तस्मिन् अचि पूर्वस्य प्रकृतिभावः यथा स्यात् । इह मा भूत् । जानु उ अस्य रुजति । जानू अस्य रुजति । जान्व् अस्य रुजति इति ।

KA III.87.24-88.11 Ro IV.464-465 nityagrahaṇam kimartham . vibhāṣā mā bhūt iti . ma etat asti prayojanam . pūrvasmin eva yoge vibhāṣāgrahaṇam nivṛttam . idam tarhi prayojanam . plutapragṛhyāṇam aci prakṛtibhāvaḥ eva yathā syāt . yat anyat prāpnoti tat mā bhūt iti . kim ca anyat prāpnoti . śākalam . sinnityasamāsayoḥ śākalapratiṣedham vakṣyati . saḥ na vaktavyaḥ bhavati . atha ajgrahaṇam kimartham . aci prakṛtibhāvaḥ yathā syāt . plutapragṛhyeṣu ajgrahaṇam anarthakam adhikārāt siddham . plutapragṛhyeṣu ajgrahaṇam anarthakam . kim kāraṇam . adhikārāt eva siddham . aci iti prakṛtam anuvartate . kva prakṛtam . ikaḥ yaṇ aci iti . tat tu tasmin prakṛtibhāvārtham . tat tu dvitīyam ajgrahaṇam kartavyam prakṛtibhāvārtham . tasmin aci pūrvasya prakṛtibhāvaḥ yathā syāt . iha mā bhūt . jānu u asya rujati . jānū asya rujati . jānv asya rujati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८७।१२-२३ रो इव्।४६५-४६६ अथ किमर्थम् प्लुतस्य प्रकृतिभावः उच्यते । स्वरसन्धिः मा भूत् इति । उच्यमाने अपि एतस्मिन् स्वर्सन्धिः प्राप्नोति । प्लुते कृते न भविष्यति । असिद्धः प्लुतः । तस्य असिद्धत्वात् प्राप्नोति । प्लुतप्रकृतिभाववचनम् तु ज्ञापकम् एकादेशात् प्लुतः विप्रतिषेधेन इति । यत् अयम् प्लुतः प्रकृत्या इति प्रकृतिभावम् शास्ति तत् ज्ञापयति आचार्यः एकादेशात् प्लुतः भवति विप्रतिषेधेन इति । एकादेशात् प्लुतः विप्रतिषेधेन इति चेत् शालेन्द्रे अतिप्रसङ्गः । एकादेशात् प्लुतः विप्रतिषेधेन इति चेत् शालेन्द्रे अतिप्रसङ्गः भवति । शालायाम् इन्द्रः शालेन्द्रः । न वा बहिरङ्गलक्षणत्वात् । न वा अतिप्रसङ्गः । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गः प्लुतः । अन्तरङ्गः एकादेशः । असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

KA III.87.12-23 Ro IV.465-466 atha kimartham plutasya prakṛtibhāvaḥ ucyate . svarasandhiḥ mā bhūt iti . ucyamāne api etasmin svarsandhiḥ prāpnoti . plute kṛte na bhaviṣyati . asiddhaḥ plutaḥ . tasya asiddhatvāt prāpnoti . plutaprakṛtibhāvavacanam tu jñāpakam ekādeśāt plutaḥ vipratiṣedhena iti . yat ayam plutaḥ prakṛtyā iti prakṛtibhāvam śāsti tat jñāpayati ācāryaḥ ekādeśāt plutaḥ bhavati vipratiṣedhena iti . ekādeśāt plutaḥ vipratiṣedhena iti cet śālendre atiprasaṅgaḥ . ekādeśāt plutaḥ vipratiṣedhena iti cet śālendre atiprasaṅgaḥ bhavati . śālāyām indraḥ śālendraḥ . na vā bahiraṅgalakṣaṇatvāt . na vā atiprasaṅgaḥ . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgaḥ plutaḥ . antaraṅgaḥ ekādeśaḥ . asiddham bahiraṅgam antaraṅge .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८९।२-५ रो इव्।४६६ आङः अनर्थकस्य । आङः अनर्थकस्य इति वक्तव्यम् । इह मा भूत् । इन्द्रः बाहुभ्याम् आतरत् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । बहुलग्रहणात् न भविष्यति । आङः अनुनासिकः छन्दसि बहुलम् ।

