Library·Pasupatasutra with Kaundinya's Pancarthabhasya·1·1.1

Pasupatasutra with Kaundinya's Pancarthabhasya 1.1

* हितार्थम् अखिलं येन सृष्टं ब्रह्मादिकं जगत् । प्रणम्य तं पशुपतिं शिरसा सदसस्पतिम् । अर्थातिशयसम्पन्नं ज्ञानातिशयम् उत्तमम् । पञ्चार्थं क्रियते भाष्यं कौण्डिन्येनानुपूर्वशः

* hitārtham akhilaṃ yena sṛṣṭaṃ brahmādikaṃ jagat / praṇamya taṃ paśupatiṃ śirasā sadasaspatim / arthātiśayasampannaṃ jñānātiśayam uttamam / pañcārthaṃ kriyate bhāṣyaṃ kauṇḍinyenānupūrvaśaḥ

Sanskrit only: no published translation is held for this verse.

* आह वक्ष्यति भगवान् पञ्चार्थम्

* āha vakṣyati bhagavān pañcārtham

Sanskrit only: no published translation is held for this verse.

* अथास्यादिसूत्रं किम् इति

* athāsyādisūtraṃ kim iti

Sanskrit only: no published translation is held for this verse.

* अत्रोच्यते अथातः पशुपतेः पाशुपतं योगविधिं व्याख्यास्यामः इति

* atrocyate athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ iti

Sanskrit only: no published translation is held for this verse.

* एतत् प्रथमसूत्रं शास्त्रादाव् उच्चार्यते

* etat prathamasūtraṃ śāstrādāv uccāryate

Sanskrit only: no published translation is held for this verse.

* तदनन्तरं पदविग्रहः क्रियते

* tadanantaraṃ padavigrahaḥ kriyate

Sanskrit only: no published translation is held for this verse.

* तदुपयोगिनं योगविधिं व्याख्यास्याम इति

* tadupayoginaṃ yogavidhiṃ vyākhyāsyāma iti

Sanskrit only: no published translation is held for this verse.

* अष्टपदं सूत्रम्

* aṣṭapadaṃ sūtram

Sanskrit only: no published translation is held for this verse.

* तत्र अथ अतः इति द्वे पदे नैपातिके

* tatra atha ataḥ iti dve pade naipātike

Sanskrit only: no published translation is held for this verse.

* पशुपतेर् इत्य् एतत् पदं परिग्रहार्थेनोच्चार्यते

* paśupater ity etat padaṃ parigrahārthenoccāryate

Sanskrit only: no published translation is held for this verse.

* पाशुपतम् इति तद्धितम्

* pāśupatam iti taddhitam

Sanskrit only: no published translation is held for this verse.

* योगविधिम् इति सामासिकम्

* yogavidhim iti sāmāsikam

Sanskrit only: no published translation is held for this verse.

* वि आङ् इति द्वे पदे । ख्यास्याम इत्य् आख्यातिकम्

* vi āṅ iti dve pade / khyāsyāma ity ākhyātikam

Sanskrit only: no published translation is held for this verse.

* आह किं प्रयोजनं पदविग्रहः क्रियते

* āha kiṃ prayojanaṃ padavigrahaḥ kriyate

Sanskrit only: no published translation is held for this verse.

* तद् उच्यते अर्थप्रसिद्ध्यर्थम्

* tad ucyate arthaprasiddhyartham

Sanskrit only: no published translation is held for this verse.

* कस्माद् अर्थाप्रसिद्धिः पदानाम्

* kasmād arthāprasiddhiḥ padānām

Sanskrit only: no published translation is held for this verse.

* यस्मात् पृथगर्थानीह पदानि भवन्ति

* yasmāt pṛthagarthānīha padāni bhavanti

Sanskrit only: no published translation is held for this verse.

* यस्माद् एवं ह्य् आह

* yasmād evaṃ hy āha

Sanskrit only: no published translation is held for this verse.

* यथा विवृतगात्रोऽ पि शिरसि प्रावृतो नरः । नाभिव्यक्तिं व्रजत्य् एवं सूत्रं विग्रहवर्जितम्

* yathā vivṛtagātro' pi śirasi prāvṛto naraḥ / nābhivyaktiṃ vrajaty evaṃ sūtraṃ vigrahavarjitam

Sanskrit only: no published translation is held for this verse.

