क्अ इइइ।१५४।६-१५५।२४ रो इव्।६१०-६१४ इह के चित् तसिलादयः आ कृत्वसुचः पठ्यन्ते येषु पुंवद्भावः न इष्यते के चित् च अन्यत्र पठ्यन्ते येषु पुंवद्भावः इष्यते । तत्र किम् न्याय्यम् । परिगणनम् कर्तव्यम् । तसिलादी त्रतसौ । त्रतसौ तसिलादी द्रष्टव्यौ । तस्याम् शालायाम् वसति । तत्र वसति । तस्याः , ततः , यस्याम् , यत्र, यस्याः , यतः । तरतमपौ । तरतमपौ तसिलादी द्रष्टव्यौ । दर्शनीयतरा दर्शनीयतमा । चरड्जातीयरौ । चरड्जातीयरौ तसिलादी द्रष्टव्यौ । पटुचरी , पटुजातीया । कल्पब्देशीयरौ । कल्पब्देशीयरौ तसिलादी द्रष्टव्यौ । दर्शनीयकल्पा , दर्शनीयदेशीया । रूपप्पाशपौ । रूपप्पाशपौ तसिलादी द्रष्टव्यौ । दर्शनीयरूपा , दर्शनीयपाशा । थम्थालौ । थम्थालौ तसिलादी द्रष्टव्यौ । कया आकृत्या कथम् , यया यथा । दार्हिलौ । दार्हिलौ तसिलादी द्रष्टव्यौ । तस्याम् वेलायाम् , तदा , तर्हि । तिल्थ्यनौ । तिल्थ्यनौ तसिलादी द्रष्टव्यौ । वृकी वृकतिः , अजथ्या यूथिः । शसि बह्वल्पार्थस्य । शसि बह्वल्पार्थस्य पुंवद्भावः वक्तव्यः । बह्वीभ्यः देहि । बहुशः देहि । अल्पशः । त्वतलोः गुणवचनस्य । त्वतलोः गुणवचनस्य पुंवद्भावः वक्तव्यः । पट्व्याः भावः पटुत्वम् , पटुता । गुणवचनस्य इति किमर्थम् । कठ्याः भावः कठीत्वम् , कठीता । भस्य अढे तद्धिते । भस्य अढे तद्धिते पुंवद्भावः वक्तव्यः । हस्तिनीनाम् समूहः हास्तिकम् । अढे इति किमर्थम् । श्यैनेयः , रौहिणेयः । यदि अढे इति उच्यते , अग्नायी देवता अस्य , आग्नेयः स्थालीपाकः , अत्र न प्राप्नोति । इह च प्राप्नोति , कौण्डिन्यः , सापत्नः इति । यदि पुनः अनपत्ये इति उच्येत । न एवम् शक्यम् । इह हि न स्यात् । गार्ग्यायण्याः अपत्यम् माणवकः गार्गः जाल्मः । अस्तु तर्हि अढे इति एव । कथम् कौण्डिन्यः , सापत्नः इति । कौण्डिन्ये निपातनात् सिद्धम् । किम् निपातनम् । आगस्त्यकौण्डिन्ययोः इति । सापत्नशब्दः प्रकृतयतरम् । [र् ६१३: सापत्नः प्रकृत्यन्ततत्वात् । सापत्नशब्दः प्रकृतयतरम् अस्ति ।] कथम् अग्नायी देवता अस्य स्थालीपाकस्य , आग्नेयः स्थालीपाकः इति । अस्तु तर्हि अनपत्ये इति । कथम् गार्गः जाल्मः । गार्गाग्नेयौ न संवदेते । कर्तव्यः अत्र यत्नः । ठक्छसोः च । ठक्छसोः च पुंवद्भावः वक्तव्यः । भवत्याः छात्राः , भावत्काः , भवदीयाः । ठग्ग्रहणम् किमर्थम् न इके कृते अजादौ इति । न एवम् शक्यम् । अजादिलक्षणे हि माथितिकादिवत् प्रसङ्गः । अजादिलक्षणे हि माथिकादिवत् प्रसज्येत । तत् यथ मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः न भवति एवम् इह अपि न स्यात् ।