KA III.89.2-5 Ro IV.466 āṅaḥ anarthakasya . āṅaḥ anarthakasya iti vaktavyam . iha mā bhūt . indraḥ bāhubhyām ātarat . tat tarhi vaktavyam . na vaktavyam . bahulagrahaṇāt na bhaviṣyati . āṅaḥ anunāsikaḥ chandasi bahulam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८९।७-१९ रो इव्।४६७-४६८ किमर्थः चकारः । प्रकृत्या इति एतत् अनुकृष्यते । किम् प्रयोजनम् । स्वरसन्धिः मा भूत् इति । न एतत् अस्ति प्रयोजनम् । ह्रस्ववचनसार्मर्थ्यात् न भविष्यति । भवेत् दीर्घाणाम् ह्रस्ववचनसार्मर्थ्यात् स्वरसन्धिः न स्यात् । ह्रस्वानाम् तु खलु स्वरसन्धिः प्राप्नोति । ह्रस्वानाम् अपि ह्रस्ववचनसामर्थ्यान् स्वरसन्धिः न भविष्यति । न ह्रस्वानाम् ह्रस्वाः प्राप्नुवन्ति । न हि भुक्तवान् पुनः भुङ्क्ते । न च कृतश्मश्रुः पुनः श्मश्रूनि कारयति । ननु च पुनःप्रवृत्तिः अपि दृष्टा । भुक्तवान् च पुनः भुङ्क्ते कृतश्मश्रुः च पुनः श्मश्रूनि कारयति । सामर्थ्यात् तत्र पुनःप्रवृत्तिः भवति भोजनविशेषात् शिल्पिविशेषात् वा । ह्रस्वाणाम् पुनः ह्रस्ववचने न किम् चित् प्रयोजनम् अस्ति । अकृतकारि खलु अपि शास्त्रम् अग्निवत् । तत् यथा अग्निः यद् अदग्धम् तत् दहति । ह्रस्वाणाम् अपि ह्रस्ववचने एतत् प्रयोजनम् स्वरसन्धिः मा भूत् इति । कृतकारि खलु अपि शास्त्रम् पर्जन्यवत् । तत् यथा पर्जन्यः यावत् ऊनम् पूर्णम् च सर्वम् अभिवर्षयति । इदम् तर्हि प्रयोजनम् । प्लुतप्रगृह्याः अनुकृष्यन्ते । इकः असवर्णे शाकल्यस्य ह्रस्वः च प्लुतप्र्गृह्याः च प्रकृत्या । नित्यग्रहणस्य अपि एतत् प्रयोजनम् उक्तम् । अन्यतरत् शक्यम् अकर्तुम् ।

KA III.89.7-19 Ro IV.467-468 kimarthaḥ cakāraḥ . prakṛtyā iti etat anukṛṣyate . kim prayojanam . svarasandhiḥ mā bhūt iti . na etat asti prayojanam . hrasvavacanasārmarthyāt na bhaviṣyati . bhavet dīrghāṇām hrasvavacanasārmarthyāt svarasandhiḥ na syāt . hrasvānām tu khalu svarasandhiḥ prāpnoti . hrasvānām api hrasvavacanasāmarthyān svarasandhiḥ na bhaviṣyati . na hrasvānām hrasvāḥ prāpnuvanti . na hi bhuktavān punaḥ bhuṅkte . na ca kṛtaśmaśruḥ punaḥ śmaśrūni kārayati . nanu ca punaḥpravṛttiḥ api dṛṣṭā . bhuktavān ca punaḥ bhuṅkte kṛtaśmaśruḥ ca punaḥ śmaśrūni kārayati . sāmarthyāt tatra punaḥpravṛttiḥ bhavati bhojanaviśeṣāt śilpiviśeṣāt vā . hrasvāṇām punaḥ hrasvavacane na kim cit prayojanam asti . akṛtakāri khalu api śāstram agnivat . tat yathā agniḥ yad adagdham tat dahati . hrasvāṇām api hrasvavacane etat prayojanam svarasandhiḥ mā bhūt iti . kṛtakāri khalu api śāstram parjanyavat . tat yathā parjanyaḥ yāvat ūnam pūrṇam ca sarvam abhivarṣayati . idam tarhi prayojanam . plutapragṛhyāḥ anukṛṣyante . ikaḥ asavarṇe śākalyasya hrasvaḥ ca plutaprgṛhyāḥ ca prakṛtyā . nityagrahaṇasya api etat prayojanam uktam . anyatarat śakyam akartum .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।८९।२०-९०।३ रो इव्।४६८ सिन्नित्यसमासयोः शाकलप्रतिषेधः । सिन्नित्यसमासयोः शाकलप्रतिषेधः वक्तव्यः । अयम् ते योनिः ऋत्वियः । प्रजाम् विन्दाम ऋत्वियाम् । वैयाकरणः , सौवश्वः । नित्यग्रहणेन न अर्थः । सित्समासयोः शाकलम् न भवति इति एव । इदम् अपि सिद्धम् भवति । वाप्याम् आस्वः , वाप्यश्वः , नद्याम् आतिः , नद्यातिः । ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रम् । ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रम् द्रष्टव्यम् । ईष अक्षः । क ईम् अरे पिशङ्गिल । यथा अङ्गदः ।

KA III.89.20-90.3 Ro IV.468 sinnityasamāsayoḥ śākalapratiṣedhaḥ . sinnityasamāsayoḥ śākalapratiṣedhaḥ vaktavyaḥ . ayam te yoniḥ ṛtviyaḥ . prajām vindāma ṛtviyām . vaiyākaraṇaḥ , sauvaśvaḥ . nityagrahaṇena na arthaḥ . sitsamāsayoḥ śākalam na bhavati iti eva . idam api siddham bhavati . vāpyām āsvaḥ , vāpyaśvaḥ , nadyām ātiḥ , nadyātiḥ . īṣā akṣādiṣu chandasi prakṛtibhāvamātram . īṣā akṣādiṣu chandasi prakṛtibhāvamātram draṣṭavyam . īṣa akṣaḥ . ka īm are piśaṅgila . yathā aṅgadaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९०।५-९ रो इव्।४६९ किमर्थम् इदम् उच्यते । ऋति अकः सवर्णार्थम् । सवर्णार्थः अयम् आरम्भः । होतृ ऋश्यः । अनिगन्तार्थम् च । खट्व ऋश्यः , माल ऋश्यः ।

