क्अ इइइ।१७६।१५-२० रो इव्।६५८-६५९ कथम् इदम् विज्ञायते । दा इति एतस्मिन् तकारादौ , आहोस्वित् दा इति एतस्मिन् तकारान्ते इति । किम् च अतः । यदि विज्ञायते तकारादौ इति नीत्ता वित्ता , अत्र न प्राप्नोति । अथ विज्ञायते तकारान्ते इति सुदत्तम् प्रतिदत्तम् अत्र अपि प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावत् तकारादौ इति । कथम् नीत्ता वित्ता । चर्त्वे कृते भविष्यति । असिद्धम् चर्त्वम् । तस्य असिद्धत्वात् न प्राप्नोति । आश्रयात् सिद्धत्वम् भविष्यति । अथ वा पुनः अस्तु तकारान्ते इति । कथम् सुदत्तम् प्रतिदत्तम् । न एतत् तकारान्तम् । थकारान्तम् एतत् ।
KA III.176.15-20 Ro IV.658-659 katham idam vijñāyate . dā iti etasmin takārādau , āhosvit dā iti etasmin takārānte iti . kim ca ataḥ . yadi vijñāyate takārādau iti nīttā vittā , atra na prāpnoti . atha vijñāyate takārānte iti sudattam pratidattam atra api prāpnoti . yathā icchasi tathā astu . astu tāvat takārādau iti . katham nīttā vittā . cartve kṛte bhaviṣyati . asiddham cartvam . tasya asiddhatvāt na prāpnoti . āśrayāt siddhatvam bhaviṣyati . atha vā punaḥ astu takārānte iti . katham sudattam pratidattam . na etat takārāntam . thakārāntam etat .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.