Library·Patanjali: Vyakaranamahabhasya·6·6.2

Patanjali: Vyakaranamahabhasya 6.2

क्अ इइइ।१२१।२-१२३।३ रो इव्।५३८-५४२ किमर्थम् इदम् उच्यते । बहुव्रीहिस्वरम् शास्ति समासान्तविधेः सुकृत् । सुकृत् आचार्यः समासान्तोदात्तत्वे प्राप्ते बहुव्रीहिस्वरम् अपवादम् शास्ति । न एतत् अस्ति प्रयोजनम् । नञ्सुभ्याम् नियमार्थम् तु । नञ्सुभ्याम् इति एतत् नियमार्थम् भविष्यति । नञ्सुभ्याम् एव बहुव्रीहेः अन्तः उदात्तः भवति न अन्यस्य इति । एवम् अपि कुतत् एतत् पूर्वपदप्रकृतिस्वरत्वम् भविष्यति न पुनः परस्य इति । परस्य शितिशासनात् । शितेः नित्याबह्वच् इति एतत् नियमार्थम् भविष्यति । शितेः एव न अन्यतः इति । यत् तावत् उच्यते नञ्सुभ्याम् नियमार्थम् इति क्षेपे विधिः नञः असिद्धः । उदराश्वेषुषु क्षेपे इति एतस्मिन् प्राप्ते ततः एतत् उच्यते । यत् अपि उच्यते परस्य शितिशासनात् इति परस्य नियमः भवेत् । परस्य एषः नियमः स्यात् । शितेः नित्याबह्वच् इति । यदि पूर्वपदप्रकृतिस्वरम् समासान्तोदात्तत्वम् बाधते चप्रियः वाप्रियः , अत्र अपि प्राप्नोति । अन्तः चवाप्रिये सम्भवात् । अन्तोदात्तत्वम् चवाप्रिये सिद्धम् । कुतः । सम्भवात् । असति खलु अपि सम्भवे बाधनम् भवति । अस्ति च सम्भवः यत् उभयम् स्यात् । सति अपि सम्भवे बाधनम् भवति । तत् यथा । दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति । एवम् इह अपि सति अपि सम्भवे पूर्वपदप्रकृतिस्वरम् समासान्तोदात्तत्वम् बाधिष्यते । एवम् तर्हि प्रकृतात् विधेः । बहुव्रीहौ प्र्कृत्या पूर्वपदम् प्रकृतिस्वरम् भवति इति । किम् च प्रकृतम् । उदात्तः इति च वर्तते । एवम् अपि कार्यप्रियः , हार्यप्रियः , अत्र न प्राप्नोति । स्वरिते अपि उदात्तः अस्ति । अथ वा स्वरितग्रहणम् अपि प्रकृतम् अनुवर्तते । क्व प्रकृतम् । तित् स्वरितम् इति । बहुव्रीहौ ऋते सिद्धम् । अन्तरेण अपि बहुव्रीहिग्रहणम् सिद्धम् । तत्पुरुषे कस्मात् न भवति । तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः इति एतत् नियमार्थम् भविष्यति । द्विगौ तर्हि कस्मात् न भवति । इगन्ते द्विगौ इति एतत् नियमार्थम् भविष्यति । द्वन्द्वे तर्हि प्राप्नोति । राजन्यबहुवचनद्वन्द्वे अन्धकवृष्णिषु इति एतत् नियमार्थम् भविष्यति । अव्ययीभावे तर्हि प्राप्नोति । परिप्रत्युपापाः वर्ज्यमानाहोरात्रावयवेषु इति एतत् नियमार्थम् भविष्यति । एवम् अपि कुतः एतत् एवम् नियमः भविष्यति एतेषाम् एव तत्पुरुषादिषु इति न पुनः एवम् नियमः स्यात् एतेषाम् तत्पुरुषादिषु एव इति । इष्टतः च अवधारणम् । इष्टतः च अवधारणम् भविष्यति । एतेषाम् तर्हि बहुव्रीहेः च पर्यायः प्राप्नोति । द्विपाद्दिष्टेः वितस्तेः च पर्यायः न प्रकल्पते । यत् अयम् द्वित्रिभ्याम् पाद्दन्मूर्धसु बहुव्रीहौ दिष्टिवितस्योः च इति सिद्धे पर्याये पर्यायम् शास्ति तत् ज्ञापयति आचार्यः न पर्यायः भवति इति । उदात्ते ज्ञापकम् तु एतत् । उदात्ते एतत् ज्ञापकम् स्यात् । स्वरितेन समाविशेत् । स्वरितेन समावेशः प्राप्नोति । स्वरिते अपि उदात्तः अस्ति । बहुव्रीहिस्वरम् शास्ति समासान्तविधेः सुकृत् । नञ्सुभ्याम् नियमार्थम् तु । परस्य शितिशासनात् । क्षेपे विधिः नञः असिद्धः । परस्य नियमः भवेत् । अन्तः चवाप्रिये सम्भवात् । प्रकृतात् विधेः । बहुव्रीहौ ऋते सिद्धम् । इष्टतः च अवधारणम् । द्विपाद्दिष्टेः वितस्तेः च पर्यायः न प्रकल्पते । उदात्ते ज्ञापकम् तु एतत् । स्वरितेन समाविशेत् ।

KA III.121.2-123.3 Ro IV.538-542 kimartham idam ucyate . bahuvrīhisvaram śāsti samāsāntavidheḥ sukṛt . sukṛt ācāryaḥ samāsāntodāttatve prāpte bahuvrīhisvaram apavādam śāsti . na etat asti prayojanam . nañsubhyām niyamārtham tu . nañsubhyām iti etat niyamārtham bhaviṣyati . nañsubhyām eva bahuvrīheḥ antaḥ udāttaḥ bhavati na anyasya iti . evam api kutat etat pūrvapadaprakṛtisvaratvam bhaviṣyati na punaḥ parasya iti . parasya śitiśāsanāt . śiteḥ nityābahvac iti etat niyamārtham bhaviṣyati . śiteḥ eva na anyataḥ iti . yat tāvat ucyate nañsubhyām niyamārtham iti kṣepe vidhiḥ nañaḥ asiddhaḥ . udarāśveṣuṣu kṣepe iti etasmin prāpte tataḥ etat ucyate . yat api ucyate parasya śitiśāsanāt iti parasya niyamaḥ bhavet . parasya eṣaḥ niyamaḥ syāt . śiteḥ nityābahvac iti . yadi pūrvapadaprakṛtisvaram samāsāntodāttatvam bādhate capriyaḥ vāpriyaḥ , atra api prāpnoti . antaḥ cavāpriye sambhavāt . antodāttatvam cavāpriye siddham . kutaḥ . sambhavāt . asati khalu api sambhave bādhanam bhavati . asti ca sambhavaḥ yat ubhayam syāt . sati api sambhave bādhanam bhavati . tat yathā . dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati . evam iha api sati api sambhave pūrvapadaprakṛtisvaram samāsāntodāttatvam bādhiṣyate . evam tarhi prakṛtāt vidheḥ . bahuvrīhau prkṛtyā pūrvapadam prakṛtisvaram bhavati iti . kim ca prakṛtam . udāttaḥ iti ca vartate . evam api kāryapriyaḥ , hāryapriyaḥ , atra na prāpnoti . svarite api udāttaḥ asti . atha vā svaritagrahaṇam api prakṛtam anuvartate . kva prakṛtam . tit svaritam iti . bahuvrīhau ṛte siddham . antareṇa api bahuvrīhigrahaṇam siddham . tatpuruṣe kasmāt na bhavati . tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ iti etat niyamārtham bhaviṣyati . dvigau tarhi kasmāt na bhavati . igante dvigau iti etat niyamārtham bhaviṣyati . dvandve tarhi prāpnoti . rājanyabahuvacanadvandve andhakavṛṣṇiṣu iti etat niyamārtham bhaviṣyati . avyayībhāve tarhi prāpnoti . paripratyupāpāḥ varjyamānāhorātrāvayaveṣu iti etat niyamārtham bhaviṣyati . evam api kutaḥ etat evam niyamaḥ bhaviṣyati eteṣām eva tatpuruṣādiṣu iti na punaḥ evam niyamaḥ syāt eteṣām tatpuruṣādiṣu eva iti . iṣṭataḥ ca avadhāraṇam . iṣṭataḥ ca avadhāraṇam bhaviṣyati . eteṣām tarhi bahuvrīheḥ ca paryāyaḥ prāpnoti . dvipāddiṣṭeḥ vitasteḥ ca paryāyaḥ na prakalpate . yat ayam dvitribhyām pāddanmūrdhasu bahuvrīhau diṣṭivitasyoḥ ca iti siddhe paryāye paryāyam śāsti tat jñāpayati ācāryaḥ na paryāyaḥ bhavati iti . udātte jñāpakam tu etat . udātte etat jñāpakam syāt . svaritena samāviśet . svaritena samāveśaḥ prāpnoti . svarite api udāttaḥ asti . bahuvrīhisvaram śāsti samāsāntavidheḥ sukṛt . nañsubhyām niyamārtham tu . parasya śitiśāsanāt . kṣepe vidhiḥ nañaḥ asiddhaḥ . parasya niyamaḥ bhavet . antaḥ cavāpriye sambhavāt . prakṛtāt vidheḥ . bahuvrīhau ṛte siddham . iṣṭataḥ ca avadhāraṇam . dvipāddiṣṭeḥ vitasteḥ ca paryāyaḥ na prakalpate . udātte jñāpakam tu etat . svaritena samāviśet .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२३।५-२१ रो इव्।५४२-५४३ तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः । तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कर्मधारये प्रतिषेधः वक्तव्यः । परमम् कारकम् परमकारकम् परमेन कारकेण परमकारकेण , परमे कारके परमकारके । सिद्धम् तु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणात् । सिद्धम् एतत् । कथम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् यः द्वितीयातृतीयासप्तमीसमासः तस्य ग्रहणम् लक्षणोक्तः च अयम् । अव्यये परिगणनम् कर्तव्यम् । अव्यये नञ्कुनिपातानाम् । अव्यये नञ्कुनिपातानाम् इति वक्तव्यम् । नञ् । अब्राह्मणः , अवृषलः । नञ् । कु । कुब्राह्मणः , कुवृषलः । कु । निपात । निष्कौशाम्बिः , निर्वाराणसिः । क्व मा भूत् । स्नात्वाकालकः , पीत्वास्थिरकः । क्त्वायाम् वा प्रतिषेधः । क्त्वायाम् वा प्रतिषेधः वक्तव्यः । स्नात्वाकालकः , पीत्वास्थिरकः । उभयम् न वक्तव्यम् । निपातनात् सिद्धम् । निपातनात् एतत् सिद्धम् । किम् निपातनम् । अवश्यम् अत्र समासार्थम् ल्यबभावार्थम् च निपातनम् कर्तव्यम् । तेन एव यत्नेन स्वरः भविष्यति ।