KA III.90.5-9 Ro IV.469 kimartham idam ucyate . ṛti akaḥ savarṇārtham . savarṇārthaḥ ayam ārambhaḥ . hotṛ ṛśyaḥ . anigantārtham ca . khaṭva ṛśyaḥ , māla ṛśyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९०।१०-१६ रो इव्।४६९ ऋति ह्रस्वात् उपसर्गात् वृद्धिः विप्रतिषेधेन । ऋति ह्रस्वः भवति इति एतस्मात् उपसर्गात् वृद्धिः भवति विप्रतिषेधेन । ऋति ह्रस्वः भवति इति एतस्य अवकाशः खट्व ऋश्यः , माल ऋश्यः । उपसर्गात् वृद्धेः अवकाशः । विभाषा ह्रस्वत्वम् । यदा न ह्रस्वत्वम् तदा अवकाशः । ह्रस्वप्रसङ्गे उभयम् प्राप्नोति । उपार्ध्नोति , प्रार्ध्नोति । उपसर्गात् वृद्धिः भवति विप्रतिषेधेन । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । उक्तम् तत्र धातुग्रहणस्य प्रयोजनम् । उपसर्गात् ऋति धातौ वृद्धिः एव यथा स्यात् । अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

KA III.90.10-16 Ro IV.469 ṛti hrasvāt upasargāt vṛddhiḥ vipratiṣedhena . ṛti hrasvaḥ bhavati iti etasmāt upasargāt vṛddhiḥ bhavati vipratiṣedhena . ṛti hrasvaḥ bhavati iti etasya avakāśaḥ khaṭva ṛśyaḥ , māla ṛśyaḥ . upasargāt vṛddheḥ avakāśaḥ . vibhāṣā hrasvatvam . yadā na hrasvatvam tadā avakāśaḥ . hrasvaprasaṅge ubhayam prāpnoti . upārdhnoti , prārdhnoti . upasargāt vṛddhiḥ bhavati vipratiṣedhena . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . uktam tatra dhātugrahaṇasya prayojanam . upasargāt ṛti dhātau vṛddhiḥ eva yathā syāt . anyat yat prāpnoti tat mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९०।१८-९१।८ रो इव्।४६९-४७० उपस्थिते इति उच्यते । किम् इदम् उपस्थितम् नाम । अनार्षः इतिकरणः । सुश्लोका३ इति सुश्लोकेति । अथ वद्वचनम् किमर्थम् । वद्वचनम् प्लुतकार्यप्रतिषेधार्थम् । वद्वचनम् क्रियते प्लुतकार्यप्रतिषेधार्थम् । प्लुतकार्यम् प्रतिषिध्यते । त्रिमात्रता न प्रतिषिध्यते । किम् च इदानीम् त्रिमात्रतायाः अप्रतिषेधे प्रयोजनम् यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् । प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गः अन्येन विहितत्वात् । प्लुतप्रतिषेधे हि सति प्रगृह्यस्य अपि प्लुतस्य त्रिमात्रतायाः प्रतिषेधः प्रसज्येत । अग्नी३ इति , वायू३ इति । किम् च इदानीम् तस्याः अपि त्रिमात्रतायाः अप्रतिषेधे प्रयोजनम् यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् । न भवितव्यम् । किम् कारणम् । अन्येन विहितत्वात् । अन्येन हि लक्षणेन प्लुतप्रगृह्यस्य प्रकृतिभावः उच्यते प्रगृह्यः प्रकृत्या इति ।

KA III.90.18-91.8 Ro IV.469-470 upasthite iti ucyate . kim idam upasthitam nāma . anārṣaḥ itikaraṇaḥ . suślokā3 iti suśloketi . atha vadvacanam kimartham . vadvacanam plutakāryapratiṣedhārtham . vadvacanam kriyate plutakāryapratiṣedhārtham . plutakāryam pratiṣidhyate . trimātratā na pratiṣidhyate . kim ca idānīm trimātratāyāḥ apratiṣedhe prayojanam yāvatā plutakārye pratiṣiddhe svarasandhinā bhavitavyam . plutapratiṣedhe hi pragṛhyaplutapratiṣedhaprasaṅgaḥ anyena vihitatvāt . plutapratiṣedhe hi sati pragṛhyasya api plutasya trimātratāyāḥ pratiṣedhaḥ prasajyeta . agnī3 iti , vāyū3 iti . kim ca idānīm tasyāḥ api trimātratāyāḥ apratiṣedhe prayojanam yāvatā plutakārye pratiṣiddhe svarasandhinā bhavitavyam . na bhavitavyam . kim kāraṇam . anyena vihitatvāt . anyena hi lakṣaṇena plutapragṛhyasya prakṛtibhāvaḥ ucyate pragṛhyaḥ prakṛtyā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९१।१०-१४ रो इव्।४७० किमर्थम् इदम् उच्यते । ई३ चाक्रवर्मणस्य इति अनुपस्थितार्थम् । अनुपस्थितार्थः अयम् आरम्भः । चिनु हि३ इदम् । चिनु हीदम् । सुनु हि३ इदम् । सुनु हीदम् । ईकारग्रहणेन न अर्थः । अविशेषेण चाक्रवर्मणस्य आचार्यस्य अप्लुतवत् भवति इति एव । इदम् अपि सिद्धम् भवति । वश३ इयम् , वशेयम् ।

