क्अ इइइ।१४२।११-१६ रो इव्।५८४-५८५ पञ्चमीप्रकरणे ब्राह्मणाच्छंसिनः उपसङ्ख्यानम् । पञ्चमीप्रकरणे ब्राह्मणाच्छंसिनः उपसङ्ख्यानम् कर्तव्यम् । ब्राह्मणाच्छंसी । अन्यार्थे च । अन्यार्थे च एषा पञ्चमी द्रष्टव्या । ब्राह्मणानि शंसति इति ब्राह्मणाच्छंसी । अथ वा युक्तः एव अत्र पञ्चम्यर्थः । ब्राह्मणेभ्यः गृहीत्वा , आहृत्य आहृत्य शंसति इति ब्राह्मणाच्छंसी ।
KA III.142.11-16 Ro IV.584-585 pañcamīprakaraṇe brāhmaṇācchaṃsinaḥ upasaṅkhyānam . pañcamīprakaraṇe brāhmaṇācchaṃsinaḥ upasaṅkhyānam kartavyam . brāhmaṇācchaṃsī . anyārthe ca . anyārthe ca eṣā pañcamī draṣṭavyā . brāhmaṇāni śaṃsati iti brāhmaṇācchaṃsī . atha vā yuktaḥ eva atra pañcamyarthaḥ . brāhmaṇebhyaḥ gṛhītvā , āhṛtya āhṛtya śaṃsati iti brāhmaṇācchaṃsī .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.