* पशुपतिः । अत्र पशवो नाम सिद्धेश्वरवर्जं सर्वे चेतनावन्तः । कार्यकरणाञ्जना निरञ्जनाश् च पशवः । आह किं तेषां पशुत्वम् । उच्यते अनैश्वर्यं बन्धः । कारणशक्तिसन्निरोधलक्षणम् अस्वातन्त्र्यम् अनैश्वर्यं बन्धो ऽनाडिः । बन्धगुण इत्य् उपचर्यते । तत् कथंलक्षणम् इति चेत् । तद् उच्यते पश्यनात् पाशनाच् च पशवः । तत्र पाशा नाम कार्यकरणाख्याः कलाः । ताश् च कला उपरिष्टाद् वक्ष्यामः । ताभिः पाशिताः बद्धाः संनिरुद्धाः शब्दादिविषयपरवशाश् च भूत्वावतिष्ठन्ते इत्य् अतो ऽवगम्यते ऽस्वातन्त्र्यम् अनैश्वर्यं बन्धः । कार्यकरणरहितस्य पशुत्वं निवर्तत इति चेत् । तद् उच्यते संहृतानाम् अपि पुनः पुनः संबन्धग्रहणाच् छास्त्रे । किं चान्यत् । पश्यनाच् च पशवः । यस्माद् विभुत्वे ऽपि चित्समवेतत्वे ऽपि च शरीरमात्रम् एव पश्यन्त्य् उपलभन्ति च न बहिर्द्धानि । कार्यकरणरहिताश् च न कार्यकरणं प्रतिपद्यते त्यजन्ति वा । धर्माधर्मप्रकाशदेशकालचोदनाद्यपेक्षितत्वाच् च । अतः सुष्ठूक्तं पश्यनात् पाशनाच् च पशवः । यस्माद् उक्तं सांख्ययोगेन ये मुक्ताः सांख्ययोगेश्वराश् च ये । ब्रह्मादयस् तिर्यगन्ताः सर्वे ते पशवः स्मृताः
* paśupatiḥ / atra paśavo nāma siddheśvaravarjaṃ sarve cetanāvantaḥ / kāryakaraṇāñjanā nirañjanāś ca paśavaḥ / āha kiṃ teṣāṃ paśutvam / ucyate anaiśvaryaṃ bandhaḥ / kāraṇaśaktisannirodhalakṣaṇam asvātantryam anaiśvaryaṃ bandho 'nāḍiḥ / bandhaguṇa ity upacaryate / tat kathaṃlakṣaṇam iti cet / tad ucyate paśyanāt pāśanāc ca paśavaḥ / tatra pāśā nāma kāryakaraṇākhyāḥ kalāḥ / tāś ca kalā upariṣṭād vakṣyāmaḥ / tābhiḥ pāśitāḥ baddhāḥ saṃniruddhāḥ śabdādiviṣayaparavaśāś ca bhūtvāvatiṣṭhante ity ato 'vagamyate 'svātantryam anaiśvaryaṃ bandhaḥ / kāryakaraṇarahitasya paśutvaṃ nivartata iti cet / tad ucyate saṃhṛtānām api punaḥ punaḥ saṃbandhagrahaṇāc chāstre / kiṃ cānyat / paśyanāc ca paśavaḥ / yasmād vibhutve 'pi citsamavetatve 'pi ca śarīramātram eva paśyanty upalabhanti ca na bahirddhāni / kāryakaraṇarahitāś ca na kāryakaraṇaṃ pratipadyate tyajanti vā / dharmādharmaprakāśadeśakālacodanādyapekṣitatvāc ca / ataḥ suṣṭhūktaṃ paśyanāt pāśanāc ca paśavaḥ / yasmād uktaṃ sāṃkhyayogena ye muktāḥ sāṃkhyayogeśvarāś ca ye / brahmādayas tiryagantāḥ sarve te paśavaḥ smṛtāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.