KA III.91.10-14 Ro IV.470 kimartham idam ucyate . ī3 cākravarmaṇasya iti anupasthitārtham . anupasthitārthaḥ ayam ārambhaḥ . cinu hi3 idam . cinu hīdam . sunu hi3 idam . sunu hīdam . īkāragrahaṇena na arthaḥ . aviśeṣeṇa cākravarmaṇasya ācāryasya aplutavat bhavati iti eva . idam api siddham bhavati . vaśa3 iyam , vaśeyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९१।१६-२० रो इव्।४७१ किमर्थः तकारः । तपरः तत्कालस्य इति तत्कलः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य मात्रिकः भविष्यति । न सिध्यति । ऊठि कृते आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति । तदर्थम् तपरः कृतः । एवमर्थः तपरः क्रियते ।

KA III.91.16-20 Ro IV.471 kimarthaḥ takāraḥ . taparaḥ tatkālasya iti tatkalaḥ yathā syāt . na etat asti prayojanam . āntaryataḥ ardhamātrikasya vyañjanasya mātrikaḥ bhaviṣyati . na sidhyati . ūṭhi kṛte āntaryataḥ dīrghasya dīrghaḥ prāpnoti . tadartham taparaḥ kṛtaḥ . evamarthaḥ taparaḥ kriyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९१।२२-९४।२ रो इव्।४७१-४७८ कात्पूर्वग्रहणम् किमर्थम् । कात् पूर्वः यथा स्यात् । संस्कर्ता , संस्कर्तुम् । न एतत् अस्ति प्रयोजनम् । सुट् इति आदिलिङ्गः अयम् करोतिः च ककारादिः । तत्र अन्तरेण कात्पूर्वग्रहणम् कात् पूर्वः एव भविष्यति । अतः उत्तरम् पठति सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् । सुटि कात्पूर्ववचनम् क्रियते अककारादौ कात्पूर्वः यथा स्यात् । सञ्चस्करतुः , सञ्चस्करुः । सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् इति चेत् अन्तरेण अपि तत् सिद्धम् । सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् इति चेत् अन्तरेण अपि कात्पूर्वग्रहणम् सिद्धम् । कथम् । द्विर्वचनात् सुट् विप्रतिषेधेन । द्विर्वचनम् क्रियताम् सुट् इति सुट् भविष्यति विप्रतिषेधेन । तत्र द्विर्वचनम् भवति इति अस्य अवकाशः बिभिदतुः , बिभिदुः । सुटः अवकाशः संस्कर्ता , संस्कर्तुम् । इह उभयम् प्राप्नोति सञ्चस्करतुः , सञ्चस्करुः । सुट् भवति विप्रतिषेधेन । द्विर्वचनात् सुट् विप्रतिषेधेन इति चेत् द्विर्भूते शब्दान्तरभावात् पुनः प्रसङ्गः । द्विर्वचनात् सुट् विप्रतिषेधेन इति चेत् द्विर्भूते शब्दान्तरस्य अकृतः सुट् इति पुनः सुट् स्यात् । द्विर्भूते शब्दान्तरभावात् पुनः प्रसङ्गः इति चेत् द्विर्वचनम् । सुटि कृते शब्दान्तरस्य अकृतम् द्विर्वचनम् इति पुनः द्विर्वचनम् प्राप्नोति । तथा च अनवस्था । पुनः सुट् पुनः द्विर्वचनम् इति चक्रकम् अनवस्था प्रसज्येत । न अस्ति चक्रकप्रसङ्गः । न हि अनवस्थाकारिणा शास्त्रेण भवितव्यम् । शास्त्रतः हि नाम व्यवस्थात् । तत्र सुटि कृते द्विर्वचनम् । द्विर्वचनेन अवस्थानम् भविष्यति । अड्व्यवाये उपसङ्ख्यानम् । अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् । समस्करोत् , समस्कार्षीत् । अभ्यासव्यवाये च । अभ्यासव्यवाये च उपसङ्ख्यानम् कर्तव्यम् । सञ्चस्करतुः , सञ्चस्करुः । किम् उच्यते अभ्यासव्यवाये इति यदा इदानीम् एव उक्तम् द्विर्वचनात् सुट् विप्रतिषेधेन इति । अविप्रतिषेधः वा बहिरङ्गलक्षणत्वात् । अविप्रतिषेधः वा पुनः सुटः । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणः सुट् । अन्तरङ्गम् द्विर्वचनम् । असिद्धम् बहिरङ्गम् अन्तरङ्गे । एवमर्थम् एव तर्हि कात्पूर्वग्रहणम् कर्तव्यम् कात् पूर्वः यथा स्यात् । क्रियमाणे अपि वै कात्पूर्वग्रहणे अत्र न सिध्यति । न हि अयम् कात्पूर्वग्रहणेन शक्यः मध्ये प्रवेशयितुम् । किम् कारणम् । आदिलिङ्गः अयम् क्रियते करोतिः च ककारादिः दृष्टः च ल्पुनः आतिदेशिकः करोतिः अककारादिः । पाक्षिकः अयम् दोषः । कतरस्मिन् पक्षे । सुड्विधौ द्वैतम् भवति । अविशेषेण वा विहितस्य सुटः कात्पूर्वग्रहणम् देशप्रकॢप्त्यर्थम् स्यात् विशेषेण वा विधिः इति । द्विर्वचनविधौ च अपि द्वैतम् भवति । स्थाने द्विर्वचनम् स्यात् द्विः प्रयोगः वा द्विर्वचनम् इति । तत् यदा द्विः प्रयोगः द्विर्वचनम् अविशेषेण विहितस्य च सुटः कात्पूर्वग्रहणम् देशप्रकॢप्त्यर्थम् तदा एषः दोषः । यदा हि स्थाने द्विर्वचनम् तदा यदि अविशेषेण विहितस्य सुटः कात्पूर्वग्रहणम् देशप्रकॢप्त्यर्थम् अथ अपि विशेषविधिः न तदा दोषः भवति । द्विःप्रयोगे च अपि द्विर्वचने न दोषः । सम्परिभ्याम् इति न एषा पञ्चमी । का तर्हि । तृतीया । सम्परिभ्याम् उपसृष्टस्य इति । व्यवहितः च अपि उपसृष्टः भवति । उपदेशिवद्वचनम् च । उपदेशिवद्भावः च वक्तव्यः । किम् प्रयोजनम् । लिटिगुणचङिदीर्घप्रतिषेधार्थम् । लिटि गुणार्थम् चङि दीर्घप्रतिषेधार्थम् । लिटि गुणार्थम् तावत् । सञ्चस्करतुः , सञ्चस्करुः । चङि दीर्घप्रतिषेधार्थम् च । समचिस्करत् । लिटि गुणार्थेन तावत् न अर्थः । वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधाग्रहणम् कृञर्थम् इति । चङि दीर्घप्रतिषेधेन अपि न अर्थः । पदम् इति इयम् भगवतः कृत्रिमा सञ्ज्ञा । युक्तम् इह द्रष्टव्यम् । किम् अन्तरङ्गम् किम् बहिरङ्गम् इति । धातूपसर्गयोः कार्यम् यत् तत् अन्तरङ्गम् । कुतः एतत् । पूर्वम् हि धातुः उपसर्गेण युज्यते पश्चात् साधनेन । न एतत् सारम् । पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण । साधनम् हि क्रियाम् निर्वर्तयति । ताम् उपसर्गः विशिनष्ति । अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यम् कर्तूम् । सत्यम् एवम् एतत् । यः तु असौ धातूपसर्गयोः अभिसम्बन्धः तम् अभ्यन्तरम् कृत्वा धातुः साधनेन युज्यते । अवश्यम् च एतत् एवम् विज्ञेयम् । यः हि मन्यते पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण इति तस्य आस्यते गुरुणा इति

