क्अ इइइ।४७।१४-४८।२७ रो इव्।३८०-३८३ सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः । सम्बुद्धिलोपे डतरादिभ्यः प्रतिषेधः वक्तव्यः । हे कतरत्, हे कतमत् । किम् उच्यते डतरादिभ्यः प्रतिषेधः वक्तव्यः इति यदा अपृक्तस्य इति अनुवर्तते । अपृक्ताधिकारस्य निवृत्तत्वात् । निवृत्तः अपृक्ताधिकारः । किम् डतरादिभ्यः प्रतिषेधम् वक्ष्यामि इति अपृक्ताधिकारः निवर्त्यते । न इति आह । तत् च अमर्थम् । सः च अवश्यम् अपृक्ताधिकारः निवर्त्यः । किमर्थम् । अमर्थम् । अमः लोपः यथा स्यात् । हे कुण्ड , हे पीठ । निवृत्ते अपि अपृक्ताधिकारे अमः लोपः न प्राप्नोति । न हि लोपः सर्वापहारी । मा भूत् सर्वस्य लोपः । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य लोपे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् हे कुण्ड , हे पीठ इति । यदि एतत् लभ्येत कृतम् स्यात् । तत् तु न लभ्यते । किम् कारणम् । अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति अकारस्य लोपः प्राप्नोति । अकारलोपे च सति मकारे अतः दीर्घः यञि सुपि च इति दीर्घत्वे हे कुण्डाम् , हे पीठाम् इति एतत् रूपम् प्रसज्येत । एवम् तर्हि हलः लोपः सम्बुद्धिलोपः । तत् हल्ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तम् हल् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । न एषः दोषः । एङ् ह्रस्वात् इति एषा पञ्चमी हल् इति अस्याः प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । एवम् अपि प्रथमयोः पूर्वसवर्णदीर्घत्वे कृते हे पीठा इति एतत् रूपम् प्रसज्येत । अमि पूर्वत्वम् अत्र बाधकम् भविष्यति । अमि इति उच्यते न च अत्र अमम् पश्यामः । एकदेशविकृतम् अनन्यवत् भवति इति । अथ वा इदम् इह सम्प्रधार्यम् । सम्बुद्धिलोपः क्रियताम् एकादेशः इति । किम् अत्र कर्तव्यम् । परत्वात् एकादेशः । एवम् अपि एकादेशे कृते व्यपवर्गाभावात् सम्बुद्धिलोपः न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गः भविष्यति । उभयतः आश्रये न अन्तादिवत् । न उभयतः आश्रयः करिष्यते । कथम् । न एवम् विज्ञायते । ह्रस्वात् उत्तरस्याः सम्बुद्धेः लोपः भवति इति । कथम् तर्हि । ह्रस्वात् उत्तरस्य हलः लोपः भवति सः चेत् सम्बुद्धेः इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । उक्तम् वा । किम् उक्तम् । सिद्धम् अनुनासिकोपधत्वात् इति । एवम् अपि दलोपः साधीयः प्राप्नोति । दुक्करणात् वा । अथ वा दुक् डतरादीनाम् इति वक्ष्यामि । डित्करणात् वा । अथ वा डित् अयम् शब्दः करिष्यते । सः तर्हि डकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । द्विडकारः निर्देशः अद्ड् डतरादिभ्यः इति । एवम् अपि लोपः प्राप्नोति । विहितविशेषणम् ह्रस्वग्रहणम् । यस्मात् ह्रस्वात् सम्बुद्धिः विहिता इति ।
KA III.47.14-48.27 Ro IV.380-383 sambuddhilope ḍatarādibhyaḥ pratiṣedhaḥ . sambuddhilope ḍatarādibhyaḥ pratiṣedhaḥ vaktavyaḥ . he katarat, he katamat . kim ucyate ḍatarādibhyaḥ pratiṣedhaḥ vaktavyaḥ iti yadā apṛktasya iti anuvartate . apṛktādhikārasya nivṛttatvāt . nivṛttaḥ apṛktādhikāraḥ . kim ḍatarādibhyaḥ pratiṣedham vakṣyāmi iti apṛktādhikāraḥ nivartyate . na iti āha . tat ca amartham . saḥ ca avaśyam apṛktādhikāraḥ nivartyaḥ . kimartham . amartham . amaḥ lopaḥ yathā syāt . he kuṇḍa , he pīṭha . nivṛtte api apṛktādhikāre amaḥ lopaḥ na prāpnoti . na hi lopaḥ sarvāpahārī . mā bhūt sarvasya lopaḥ . alaḥ antyasya vidhayaḥ bhavanti iti antyasya lope kṛte dvayoḥ akārayoḥ pararūpeṇa siddham rūpam syāt he kuṇḍa , he pīṭha iti . yadi etat labhyeta kṛtam syāt . tat tu na labhyate . kim kāraṇam . atra hi tasmāt iti uttarasya ādeḥ parasya iti akārasya lopaḥ prāpnoti . akāralope ca sati makāre ataḥ dīrghaḥ yañi supi ca iti dīrghatve he kuṇḍām , he pīṭhām iti etat rūpam prasajyeta . evam tarhi halaḥ lopaḥ sambuddhilopaḥ . tat halgrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . halṅyābbhyaḥ dīrghāt sutisi apṛktam hal iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . na eṣaḥ doṣaḥ . eṅ hrasvāt iti eṣā pañcamī hal iti asyāḥ prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . evam api prathamayoḥ pūrvasavarṇadīrghatve kṛte he pīṭhā iti etat rūpam prasajyeta . ami pūrvatvam atra bādhakam bhaviṣyati . ami iti ucyate na ca atra amam paśyāmaḥ . ekadeśavikṛtam ananyavat bhavati iti . atha vā idam iha sampradhāryam . sambuddhilopaḥ kriyatām ekādeśaḥ iti . kim atra kartavyam . paratvāt ekādeśaḥ . evam api ekādeśe kṛte vyapavargābhāvāt sambuddhilopaḥ na prāpnoti . antādivadbhāvena vyapavargaḥ bhaviṣyati . ubhayataḥ āśraye na antādivat . na ubhayataḥ āśrayaḥ kariṣyate . katham . na evam vijñāyate . hrasvāt uttarasyāḥ sambuddheḥ lopaḥ bhavati iti . katham tarhi . hrasvāt uttarasya halaḥ lopaḥ bhavati saḥ cet sambuddheḥ iti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . uktam vā . kim uktam . siddham anunāsikopadhatvāt iti . evam api dalopaḥ sādhīyaḥ prāpnoti . dukkaraṇāt vā . atha vā duk ḍatarādīnām iti vakṣyāmi . ḍitkaraṇāt vā . atha vā ḍit ayam śabdaḥ kariṣyate . saḥ tarhi ḍakāraḥ kartavyaḥ . na kartavyaḥ . kriyate nyāse eva . dviḍakāraḥ nirdeśaḥ adḍ ḍatarādibhyaḥ iti . evam api lopaḥ prāpnoti . vihitaviśeṣaṇam hrasvagrahaṇam . yasmāt hrasvāt sambuddhiḥ vihitā iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.