KA III.123.5-21 Ro IV.542-543 tatpuruṣe vibhaktiprakṛtisvaratve karmadhāraye pratiṣedhaḥ . tatpuruṣe vibhaktiprakṛtisvaratve karmadhāraye pratiṣedhaḥ vaktavyaḥ . paramam kārakam paramakārakam paramena kārakeṇa paramakārakeṇa , parame kārake paramakārake . siddham tu lakṣaṇapratipadoktayoḥ pratipadoktasya eva grahaṇāt . siddham etat . katham . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti pratipadam yaḥ dvitīyātṛtīyāsaptamīsamāsaḥ tasya grahaṇam lakṣaṇoktaḥ ca ayam . avyaye parigaṇanam kartavyam . avyaye nañkunipātānām . avyaye nañkunipātānām iti vaktavyam . nañ . abrāhmaṇaḥ , avṛṣalaḥ . nañ . ku . kubrāhmaṇaḥ , kuvṛṣalaḥ . ku . nipāta . niṣkauśāmbiḥ , nirvārāṇasiḥ . kva mā bhūt . snātvākālakaḥ , pītvāsthirakaḥ . ktvāyām vā pratiṣedhaḥ . ktvāyām vā pratiṣedhaḥ vaktavyaḥ . snātvākālakaḥ , pītvāsthirakaḥ . ubhayam na vaktavyam . nipātanāt siddham . nipātanāt etat siddham . kim nipātanam . avaśyam atra samāsārtham lyababhāvārtham ca nipātanam kartavyam . tena eva yatnena svaraḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२३।२३-१२४।१२ रो इव्।५४४ सदृशग्रहणम् अनर्थकम् तृतीयासमासवचनात् । सदृशग्रहणम् अनर्थकम् । किम् कारणम् । तृतीयासमासवचनात् । सदृशशब्देन तृतीयासमासः उच्यते । तत्र तृतीयापूर्वपदम् प्रकृतिस्वरम् भवति इति एव सिद्धम् । षष्ठ्यर्थम् तर्हि इदम् वक्तव्यम् । पितुः सदृशः पितृसदृशः इति । षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनानर्थक्यम् । षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनम् अनर्थकम् स्यात् । किम् कारणम् । इह अस्माभिः त्रैशब्द्यम् साध्यम् । पित्रा सदृशः पितुः सदृशः पितृसदृशः इति । तत्र द्वयोः शब्दयोः समानार्थयोः एकेन विग्रहः अपरेण समासः भविष्यति अविरविकन्यायेन । तत् यथा अवेः मांसम् इति विगृह्य अविकशब्दात् उत्पत्तिः भवति , आविकम् इति एवम् पितुः सदृशः इति विगृह्य पितृसदृशः इति भविष्यति पित्रा सदृशः इति विगृह्य वाक्यम् एव । अवश्यम् तृतीयासमासः वक्तव्यः यत्र षष्ठ्यर्थः न अस्ति तदर्थम् । भोजनसदृशः , अधययनसदृशः इति । यदि तर्हि तस्य निबन्धनम् अस्ति तत् एव वक्तव्यम् इदम् न वक्तव्यम् । इदम् अपि अवश्यम् वक्तव्यम् यत्र षष्ठी श्रूयते तदर्थम् । दास्याःसदृशः , वृषल्याःसदृशः इति ।

KA III.123.23-124.12 Ro IV.544 sadṛśagrahaṇam anarthakam tṛtīyāsamāsavacanāt . sadṛśagrahaṇam anarthakam . kim kāraṇam . tṛtīyāsamāsavacanāt . sadṛśaśabdena tṛtīyāsamāsaḥ ucyate . tatra tṛtīyāpūrvapadam prakṛtisvaram bhavati iti eva siddham . ṣaṣṭhyartham tarhi idam vaktavyam . pituḥ sadṛśaḥ pitṛsadṛśaḥ iti . ṣaṣṭhyartham iti cet tṛtīyāsamāsavacanānarthakyam . ṣaṣṭhyartham iti cet tṛtīyāsamāsavacanam anarthakam syāt . kim kāraṇam . iha asmābhiḥ traiśabdyam sādhyam . pitrā sadṛśaḥ pituḥ sadṛśaḥ pitṛsadṛśaḥ iti . tatra dvayoḥ śabdayoḥ samānārthayoḥ ekena vigrahaḥ apareṇa samāsaḥ bhaviṣyati aviravikanyāyena . tat yathā aveḥ māṃsam iti vigṛhya avikaśabdāt utpattiḥ bhavati , āvikam iti evam pituḥ sadṛśaḥ iti vigṛhya pitṛsadṛśaḥ iti bhaviṣyati pitrā sadṛśaḥ iti vigṛhya vākyam eva . avaśyam tṛtīyāsamāsaḥ vaktavyaḥ yatra ṣaṣṭhyarthaḥ na asti tadartham . bhojanasadṛśaḥ , adhayayanasadṛśaḥ iti . yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam . idam api avaśyam vaktavyam yatra ṣaṣṭhī śrūyate tadartham . dāsyāḥsadṛśaḥ , vṛṣalyāḥsadṛśaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२४।१४-१९ रो इव्।५४५ इगन्तप्रकृतिस्वरत्वे यण्गुणयोः उपसङ्ख्यानम् । इगन्तप्रकृतिस्वरत्वे यण्गुणयोः उपसङ्ख्यानम् कर्तव्यम् । पञ्चारत्न्यः , दशारतन्यः । यण्गुणयोः कृतयोः इगन्ते द्विगौ इति एषः स्वरः न प्राप्नोति । न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गौ यण्गुणौ । अन्तरङ्गः स्वरः । असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

KA III.124.14-19 Ro IV.545 igantaprakṛtisvaratve yaṇguṇayoḥ upasaṅkhyānam . igantaprakṛtisvaratve yaṇguṇayoḥ upasaṅkhyānam kartavyam . pañcāratnyaḥ , daśāratanyaḥ . yaṇguṇayoḥ kṛtayoḥ igante dvigau iti eṣaḥ svaraḥ na prāpnoti . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyam . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgau yaṇguṇau . antaraṅgaḥ svaraḥ . asiddham bahiraṅgam antaraṅge .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२४।२१-१२५।८ रो इव्।५४५-५४६ परिप्रत्युपापेभ्यः वनम् समासे विप्रतिषेधेन । परिप्रत्युपापेभ्यः वनम् समासे इति एतत् भवति विप्रतिषेधेन । परिप्रत्युपापाः वर्ज्यमानाहोरातावयवेषु इति अस्य अवकाशः परित्रिगर्तम्, परिसौवीरम् । वनम् समासे इति अस्य अवकाशः प्रवणे यष्टव्यम् । इह उभयम् प्राप्नोति परिवनम् अपवनम् । वनम् समासे इति एतत् भवति विप्रतिषेधेन । न वा वनस्यान्दोदात्तत्ववचनम् तदपवादनिवृत्त्यर्थम् । न वा अर्थः विप्रतिषेधेन । किम् कारणम् । वनस्यान्दोदात्तत्ववचनम् तदपवादनिवृत्त्यर्थम् । सिद्धम् अत्र अन्तोदात्तत्वम् उत्सर्गेण एव । तस्य पुनर्वचने एतत् प्रयोजनम् । ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् । सः यथा एव तदपवादम् अव्ययस्वरम् बाधते एवम् इदम् अपि बाधिष्यते ।

KA III.124.21-125.8 Ro IV.545-546 paripratyupāpebhyaḥ vanam samāse vipratiṣedhena . paripratyupāpebhyaḥ vanam samāse iti etat bhavati vipratiṣedhena . paripratyupāpāḥ varjyamānāhorātāvayaveṣu iti asya avakāśaḥ paritrigartam, parisauvīram . vanam samāse iti asya avakāśaḥ pravaṇe yaṣṭavyam . iha ubhayam prāpnoti parivanam apavanam . vanam samāse iti etat bhavati vipratiṣedhena . na vā vanasyāndodāttatvavacanam tadapavādanivṛttyartham . na vā arthaḥ vipratiṣedhena . kim kāraṇam . vanasyāndodāttatvavacanam tadapavādanivṛttyartham . siddham atra antodāttatvam utsargeṇa eva . tasya punarvacane etat prayojanam . ye anye tadapavādāḥ prāpnuvanti tadbādhanārtham . saḥ yathā eva tadapavādam avyayasvaram bādhate evam idam api bādhiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२५।१०-१६ रो इव्।५४६-५४७ आचार्योपसर्जने अनेकस्य अपि पूर्वपदत्वात् सन्देहः । आचार्योपसर्जने अनेकस्य अपि पूर्वपदत्वात् सन्देहः भवति । आपिशलपाणिनीयव्याडीयगौतमीयाः । एकम् पदम् वर्जयित्वा सर्वाणि पूर्वपदानि । तत्र न ज्ञायते कस्य पूर्वपदस्य प्रकृतिस्वरेण भवितव्यम् इति । लोकविज्ञानात् सिद्धम् । तत् यथा लोके , अमीषाम् ब्राह्मणानाम् पूर्वम् आनय इति यः सर्वपूर्वः सः आनीयते एवम् इह अपि यत् सर्वपूर्वपदम् तस्य प्रकृतिस्वरत्वम् भविष्यति ।

KA III.125.10-16 Ro IV.546-547 ācāryopasarjane anekasya api pūrvapadatvāt sandehaḥ . ācāryopasarjane anekasya api pūrvapadatvāt sandehaḥ bhavati . āpiśalapāṇinīyavyāḍīyagautamīyāḥ . ekam padam varjayitvā sarvāṇi pūrvapadāni . tatra na jñāyate kasya pūrvapadasya prakṛtisvareṇa bhavitavyam iti . lokavijñānāt siddham . tat yathā loke , amīṣām brāhmaṇānām pūrvam ānaya iti yaḥ sarvapūrvaḥ saḥ ānīyate evam iha api yat sarvapūrvapadam tasya prakṛtisvaratvam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२५।१९-२१ रो इव्।५४७ किमर्थम् महतः प्रवृद्धशब्दे उत्तरपदे पूर्वपदप्रकृतिस्वरत्वम् उच्यते न कर्मधारये अनिष्ठा इति एव सिद्धम् । न सिध्यति । किम् कारणम् । श्रेण्यादिसमासे एवत् तत् इह मा भूत् , महानिरष्टः दक्षिणा दीयते ।

KA III.125.19-21 Ro IV.547 kimartham mahataḥ pravṛddhaśabde uttarapade pūrvapadaprakṛtisvaratvam ucyate na karmadhāraye aniṣṭhā iti eva siddham . na sidhyati . kim kāraṇam . śreṇyādisamāse evat tat iha mā bhūt , mahāniraṣṭaḥ dakṣiṇā dīyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२६।३-१४ रो इव्।५४७-५४९ कुरुवृज्योः गार्हपते । कुरुवृज्योः गार्हपते इति वक्तव्यम् । कुरुगार्हपतम् , वृजिगाऋहपतम् । कुरुगार्हपतरिक्तरुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैलिकद्रूःपण्यकमबलः दासीभारादीनाम् इति वक्तव्यम् । इह अपि यथा स्यात् । देवहूतिः , देवनीतिः , वसुनीतिः , ओषधिः , चन्द्रमाः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । योगविभागः करिष्यते । कुरुगार्हपतरिक्तरुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैलिकद्रूःपण्यकमबलः इति । ततः दासीभाराणाम् च इति । तत्र बहुवचननिर्देशात् दासीभारादीनाम् इति विज्ञास्यते । पण्यकम्बलः सञ्ज्ञायाम् । पण्यकम्बलः सञ्ज्ञायाम् इति वक्तव्यम् । यः पणितव्यः कम्बलः पण्यकम्बलः एव असौ भवति । अपरः आह : पण्यकम्बलः एव यथा स्यात् । क्व मा भूत् । पण्यगवः , पण्यहस्ती ।

