क्अ इइइ।१७५।१६-१७६।४ रो इव्।६५६-६५७ वर्णग्रहणम् किमर्थम् न सहिवहोः ओत् अस्य इति एव उच्येत । वृद्धौ अपि कृतायाम् यथा स्यात् । उदवोढाम् , उदवोढम् , उदवोढ इति । अथ अवर्णग्रहणम् किमर्थम् । इह मा भूत् । ऊढः , ऊढवान् इति । न एतत् अस्ति प्रयोजनम् । भवतु अत्र ओत्त्वम् । श्रवणम् कस्मात् न भवति । पूर्वत्वम् अस्य भविष्यति । इदम् इह सम्प्रधार्यम् । ओत्त्वम् क्रियताम् पूर्वत्वम् इति किम् अत्र कर्तव्यम् । परत्वात् ओत्त्वम् । अन्तरङ्गम् पूर्वत्वम् । एवम् तर्हि इदम् इह सम्प्रधार्यम् । ओत्त्वम् क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् । परत्वात् ओत्त्वम् । नित्यम् सम्प्रसारणम् । कृते अपि ओत्त्वे प्राप्नोति अकृते अपि । ओत्त्वम् अपि नित्यम् । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि । अनित्यम् ओत्त्वम् । न हि कृते सम्प्रसारणे प्राप्नोति । अन्तरङ्गम् पूर्वत्वम् । यस्य च लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् । न च सम्प्रसारणम् एव ओत्त्वस्य निमित्तम् विहन्ति । अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् । उभयोः नित्ययोः परत्वात् ओत्त्वम् । ओत्त्वे कृते सम्प्रसारणम् सम्प्रसारणपूर्वत्वम् । तत्र कार्यकृतत्वात् पुनः ओत्त्वम् न भविष्यति ।
KA III.175.16-176.4 Ro IV.656-657 varṇagrahaṇam kimartham na sahivahoḥ ot asya iti eva ucyeta . vṛddhau api kṛtāyām yathā syāt . udavoḍhām , udavoḍham , udavoḍha iti . atha avarṇagrahaṇam kimartham . iha mā bhūt . ūḍhaḥ , ūḍhavān iti . na etat asti prayojanam . bhavatu atra ottvam . śravaṇam kasmāt na bhavati . pūrvatvam asya bhaviṣyati . idam iha sampradhāryam . ottvam kriyatām pūrvatvam iti kim atra kartavyam . paratvāt ottvam . antaraṅgam pūrvatvam . evam tarhi idam iha sampradhāryam . ottvam kriyatām samprasāraṇam iti kim atra kartavyam . paratvāt ottvam . nityam samprasāraṇam . kṛte api ottve prāpnoti akṛte api . ottvam api nityam . kṛte api samprasāraṇe prāpnoti akṛte api . anityam ottvam . na hi kṛte samprasāraṇe prāpnoti . antaraṅgam pūrvatvam . yasya ca lakṣaṇāntareṇa nimittam vihanyate na tat anityam . na ca samprasāraṇam eva ottvasya nimittam vihanti . avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam . ubhayoḥ nityayoḥ paratvāt ottvam . ottve kṛte samprasāraṇam samprasāraṇapūrvatvam . tatra kāryakṛtatvāt punaḥ ottvam na bhaviṣyati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.