KA III.91.22-94.2 Ro IV.471-478 kātpūrvagrahaṇam kimartham . kāt pūrvaḥ yathā syāt . saṃskartā , saṃskartum . na etat asti prayojanam . suṭ iti ādiliṅgaḥ ayam karotiḥ ca kakārādiḥ . tatra antareṇa kātpūrvagrahaṇam kāt pūrvaḥ eva bhaviṣyati . ataḥ uttaram paṭhati suṭi kātpūrvavacanam akakārādau kātpūrvārtham . suṭi kātpūrvavacanam kriyate akakārādau kātpūrvaḥ yathā syāt . sañcaskaratuḥ , sañcaskaruḥ . suṭi kātpūrvavacanam akakārādau kātpūrvārtham iti cet antareṇa api tat siddham . suṭi kātpūrvavacanam akakārādau kātpūrvārtham iti cet antareṇa api kātpūrvagrahaṇam siddham . katham . dvirvacanāt suṭ vipratiṣedhena . dvirvacanam kriyatām suṭ iti suṭ bhaviṣyati vipratiṣedhena . tatra dvirvacanam bhavati iti asya avakāśaḥ bibhidatuḥ , bibhiduḥ . suṭaḥ avakāśaḥ saṃskartā , saṃskartum . iha ubhayam prāpnoti sañcaskaratuḥ , sañcaskaruḥ . suṭ bhavati vipratiṣedhena . dvirvacanāt suṭ vipratiṣedhena iti cet dvirbhūte śabdāntarabhāvāt punaḥ prasaṅgaḥ . dvirvacanāt suṭ vipratiṣedhena iti cet dvirbhūte śabdāntarasya akṛtaḥ suṭ iti punaḥ suṭ syāt . dvirbhūte śabdāntarabhāvāt punaḥ prasaṅgaḥ iti cet dvirvacanam . suṭi kṛte śabdāntarasya akṛtam dvirvacanam iti punaḥ dvirvacanam prāpnoti . tathā ca anavasthā . punaḥ suṭ punaḥ dvirvacanam iti cakrakam anavasthā prasajyeta . na asti cakrakaprasaṅgaḥ . na hi anavasthākāriṇā śāstreṇa bhavitavyam . śāstrataḥ hi nāma vyavasthāt . tatra suṭi kṛte dvirvacanam . dvirvacanena avasthānam bhaviṣyati . aḍvyavāye upasaṅkhyānam . aḍvyavāye upasaṅkhyānam kartavyam . samaskarot , samaskārṣīt . abhyāsavyavāye ca . abhyāsavyavāye ca upasaṅkhyānam kartavyam . sañcaskaratuḥ , sañcaskaruḥ . kim ucyate abhyāsavyavāye iti yadā idānīm eva uktam dvirvacanāt suṭ vipratiṣedhena iti . avipratiṣedhaḥ vā bahiraṅgalakṣaṇatvāt . avipratiṣedhaḥ vā punaḥ suṭaḥ . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgalakṣaṇaḥ suṭ . antaraṅgam dvirvacanam . asiddham bahiraṅgam antaraṅge . evamartham eva tarhi kātpūrvagrahaṇam kartavyam kāt pūrvaḥ yathā syāt . kriyamāṇe api vai kātpūrvagrahaṇe atra na sidhyati . na hi ayam kātpūrvagrahaṇena śakyaḥ madhye praveśayitum . kim kāraṇam . ādiliṅgaḥ ayam kriyate karotiḥ ca kakārādiḥ dṛṣṭaḥ ca lpunaḥ ātideśikaḥ karotiḥ akakārādiḥ . pākṣikaḥ ayam doṣaḥ . katarasmin pakṣe . suḍvidhau dvaitam bhavati . aviśeṣeṇa vā vihitasya suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham syāt viśeṣeṇa vā vidhiḥ iti . dvirvacanavidhau ca api dvaitam bhavati . sthāne dvirvacanam syāt dviḥ prayogaḥ vā dvirvacanam iti . tat yadā dviḥ prayogaḥ dvirvacanam aviśeṣeṇa vihitasya ca suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham tadā eṣaḥ doṣaḥ . yadā hi sthāne dvirvacanam tadā yadi aviśeṣeṇa vihitasya suṭaḥ kātpūrvagrahaṇam deśaprakḷptyartham atha api viśeṣavidhiḥ na tadā doṣaḥ bhavati . dviḥprayoge ca api dvirvacane na doṣaḥ . samparibhyām iti na eṣā pañcamī . kā tarhi . tṛtīyā . samparibhyām upasṛṣṭasya iti . vyavahitaḥ ca api upasṛṣṭaḥ bhavati . upadeśivadvacanam ca . upadeśivadbhāvaḥ ca vaktavyaḥ . kim prayojanam . liṭiguṇacaṅidīrghapratiṣedhārtham . liṭi guṇārtham caṅi dīrghapratiṣedhārtham . liṭi guṇārtham tāvat . sañcaskaratuḥ , sañcaskaruḥ . caṅi dīrghapratiṣedhārtham ca . samaciskarat . liṭi guṇārthena tāvat na arthaḥ . vakṣyati etat saṃyogādeḥ guṇavidhāne saṃyogopadhāgrahaṇam kṛñartham iti . caṅi dīrghapratiṣedhena api na arthaḥ . padam iti iyam bhagavataḥ kṛtrimā sañjñā . yuktam iha draṣṭavyam . kim antaraṅgam kim bahiraṅgam iti . dhātūpasargayoḥ kāryam yat tat antaraṅgam . kutaḥ etat . pūrvam hi dhātuḥ upasargeṇa yujyate paścāt sādhanena . na etat sāram . pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa . sādhanam hi kriyām nirvartayati . tām upasargaḥ viśinaṣti . abhinirvṛttasya ca arthasya upasargeṇa viśeṣaḥ śakyam kartūm . satyam evam etat . yaḥ tu asau dhātūpasargayoḥ abhisambandhaḥ tam abhyantaram kṛtvā dhātuḥ sādhanena yujyate . avaśyam ca etat evam vijñeyam . yaḥ hi manyate pūrvam dhātuḥ sādhanena yujyate paścāt upasargeṇa iti tasya āsyate guruṇā iti