KA III.126.3-14 Ro IV.547-549 kuruvṛjyoḥ gārhapate . kuruvṛjyoḥ gārhapate iti vaktavyam . kurugārhapatam , vṛjigāṛhapatam . kurugārhapatariktarurvasūtajaratyaślīladṛḍharūpāpārevaḍavātailikadrūḥpaṇyakamabalaḥ dāsībhārādīnām iti vaktavyam . iha api yathā syāt . devahūtiḥ , devanītiḥ , vasunītiḥ , oṣadhiḥ , candramāḥ . tat tarhi vaktavyam . na vaktavyam . yogavibhāgaḥ kariṣyate . kurugārhapatariktarurvasūtajaratyaślīladṛḍharūpāpārevaḍavātailikadrūḥpaṇyakamabalaḥ iti . tataḥ dāsībhārāṇām ca iti . tatra bahuvacananirdeśāt dāsībhārādīnām iti vijñāsyate . paṇyakambalaḥ sañjñāyām . paṇyakambalaḥ sañjñāyām iti vaktavyam . yaḥ paṇitavyaḥ kambalaḥ paṇyakambalaḥ eva asau bhavati . aparaḥ āha : paṇyakambalaḥ eva yathā syāt . kva mā bhūt . paṇyagavaḥ , paṇyahastī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२६।१६-२० रो इव्।५४९ अहीने इति किमर्थम् । कान्तारातीतः , योजनातीतः । अहीने द्वितीया अनुपसर्गे । अहीने द्वितीया अनुपसर्गे इति वक्तव्यम् । इह मा भूत् । सुखप्राप्तः , दुःखप्राप्तः । तत् तर्हि वक्तव्यम् । यदि अपि एतत् उच्यते अथ वा एतर्हि अहीनग्रहणम् न करिष्यते । इह अपि कान्तारातीतः , योजनातीतः इति अनुपसर्गे इति एव सिद्धम् ।

KA III.126.16-20 Ro IV.549 ahīne iti kimartham . kāntārātītaḥ , yojanātītaḥ . ahīne dvitīyā anupasarge . ahīne dvitīyā anupasarge iti vaktavyam . iha mā bhūt . sukhaprāptaḥ , duḥkhaprāptaḥ . tat tarhi vaktavyam . yadi api etat ucyate atha vā etarhi ahīnagrahaṇam na kariṣyate . iha api kāntārātītaḥ , yojanātītaḥ iti anupasarge iti eva siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२६।२२-१२८।१४ रो इव्।५५०-५५५ अनन्तरः इति किमर्थम् । इह मा भूत् । अभ्युद्धृतम् , उपसमाहृतम् । गतेः अनन्तरग्रहणम् अनर्थकम् गतिः गतौ अनुदात्तवचनात् । गतेः अनन्तरग्रहणम् अनर्थकम् । किम् कारणम् । गतिः गतौ अनुदात्तवचनात् । गतौ परतः गतेः अनुदात्तत्वम् उच्यते । तत् बाधकम् भविष्यति । तत्र यस्य अप्रकृतिस्वरत्वम् तस्मात् अन्तोदात्तप्रसङ्गः। तत्र यस्य गतेः अप्रकृतिस्वरत्वम् तस्मात् अन्तोदात्तत्वम् प्राप्नोति अन्तः थाथघञ्क्ताजबित्रकाणाम् इति । प्रकृतिस्वरवचनात् हि अननोदात्तत्वम् । प्रकृतिस्वरवचनसामर्थ्यात् हि अन्तोदात्तत्वम् न भविष्यति । यदि हि स्यात् प्रकृतिस्वरवचनम् इदानीम् किमर्थम् स्यात् । प्रकृतिस्वरवचनम् किमर्थम् इति चेत् एकगत्यर्थम् । प्रकृतिस्वरवचनम् किमर्थम् इति चेत् एकगत्यर्थम् । यत्र एकः गतिः तदर्थम् एतत् स्यात् । प्रकृतम् , प्रहृतम् । एवमर्थम् एव तर्हि अनन्तग्रहणम् कर्तव्यम् अत्र यथा स्यात् । क्रियमाणे अपि वै अनन्तग्रहणे अत्र न सिध्यति । किम् कारणम् । गतिः अनन्तरः पूर्वपदम् प्रकृतिस्वरम् भवति इति उच्यते । यः च अत्र गतिः अनन्तरः न असौ पूर्वपदम् यः च पूर्वपदम् न असौ अनन्तरः । अपूर्वपदार्थम् तर्हि इदम् वक्तव्यम् । अपूर्वपदस्य अपि गतेः प्रकृतिस्वरत्वम् यथा स्यात् । अपूर्वपदार्थम् इति चेत् कारके अतिप्रसङ्गः ।अपूर्वपदार्थम् इति चेत् कारके अतिप्रसङ्गः भवति । आगतः , दूरादागतः । सः यथा एव गतिपूर्वपदस्य भवति एवम् कारकपूर्वपदस्य अपि प्राप्नोति । सिद्धम् तु गतेः अन्तोदात्ताप्रसङ्गात् । सिद्धम् एतत् । कथम् ।यत् तत् गतेः अन्तोदात्ताप्रसङ्गात् अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एतत् गतेः न प्रसङ्क्तव्यम् । किम् कृतम् भवति । कृत्स्वरापवादः अयम् भवति । तत्र गतिः अनन्तरः इति अस्य अवकाशः प्रकृतम् , प्रहृतम् । अन्तः थाथघञ्क्ताजबित्रकाणाम् इति अस्य अवकाशः , दूराद्गतः , दूराद्यातः । इह उभयम् प्राप्नोति । आगतः , दूरादागतः । अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एतत् भवति विप्रतिषेधेन । अवश्यम् गतेः तत् प्रसङ्क्तव्यम् भेदः प्रभेदः इति एवमर्थम् । एवम् तर्हि योगविभागः करिष्यते । अन्तः थाथघञ्क्ताजबित्रकाणाम् इति । ततः क्तः । क्तान्तम् उत्तरपदम् अन्तोदात्तम् भवति । अत्र कारकोपपदग्रहणम् । अनुवर्तते गतिग्रहणम् निवृत्तम् । अथ वा उपरिष्टाद् योगविभागः करिष्यते । इदम् अस्ति सूपमानात् क्तः , सञ्ज्ञायाम् अनाचितादीनाम् , प्रवृद्धादीनाम् च इति । ततः वक्ष्यामि कारकात् । कारकात् च क्तान्तम् उत्तरपदम् अन्तोदात्तम् भवति । ततः दत्तश्रुतयोः एव आशिषि कारकात् इति । एवम् च कृत्वा न अर्थः अनन्तग्रहणेन । कथम् अभ्युद्धृतम् । उत् हरतिक्रियम् विशिनष्टि । उदा विशिष्टम् अभिः विशिनष्टि । । तत्र गतिः अनन्तरः इति च प्राप्नोति गतिः गतौ इति च । गतिः अनन्तरः इति अस्य अवकाशः प्रकृतम् प्रहृतम् । गतिः गतौ इति अस्य अवकाशः अभि उत् हरति , उप सम् आ दधाति । इह उभयम् प्राप्नोति , अभ्युद्धृतम् , उपसमाहृतम् । गतिः गतौ इति एतत् भवति विप्रतिषेधेन ।एवम् तर्हि सिद्धे सति यत् अनन्तरग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति । किम् एतस्य ज्ञापने प्रयोजनम् । अवतप्तेनकुलस्थितम् ते एतत् , उदकेविशीर्णम् ते एतत् । सगतिकेन सनकुलेन समासः सिद्धः भवति ।

KA III.126.22-128.14 Ro IV.550-555 anantaraḥ iti kimartham . iha mā bhūt . abhyuddhṛtam , upasamāhṛtam . gateḥ anantaragrahaṇam anarthakam gatiḥ gatau anudāttavacanāt . gateḥ anantaragrahaṇam anarthakam . kim kāraṇam . gatiḥ gatau anudāttavacanāt . gatau parataḥ gateḥ anudāttatvam ucyate . tat bādhakam bhaviṣyati . tatra yasya aprakṛtisvaratvam tasmāt antodāttaprasaṅgaḥ. tatra yasya gateḥ aprakṛtisvaratvam tasmāt antodāttatvam prāpnoti antaḥ thāthaghañktājabitrakāṇām iti . prakṛtisvaravacanāt hi ananodāttatvam . prakṛtisvaravacanasāmarthyāt hi antodāttatvam na bhaviṣyati . yadi hi syāt prakṛtisvaravacanam idānīm kimartham syāt . prakṛtisvaravacanam kimartham iti cet ekagatyartham . prakṛtisvaravacanam kimartham iti cet ekagatyartham . yatra ekaḥ gatiḥ tadartham etat syāt . prakṛtam , prahṛtam . evamartham eva tarhi anantagrahaṇam kartavyam atra yathā syāt . kriyamāṇe api vai anantagrahaṇe atra na sidhyati . kim kāraṇam . gatiḥ anantaraḥ pūrvapadam prakṛtisvaram bhavati iti ucyate . yaḥ ca atra gatiḥ anantaraḥ na asau pūrvapadam yaḥ ca pūrvapadam na asau anantaraḥ . apūrvapadārtham tarhi idam vaktavyam . apūrvapadasya api gateḥ prakṛtisvaratvam yathā syāt . apūrvapadārtham iti cet kārake atiprasaṅgaḥ .apūrvapadārtham iti cet kārake atiprasaṅgaḥ bhavati . āgataḥ , dūrādāgataḥ . saḥ yathā eva gatipūrvapadasya bhavati evam kārakapūrvapadasya api prāpnoti . siddham tu gateḥ antodāttāprasaṅgāt . siddham etat . katham .yat tat gateḥ antodāttāprasaṅgāt antaḥ thāthaghañktājabitrakāṇām iti etat gateḥ na prasaṅktavyam . kim kṛtam bhavati . kṛtsvarāpavādaḥ ayam bhavati . tatra gatiḥ anantaraḥ iti asya avakāśaḥ prakṛtam , prahṛtam . antaḥ thāthaghañktājabitrakāṇām iti asya avakāśaḥ , dūrādgataḥ , dūrādyātaḥ . iha ubhayam prāpnoti . āgataḥ , dūrādāgataḥ . antaḥ thāthaghañktājabitrakāṇām iti etat bhavati vipratiṣedhena . avaśyam gateḥ tat prasaṅktavyam bhedaḥ prabhedaḥ iti evamartham . evam tarhi yogavibhāgaḥ kariṣyate . antaḥ thāthaghañktājabitrakāṇām iti . tataḥ ktaḥ . ktāntam uttarapadam antodāttam bhavati . atra kārakopapadagrahaṇam . anuvartate gatigrahaṇam nivṛttam . atha vā upariṣṭād yogavibhāgaḥ kariṣyate . idam asti sūpamānāt ktaḥ , sañjñāyām anācitādīnām , pravṛddhādīnām ca iti . tataḥ vakṣyāmi kārakāt . kārakāt ca ktāntam uttarapadam antodāttam bhavati . tataḥ dattaśrutayoḥ eva āśiṣi kārakāt iti . evam ca kṛtvā na arthaḥ anantagrahaṇena . katham abhyuddhṛtam . ut haratikriyam viśinaṣṭi . udā viśiṣṭam abhiḥ viśinaṣṭi . . tatra gatiḥ anantaraḥ iti ca prāpnoti gatiḥ gatau iti ca . gatiḥ anantaraḥ iti asya avakāśaḥ prakṛtam prahṛtam . gatiḥ gatau iti asya avakāśaḥ abhi ut harati , upa sam ā dadhāti . iha ubhayam prāpnoti , abhyuddhṛtam , upasamāhṛtam . gatiḥ gatau iti etat bhavati vipratiṣedhena .evam tarhi siddhe sati yat anantaragrahaṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā kṛdgrahaṇe gatikārakapūrvasya api iti . kim etasya jñāpane prayojanam . avataptenakulasthitam te etat , udakeviśīrṇam te etat . sagatikena sanakulena samāsaḥ siddhaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२८।१६-१२९।२ रो इव्।५५५-५५६ कृद्ग्रहणम् किमर्थम् । यथा तकारादिग्रह्णम् कृद्विशेषणम् विज्ञायेत । तकारादौ निति कृति इति । अथ अक्रियमाणे कृद्ग्रहणे कस्य तकारादिग्रह्णम् विशेषणम् स्यात् । उत्तरपदविशेषणम् । तत्र कः दोषः । इह एव स्यात् प्रतरिता प्रतरितुम् । इह न स्यात् प्रकर्ता प्रकर्तुम् । तादौ निति कृद्ग्रहणानर्थक्यम् । तादौ निति कृद्ग्रहणम् अनर्थकम् । क्रियमाणे अपि कृद्ग्रहणे अनिष्टम् शक्यम् विज्ञातुम् । तकारादौ उत्तरपदे निति कृति इति । अक्रियमाणे च इष्टम् । नित् यः तकारादिः तदन्ते उत्तरपदे इति । यावता क्रियमाणे अपि अनिष्टम् विज्ञायते अक्रियमाणे च इष्टम् अक्रियमाणे एव इष्टम् विज्ञास्यामः । कृदुपदेशे वा ताद्यर्थम् इडर्थम् ।कृदुपदेशे तर्हि ताद्यर्थम् इडर्थम् कृद्ग्रहणम् कर्तव्यम् । कृदुपदेशे यः तकारादिः इति एवम् यथा विज्ञायेत । किम् प्रयोजनम् । इडर्थम् । इडादौ अपि सिद्धम् भवति । प्रलविता प्रलवितुम् ।

