क्अ इइइ।१४७।१४-१८ रो इव्।५९५ क्व अयम् नकारः श्रूयते । न क्व चित् श्रूयते । लोपः अस्य भवति नलोपः प्रातिपदिकस्य इति । यदि न श्रूयते किमर्थम् उच्चार्यते । रपरत्वम् मा भूत् इति । क्रियमाणे अपि वै नकारे रपरत्वम् प्राप्नोति । किम् कारणम् । नलोपे कृते एषः अपि हि उः स्थाने अण् शिष्यते । न एषः दोषः । उः स्थाने अण् प्रसज्य्मानः एव रपरः भवति इति उच्यते न च अयम् उः स्थाने अण् एव शिष्यते । किम् तर्हि अण् च अनण् च ।
KA III.147.14-18 Ro IV.595 kva ayam nakāraḥ śrūyate . na kva cit śrūyate . lopaḥ asya bhavati nalopaḥ prātipadikasya iti . yadi na śrūyate kimartham uccāryate . raparatvam mā bhūt iti . kriyamāṇe api vai nakāre raparatvam prāpnoti . kim kāraṇam . nalope kṛte eṣaḥ api hi uḥ sthāne aṇ śiṣyate . na eṣaḥ doṣaḥ . uḥ sthāne aṇ prasajymānaḥ eva raparaḥ bhavati iti ucyate na ca ayam uḥ sthāne aṇ eva śiṣyate . kim tarhi aṇ ca anaṇ ca .
Sanskrit only: no published translation is held for this verse.
क्अ इइइ।१४७।१८-१४८।१८ रो इव्।५९६-५९७ कथम् पुनः इदम् विज्ञायते : ऋकारान्तानाम् यः द्वन्द्वः इति आहोस्वित् द्वन्द्वे ऋकारस्य इति । कः च अत्र विशेषः । ऋकारान्तानाम् द्वन्द्वे पुत्रे उपसङ्ख्यानम् । ऋकारान्तानाम् द्वन्द्वे पुत्रे उपसङ्ख्यानम् कर्तव्यम् । पितापुत्रौ । कार्यी च अनिर्दिष्टः । कार्यी च अनिर्दिष्टः भवति । ऋकारान्तानाम् द्वन्द्वे न ज्ञायते कस्य आनङा भवितव्यम् इति । अस्तु तर्हि द्वन्दे ऋकारस्य इति । अविशेषेण पितृपितामहादिषु अतिप्रसङ्गः । अविशेषेण पितृपितामहादिषु अतिप्रसङ्गः भवति । पितृपितामहौ इति । अस्तु तर्हि ऋकारान्तानाम् यः द्वन्द्वः इति । ननु च उक्तम् ऋकारान्तानाम् द्वन्द्वे पुत्रे उपसङ्ख्यानम् इति । न एषः दोषः । पुत्रग्रहणम् अपि प्रकृतम् अनुवर्तते । क्व प्रकृतम् । पुत्रे अन्यतरस्याम् इति । यदि तत् अनुवर्तते विभाषा स्वसृपत्योः पुत्रे च इति पुत्रे अपि विभाषा प्राप्नोति । न एषः दोषः । सम्बन्धम् अनुवर्तिष्यते । षष्ठ्याः आक्रोशे । पुत्रे अन्यतरस्याम् षष्ठ्याः आक्रोशे । ऋतः विद्यायोनिसम्बन्धेभ्यः पुत्रे अन्यतरस्याम् षष्ठ्याः आक्रोशे । विभाषा स्वसृपत्योः पुत्रे अन्यतरस्याम् षष्ठ्याः आक्रोशे । आनङ् ऋतः द्वन्द्वे । पुत्रग्रहणम् अनुवर्तते । षष्ठ्याः आक्रोशे इति निवृत्तम् । यत् अपि उच्यते कार्यी च अनिर्दिष्टः इति । कार्यी च निर्दिष्टः । कथम् । उत्तरपदे इति वर्तते । ङित् च अयम् क्रियते । सः अन्तरेण अपि कार्यिनिर्देशम् ऋकारान्तस्य एव भविष्यति । पुत्रे तर्हि कार्यी अनिर्दिष्टः । पुत्रे च कार्यी निर्दिष्टः । कथम् । ऋकारग्रहणम् अपि प्रकृतम् अनुवर्तते । क्व प्रकृतम् । ऋतः विद्यायोनिसम्बन्धेभ्यः । तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । पुत्रे इति एषा सप्तमी ऋतः इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति ।
KA III.147.18-148.18 Ro IV.596-597 katham punaḥ idam vijñāyate : ṛkārāntānām yaḥ dvandvaḥ iti āhosvit dvandve ṛkārasya iti . kaḥ ca atra viśeṣaḥ . ṛkārāntānām dvandve putre upasaṅkhyānam . ṛkārāntānām dvandve putre upasaṅkhyānam kartavyam . pitāputrau . kāryī ca anirdiṣṭaḥ . kāryī ca anirdiṣṭaḥ bhavati . ṛkārāntānām dvandve na jñāyate kasya ānaṅā bhavitavyam iti . astu tarhi dvande ṛkārasya iti . aviśeṣeṇa pitṛpitāmahādiṣu atiprasaṅgaḥ . aviśeṣeṇa pitṛpitāmahādiṣu atiprasaṅgaḥ bhavati . pitṛpitāmahau iti . astu tarhi ṛkārāntānām yaḥ dvandvaḥ iti . nanu ca uktam ṛkārāntānām dvandve putre upasaṅkhyānam iti . na eṣaḥ doṣaḥ . putragrahaṇam api prakṛtam anuvartate . kva prakṛtam . putre anyatarasyām iti . yadi tat anuvartate vibhāṣā svasṛpatyoḥ putre ca iti putre api vibhāṣā prāpnoti . na eṣaḥ doṣaḥ . sambandham anuvartiṣyate . ṣaṣṭhyāḥ ākrośe . putre anyatarasyām ṣaṣṭhyāḥ ākrośe . ṛtaḥ vidyāyonisambandhebhyaḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe . vibhāṣā svasṛpatyoḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe . ānaṅ ṛtaḥ dvandve . putragrahaṇam anuvartate . ṣaṣṭhyāḥ ākrośe iti nivṛttam . yat api ucyate kāryī ca anirdiṣṭaḥ iti . kāryī ca nirdiṣṭaḥ . katham . uttarapade iti vartate . ṅit ca ayam kriyate . saḥ antareṇa api kāryinirdeśam ṛkārāntasya eva bhaviṣyati . putre tarhi kāryī anirdiṣṭaḥ . putre ca kāryī nirdiṣṭaḥ . katham . ṛkāragrahaṇam api prakṛtam anuvartate . kva prakṛtam . ṛtaḥ vidyāyonisambandhebhyaḥ . tat vai pañcamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . putre iti eṣā saptamī ṛtaḥ iti pañcamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti .
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.