* एवम् अर्थप्रसिद्ध्यर्थं पदविग्रहः क्रियते

* evam arthaprasiddhyarthaṃ padavigrahaḥ kriyate

Sanskrit only: no published translation is held for this verse.

* आह उक्तः पदविग्रहः प्रयोजनं च

* āha uktaḥ padavigrahaḥ prayojanaṃ ca

Sanskrit only: no published translation is held for this verse.

* इदं तु वाच्यम् अथ शास्त्रादिः कः इति

* idaṃ tu vācyam atha śāstrādiḥ kaḥ iti

Sanskrit only: no published translation is held for this verse.

* अत्रोच्यते अथातः पशुपतेर् इत्य् एष तावच् छास्त्रादिः

* atrocyate athātaḥ paśupater ity eṣa tāvac chāstrādiḥ

Sanskrit only: no published translation is held for this verse.

* तत्र शास्त्रं तन्त्रं ग्रन्थो विद्या च

* tatra śāstraṃ tantraṃ grantho vidyā ca

Sanskrit only: no published translation is held for this verse.

* ग्रन्थार्थयोस् तदधिगमोपायत्वात्

* granthārthayos tadadhigamopāyatvāt

Sanskrit only: no published translation is held for this verse.

* पारिमाण्यम् अथशब्दादिशिवान्तं प्रवचनम्

* pārimāṇyam athaśabdādiśivāntaṃ pravacanam

Sanskrit only: no published translation is held for this verse.

* संख्या पञ्चाध्यायाः पञ्च ब्रह्माणि अधिकरणं च

* saṃkhyā pañcādhyāyāḥ pañca brahmāṇi adhikaraṇaṃ ca

Sanskrit only: no published translation is held for this verse.

* अथशब्दातःशब्दव्याख्यानवचनस्नानशयनाद्युपदेशाच् च शिष्याचार्ययोः प्रसिद्धिः

* athaśabdātaḥśabdavyākhyānavacanasnānaśayanādyupadeśāc ca śiṣyācāryayoḥ prasiddhiḥ

Sanskrit only: no published translation is held for this verse.

* कैवल्यगतानाम् अपि दुःखित्वदर्शनात् कार्यकारणप्रत्यक्षदर्शी विप्रत्वाद् उपायोपेयप्रत्यक्षदर्शित्वाच् च प्रश्नप्रतिवक्ता ऐश्वर्यावस्थश् चैव मुक्तत्वान् मनोऽमनःसंस्थश् च कामित्वाद् अतः सर्वाचार्यविशिष्टो ऽयम् आचार्य इति

* kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti

Sanskrit only: no published translation is held for this verse.

* तथा ब्राह्मणग्रहणात् स्त्रीप्रतिषेधाद् इन्द्रियजयोपदेशाच् च उक्तं हि । बाधिर्यम् आन्ध्यम् अघ्रत्वं मूकता जडता तथा । उन्मादः कौण्यं कुष्ठित्वं क्लैब्यं गुदावर्तपङ्गुता

* tathā brāhmaṇagrahaṇāt strīpratiṣedhād indriyajayopadeśāc ca uktaṃ hi / bādhiryam āndhyam aghratvaṃ mūkatā jaḍatā tathā / unmādaḥ kauṇyaṃ kuṣṭhitvaṃ klaibyaṃ gudāvartapaṅgutā

Sanskrit only: no published translation is held for this verse.

* आदिरहितः पट्विन्द्रियो ब्राह्मणः शिष्यः

* ādirahitaḥ paṭvindriyo brāhmaṇaḥ śiṣyaḥ

Sanskrit only: no published translation is held for this verse.

* स चान्यविशिष्टो ऽयं शिष्य इति

* sa cānyaviśiṣṭo 'yaṃ śiṣya iti

Sanskrit only: no published translation is held for this verse.

* तथा देवादिभ्यश् च क्रीडाधर्मित्वात् क्रीडानिमित्ता ईश्वरप्रवृत्तिः

* tathā devādibhyaś ca krīḍādharmitvāt krīḍānimittā īśvarapravṛttiḥ

Sanskrit only: no published translation is held for this verse.