KA III.128.16-129.2 Ro IV.555-556 kṛdgrahaṇam kimartham . yathā takārādigrahṇam kṛdviśeṣaṇam vijñāyeta . takārādau niti kṛti iti . atha akriyamāṇe kṛdgrahaṇe kasya takārādigrahṇam viśeṣaṇam syāt . uttarapadaviśeṣaṇam . tatra kaḥ doṣaḥ . iha eva syāt prataritā prataritum . iha na syāt prakartā prakartum . tādau niti kṛdgrahaṇānarthakyam . tādau niti kṛdgrahaṇam anarthakam . kriyamāṇe api kṛdgrahaṇe aniṣṭam śakyam vijñātum . takārādau uttarapade niti kṛti iti . akriyamāṇe ca iṣṭam . nit yaḥ takārādiḥ tadante uttarapade iti . yāvatā kriyamāṇe api aniṣṭam vijñāyate akriyamāṇe ca iṣṭam akriyamāṇe eva iṣṭam vijñāsyāmaḥ . kṛdupadeśe vā tādyartham iḍartham .kṛdupadeśe tarhi tādyartham iḍartham kṛdgrahaṇam kartavyam . kṛdupadeśe yaḥ takārādiḥ iti evam yathā vijñāyeta . kim prayojanam . iḍartham . iḍādau api siddham bhavati . pralavitā pralavitum .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२९।४-२१ रो इव्।५५६-५५७ अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः । अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावः प्राप्नोति । प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः । अनिगन्तवचनम् इदानीम् किमर्थम् स्यात् । अनिगन्तवचनम् किमर्थम् इति चेत् अयणादिष्टार्थम् । अयणादिष्टार्थम् एतत् स्यात् । यदा यणादेशः न । कदा च यणादेशः न । यादा शाकलम् । उक्तम् वा । किम् उक्तम् । समासे शाकलम् न भवति इति । यत्र तर्हि अञ्चतेः अकारः लुप्यते : प्रतीचः प्रतीइचा । चुस्वरः तत्र बाधकः भविष्यति । अयम् एव इष्यते । वक्ष्यति हि एतत् : चोः अनिगन्तः अञ्चतौ वप्रत्यये इति । यत् तर्हि न्यध्योः प्रकृतिस्वरम् शास्ति । एषः हि यणादिष्टार्थः आरम्भः । एतत् अपि अयणादिष्टार्थम् एव स्यात् । यदा यणादेशः न । कदा च यणादेशः न । यादा शाकलम् । उक्तम् वा । किम् उक्तम् । समासे शाकलम् न भवति इति । यत्र तर्हि अञ्चतेः अकारः लुप्यते । अधीचः अधीचा । चुस्वरः तत्र बाधकः भविष्यति । अयम् एव इष्यते । वक्ष्यति हे एतत् चोः अनिगन्तः अञ्चतौ वप्रत्यये इति । यत् तर्हि नेः एव प्रकृतिस्वरम् शास्ति । एषः हि यणादिष्टार्थः आरम्भः । एतत् अपि अयणादिष्टार्थम् एव स्यात् । कथम् । अकृते यणादेश पूर्वपदप्रकृतिस्वरत्वे कृते उदात्तस्वरितोः यणः स्वरितः वा अनुदात्तस्य इति एषः स्वरः सिद्धः भवति । न्यङ् । तस्मात् सुष्ठु उच्यते अनिगन्तप्रकृतिस्वरत्वे यणादेशे प्रकृतिस्वरभावप्रसङ्गः इति ।

KA III.129.4-21 Ro IV.556-557 anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaprasaṅgaḥ . anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaḥ prāpnoti . pratyaṅ pratyañcau pratyañcaḥ . anigantavacanam idānīm kimartham syāt . anigantavacanam kimartham iti cet ayaṇādiṣṭārtham . ayaṇādiṣṭārtham etat syāt . yadā yaṇādeśaḥ na . kadā ca yaṇādeśaḥ na . yādā śākalam . uktam vā . kim uktam . samāse śākalam na bhavati iti . yatra tarhi añcateḥ akāraḥ lupyate : pratīcaḥ pratīicā . cusvaraḥ tatra bādhakaḥ bhaviṣyati . ayam eva iṣyate . vakṣyati hi etat : coḥ anigantaḥ añcatau vapratyaye iti . yat tarhi nyadhyoḥ prakṛtisvaram śāsti . eṣaḥ hi yaṇādiṣṭārthaḥ ārambhaḥ . etat api ayaṇādiṣṭārtham eva syāt . yadā yaṇādeśaḥ na . kadā ca yaṇādeśaḥ na . yādā śākalam . uktam vā . kim uktam . samāse śākalam na bhavati iti . yatra tarhi añcateḥ akāraḥ lupyate . adhīcaḥ adhīcā . cusvaraḥ tatra bādhakaḥ bhaviṣyati . ayam eva iṣyate . vakṣyati he etat coḥ anigantaḥ añcatau vapratyaye iti . yat tarhi neḥ eva prakṛtisvaram śāsti . eṣaḥ hi yaṇādiṣṭārthaḥ ārambhaḥ . etat api ayaṇādiṣṭārtham eva syāt . katham . akṛte yaṇādeśa pūrvapadaprakṛtisvaratve kṛte udāttasvaritoḥ yaṇaḥ svaritaḥ vā anudāttasya iti eṣaḥ svaraḥ siddhaḥ bhavati . nyaṅ . tasmāt suṣṭhu ucyate anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaprasaṅgaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१२९।२२-१३१।१४ रो इव्।५५७-५६१ चोः अनिगन्तः अञ्चतौ वप्रत्यये । चुस्वरात् अनिगन्तः अञ्चतौ वप्रत्यये इति एषः स्वरः भवति विप्रतिषेधेन । चुस्वरस्य अवकाशः दधीचः पश्य । दधीचा दधीचे । अनिगन्तः अञ्चतौ वप्रत्यये इति अस्य अवकाशः पराङ् पराञ्चौ पराञ्चः । इह उभयम् प्राप्नोति । अवाचा , अवाचे । अवकाशः इति एतत् भवति विप्रतिषेधेन । न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् इतरथा हि सर्वापवादः । न वा एतत् विप्रतिषेधेन अपि सिध्यति । कथम् तर्हि सिध्यति । चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् । चुर्स्वरः पूर्वपदप्रकृतिस्वरभाविनः प्रतिषेध्यः । इतरथा हि सर्वापवादः चुस्वरः । अक्रियमाणे हि प्रतिषेधे सर्वापवादः अयम् चुस्वरः । कथम् । प्रत्ययस्वरस्य अपवादः अनुदात्तौ सुप्पितौ इति । अनुदात्तौ सुप्पितौ इति अस्य उदात्तनिवृत्तिस्वरः । उदात्तनिवृत्तिस्वरस्य चुस्वरः । सः यथा एव उदात्तनिवृत्तिस्वरम् बाधते एवम् अनिगन्तस्वरम् अपि बाधेत । यदि तावत् सङ्ख्यातः साम्यम् अयम् अपि चतुर्थः । समासान्तोदात्तत्वस्य अपवादः अव्ययस्वरः । अव्ययस्वरस्य कृत्स्वरः । कृत्स्वरस्य अयम् । उभयोः चतुर्थयोः युक्तः विप्रतिषेधः । सतिशिष्टः तर्हि चुस्वरः । कथम् । चौ इति उच्यते । यत्र अस्य एतत् रूपम् । अजादौ असर्वनामस्थाने अभिनिर्वृत्ते अकारलोपे नकारलोपे च । तस्मात् सुष्थु उच्यते न वा चुस्वरस्य पूर्वपदप्रकृतिस्वरभाविनि प्रतिषेधात् इतरथा हि सर्वापवादः इति । विभक्तीषत्स्वरात् कृत्स्वरः । विभक्तिस्वरात् ईषत्स्वरात् च कृत्स्वरः भवति विप्रतिषेधेन । विभक्तिस्वरस्य अवकाशः अक्षशौण्डः , स्त्रीशौण्डः । कृत्स्वरस्य अवकाशः , इध्मप्रव्रश्चनः । इह उभयम् प्राप्नोति पूर्वाह्णेस्फोटकाः । कृत्स्वरः भवति विप्रतिषेधेन । ईषत्स्वरस्य अवकाशः , ईषत्कडारः , ईषत्पिङ्गलः । कृत्स्वरस्य सः एव । इह उभयम् प्राप्नोति , ईषद्भेदः । कृत्स्वरः भवति विप्रतिषेधेन । चित्स्वरात् हारिस्वरः । चित्स्वरात् हारिस्वरः भवति विप्रतिषेधेन । चित्स्वरस्य अवकाशः , चलनः , चोपनः । हारिस्वरस्य अवकाशः , याज्ञिकाश्वः , वैयाकरणहसी । इह उभयम् प्राप्नोति , पितृगवः, मातृगवः । हारिस्वरः भवति विप्रतिषेधेन । कृत्स्वरात् च । कृत्स्वरात् च हारिस्वरः भवति विप्रतिषेधेन । कृत्स्वरस्य अवकाशः , इध्मप्रव्रश्चनः । हारिस्वरस्य सः एव । इह उभयम् प्राप्नोति , अक्षहृतः , वाडवहृतः । हारिस्वरः भवति विप्रतिषेधेन । न वा हरणप्रतिषेधः ज्ञापकः कृत्स्वराभाधकतव्स्य । न वा अर्थः विप्रतिषेधेन । किम् कारणम् । हरणप्रतिषेधः ज्ञापकः कृत्स्वराभाधकत्वस्य । यत् अयम् अहरणे इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः न कृत्स्वरः हारिस्वरम् बाधते इति । न एतत् अस्ति ज्ञापकम् । अनः भावकर्मवचनः इति एतस्मिन् प्राप्ते तत एतत् उच्यते । यदि एवम् साधीयः ज्ञापकम् । कृत्स्वरस्य अपवादः अनः भावकर्मवचनः इति । बाधकम् किल बाधते किम् पुनः तम् । युक्तस्वरः च कृत्स्वरात् भवति विप्रतिषेधेन । युक्तस्वरस्य अवकाशः , गोवल्लवः , अश्ववल्लवः । कृत्स्वरस्य सः एव। इह उभयम् प्राप्नोति , गोसङ्ख्यः , पशूसङ्ख्यः , अश्वसङ्ख्यः । युक्तस्वरः भवति विप्रतिषेधेन ।

