क्अ इइइ।१५८।२१-१५९।९ रो इव्।६२०-६२१ ङीग्रहणम् किमर्थम् । अनेकाचः ह्रस्वः इति इयति उच्यमाने खट्वातरा मालातरा , अत्र अपि प्रसज्येत । न एतत् अस्ति प्रयोजनम् । भाषितपुंस्कात् इति वर्तते । एवम् अपि दत्तातरा गुप्तातरा , अत्र अपि प्राप्नोति । ईतः इति वर्तते । एवम् अपि ग्रामणीतरः , सेनाणीतरः अत्र अपि प्राप्नोति । स्त्रियाम् इति वर्तते । एवम् अपि ग्रामणीतरा , सेनाणीतरा अत्र अपि प्राप्नोति । स्त्रियाः स्त्रियाम् इति वर्तते । शेषप्रकॢप्त्यर्थम् तर्हि ङीग्रहणम् कर्तव्यम् , नद्याः शेषस्य अन्यतरस्याम् इति । कः शेषः । आङीच या नदी ङ्यन्तम् च यत् एकाच् । अन्तरेण अपि ङीग्रहणम् कॢप्तः शेषः । कथम् । ईतः इति वर्तते । अनीत् च या नदी , ईदन्तम् च यत् एकाच् । शेषग्रहणम् च अपि शक्यम् अकर्तुम् । कथम् । अविशेषेण घादिषु नद्याः अन्यतरस्याम् ह्रस्वत्वम् उत्सर्गः । तस्य अनेकाचः नित्यम् ह्रस्वत्वम् अपवादः । तस्मिन् नित्ये प्राप्ते उगितः विभाषा आरभ्यते । यदि एवम् लक्ष्मितरा तन्त्रितरा इति न सिध्यति । लक्ष्मीतरा तन्त्रीतरा इति प्राप्नोति । इष्टम् एव एतद् सङ्गृहीतम् । लक्ष्मीतरा तन्त्रीतरा इति एव भवितव्यम् । एवम् हि सौनागाः पठन्ति । घादिषु नद्याः ह्रस्वत्वे कृन्नद्याः प्रतिषेधः ।
KA III.158.21-159.9 Ro IV.620-621 ṅīgrahaṇam kimartham . anekācaḥ hrasvaḥ iti iyati ucyamāne khaṭvātarā mālātarā , atra api prasajyeta . na etat asti prayojanam . bhāṣitapuṃskāt iti vartate . evam api dattātarā guptātarā , atra api prāpnoti . ītaḥ iti vartate . evam api grāmaṇītaraḥ , senāṇītaraḥ atra api prāpnoti . striyām iti vartate . evam api grāmaṇītarā , senāṇītarā atra api prāpnoti . striyāḥ striyām iti vartate . śeṣaprakḷptyartham tarhi ṅīgrahaṇam kartavyam , nadyāḥ śeṣasya anyatarasyām iti . kaḥ śeṣaḥ . āṅīca yā nadī ṅyantam ca yat ekāc . antareṇa api ṅīgrahaṇam kḷptaḥ śeṣaḥ . katham . ītaḥ iti vartate . anīt ca yā nadī , īdantam ca yat ekāc . śeṣagrahaṇam ca api śakyam akartum . katham . aviśeṣeṇa ghādiṣu nadyāḥ anyatarasyām hrasvatvam utsargaḥ . tasya anekācaḥ nityam hrasvatvam apavādaḥ . tasmin nitye prāpte ugitaḥ vibhāṣā ārabhyate . yadi evam lakṣmitarā tantritarā iti na sidhyati . lakṣmītarā tantrītarā iti prāpnoti . iṣṭam eva etad saṅgṛhītam . lakṣmītarā tantrītarā iti eva bhavitavyam . evam hi saunāgāḥ paṭhanti . ghādiṣu nadyāḥ hrasvatve kṛnnadyāḥ pratiṣedhaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.