* अनुग्रहार्था चाचार्यस्य प्रवचनवक्तृत्वे प्रवृत्तिः

* anugrahārthā cācāryasya pravacanavaktṛtve pravṛttiḥ

Sanskrit only: no published translation is held for this verse.

* तथा भजनचोदनप्रसादशिवत्वलिप्सोपदेशाद् दुःखान्तार्थिनः शिष्यस्येहोपसदनप्रवृत्तिः

* tathā bhajanacodanaprasādaśivatvalipsopadeśād duḥkhāntārthinaḥ śiṣyasyehopasadanapravṛttiḥ

Sanskrit only: no published translation is held for this verse.

* न तु धर्मार्थकामकैवल्यार्थात्रेति

* na tu dharmārthakāmakaivalyārthātreti

Sanskrit only: no published translation is held for this verse.

* तथा कामित्वाद् इन्द्रकौशिकादिभ्यश् चाचार्यो दिव्यो निरतिशयक्रीडैश्वर्यस्वाभाव्याद् इत्य् अर्थः

* tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ

Sanskrit only: no published translation is held for this verse.

* चोदनोपसदनसंस्कारवश्यादिदुःखैर् अभिभूतत्वाच् चादिव्या इन्द्रकौशिकाद्याः शिष्या इति

* codanopasadanasaṃskāravaśyādiduḥkhair abhibhūtatvāc cādivyā indrakauśikādyāḥ śiṣyā iti

Sanskrit only: no published translation is held for this verse.

* तथा शिष्टप्रामाण्यात् कामित्वाद् अजातत्वाच् च मनुष्यरूपी भगवान् ब्राह्मणकायम् आस्थाय कायावतरणे अवतीर्ण इति

* tathā śiṣṭaprāmāṇyāt kāmitvād ajātatvāc ca manuṣyarūpī bhagavān brāhmaṇakāyam āsthāya kāyāvataraṇe avatīrṇa iti

Sanskrit only: no published translation is held for this verse.

* तथा पद्भ्याम् उज्जयिनीं प्राप्तः । कस्मात् । शिष्टप्रामाणत् चिह्नदर्शनश्रवणाच् च । अत्याश्रमप्रसिद्धं लिङ्गमास्थाय प्रवचनम् उक्तवान् भस्मस्नानशयनानुस्नाननिर्माल्यैकवासोग्रहणाद् अधिकरणप्रसिद्ध्यर्थं च स्वशास्त्रोक्ते आयतने शिष्यसम्बन्धार्थं शुचौ देशे भस्मवेद्यामुषितः । अतो रुद्रप्रचोदितः कुशिकभगवान् अभ्यागत्याचार्ये परिपूर्णपरितृप्त्याद्युत्कर्षलक्षणानि विपरीतानि चात्मनि दृष्ट्वा पादाव् उपसंगृह्य न्यायेन जातिं गोत्रं श्रुतम् अनृणत्वं च निवेदयित्वा कृतक्षणम् आचार्यं काले वैद्यवद् अवस्थितम् आतुरवद् अवस्थितः शिष्यः पृष्टवान् भगवन् किम् एतेषाम् आध्यात्मिकाधिभौतिकाधिदैविकानां सर्वदुःखानाम् ऐकान्तिको ऽत्यन्तिको व्यपोहो ऽस्त्य् उत नेति । अथोक्तपरिग्रहाधिकारलिप्सासु परापदेशेनोपदेशे सच्छिष्यसाधकपाठप्रसिद्ध्यर्थं कारणपदार्थाधिगमार्थं चात्मनि परापदेशं कृत्वा भगवान् एवोक्तवान् अथेति । अत्र पूर्वप्रकृतापेक्षायाम् अथशब्दः । कथम् । शिष्येणोदीरितं पूर्वं प्रश्नम् अपेक्ष्योक्तवान् अथेति । एवम् अयम् अथशब्दः पृष्टप्रतिवचनार्थो ऽस्ति । स दुःखान्त इत्य् अर्थः । आह किं परीक्षिताय शिष्याय दुःखान्तः प्रतिज्ञातः उतापरीक्षितायेति । उच्यते परीक्षिताय । यस्माद् आह इति । अत्र अतःशब्दः शिष्यगुणवचने । यस्माद् अयं ब्रह्मावर्तदेशजः कुलजः पट्विन्द्रियो विविदिषादिसम्पन्नः शिष्यः । पूर्वं चात्रार्थतो ऽतः शब्दो द्रष्टव्यः । अथ स दुःखान्तः कुतः प्राप्यते केन वाभ्युपायेनेति । तद् उच्यते पशुपतेः । प्रसादाद् इति वाक्यशेषः । अत्र पशूनां पतिः