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९४।३-२० रो इव्।४७८-४८० यदि पुनः अयम् सुट् कात् पूर्वान्तः क्रियेत । कात् पूर्वान्तः इति चेत् रुविधिप्रतिषेधः । कात् पूर्वान्तः इति चेत् कः चित् विधेयः कः चित् पतिषेध्यः । संस्कर्ता । समः विधेयः सुटः प्रतिषेध्यः । समः तावत् न विधेयः । वक्ष्यति एतत् सम्पुङ्कानाम् सत्वम् रुविधौ हि अनिष्टप्रसङ्गः इति । सुटः च अपि न प्रतिषेध्यः । समः सुटि इति द्विसकारकः निर्देशः : सुटि सकारादौ इति । अथ वा पदादिः करिय्ष्यते । परादौ इड्ग्रहणप्रसङ्गः । यदि परादिः इड्गुणौ प्राप्नुतः । संस्कृषीष्ट । ऋतः च संयोगादेः इति इट् प्राप्नोति । संस्क्रियते । गुणः अर्तिसंयोगाद्योः इति गुणः प्राप्नोति । एवम् तर्हि अभक्तः करिष्यते । अभक्ते स्वरः । यदि अभक्तः स्वरः न सिध्यति । संस्करोति । तिङ् अतिङः इति निघातः न प्राप्नोति । ननु च सुट् एव अतिङ् । न सुटः परस्य निघातेन भवितव्यम् । किम् कारणम् । नञिवयुक्तम् अन्यसदृशाधिकरणे । तथा हि अर्थगतिः । नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते । तथा हि अर्थः गम्यते । तत् यथा अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् क्षत्रियम् आनयति । न असौ लोष्टम् आनीया कृती भवति । एवम् इह अपि अतिङ् इति प्रतिषेधात् अन्यस्मात् अतिङ्सदृशात् कार्यम् विज्ञायते । किम् च अन्यत् अतिङ् तिङ्सदृशम् । पदम् ।