KA III.129.22-131.14 Ro IV.557-561 coḥ anigantaḥ añcatau vapratyaye . cusvarāt anigantaḥ añcatau vapratyaye iti eṣaḥ svaraḥ bhavati vipratiṣedhena . cusvarasya avakāśaḥ dadhīcaḥ paśya . dadhīcā dadhīce . anigantaḥ añcatau vapratyaye iti asya avakāśaḥ parāṅ parāñcau parāñcaḥ . iha ubhayam prāpnoti . avācā , avāce . avakāśaḥ iti etat bhavati vipratiṣedhena . na vā cusvarasya pūrvapadaprakṛtisvarabhāvini pratiṣedhāt itarathā hi sarvāpavādaḥ . na vā etat vipratiṣedhena api sidhyati . katham tarhi sidhyati . cusvarasya pūrvapadaprakṛtisvarabhāvini pratiṣedhāt . cursvaraḥ pūrvapadaprakṛtisvarabhāvinaḥ pratiṣedhyaḥ . itarathā hi sarvāpavādaḥ cusvaraḥ . akriyamāṇe hi pratiṣedhe sarvāpavādaḥ ayam cusvaraḥ . katham . pratyayasvarasya apavādaḥ anudāttau suppitau iti . anudāttau suppitau iti asya udāttanivṛttisvaraḥ . udāttanivṛttisvarasya cusvaraḥ . saḥ yathā eva udāttanivṛttisvaram bādhate evam anigantasvaram api bādheta . yadi tāvat saṅkhyātaḥ sāmyam ayam api caturthaḥ . samāsāntodāttatvasya apavādaḥ avyayasvaraḥ . avyayasvarasya kṛtsvaraḥ . kṛtsvarasya ayam . ubhayoḥ caturthayoḥ yuktaḥ vipratiṣedhaḥ . satiśiṣṭaḥ tarhi cusvaraḥ . katham . cau iti ucyate . yatra asya etat rūpam . ajādau asarvanāmasthāne abhinirvṛtte akāralope nakāralope ca . tasmāt suṣthu ucyate na vā cusvarasya pūrvapadaprakṛtisvarabhāvini pratiṣedhāt itarathā hi sarvāpavādaḥ iti . vibhaktīṣatsvarāt kṛtsvaraḥ . vibhaktisvarāt īṣatsvarāt ca kṛtsvaraḥ bhavati vipratiṣedhena . vibhaktisvarasya avakāśaḥ akṣaśauṇḍaḥ , strīśauṇḍaḥ . kṛtsvarasya avakāśaḥ , idhmapravraścanaḥ . iha ubhayam prāpnoti pūrvāhṇesphoṭakāḥ . kṛtsvaraḥ bhavati vipratiṣedhena . īṣatsvarasya avakāśaḥ , īṣatkaḍāraḥ , īṣatpiṅgalaḥ . kṛtsvarasya saḥ eva . iha ubhayam prāpnoti , īṣadbhedaḥ . kṛtsvaraḥ bhavati vipratiṣedhena . citsvarāt hārisvaraḥ . citsvarāt hārisvaraḥ bhavati vipratiṣedhena . citsvarasya avakāśaḥ , calanaḥ , copanaḥ . hārisvarasya avakāśaḥ , yājñikāśvaḥ , vaiyākaraṇahasī . iha ubhayam prāpnoti , pitṛgavaḥ, mātṛgavaḥ . hārisvaraḥ bhavati vipratiṣedhena . kṛtsvarāt ca . kṛtsvarāt ca hārisvaraḥ bhavati vipratiṣedhena . kṛtsvarasya avakāśaḥ , idhmapravraścanaḥ . hārisvarasya saḥ eva . iha ubhayam prāpnoti , akṣahṛtaḥ , vāḍavahṛtaḥ . hārisvaraḥ bhavati vipratiṣedhena . na vā haraṇapratiṣedhaḥ jñāpakaḥ kṛtsvarābhādhakatavsya . na vā arthaḥ vipratiṣedhena . kim kāraṇam . haraṇapratiṣedhaḥ jñāpakaḥ kṛtsvarābhādhakatvasya . yat ayam aharaṇe iti pratiṣedham śāsti tat jñāpayati ācāryaḥ na kṛtsvaraḥ hārisvaram bādhate iti . na etat asti jñāpakam . anaḥ bhāvakarmavacanaḥ iti etasmin prāpte tata etat ucyate . yadi evam sādhīyaḥ jñāpakam . kṛtsvarasya apavādaḥ anaḥ bhāvakarmavacanaḥ iti . bādhakam kila bādhate kim punaḥ tam . yuktasvaraḥ ca kṛtsvarāt bhavati vipratiṣedhena . yuktasvarasya avakāśaḥ , govallavaḥ , aśvavallavaḥ . kṛtsvarasya saḥ eva. iha ubhayam prāpnoti , gosaṅkhyaḥ , paśūsaṅkhyaḥ , aśvasaṅkhyaḥ . yuktasvaraḥ bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३१।१६-२५ रो इव्।५६१-५६२ उपमानम् इति किमर्थम् । शब्दार्थप्रकृतौ एव इति इयति उच्यमाने पूर्वेण अतिप्रसक्तम् इति कृत्वा नियमः अयम् विज्ञायेत । तत्र कः दोषः । इह न स्यात् । पुष्फारी फलहारी । उपमानग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ शब्दार्थग्रहणम् किमर्थम् । उपमानम् प्रकृतौ एव इति इयति उच्यमाने इह अपि प्रसज्येत । वृकवञ्ची वृकप्रेक्षी । शब्दाऋथग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ प्रकृतिग्रहणम् किमर्थम् । शब्दार्थप्रकृतिः एव यः नित्यम् तत्र यथा स्यात् । इह मा भूत् । कोकिलभिव्याहारी । अथ एवकारः किमर्थः । नियमार्थः । न एतत् अस्ति प्रयोजनम् । सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमाऋथः भविष्यति । इष्टतः अवधारणार्थः तर्हि । यथा एवम् विज्ञायेते : उपमानम् शब्दार्थप्रकृतौ एव इति । मा एवम् विज्ञायीत : उपमानम् एव शब्दार्थप्रकृतौ इति । शब्दार्थप्रकृतौ हि उपमानम् च अनुपमानम् च आद्युदात्तम् इष्यते : साध्वध्याई विलम्बाध्यायी ।

KA III.131.16-25 Ro IV.561-562 upamānam iti kimartham . śabdārthaprakṛtau eva iti iyati ucyamāne pūrveṇa atiprasaktam iti kṛtvā niyamaḥ ayam vijñāyeta . tatra kaḥ doṣaḥ . iha na syāt . puṣphārī phalahārī . upamānagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha śabdārthagrahaṇam kimartham . upamānam prakṛtau eva iti iyati ucyamāne iha api prasajyeta . vṛkavañcī vṛkaprekṣī . śabdāṛthagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha prakṛtigrahaṇam kimartham . śabdārthaprakṛtiḥ eva yaḥ nityam tatra yathā syāt . iha mā bhūt . kokilabhivyāhārī . atha evakāraḥ kimarthaḥ . niyamārthaḥ . na etat asti prayojanam . siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakāram niyamāṛthaḥ bhaviṣyati . iṣṭataḥ avadhāraṇārthaḥ tarhi . yathā evam vijñāyete : upamānam śabdārthaprakṛtau eva iti . mā evam vijñāyīta : upamānam eva śabdārthaprakṛtau iti . śabdārthaprakṛtau hi upamānam ca anupamānam ca ādyudāttam iṣyate : sādhvadhyāī vilambādhyāyī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३२।२-६ रो इव्।५६२ जे दीर्घात् बह्वचः । जे दीर्घान्तस्य आदिः उदात्तः भवति इति एतस्मात् अन्य्तात् पूर्वम् बह्वचः इति एतत् भवति विप्रतिषेधेन । जे दीर्घान्तस्य आदिः उदात्तः भवति इति अस्य अवकाशः कुटीजः , शमीजः । अन्य्तात् पूर्वम् बह्वचः इति अस्य अवकाशः उपसरजः , मन्दुरजः । इह उभयम् प्राप्नोति । आमलकीजः , बलभीजः । अन्य्तात् पूर्वम् बह्वचः इति एतत् भवति विप्रतिषेधेन ।

KA III.132.2-6 Ro IV.562 je dīrghāt bahvacaḥ . je dīrghāntasya ādiḥ udāttaḥ bhavati iti etasmāt anytāt pūrvam bahvacaḥ iti etat bhavati vipratiṣedhena . je dīrghāntasya ādiḥ udāttaḥ bhavati iti asya avakāśaḥ kuṭījaḥ , śamījaḥ . anytāt pūrvam bahvacaḥ iti asya avakāśaḥ upasarajaḥ , mandurajaḥ . iha ubhayam prāpnoti . āmalakījaḥ , balabhījaḥ . anytāt pūrvam bahvacaḥ iti etat bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३२।८-१० रो इव्।५६२ आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि उपसङ्ख्यानम् । आद्युदात्तप्रकरणे दिवोदासादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् । दिवोदासाय गायत वध्र्यश्वाय दाशुषे ।

KA III.132.8-10 Ro IV.562 ādyudāttaprakaraṇe divodāsādīnām chandasi upasaṅkhyānam . ādyudāttaprakaraṇe divodāsādīnām chandasi upasaṅkhyānam kartavyam . divodāsāya gāyata vadhryaśvāya dāśuṣe .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३२।१३-२१ रो इव्।५६२-५६३ सर्वग्रहणम् किमर्थम् । गुणात् कार्त्स्न्ये इति इयति उच्यमाने इह अपि प्रसज्येत परमशुक्लः , परमक्षृण इति । सर्वग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ गुणग्रहणम् किमर्थम् । सर्वम् कार्त्स्न्ये इति इयति उच्यमाने इह अपि प्रसज्येत सर्वसौवर्णः सर्वराजतः इति । गुणग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ कार्त्स्न्यग्रहणम् किमर्थम् । सर्वम् गुणे इति इयति उच्यमाने इह अपि प्रसज्येत सर्वेषाम् श्वेतः सर्वश्वेतः इति । कथम् च अत्र समासः । षष्ठीसुबन्तेन समस्यते इति । गुणेन न इति प्रतिषेधः प्राप्नोति । गुणात् तरेण समासः तरलोपः च । गुणात् तरेण समासः तरलोपः च वक्तव्यः । सर्वेषाम् श्वेततरः सर्वश्वेतः ।