* tathā padbhyām ujjayinīṃ prāptaḥ / kasmāt / śiṣṭaprāmāṇat cihnadarśanaśravaṇāc ca / atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ / ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti / athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti / atra pūrvaprakṛtāpekṣāyām athaśabdaḥ / katham / śiṣyeṇodīritaṃ pūrvaṃ praśnam apekṣyoktavān atheti / evam ayam athaśabdaḥ pṛṣṭaprativacanārtho 'sti / sa duḥkhānta ity arthaḥ / āha kiṃ parīkṣitāya śiṣyāya duḥkhāntaḥ pratijñātaḥ utāparīkṣitāyeti / ucyate parīkṣitāya / yasmād āha iti / atra ataḥśabdaḥ śiṣyaguṇavacane / yasmād ayaṃ brahmāvartadeśajaḥ kulajaḥ paṭvindriyo vividiṣādisampannaḥ śiṣyaḥ / pūrvaṃ cātrārthato 'taḥ śabdo draṣṭavyaḥ / atha sa duḥkhāntaḥ kutaḥ prāpyate kena vābhyupāyeneti / tad ucyate paśupateḥ / prasādād iti vākyaśeṣaḥ / atra paśūnāṃ patiḥ

Sanskrit only: no published translation is held for this verse.

* पशुपतिः । अत्र पशवो नाम सिद्धेश्वरवर्जं सर्वे चेतनावन्तः । कार्यकरणाञ्जना निरञ्जनाश् च पशवः । आह किं तेषां पशुत्वम् । उच्यते अनैश्वर्यं बन्धः । कारणशक्तिसन्निरोधलक्षणम् अस्वातन्त्र्यम् अनैश्वर्यं बन्धो ऽनाडिः । बन्धगुण इत्य् उपचर्यते । तत् कथंलक्षणम् इति चेत् । तद् उच्यते पश्यनात् पाशनाच् च पशवः । तत्र पाशा नाम कार्यकरणाख्याः कलाः । ताश् च कला उपरिष्टाद् वक्ष्यामः । ताभिः पाशिताः बद्धाः संनिरुद्धाः शब्दादिविषयपरवशाश् च भूत्वावतिष्ठन्ते इत्य् अतो ऽवगम्यते ऽस्वातन्त्र्यम् अनैश्वर्यं बन्धः । कार्यकरणरहितस्य पशुत्वं निवर्तत इति चेत् । तद् उच्यते संहृतानाम् अपि पुनः पुनः संबन्धग्रहणाच् छास्त्रे । किं चान्यत् । पश्यनाच् च पशवः । यस्माद् विभुत्वे ऽपि चित्समवेतत्वे ऽपि च शरीरमात्रम् एव पश्यन्त्य् उपलभन्ति च न बहिर्द्धानि । कार्यकरणरहिताश् च न कार्यकरणं प्रतिपद्यते त्यजन्ति वा । धर्माधर्मप्रकाशदेशकालचोदनाद्यपेक्षितत्वाच् च । अतः सुष्ठूक्तं पश्यनात् पाशनाच् च पशवः । यस्माद् उक्तं सांख्ययोगेन ये मुक्ताः सांख्ययोगेश्वराश् च ये । ब्रह्मादयस् तिर्यगन्ताः सर्वे ते पशवः स्मृताः