KA III.94.3-20 Ro IV.478-480 yadi punaḥ ayam suṭ kāt pūrvāntaḥ kriyeta . kāt pūrvāntaḥ iti cet ruvidhipratiṣedhaḥ . kāt pūrvāntaḥ iti cet kaḥ cit vidheyaḥ kaḥ cit patiṣedhyaḥ . saṃskartā . samaḥ vidheyaḥ suṭaḥ pratiṣedhyaḥ . samaḥ tāvat na vidheyaḥ . vakṣyati etat sampuṅkānām satvam ruvidhau hi aniṣṭaprasaṅgaḥ iti . suṭaḥ ca api na pratiṣedhyaḥ . samaḥ suṭi iti dvisakārakaḥ nirdeśaḥ : suṭi sakārādau iti . atha vā padādiḥ kariyṣyate . parādau iḍgrahaṇaprasaṅgaḥ . yadi parādiḥ iḍguṇau prāpnutaḥ . saṃskṛṣīṣṭa . ṛtaḥ ca saṃyogādeḥ iti iṭ prāpnoti . saṃskriyate . guṇaḥ artisaṃyogādyoḥ iti guṇaḥ prāpnoti . evam tarhi abhaktaḥ kariṣyate . abhakte svaraḥ . yadi abhaktaḥ svaraḥ na sidhyati . saṃskaroti . tiṅ atiṅaḥ iti nighātaḥ na prāpnoti . nanu ca suṭ eva atiṅ . na suṭaḥ parasya nighātena bhavitavyam . kim kāraṇam . nañivayuktam anyasadṛśādhikaraṇe . tathā hi arthagatiḥ . nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate . tathā hi arthaḥ gamyate . tat yathā abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam kṣatriyam ānayati . na asau loṣṭam ānīyā kṛtī bhavati . evam iha api atiṅ iti pratiṣedhāt anyasmāt atiṅsadṛśāt kāryam vijñāyate . kim ca anyat atiṅ tiṅsadṛśam . padam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९४।२२-२४ रो इव्।४८० किरतेः हर्षजीविकाकुलायकरणेषु । किरतेः हर्षजीविकाकुलायकरणेषु इति वक्तव्यम् । अपस्किरते वृषभः हृष्टः । अपस्किरते कुक्कुटः भक्षार्थी । अपस्किरते श्वा आश्रयार्थी ।

KA III.94.22-24 Ro IV.480 kirateḥ harṣajīvikākulāyakaraṇeṣu . kirateḥ harṣajīvikākulāyakaraṇeṣu iti vaktavyam . apaskirate vṛṣabhaḥ hṛṣṭaḥ . apaskirate kukkuṭaḥ bhakṣārthī . apaskirate śvā āśrayārthī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९५।२-९ रो इव्।४८०-४८१ किम् इदम् सातत्ये इति । सन्ततभावः सातत्यम् । यदि एवम् सान्तत्ये इति भवितव्यम् । समः हितततयोः वा लोपः । समः हितततयोः वा लोपः वक्तव्यः । संहितम् , सहितम् , सन्ततम् , सततम् । सम्तुमुनोः कामे । सम्तुमुनोः कामे लोपः वक्तव्यः । सकामः , भोक्तुकामः । मनसि च इति वक्तव्यम् । समनाः , भोक्तुमनाः । अवश्यमः कृत्ये । अवश्यमः कृत्ये लोपः वक्तव्यः । अवश्यभाव्यम् ।

KA III.95.2-9 Ro IV.480-481 kim idam sātatye iti . santatabhāvaḥ sātatyam . yadi evam sāntatye iti bhavitavyam . samaḥ hitatatayoḥ vā lopaḥ . samaḥ hitatatayoḥ vā lopaḥ vaktavyaḥ . saṃhitam , sahitam , santatam , satatam . samtumunoḥ kāme . samtumunoḥ kāme lopaḥ vaktavyaḥ . sakāmaḥ , bhoktukāmaḥ . manasi ca iti vaktavyam . samanāḥ , bhoktumanāḥ . avaśyamaḥ kṛtye . avaśyamaḥ kṛtye lopaḥ vaktavyaḥ . avaśyabhāvyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९५।११-१४ रो इव्।४८१ इदम् अतिबहु क्रियते सेविते , असेविते , प्रमाणे इति । सेवितप्रमाणयोः इति एव सिद्धम् । केन इदानीम् असेविते भविष्यति । नञा सेवितप्रतिषेधम् विज्ञास्यामः । न एवम् शक्यम् । सेवितप्रसङ्गे एव स्यात् । असेविते न स्यात् । असेवितग्रहणे पुनः क्रियमाणे बहुव्रीहिः अयम् विज्ञास्यते । अविद्यमानसेविते असेविते इति । तस्मात् असेवितग्रहणम् कर्तव्यम् ।