KA III.154.6-155.24 Ro IV.610-614 iha ke cit tasilādayaḥ ā kṛtvasucaḥ paṭhyante yeṣu puṃvadbhāvaḥ na iṣyate ke cit ca anyatra paṭhyante yeṣu puṃvadbhāvaḥ iṣyate . tatra kim nyāyyam . parigaṇanam kartavyam . tasilādī tratasau . tratasau tasilādī draṣṭavyau . tasyām śālāyām vasati . tatra vasati . tasyāḥ , tataḥ , yasyām , yatra, yasyāḥ , yataḥ . taratamapau . taratamapau tasilādī draṣṭavyau . darśanīyatarā darśanīyatamā . caraḍjātīyarau . caraḍjātīyarau tasilādī draṣṭavyau . paṭucarī , paṭujātīyā . kalpabdeśīyarau . kalpabdeśīyarau tasilādī draṣṭavyau . darśanīyakalpā , darśanīyadeśīyā . rūpappāśapau . rūpappāśapau tasilādī draṣṭavyau . darśanīyarūpā , darśanīyapāśā . thamthālau . thamthālau tasilādī draṣṭavyau . kayā ākṛtyā katham , yayā yathā . dārhilau . dārhilau tasilādī draṣṭavyau . tasyām velāyām , tadā , tarhi . tilthyanau . tilthyanau tasilādī draṣṭavyau . vṛkī vṛkatiḥ , ajathyā yūthiḥ . śasi bahvalpārthasya . śasi bahvalpārthasya puṃvadbhāvaḥ vaktavyaḥ . bahvībhyaḥ dehi . bahuśaḥ dehi . alpaśaḥ . tvataloḥ guṇavacanasya . tvataloḥ guṇavacanasya puṃvadbhāvaḥ vaktavyaḥ . paṭvyāḥ bhāvaḥ paṭutvam , paṭutā . guṇavacanasya iti kimartham . kaṭhyāḥ bhāvaḥ kaṭhītvam , kaṭhītā . bhasya aḍhe taddhite . bhasya aḍhe taddhite puṃvadbhāvaḥ vaktavyaḥ . hastinīnām samūhaḥ hāstikam . aḍhe iti kimartham . śyaineyaḥ , rauhiṇeyaḥ . yadi aḍhe iti ucyate , agnāyī devatā asya , āgneyaḥ sthālīpākaḥ , atra na prāpnoti . iha ca prāpnoti , kauṇḍinyaḥ , sāpatnaḥ iti . yadi punaḥ anapatye iti ucyeta . na evam śakyam . iha hi na syāt . gārgyāyaṇyāḥ apatyam māṇavakaḥ gārgaḥ jālmaḥ . astu tarhi aḍhe iti eva . katham kauṇḍinyaḥ , sāpatnaḥ iti . kauṇḍinye nipātanāt siddham . kim nipātanam . āgastyakauṇḍinyayoḥ iti . sāpatnaśabdaḥ prakṛtayataram . [R 613: sāpatnaḥ prakṛtyantatatvāt . sāpatnaśabdaḥ prakṛtayataram asti .] katham agnāyī devatā asya sthālīpākasya , āgneyaḥ sthālīpākaḥ iti . astu tarhi anapatye iti . katham gārgaḥ jālmaḥ . gārgāgneyau na saṃvadete . kartavyaḥ atra yatnaḥ . ṭhakchasoḥ ca . ṭhakchasoḥ ca puṃvadbhāvaḥ vaktavyaḥ . bhavatyāḥ chātrāḥ , bhāvatkāḥ , bhavadīyāḥ . ṭhaggrahaṇam kimartham na ike kṛte ajādau iti . na evam śakyam . ajādilakṣaṇe hi māthitikādivat prasaṅgaḥ . ajādilakṣaṇe hi māthikādivat prasajyeta . tat yatha mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ na bhavati evam iha api na syāt .
Sanskrit only: no published translation is held for this verse.