* paśupatiḥ / atra paśavo nāma siddheśvaravarjaṃ sarve cetanāvantaḥ / kāryakaraṇāñjanā nirañjanāś ca paśavaḥ / āha kiṃ teṣāṃ paśutvam / ucyate anaiśvaryaṃ bandhaḥ / kāraṇaśaktisannirodhalakṣaṇam asvātantryam anaiśvaryaṃ bandho 'nāḍiḥ / bandhaguṇa ity upacaryate / tat kathaṃlakṣaṇam iti cet / tad ucyate paśyanāt pāśanāc ca paśavaḥ / tatra pāśā nāma kāryakaraṇākhyāḥ kalāḥ / tāś ca kalā upariṣṭād vakṣyāmaḥ / tābhiḥ pāśitāḥ baddhāḥ saṃniruddhāḥ śabdādiviṣayaparavaśāś ca bhūtvāvatiṣṭhante ity ato 'vagamyate 'svātantryam anaiśvaryaṃ bandhaḥ / kāryakaraṇarahitasya paśutvaṃ nivartata iti cet / tad ucyate saṃhṛtānām api punaḥ punaḥ saṃbandhagrahaṇāc chāstre / kiṃ cānyat / paśyanāc ca paśavaḥ / yasmād vibhutve 'pi citsamavetatve 'pi ca śarīramātram eva paśyanty upalabhanti ca na bahirddhāni / kāryakaraṇarahitāś ca na kāryakaraṇaṃ pratipadyate tyajanti vā / dharmādharmaprakāśadeśakālacodanādyapekṣitatvāc ca / ataḥ suṣṭhūktaṃ paśyanāt pāśanāc ca paśavaḥ / yasmād uktaṃ sāṃkhyayogena ye muktāḥ sāṃkhyayogeśvarāś ca ye / brahmādayas tiryagantāḥ sarve te paśavaḥ smṛtāḥ

Sanskrit only: no published translation is held for this verse.

* पतिः कस्मात् । आप्ति पाति च तान् पशून् इत्य् अतः पतिर् भवति । तान् केनाप्नोति केन रक्षति । ततो विभुशक्त्या । यस्मात् तत्रापि शक्तिम् अस्यानन्तां नातिवर्तन्ते । विप्रत्वाच् चास्यानन्ता ज्ञानशक्तिः अपरिमिता । तया अपरिमितया अपरिमितान् एव प्रत्यक्षान् पशून् आप्नोतीति पतिः । तथा पालयतीति प्रभुशक्तिः । कस्मात् । तच्छन्दात् तेषां प्रवृत्तिनिवृत्तिः स्थितिर् इष्टानिष्टस्थानशरीरेन्द्रियविषयादिप्राप्तिर् भवति । तत्परिदृष्टानां तत्प्रचोदितानां चेत्य् अर्थः । एवं

* patiḥ kasmāt / āpti pāti ca tān paśūn ity ataḥ patir bhavati / tān kenāpnoti kena rakṣati / tato vibhuśaktyā / yasmāt tatrāpi śaktim asyānantāṃ nātivartante / vipratvāc cāsyānantā jñānaśaktiḥ aparimitā / tayā aparimitayā aparimitān eva pratyakṣān paśūn āpnotīti patiḥ / tathā pālayatīti prabhuśaktiḥ / kasmāt / tacchandāt teṣāṃ pravṛttinivṛttiḥ sthitir iṣṭāniṣṭasthānaśarīrendriyaviṣayādiprāptir bhavati / tatparidṛṣṭānāṃ tatpracoditānāṃ cety arthaḥ / evaṃ

Sanskrit only: no published translation is held for this verse.