KA III.95.11-14 Ro IV.481 idam atibahu kriyate sevite , asevite , pramāṇe iti . sevitapramāṇayoḥ iti eva siddham . kena idānīm asevite bhaviṣyati . nañā sevitapratiṣedham vijñāsyāmaḥ . na evam śakyam . sevitaprasaṅge eva syāt . asevite na syāt . asevitagrahaṇe punaḥ kriyamāṇe bahuvrīhiḥ ayam vijñāsyate . avidyamānasevite asevite iti . tasmāt asevitagrahaṇam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९६।२-९ रो इव्।४८२-४८३ आश्चर्यम् अद्भुते । आश्चर्यम् अद्भुते इति वक्तव्यम् इह अपि यथा स्यात् । आश्चर्यम् उच्चता वृक्षस्य । आश्चर्यम् नीला द्यौः । आश्चर्यम् अन्तरिक्षे अबन्धनानि नक्षत्राणि न पतन्ति इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अनित्ये इति एव सिद्धम् । इह तावत् आश्चर्यम् उच्चता वृक्षस्य इति । आश्चर्यग्रहणेन न वृक्षः अभिसम्बध्यते । किम् तर्हि । उच्चता । सा च अनित्या । आश्चर्यम् नीला द्यौः इति । न आश्चर्यग्रहणेन द्यौः अभिसम्बध्यते । किम् तर्हि । नीलता । सा च अनित्या । आश्चर्यम् अन्तरिक्षे अबन्धनानि नक्षत्राणि न पतन्ति इति । न आश्चर्यग्रहणेन नक्षत्राणि अभिसम्बध्यन्ते । किम् तर्हि । पतनक्रिया । सा च अनित्या । तत्र अनित्ये इति एव सिद्धम् ।

KA III.96.2-9 Ro IV.482-483 āścaryam adbhute . āścaryam adbhute iti vaktavyam iha api yathā syāt . āścaryam uccatā vṛkṣasya . āścaryam nīlā dyauḥ . āścaryam antarikṣe abandhanāni nakṣatrāṇi na patanti iti . tat tarhi vaktavyam . na vaktavyam . anitye iti eva siddham . iha tāvat āścaryam uccatā vṛkṣasya iti . āścaryagrahaṇena na vṛkṣaḥ abhisambadhyate . kim tarhi . uccatā . sā ca anityā . āścaryam nīlā dyauḥ iti . na āścaryagrahaṇena dyauḥ abhisambadhyate . kim tarhi . nīlatā . sā ca anityā . āścaryam antarikṣe abandhanāni nakṣatrāṇi na patanti iti . na āścaryagrahaṇena nakṣatrāṇi abhisambadhyante . kim tarhi . patanakriyā . sā ca anityā . tatra anitye iti eva siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९५।१६-२० रो इव्।४८२ विष्किरः शकुनौ विकिरः वा । विष्किरः शकुनौ विकिरः वा इति वक्तव्यम् । शकुनौ वा इति हि उच्यमाने शकुनौ वा स्यात् अन्यत्र अपि नित्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न वावचनेन शकुनिः अभिसम्बध्यते । किम् तर्हि । निपातनम् अभिसम्बध्यते : विष्किरः इति एतत् निपातनम् शकुनौ वा निपात्यते इति ।

KA III.95.16-20 Ro IV.482 viṣkiraḥ śakunau vikiraḥ vā . viṣkiraḥ śakunau vikiraḥ vā iti vaktavyam . śakunau vā iti hi ucyamāne śakunau vā syāt anyatra api nityam . tat tarhi vaktavyam . na vaktavyam . na vāvacanena śakuniḥ abhisambadhyate . kim tarhi . nipātanam abhisambadhyate : viṣkiraḥ iti etat nipātanam śakunau vā nipātyate iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९६।११-१४ रो इव्।४८३ मस्करिग्रहणम् शक्यम् अकर्तुम् । कथम् मस्करी परिव्राजकः इति । इनिना एतत् मत्वर्थीयेन सिद्धम् । मस्करः अस्य अस्ति । न वै मस्करः अस्य अस्ति इति मस्करी परिव्राजकः । किम् तर्हि मा कृत कर्माणि । मा कृत कर्माणि । शान्तिः वः श्रेयसी इति आह । अतः मस्करी परिव्राजकः ।

KA III.96.11-14 Ro IV.483 maskarigrahaṇam śakyam akartum . katham maskarī parivrājakaḥ iti . ininā etat matvarthīyena siddham . maskaraḥ asya asti . na vai maskaraḥ asya asti iti maskarī parivrājakaḥ . kim tarhi mā kṛta karmāṇi . mā kṛta karmāṇi . śāntiḥ vaḥ śreyasī iti āha . ataḥ maskarī parivrājakaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९६।१६-१९ रो इव्।४८३-४८४ अविहितलक्षणः सुट् पारस्करप्रभृतिषु द्रष्टव्यः । पारस्करः देशः । कारस्करः वृक्षः । रथस्पा नदी । किष्किन्धा गुहा । किष्कुः । तद्बृहतोः करपत्योः चोरदेवतयोः सुट् तलोपः च । तस्करः , बृहस्पतिः । प्रायस्य चित्तिचित्तयोः सुट् अस्कारः वा । प्रायश्चित्तिः , प्रायश्चित्तम् ।

KA III.96.16-19 Ro IV.483-484 avihitalakṣaṇaḥ suṭ pāraskaraprabhṛtiṣu draṣṭavyaḥ . pāraskaraḥ deśaḥ . kāraskaraḥ vṛkṣaḥ . rathaspā nadī . kiṣkindhā guhā . kiṣkuḥ . tadbṛhatoḥ karapatyoḥ coradevatayoḥ suṭ talopaḥ ca . taskaraḥ , bṛhaspatiḥ . prāyasya citticittayoḥ suṭ askāraḥ vā . prāyaścittiḥ , prāyaścittam .

Sanskrit only: no published translation is held for this verse.