KA III.132.13-21 Ro IV.562-563 sarvagrahaṇam kimartham . guṇāt kārtsnye iti iyati ucyamāne iha api prasajyeta paramaśuklaḥ , paramakṣṛṇa iti . sarvagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha guṇagrahaṇam kimartham . sarvam kārtsnye iti iyati ucyamāne iha api prasajyeta sarvasauvarṇaḥ sarvarājataḥ iti . guṇagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha kārtsnyagrahaṇam kimartham . sarvam guṇe iti iyati ucyamāne iha api prasajyeta sarveṣām śvetaḥ sarvaśvetaḥ iti . katham ca atra samāsaḥ . ṣaṣṭhīsubantena samasyate iti . guṇena na iti pratiṣedhaḥ prāpnoti . guṇāt tareṇa samāsaḥ taralopaḥ ca . guṇāt tareṇa samāsaḥ taralopaḥ ca vaktavyaḥ . sarveṣām śvetataraḥ sarvaśvetaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३३।२-५ रो इव्।५६३-५६४ अयुक्तः अयम् निर्देशः । न हि उत्तरपदम् नाम वृद्धिः अस्ति । कथम् तर्हि निर्देशः कर्तव्यः । वृद्धिमति उत्तरपदे इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । न एवम् विज्ञायते । उत्तरपदम् वृद्धिः उत्तरपदवृद्धिः , उत्तरपदवृद्धौ इति । कथम् तर्हि । उत्तरपदस्य वृद्धिः अस्मिन् सः अयम् उत्तरपदवृद्धिः , उत्तरपदवृद्धौ इति ।

KA III.133.2-5 Ro IV.563-564 ayuktaḥ ayam nirdeśaḥ . na hi uttarapadam nāma vṛddhiḥ asti . katham tarhi nirdeśaḥ kartavyaḥ . vṛddhimati uttarapade iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . na evam vijñāyate . uttarapadam vṛddhiḥ uttarapadavṛddhiḥ , uttarapadavṛddhau iti . katham tarhi . uttarapadasya vṛddhiḥ asmin saḥ ayam uttarapadavṛddhiḥ , uttarapadavṛddhau iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३३।७-१४ रो इव्।५६४ बहुव्रीहौ विश्वस्य अन्तोदात्तात् सञ्ज्ञायाम् मित्राजिनयोः अन्तः ।बहुव्रीहौ विश्वस्य अन्तोदात्तात् सञ्ज्ञायाम् मित्राजिनयोः अन्तः इति एतत् भवति विप्रतिषेधेन । बहुव्रीहौ विश्वम् सञ्ज्ञायाम् इति अस्य अवकाशः , विश्वदेवः , विश्वयशाः । सञ्ज्ञायाम् मित्राजिनयोः अन्तः इति अस्य अवकाशः कुलमित्रम् , कुलाजिनम् । इह उभयम् प्राप्नोति विश्वमित्रः , विश्वाजिनः । सञ्ज्ञायाम् मित्राजिनयोः अन्तः इति एतत् भवति विप्रतिषेधेन । अन्तोदात्तप्रकरणे मरुद्वृधादीनाम् छन्दसि उपसङ्ख्यानम् । अन्तोदात्तप्रकरणे मरुद्वृधादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् । मरुद्वृधः सुवयाः उपतस्थे ।

KA III.133.7-14 Ro IV.564 bahuvrīhau viśvasya antodāttāt sañjñāyām mitrājinayoḥ antaḥ .bahuvrīhau viśvasya antodāttāt sañjñāyām mitrājinayoḥ antaḥ iti etat bhavati vipratiṣedhena . bahuvrīhau viśvam sañjñāyām iti asya avakāśaḥ , viśvadevaḥ , viśvayaśāḥ . sañjñāyām mitrājinayoḥ antaḥ iti asya avakāśaḥ kulamitram , kulājinam . iha ubhayam prāpnoti viśvamitraḥ , viśvājinaḥ . sañjñāyām mitrājinayoḥ antaḥ iti etat bhavati vipratiṣedhena . antodāttaprakaraṇe marudvṛdhādīnām chandasi upasaṅkhyānam . antodāttaprakaraṇe marudvṛdhādīnām chandasi upasaṅkhyānam kartavyam . marudvṛdhaḥ suvayāḥ upatasthe .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३३।१६-२० रो इव्।५६४ उदरादिभ्यः नञ्सुभ्याम् । उदराश्वेषुषु क्षेपे इति एतस्मात् नञ्सुभ्याम् इति एतत् भवति विप्रतिषेधेन । उदराश्वेषुषु क्षेपे इति अस्य अवकाशः कुण्डोदरः , घटोदरः । नञ्सुभ्याम् इति अस्य अवकाशः अयवः , अतिलः , अमाषः , सुयवः , सुतिलः , सुमाषः । इह उभयम् प्राप्नोति , अनुदरः , सूदरः । नञ्सुभ्याम् इति एतत् भवति विप्रतिषेधेन ।

KA III.133.16-20 Ro IV.564 udarādibhyaḥ nañsubhyām . udarāśveṣuṣu kṣepe iti etasmāt nañsubhyām iti etat bhavati vipratiṣedhena . udarāśveṣuṣu kṣepe iti asya avakāśaḥ kuṇḍodaraḥ , ghaṭodaraḥ . nañsubhyām iti asya avakāśaḥ ayavaḥ , atilaḥ , amāṣaḥ , suyavaḥ , sutilaḥ , sumāṣaḥ . iha ubhayam prāpnoti , anudaraḥ , sūdaraḥ . nañsubhyām iti etat bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३३।२२-१३४।३ रो इव्।५६५ सोः मनसोः कपि । सोः मनसी अलोमोषसी इति एतस्मात् कपि पूर्वम् इति एतत् भवति विप्रतिषेधेन । सोः मनसी अलोमोषसी इति एतस्य अवकाशः सुशर्माणम् अधि नावम् रुहेयम् । सुशर्मा असि सुप्रतिष्ठानः । सुस्रोताः , सुपयाः , सुवर्चाः । कपि पूर्वम् इति अस्य अवकाशः अयवकः । इह उभयम् प्राप्नोति सुशर्मकः , सुस्रोतकः । कपि पूर्वम् इति एतत् भवति विप्रतिषेधेन ।

KA III.133.22-134.3 Ro IV.565 soḥ manasoḥ kapi . soḥ manasī alomoṣasī iti etasmāt kapi pūrvam iti etat bhavati vipratiṣedhena . soḥ manasī alomoṣasī iti etasya avakāśaḥ suśarmāṇam adhi nāvam ruheyam . suśarmā asi supratiṣṭhānaḥ . susrotāḥ , supayāḥ , suvarcāḥ . kapi pūrvam iti asya avakāśaḥ ayavakaḥ . iha ubhayam prāpnoti suśarmakaḥ , susrotakaḥ . kapi pūrvam iti etat bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३४।५-९ रो इव्।५६५ पूर्वादिभ्यः कूलादीनाम् आद्युदात्तत्वम् । पूर्वादिभ्यः कूलादीनाम् आद्युदात्तत्वम् भवति विप्रतिषेधेन । परिप्रतिउपापाः वर्यजानाहोरात्रावयवेषु इति अस्य अवकाशः परित्रिगतम् , परिसौवीरम् । कूलादीनाम् आद्युदात्तत्वस्य अवकाशः , अतिकूलम् , अनुकूलम् । इह उभयम् प्राप्नोति परिकूलम् , कूलादीनाम् आद्युदात्तत्वम् भवति विप्रतिषेधेन ।

KA III.134.5-9 Ro IV.565 pūrvādibhyaḥ kūlādīnām ādyudāttatvam . pūrvādibhyaḥ kūlādīnām ādyudāttatvam bhavati vipratiṣedhena . paripratiupāpāḥ varyajānāhorātrāvayaveṣu iti asya avakāśaḥ paritrigatam , parisauvīram . kūlādīnām ādyudāttatvasya avakāśaḥ , atikūlam , anukūlam . iha ubhayam prāpnoti parikūlam , kūlādīnām ādyudāttatvam bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९-२१ रो इव्।५६६ कुण्डाद्युदात्तत्वे तत्समुदायग्रहणम् । कुण्डाद्युदात्तत्वे तत्समुदायग्रहणम् कर्तव्यम् । वनसमुदायवाचीचेत् कुण्डशब्दः भवति इति वक्तव्यम् । इह मा भूत् । मृत्कुण्डम् ।

KA III.19-21 Ro IV.566 kuṇḍādyudāttatve tatsamudāyagrahaṇam . kuṇḍādyudāttatve tatsamudāyagrahaṇam kartavyam . vanasamudāyavācīcet kuṇḍaśabdaḥ bhavati iti vaktavyam . iha mā bhūt . mṛtkuṇḍam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३५।२-१३६।६ रो इव्।५६६-५७० गतिकारकोपपदात् इति किमर्थम् । इह मा भूत् । परमम् कारकम् , परमकारकम् । गतिकारकोपपदात् इति उच्यमाने अपि तत्र प्राप्नोति । एतत् हि कारकम् । इदम् तर्हि । देवदत्तस्य कारकम् , देवदत्तकारकम् । इदम् च अपि उदाहरणम् परमम् कारकम् , परमकारकम् इति । न एतत् कारकम् । कारकविशेषणम् एतत् । यावत् ब्रूयात् प्रकृष्टम् कारकम् शोभनम् कारकम् इति तावत् एतत् परमकारकम् इति । अथ कृद्ग्रहणम् किमर्थम् । इह मा भूत् । निष्कौशाम्बिः , निवाराणसिः इति । अतः उत्तरम् पठति गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणानर्थक्यम् अन्यस्य उत्तरपदस्य अभावात् । गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्ग्रहणम् अनर्थकम् । किम् कारणम् । अन्यस्य उत्तरपदस्य अभावात् । न हि अन्यत् गतियादिभ्यः उत्तरपदम् अस्ति अन्यत् अतः कृतः । किम् कारणम् । धातोः हि द्वये प्रत्ययाः विधीयन्ते तिङः कृतः च । तत्र कृता सह समासः भवति तिङा च न भवति । तत्र अन्तरेण कृद्ग्रहणम् कृतः एव भविष्यति । ननु च इदानीम् एव उदाहृतम् निष्कौशाम्बिः , निर्वाराणसिः इति । यत्क्रियायुक्ताः तम् प्रति गत्युपसर्ग्सञ्ज्ञे भवतः न च निसः कौशाम्बीशब्दम् प्रति क्रियायोगः । कृत्प्रकृतौ वा गतित्वात् अधिकाऋथम् कृद्ग्रहणम् । कृत्प्रकृतौ तर्हि गतित्वात् अधिकाऋथम् कृद्ग्रहणम् कर्तव्यम् । कृत्प्रकृतिः धातुः । धातुम् च प्रति क्रियायोगः । तत्र यत्क्रियायुक्ताः तम् प्रति इति इह एव स्यात् । प्रणीः , उन्नीः । इह न स्यात् । प्रणायकः , उन्नायकः । एतत् अपि न अस्ति प्रयोजनम् । यत्क्रियायुक्ताः इति न एवम् विज्ञायते । यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्ग्सञ्ज्ञे भवतः इति । कथम् तर्हि या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्ग्सञ्ज्ञे भवतः इति । न च कः चित् केवलः शब्दः अस्ति यः तस्य अर्थस्य वाचकः स्यात् । केवलः तस्य अर्थस्य वाचकः न अस्ति इति कृत्वा कृदधिकस्य भविष्यति । ननु च ययम् तस्य एव अर्थस्य वाचकः प्रणीः इति । एषः अपि हि कर्तृविशिष्टस्य । अयम् तर्हि तस्य एव अर्थस्य वाचकः प्रभवनम् इति । तस्मात् कृद्ग्रहणम् कर्तव्यम् । यदि कृद्ग्रहणम् क्रियते आमन्ते स्वरः न प्राप्नोति । प्रपचतितराम् , प्रजल्पतितराम् । असति पुनः कृद्ग्रहणे क्रियाप्रधानम् आख्यातम् तस्य अतिशये तरप् उत्पद्यते तरबन्तस्य स्वार्थे आम् । तत्र यत्क्रियायुक्ताः इति भवति एव सङ्घातम् प्रति क्रियायोगः । न च कः चित् केवलः शब्दः अस्ति यः तस्य अर्थस्य वाचकः स्यात् । केवलः तस्य अर्थस्य वाचकः न अस्ति इति कृत्वा अधिकस्य भविष्यति । ननु च ययम् तस्य एव अर्थस्य वाचकः प्रभवनम् इति । एषः अपि द्रव्यविशिष्टस्य । कथम् कृदभिहितः भावः द्रव्यवत् भवति क्रियावत् अपि इति ।