* पशुपतेर् इति कार्यकारणयोः प्रसादस्य चोद्देशः । तस्मात् प्रसादात् स दुःखान्तः प्राप्यते । न तु ज्ञानवैराग्यधर्मैश्वार्यत्यागमात्राद् इत्य् अर्थः । आह कुत्रस्थस्य कदा कीदृशस्य वा स भगवान् प्रसीदतीति । उच्यते यदानेन तु तत् प्राप्तं भवति । आह किं तद् इति । उच्यते पाशुपतम् अत्र पशुपतिनोक्तं परिगृहीतं पशुपतिम् अधिकृत्य चारभ्यत इति पाशुपतम् । यथा वैष्णवं मानसम् इति । किं तद् इति । उच्यते योगम् । अत्रात्मेश्वरसंयोगो योगः । स पुनः पुरुषस्याध्ययनादिनैमित्तिकत्वाद् अन्यतरकर्मजः स्थाणुश्येनवत् । चोदनाध्ययनादिवचनाद् मेषवद् उभयकर्मजः । यस्मात् सति विभुत्वे अनधिकारकृतत्वाद् वियोगस्य । वियुक्तस्यैव च संयोग उपदिश्यते । विषयरक्तविरक्तवत् क्रियायोगे । इह तु समाधिलक्षणे योगे संनियम इति । आह किं परिज्ञानमात्राद् एव तद्योगः प्राप्यते । उच्यते । यस्माद् आह तत्प्राप्तौ विधिं व्याख्यास्यामः । अत्र योगस्य विधिः योगविधिर् इति षष्ठीतत्पुरुषसमासः । अत्र सूक्ष्मस्थूलसबाह्याभ्यन्तरसलक्षणविलक्षणक्रियासु विधिसंज्ञा यज्ञविधिवत् । न तु सेनावनादिवत् । कस्मात् । क्रियाणां क्षणिकानां समुदायासम्भवात् । यद्य् एवं विधिः कस्मात् । विधायकत्वाद् विधिः । उपायोपेयभावाच् च । विधिम् इति कर्म । एव सदुःखान्तः कार्यं कारणं योगो विधिर् इति पञ्चैव पदार्थाः समासत उद्दिष्टाः । ते व्याख्येयाः । व्याख्यानम् एतेषां विस्तरविभागविशेषोपसंहारनिगमनानि । तस्माद् अन्यद् व्याख्येयम् अन्यद् व्याख्यानम् । यस्माद् आह व्याख्यास्यामः । अत्र विः विस्तरे विभागे विशेषे च भवति । तत्र विस्तर इति प्रत्यक्षानु

* paśupater iti kāryakāraṇayoḥ prasādasya coddeśaḥ / tasmāt prasādāt sa duḥkhāntaḥ prāpyate / na tu jñānavairāgyadharmaiśvāryatyāgamātrād ity arthaḥ / āha kutrasthasya kadā kīdṛśasya vā sa bhagavān prasīdatīti / ucyate yadānena tu tat prāptaṃ bhavati / āha kiṃ tad iti / ucyate pāśupatam atra paśupatinoktaṃ parigṛhītaṃ paśupatim adhikṛtya cārabhyata iti pāśupatam / yathā vaiṣṇavaṃ mānasam iti / kiṃ tad iti / ucyate yogam / atrātmeśvarasaṃyogo yogaḥ / sa punaḥ puruṣasyādhyayanādinaimittikatvād anyatarakarmajaḥ sthāṇuśyenavat / codanādhyayanādivacanād meṣavad ubhayakarmajaḥ / yasmāt sati vibhutve anadhikārakṛtatvād viyogasya / viyuktasyaiva ca saṃyoga upadiśyate / viṣayaraktaviraktavat kriyāyoge / iha tu samādhilakṣaṇe yoge saṃniyama iti / āha kiṃ parijñānamātrād eva tadyogaḥ prāpyate / ucyate / yasmād āha tatprāptau vidhiṃ vyākhyāsyāmaḥ / atra yogasya vidhiḥ yogavidhir iti ṣaṣṭhītatpuruṣasamāsaḥ / atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat / na tu senāvanādivat / kasmāt / kriyāṇāṃ kṣaṇikānāṃ samudāyāsambhavāt / yady evaṃ vidhiḥ kasmāt / vidhāyakatvād vidhiḥ / upāyopeyabhāvāc ca / vidhim iti karma / eva saduḥkhāntaḥ kāryaṃ kāraṇaṃ yogo vidhir iti pañcaiva padārthāḥ samāsata uddiṣṭāḥ / te vyākhyeyāḥ / vyākhyānam eteṣāṃ vistaravibhāgaviśeṣopasaṃhāranigamanāni / tasmād anyad vyākhyeyam anyad vyākhyānam / yasmād āha vyākhyāsyāmaḥ / atra viḥ vistare vibhāge viśeṣe ca bhavati / tatra vistara iti pratyakṣānu

Sanskrit only: no published translation is held for this verse.

