क्अ इइइ।१०९।२-२१ रो इव्।५१०-५१२ इह कस्मात् न भवति । किशोरीणाम् , कुमारीणाम् । ह्रस्वात् इति वर्तते । इह अपि तर्हि न प्राप्नोति । अग्नीनाम् , वायूनाम् । किम् कारणम् । दीर्घत्वे कृते ह्रस्वाभावात् । इदम् इह सम्प्रधार्यम् । दीर्घत्वम् क्रियताम् स्वरः इति किम् अत्र कर्तव्यम् । परत्वात् दीर्घत्वम् । एवम् तर्हि नाम्स्वरे मतौ ह्रस्वग्रहणम् । नाम्स्वरे मतौ ह्रस्वग्रहणम् कर्तव्यम् । मतौ ह्रस्वान्तात् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । आह अयम् ह्रस्वान्तात् न च नामि ह्रस्वान्तः अस्ति । तत्र भूतपूर्वगतिः विज्ञास्यते : ह्रस्वान्तम् यत् भूतपूर्वम् इति । साम्प्रतिकाभावे भूतपूर्वगतिः विज्ञायते अयम् च अस्ति साम्प्रतिकः : तिसृणाम् , चतसृणाम् इति । न एतत् अस्ति । षट्त्रिचतुर्भ्यः हलादिः इति अनेन स्वरेण भवितव्यम् । तस्मिन् नित्ये प्राप्ते इयम् विभाषा आरभ्यते । एवम् तर्हि योगविभागः करिष्यते । षट्त्रिचतुर्भ्यः नाम् उदात्तः भवति । ततः हलादिः । हलादिः च विभक्तिः उदात्ता भवति षट्त्रिचतुर्भ्यः इति । इदम् तर्हि त्वम् नृणम् नृपते जायसे शुचिः । ननु च अत्र अपि नृ च अन्यतरस्याम् इति एषः स्वरः बाधकः भविष्यति । न सिध्यति । न सिध्यति । किम् कारणम् । झल्ग्रहणम् तत्र अनुवर्तते । किम् पुनः कारणम् झल्ग्रहणम् तत्र अनुवर्तते । इह मा भूत् । न्रा न्रे । उदात्तयणः हल्पूर्वात् इति एषः स्वरः अत्र स्वरः बाधकः भविष्यति । इदम् तर्हि नरि । न एकम् उदाहरम् ह्रस्वग्रहणम् प्रयोजयति । यदि एतावत् प्रयोजनम् स्यात् नाम् इति एव ब्रूयात् । तत्र वचनात् भूतपूर्वगतिः विज्ञास्यते । ह्रस्वान्तम् यत् भूतपूर्वम् इति । अथ वा न एवम् विज्ञायते । नाम् स्वरौ मतौ ह्रस्वग्रहणम् कर्तव्यम् इति । कथम् तर्हि । नाम्स्वरे मतौ ह्रस्वात् इति वर्तते इति ।
KA III.109.2-21 Ro IV.510-512 iha kasmāt na bhavati . kiśorīṇām , kumārīṇām . hrasvāt iti vartate . iha api tarhi na prāpnoti . agnīnām , vāyūnām . kim kāraṇam . dīrghatve kṛte hrasvābhāvāt . idam iha sampradhāryam . dīrghatvam kriyatām svaraḥ iti kim atra kartavyam . paratvāt dīrghatvam . evam tarhi nāmsvare matau hrasvagrahaṇam . nāmsvare matau hrasvagrahaṇam kartavyam . matau hrasvāntāt iti . tat tarhi vaktavyam . na vaktavyam . āha ayam hrasvāntāt na ca nāmi hrasvāntaḥ asti . tatra bhūtapūrvagatiḥ vijñāsyate : hrasvāntam yat bhūtapūrvam iti . sāmpratikābhāve bhūtapūrvagatiḥ vijñāyate ayam ca asti sāmpratikaḥ : tisṛṇām , catasṛṇām iti . na etat asti . ṣaṭtricaturbhyaḥ halādiḥ iti anena svareṇa bhavitavyam . tasmin nitye prāpte iyam vibhāṣā ārabhyate . evam tarhi yogavibhāgaḥ kariṣyate . ṣaṭtricaturbhyaḥ nām udāttaḥ bhavati . tataḥ halādiḥ . halādiḥ ca vibhaktiḥ udāttā bhavati ṣaṭtricaturbhyaḥ iti . idam tarhi tvam nṛṇam nṛpate jāyase śuciḥ . nanu ca atra api nṛ ca anyatarasyām iti eṣaḥ svaraḥ bādhakaḥ bhaviṣyati . na sidhyati . na sidhyati . kim kāraṇam . jhalgrahaṇam tatra anuvartate . kim punaḥ kāraṇam jhalgrahaṇam tatra anuvartate . iha mā bhūt . nrā nre . udāttayaṇaḥ halpūrvāt iti eṣaḥ svaraḥ atra svaraḥ bādhakaḥ bhaviṣyati . idam tarhi nari . na ekam udāharam hrasvagrahaṇam prayojayati . yadi etāvat prayojanam syāt nām iti eva brūyāt . tatra vacanāt bhūtapūrvagatiḥ vijñāsyate . hrasvāntam yat bhūtapūrvam iti . atha vā na evam vijñāyate . nām svarau matau hrasvagrahaṇam kartavyam iti . katham tarhi . nāmsvare matau hrasvāt iti vartate iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.