KA III.135.2-136.6 Ro IV.566-570 gatikārakopapadāt iti kimartham . iha mā bhūt . paramam kārakam , paramakārakam . gatikārakopapadāt iti ucyamāne api tatra prāpnoti . etat hi kārakam . idam tarhi . devadattasya kārakam , devadattakārakam . idam ca api udāharaṇam paramam kārakam , paramakārakam iti . na etat kārakam . kārakaviśeṣaṇam etat . yāvat brūyāt prakṛṣṭam kārakam śobhanam kārakam iti tāvat etat paramakārakam iti . atha kṛdgrahaṇam kimartham . iha mā bhūt . niṣkauśāmbiḥ , nivārāṇasiḥ iti . ataḥ uttaram paṭhati gatyādibhyaḥ prakṛtisvaratve kṛdgrahaṇānarthakyam anyasya uttarapadasya abhāvāt . gatyādibhyaḥ prakṛtisvaratve kṛdgrahaṇam anarthakam . kim kāraṇam . anyasya uttarapadasya abhāvāt . na hi anyat gatiyādibhyaḥ uttarapadam asti anyat ataḥ kṛtaḥ . kim kāraṇam . dhātoḥ hi dvaye pratyayāḥ vidhīyante tiṅaḥ kṛtaḥ ca . tatra kṛtā saha samāsaḥ bhavati tiṅā ca na bhavati . tatra antareṇa kṛdgrahaṇam kṛtaḥ eva bhaviṣyati . nanu ca idānīm eva udāhṛtam niṣkauśāmbiḥ , nirvārāṇasiḥ iti . yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ na ca nisaḥ kauśāmbīśabdam prati kriyāyogaḥ . kṛtprakṛtau vā gatitvāt adhikāṛtham kṛdgrahaṇam . kṛtprakṛtau tarhi gatitvāt adhikāṛtham kṛdgrahaṇam kartavyam . kṛtprakṛtiḥ dhātuḥ . dhātum ca prati kriyāyogaḥ . tatra yatkriyāyuktāḥ tam prati iti iha eva syāt . praṇīḥ , unnīḥ . iha na syāt . praṇāyakaḥ , unnāyakaḥ . etat api na asti prayojanam . yatkriyāyuktāḥ iti na evam vijñāyate . yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ iti . katham tarhi yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ iti . na ca kaḥ cit kevalaḥ śabdaḥ asti yaḥ tasya arthasya vācakaḥ syāt . kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā kṛdadhikasya bhaviṣyati . nanu ca yayam tasya eva arthasya vācakaḥ praṇīḥ iti . eṣaḥ api hi kartṛviśiṣṭasya . ayam tarhi tasya eva arthasya vācakaḥ prabhavanam iti . tasmāt kṛdgrahaṇam kartavyam . yadi kṛdgrahaṇam kriyate āmante svaraḥ na prāpnoti . prapacatitarām , prajalpatitarām . asati punaḥ kṛdgrahaṇe kriyāpradhānam ākhyātam tasya atiśaye tarap utpadyate tarabantasya svārthe ām . tatra yatkriyāyuktāḥ iti bhavati eva saṅghātam prati kriyāyogaḥ . na ca kaḥ cit kevalaḥ śabdaḥ asti yaḥ tasya arthasya vācakaḥ syāt . kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā adhikasya bhaviṣyati . nanu ca yayam tasya eva arthasya vācakaḥ prabhavanam iti . eṣaḥ api dravyaviśiṣṭasya . katham kṛdabhihitaḥ bhāvaḥ dravyavat bhavati kriyāvat api iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३६।८-१३७।४ रो इव्।५७१-५७३ किम् समासय अन्तः उदात्तः भवति आहोस्वित् उत्तरपदस्य । कुतः सन्देहः । उभयम् प्रकृतम् । तत्र अन्यतरत् शक्यम् विशेषयितुम् । कः च अत्र विशेषः । अन्तोदात्तत्वम् समासस्य इति चेत् कपि उपसङ्ख्यानम् । अन्तोदात्तत्वम् समासस्य इति चेत् कपि उपसङ्ख्यानम् कर्तव्यम् । इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने कपि च इति वक्तव्यम् इह अपि यथा स्यात् । इदम्प्रथमकाः । अस्तु तर्हि उत्तरपदस्य । उत्तरपदान्तोदात्तत्वे नञ्सुभ्याम् समासान्तोदात्तत्वम् । उत्तरपदान्तोदात्तत्वे नञ्सुभ्याम् समासान्तोदात्तत्वम् वक्तव्यम् । अनृचः , बह्वृचः । अपरः आह : उत्तरपदान्तोदात्तत्वे नञ्सुभ्याम् समासान्तोदात्तत्वम् वक्तव्यम् । अज्ञकः , अस्वकः । कपि पूर्वम् इति अस्य अपवादः ह्रस्वान्ते अन्त्यात् पूर्वम् इति । तत्र ह्रस्वान्ते अन्त्यात् पूर्वः उदात्तभावी न अस्ति इति कृत्वा उत्सर्गेण अन्तोदात्तत्वम् प्राप्नोति । न वा कपि पूर्ववचनम् ज्ञापकम् उत्तरपदानन्तोदात्तत्वस्य । न वा एषः दोषः । किम् कारणम् । यत् अयम् कपि पूर्वम् इति आह तत् ज्ञापयति आचार्यः न उत्तरपदस्य अन्तः उदात्तत्ः भवति इति । प्रकरणात् च समासान्तोदात्तत्वम् । प्रकृतम् समासग्रहणम् अनुवर्तते । क्व प्रकृतम् । चौ समासस्य इति । ननु च उक्तम् अन्तोदात्तत्वम् समासस्य इति चेत् कपि उपसङ्ख्यानम् इति । न एषः दोषः । उत्तरपदग्रहणम् अपि प्रकृतम् अनुवर्तते । क्व प्रकृतम् । उत्तरपदादिः इति । तत्र एवम् अभिसम्बन्धः करिष्यते । नञ्सुभ्याम् समासस्य अन्तः उदात्तः भवति । इदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने उत्तरपदस्य इति ।

KA III.136.8-137.4 Ro IV.571-573 kim samāsaya antaḥ udāttaḥ bhavati āhosvit uttarapadasya . kutaḥ sandehaḥ . ubhayam prakṛtam . tatra anyatarat śakyam viśeṣayitum . kaḥ ca atra viśeṣaḥ . antodāttatvam samāsasya iti cet kapi upasaṅkhyānam . antodāttatvam samāsasya iti cet kapi upasaṅkhyānam kartavyam . idametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane kapi ca iti vaktavyam iha api yathā syāt . idamprathamakāḥ . astu tarhi uttarapadasya . uttarapadāntodāttatve nañsubhyām samāsāntodāttatvam . uttarapadāntodāttatve nañsubhyām samāsāntodāttatvam vaktavyam . anṛcaḥ , bahvṛcaḥ . aparaḥ āha : uttarapadāntodāttatve nañsubhyām samāsāntodāttatvam vaktavyam . ajñakaḥ , asvakaḥ . kapi pūrvam iti asya apavādaḥ hrasvānte antyāt pūrvam iti . tatra hrasvānte antyāt pūrvaḥ udāttabhāvī na asti iti kṛtvā utsargeṇa antodāttatvam prāpnoti . na vā kapi pūrvavacanam jñāpakam uttarapadānantodāttatvasya . na vā eṣaḥ doṣaḥ . kim kāraṇam . yat ayam kapi pūrvam iti āha tat jñāpayati ācāryaḥ na uttarapadasya antaḥ udāttatḥ bhavati iti . prakaraṇāt ca samāsāntodāttatvam . prakṛtam samāsagrahaṇam anuvartate . kva prakṛtam . cau samāsasya iti . nanu ca uktam antodāttatvam samāsasya iti cet kapi upasaṅkhyānam iti . na eṣaḥ doṣaḥ . uttarapadagrahaṇam api prakṛtam anuvartate . kva prakṛtam . uttarapadādiḥ iti . tatra evam abhisambandhaḥ kariṣyate . nañsubhyām samāsasya antaḥ udāttaḥ bhavati . idametattadbhyaḥ prathamapūraṇayoḥ kriyāgaṇane uttarapadasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३७।६-१० रो इव्।५७३ कारकात् दत्तश्रुतयोः अनाशिषि प्रतिषेधः । कारकात् दत्तश्रुतयोः अनाशिषि प्रतिषेधः वक्तव्यः । अनाहतः नदति देवदत्तः । सिद्धम् तु उभयनियमात् । सिद्धम् एतत् । कथम् । उभयनियमात् । उभयतः नियमः आश्रयिष्यते । कारकात् दत्तश्रुतयोः एव आशिषि। आशिषि एव कारकात् दत्तश्रुतयोः इति ।

KA III.137.6-10 Ro IV.573 kārakāt dattaśrutayoḥ anāśiṣi pratiṣedhaḥ . kārakāt dattaśrutayoḥ anāśiṣi pratiṣedhaḥ vaktavyaḥ . anāhataḥ nadati devadattaḥ . siddham tu ubhayaniyamāt . siddham etat . katham . ubhayaniyamāt . ubhayataḥ niyamaḥ āśrayiṣyate . kārakāt dattaśrutayoḥ eva āśiṣi. āśiṣi eva kārakāt dattaśrutayoḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३७।१२-१३ रो इव्।५७४ ऋषिप्रतिषेधः मित्रे । ऋषिप्रतिषेधः मित्रे वक्तव्यः । विश्वामित्रः ऋषिः ।

KA III.137.12-13 Ro IV.574 ṛṣipratiṣedhaḥ mitre . ṛṣipratiṣedhaḥ mitre vaktavyaḥ . viśvāmitraḥ ṛṣiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३७।१५-१३८।४ रो इव्।५७४ किमर्थम् बहोः नञ्वत् अतिदेशः क्रियते न नञ्सुबहुभ्यः इति एव उच्येत । न एवम् शक्यम् । उत्तरपदभूम्नि इति वक्ष्यति । तत् बहोः एव यथा स्यात् । नञ्सुभ्याम् मा भूत् इति । न एतत् अस्ति प्रयोजनम् । एकयोगे अपि हि सति यस्य उत्तरपदभूमा अस्ति तस्य भविष्यति । कस्य च अस्ति । बहोः एव । इदम् तर्हि प्रयोजनम् । न गुणादयः अव्यवाः इति वक्ष्यति । तत् बहोः एव यथा स्यात् । नञ्सुभ्याम् मा भूत् इति । एतत् अपि न अस्ति प्रयोजनम् । एकयोगे अपि सति यस्य गुणादयः अवयवा सन्ति तस्य कस्य च सन्ति । बहोः एव । अतः उत्तरम् पठति बहोः नञ्वत् उत्तरपदाद्युदात्तार्थम् । बहोः नञ्वत् अतिदेशः क्रिअय्ते उत्तरपदाद्युदात्तार्थम् । उत्तरपदस्य आद्युदात्तत्वम् यथा स्यात् । नञः जरमरमित्रमृताः । अजरः , अमरः , बहुजरः , बहुमित्रः ।

