क्अ इइइ।१३९।८-१४०।६ रो इव्।५७७-५७९ किम् इदम् द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् आहोस्वित् नकारान्तग्रहणम् । कः च अत्र विशेषः । द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् चेत् नकारान्तस्य उपसङ्ख्यानम् । द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् चेत् नकारान्तस्य उपसङ्ख्यानम् कर्तव्यम् । द्विमूर्धा त्रिमूर्धा । अस्तु तर्हि नकारान्तग्रहणम् । नकारान्ते अकारान्तस्य । नकारान्ते अकारान्तस्य उपसङ्ख्यानम् कर्तव्यम् । द्विमूर्धः , त्रिमूर्धः । उदात्तलोपात् सिद्धम् । अस्तु तर्हि नकारान्तग्रहणम् । अन्तोदात्तत्वे कृते लोपः उदात्तनिवृत्तिस्वरेण सिद्धम् । इदम् इह सम्प्रधार्यम् । अन्तोदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् । परत्वात् लोपः । एवम् तर्हि इदम् इह सम्प्रधार्यम् । अन्तोदात्तत्वम् क्रियताम् समासान्तः इति किम् अत्र कर्तव्यम् । परत्वात् अन्तोदात्तत्वम् । नित्यः समासान्तः । कृते अपि अन्तोदात्तत्वे प्राप्नोति अकृते अपि । अन्तोदात्तत्वम् अपि नित्यम् । कृते अपि समासान्ते प्राप्नोति अकृते अपि । अनित्यम् अन्तोदात्तत्वम् । न हि कृते समासान्ते प्राप्नोति । परत्वात् लोपेन भवितव्यम् । यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् । न च समासान्तः एव अन्तोदात्तत्वस्य निमित्तम् हन्ति । अवश्यम् लक्षणान्तरम् लोपः प्रतीक्ष्यः । उभयोः नित्ययोः परत्वात् अन्तोदात्तत्वम् । अन्तोदात्तत्वे कृते समासान्तः , टिलोपः । टिलोपे कृते उदात्तनिवृत्तिस्वरेण सिद्धम् । युक्तम् पुनः इदम् विचारयितुम् । नन् उ अनेन असन्दिग्धेन नकारान्तस्य ग्रहणेन भवितव्यम् यावता मूर्धसु इति उच्यते । यदि हि अकारान्तस्य ग्रहणम् स्यात् मूर्धेषु इति ब्रूयात् । सा एषा समासान्तार्था विचारणा । एवम् तर्हि ज्ञापयति आचार्यः । विभाषा समासान्तः भवति इति ।
KA III.139.8-140.6 Ro IV.577-579 kim idam dvitribhyām mūrdhani akārāntagrahaṇam āhosvit nakārāntagrahaṇam . kaḥ ca atra viśeṣaḥ . dvitribhyām mūrdhani akārāntagrahaṇam cet nakārāntasya upasaṅkhyānam . dvitribhyām mūrdhani akārāntagrahaṇam cet nakārāntasya upasaṅkhyānam kartavyam . dvimūrdhā trimūrdhā . astu tarhi nakārāntagrahaṇam . nakārānte akārāntasya . nakārānte akārāntasya upasaṅkhyānam kartavyam . dvimūrdhaḥ , trimūrdhaḥ . udāttalopāt siddham . astu tarhi nakārāntagrahaṇam . antodāttatve kṛte lopaḥ udāttanivṛttisvareṇa siddham . idam iha sampradhāryam . antodāttatvam kriyatām lopaḥ iti kim atra kartavyam . paratvāt lopaḥ . evam tarhi idam iha sampradhāryam . antodāttatvam kriyatām samāsāntaḥ iti kim atra kartavyam . paratvāt antodāttatvam . nityaḥ samāsāntaḥ . kṛte api antodāttatve prāpnoti akṛte api . antodāttatvam api nityam . kṛte api samāsānte prāpnoti akṛte api . anityam antodāttatvam . na hi kṛte samāsānte prāpnoti . paratvāt lopena bhavitavyam . yasya ca lakṣaṇāntareṇa nimittam vihanyate na tat anityam . na ca samāsāntaḥ eva antodāttatvasya nimittam hanti . avaśyam lakṣaṇāntaram lopaḥ pratīkṣyaḥ . ubhayoḥ nityayoḥ paratvāt antodāttatvam . antodāttatve kṛte samāsāntaḥ , ṭilopaḥ . ṭilope kṛte udāttanivṛttisvareṇa siddham . yuktam punaḥ idam vicārayitum . nan u anena asandigdhena nakārāntasya grahaṇena bhavitavyam yāvatā mūrdhasu iti ucyate . yadi hi akārāntasya grahaṇam syāt mūrdheṣu iti brūyāt . sā eṣā samāsāntārthā vicāraṇā . evam tarhi jñāpayati ācāryaḥ . vibhāṣā samāsāntaḥ bhavati iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.