KA III.137.15-138.4 Ro IV.574 kimartham bahoḥ nañvat atideśaḥ kriyate na nañsubahubhyaḥ iti eva ucyeta . na evam śakyam . uttarapadabhūmni iti vakṣyati . tat bahoḥ eva yathā syāt . nañsubhyām mā bhūt iti . na etat asti prayojanam . ekayoge api hi sati yasya uttarapadabhūmā asti tasya bhaviṣyati . kasya ca asti . bahoḥ eva . idam tarhi prayojanam . na guṇādayaḥ avyavāḥ iti vakṣyati . tat bahoḥ eva yathā syāt . nañsubhyām mā bhūt iti . etat api na asti prayojanam . ekayoge api sati yasya guṇādayaḥ avayavā santi tasya kasya ca santi . bahoḥ eva . ataḥ uttaram paṭhati bahoḥ nañvat uttarapadādyudāttārtham . bahoḥ nañvat atideśaḥ kriayte uttarapadādyudāttārtham . uttarapadasya ādyudāttatvam yathā syāt . nañaḥ jaramaramitramṛtāḥ . ajaraḥ , amaraḥ , bahujaraḥ , bahumitraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३८६-११ रो इव्।५७५ उपसर्गात् स्वाङ्गम् ध्रुवम् मुखस्य अन्तोदात्तत्वात् । मुखस्य अन्तोदात्तत्वात् उपसर्गात् स्वाङ्गम् ध्रुवम् इति एतत् भवति विप्रतिषेधेन । मुखान्तोदात्तत्वस्य अवकाशः गौरमुखः , श्लक्ष्णमुखः । उपसर्गात् स्वाङ्गम् इति अस्य अवकाशः प्रस्फिक् , प्रोदरः । इह उभयम् प्राप्नोति । प्रमुखः । उपसर्गात् स्वाङ्गम् इति एतत् भवति विप्रतिषेधेन । कः पुनः विशेषः तेन वा सति अनेन वा । सापवादकः सः विधिः अयम् पुनः निरपवादकः । अव्ययात् तस्य प्रतिषेधः अपवादः ।

KA III.1386-11 Ro IV.575 upasargāt svāṅgam dhruvam mukhasya antodāttatvāt . mukhasya antodāttatvāt upasargāt svāṅgam dhruvam iti etat bhavati vipratiṣedhena . mukhāntodāttatvasya avakāśaḥ gauramukhaḥ , ślakṣṇamukhaḥ . upasargāt svāṅgam iti asya avakāśaḥ prasphik , prodaraḥ . iha ubhayam prāpnoti . pramukhaḥ . upasargāt svāṅgam iti etat bhavati vipratiṣedhena . kaḥ punaḥ viśeṣaḥ tena vā sati anena vā . sāpavādakaḥ saḥ vidhiḥ ayam punaḥ nirapavādakaḥ . avyayāt tasya pratiṣedhaḥ apavādaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३८।१४-१८ रो इव्।५७६ किमर्थम् इदम् उच्यते न उपसर्गात् स्वाङ्गम् ध्रुवम् इति एव सिद्धम् । अभेः मुखम् अपात् च अध्रुवार्थम् । अध्रुवार्थः अयम् आरम्भः । अभुव्रीह्यर्थम् वा । अथ वा बहुव्रीहेः इति वर्तते । अभुव्रीह्यर्थः अयम् आरम्भः ।

KA III.138.14-18 Ro IV.576 kimartham idam ucyate na upasargāt svāṅgam dhruvam iti eva siddham . abheḥ mukham apāt ca adhruvārtham . adhruvārthaḥ ayam ārambhaḥ . abhuvrīhyartham vā . atha vā bahuvrīheḥ iti vartate . abhuvrīhyarthaḥ ayam ārambhaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३८।२०-१३९।२ रो इव्।५७६ स्फिगपूतग्रहणम् किमर्थम् न उपसर्गात् स्वाङ्गम् ध्रुवम् इति एव सिद्धम् । स्फिगपूतग्रहणम् च । किम् । अध्रुवार्थम् अभुव्रीह्यर्थम् एव वा ।

KA III.138.20-139.2 Ro IV.576 sphigapūtagrahaṇam kimartham na upasargāt svāṅgam dhruvam iti eva siddham . sphigapūtagrahaṇam ca . kim . adhruvārtham abhuvrīhyartham eva vā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३९।४-६ रो इव्।५७६ अतेः धातुलोपे । अतेः धातुलोपे इति वक्तव्यम् । अकृत्पदे इति हि उच्यमाने इह च प्रसज्येत शोभनः गार्ग्यः अतिगार्ग्यः , इह च न स्यात् , अतिकाऋअकः, अतिपदा शक्वरी ।

KA III.139.4-6 Ro IV.576 ateḥ dhātulope . ateḥ dhātulope iti vaktavyam . akṛtpade iti hi ucyamāne iha ca prasajyeta śobhanaḥ gārgyaḥ atigārgyaḥ , iha ca na syāt , atikāṛakaḥ, atipadā śakvarī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३९।८-१४०।६ रो इव्।५७७-५७९ किम् इदम् द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् आहोस्वित् नकारान्तग्रहणम् । कः च अत्र विशेषः । द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् चेत् नकारान्तस्य उपसङ्ख्यानम् । द्वित्रिभ्याम् मूर्धनि अकारान्तग्रहणम् चेत् नकारान्तस्य उपसङ्ख्यानम् कर्तव्यम् । द्विमूर्धा त्रिमूर्धा । अस्तु तर्हि नकारान्तग्रहणम् । नकारान्ते अकारान्तस्य । नकारान्ते अकारान्तस्य उपसङ्ख्यानम् कर्तव्यम् । द्विमूर्धः , त्रिमूर्धः । उदात्तलोपात् सिद्धम् । अस्तु तर्हि नकारान्तग्रहणम् । अन्तोदात्तत्वे कृते लोपः उदात्तनिवृत्तिस्वरेण सिद्धम् । इदम् इह सम्प्रधार्यम् । अन्तोदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् । परत्वात् लोपः । एवम् तर्हि इदम् इह सम्प्रधार्यम् । अन्तोदात्तत्वम् क्रियताम् समासान्तः इति किम् अत्र कर्तव्यम् । परत्वात् अन्तोदात्तत्वम् । नित्यः समासान्तः । कृते अपि अन्तोदात्तत्वे प्राप्नोति अकृते अपि । अन्तोदात्तत्वम् अपि नित्यम् । कृते अपि समासान्ते प्राप्नोति अकृते अपि । अनित्यम् अन्तोदात्तत्वम् । न हि कृते समासान्ते प्राप्नोति । परत्वात् लोपेन भवितव्यम् । यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् । न च समासान्तः एव अन्तोदात्तत्वस्य निमित्तम् हन्ति । अवश्यम् लक्षणान्तरम् लोपः प्रतीक्ष्यः । उभयोः नित्ययोः परत्वात् अन्तोदात्तत्वम् । अन्तोदात्तत्वे कृते समासान्तः , टिलोपः । टिलोपे कृते उदात्तनिवृत्तिस्वरेण सिद्धम् । युक्तम् पुनः इदम् विचारयितुम् । नन् उ अनेन असन्दिग्धेन नकारान्तस्य ग्रहणेन भवितव्यम् यावता मूर्धसु इति उच्यते । यदि हि अकारान्तस्य ग्रहणम् स्यात् मूर्धेषु इति ब्रूयात् । सा एषा समासान्तार्था विचारणा । एवम् तर्हि ज्ञापयति आचार्यः । विभाषा समासान्तः भवति इति ।

KA III.139.8-140.6 Ro IV.577-579 kim idam dvitribhyām mūrdhani akārāntagrahaṇam āhosvit nakārāntagrahaṇam . kaḥ ca atra viśeṣaḥ . dvitribhyām mūrdhani akārāntagrahaṇam cet nakārāntasya upasaṅkhyānam . dvitribhyām mūrdhani akārāntagrahaṇam cet nakārāntasya upasaṅkhyānam kartavyam . dvimūrdhā trimūrdhā . astu tarhi nakārāntagrahaṇam . nakārānte akārāntasya . nakārānte akārāntasya upasaṅkhyānam kartavyam . dvimūrdhaḥ , trimūrdhaḥ . udāttalopāt siddham . astu tarhi nakārāntagrahaṇam . antodāttatve kṛte lopaḥ udāttanivṛttisvareṇa siddham . idam iha sampradhāryam . antodāttatvam kriyatām lopaḥ iti kim atra kartavyam . paratvāt lopaḥ . evam tarhi idam iha sampradhāryam . antodāttatvam kriyatām samāsāntaḥ iti kim atra kartavyam . paratvāt antodāttatvam . nityaḥ samāsāntaḥ . kṛte api antodāttatve prāpnoti akṛte api . antodāttatvam api nityam . kṛte api samāsānte prāpnoti akṛte api . anityam antodāttatvam . na hi kṛte samāsānte prāpnoti . paratvāt lopena bhavitavyam . yasya ca lakṣaṇāntareṇa nimittam vihanyate na tat anityam . na ca samāsāntaḥ eva antodāttatvasya nimittam hanti . avaśyam lakṣaṇāntaram lopaḥ pratīkṣyaḥ . ubhayoḥ nityayoḥ paratvāt antodāttatvam . antodāttatve kṛte samāsāntaḥ , ṭilopaḥ . ṭilope kṛte udāttanivṛttisvareṇa siddham . yuktam punaḥ idam vicārayitum . nan u anena asandigdhena nakārāntasya grahaṇena bhavitavyam yāvatā mūrdhasu iti ucyate . yadi hi akārāntasya grahaṇam syāt mūrdheṣu iti brūyāt . sā eṣā samāsāntārthā vicāraṇā . evam tarhi jñāpayati ācāryaḥ . vibhāṣā samāsāntaḥ bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१४०।८-१३ रो इव्।५७९-५८० अत्यल्पम् इदम् उच्यते । परादिः च परान्तः च पूर्वान्तः च दृश्यते ।पूर्वादयः च विद्यन्ते । व्यतयः बहुलम् स्मृतः । अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि उपसङ्ख्यानम् । अन्तोदात्तप्रकरणे त्रिचक्रादीनाम् छन्दसि उपसङ्ख्यानम् कर्तव्यम् : त्रिचक्रेण त्रिबन्धुरेण त्रिवृता रथेन ।

KA III.140.8-13 Ro IV.579-580 atyalpam idam ucyate . parādiḥ ca parāntaḥ ca pūrvāntaḥ ca dṛśyate .pūrvādayaḥ ca vidyante . vyatayaḥ bahulam smṛtaḥ . antodāttaprakaraṇe tricakrādīnām chandasi upasaṅkhyānam . antodāttaprakaraṇe tricakrādīnām chandasi upasaṅkhyānam kartavyam : tricakreṇa tribandhureṇa trivṛtā rathena .

Sanskrit only: no published translation is held for this verse.