* मानाप्तवचनम् इति प्रमाणान्य् अभिधीयन्ते । तत्र प्रत्यक्षं द्विविधम् इन्द्रियप्रत्यक्षम् आत्मप्रत्यक्षं च । इन्द्रियप्रत्यक्षम् इन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धघटाहाः व्याख्यानतापमूत्रपुरीषमांसलवणप्राणायामैः सिद्धम् । आत्मप्रत्यक्षं तदुपहारकृत्स्नतपोदुःखान्तादि वचनात् सिद्धम् । यथा प्रस्थेन मितो व्रीहिः प्रस्थः । परमार्थतस् त्व् इन्द्रियार्थसम्बन्धव्यञ्जकसामग्र्यं धर्माधर्मप्रकाशदेशकालचोदनाद्यनुगृहीतं सत् प्रमाणम् उत्पद्यते । आत्मप्रत्यक्षं तु चित्तान्तःकरणसम्बन्धसामग्र्यम् । अनुमानम् अपि प्रत्यक्षपूर्वकं चित्तात्मान्तःकरणसम्बन्धसामग्र्यं च धर्माधर्मप्रकाशदेशकालचोदनादिस्मृतिहेतुकम् उत्पत्त्यनुग्रहतिरोभावकालादि । तैश् चोत्तरसृष्टिकर्तृत्वम् अनुमीयते कारणस्य । अतो नोत्सूत्रम् । तच् च द्विविधं दृष्टं सामान्यतोदृष्टं च । तत्र दृष्टम् अपि द्विविधं पूर्ववच्छेषवच् च । तत्र पूर्वदृष्टो ऽयं षडङ्गुलीयकः स एवेति पूर्ववत् । विषाणादिमात्रदर्शनाद् गौर् इति शेषवत् । सामान्यतोदृष्टम् अपीह गतिपूर्विकां देशान्तरप्राप्तिं दृष्ट्वा चास्यादित्यादिगतिप्रसिद्धिः । त्रैकाल्ये ऽप्य् अर्थाधिगमे निमित्तं प्रमाणम् । आगमो नाम आ महेश्वराद् गुरुपारम्पर्यागतं शास्त्रम् । आगमो ऽलौकिकादिव्यवहारहेतुर् आचक्षितः स्मृतः । रुद्रः प्रोवाच वचनात् सिद्धिः । एष्व् एवोपमानार्थापत्तिसम्भवाभावैतिह्यप्रतिभादीनां व्याख्यायमानानाम् अन्तर्भावः । एवम् एतानि त्रीणि प्रमाणानि । प्रमापयिता भगवांश् चोदकः । प्रमाता पुरुषः । प्रमेयाः कार्यकारणादयः पञ्च पदार्थाः । प्रमितिः संवित् । संवित् संचिन्तनं सम्बोधो विद्याभिव्यक्तिर् इत्य् अर्थः । उद्देशनिर्देशाधिगमाच् च विर् विस्तरे भवति । विभागो नाम पदपदार्थसूत्रप्रकरणाध्यायाद्यसंकरः । विशेषो

* mānāptavacanam iti pramāṇāny abhidhīyante / tatra pratyakṣaṃ dvividham indriyapratyakṣam ātmapratyakṣaṃ ca / indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham / ātmapratyakṣaṃ tadupahārakṛtsnatapoduḥkhāntādi vacanāt siddham / yathā prasthena mito vrīhiḥ prasthaḥ / paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ sat pramāṇam utpadyate / ātmapratyakṣaṃ tu cittāntaḥkaraṇasambandhasāmagryam / anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi / taiś cottarasṛṣṭikartṛtvam anumīyate kāraṇasya / ato notsūtram / tac ca dvividhaṃ dṛṣṭaṃ sāmānyatodṛṣṭaṃ ca / tatra dṛṣṭam api dvividhaṃ pūrvavaccheṣavac ca / tatra pūrvadṛṣṭo 'yaṃ ṣaḍaṅgulīyakaḥ sa eveti pūrvavat / viṣāṇādimātradarśanād gaur iti śeṣavat / sāmānyatodṛṣṭam apīha gatipūrvikāṃ deśāntaraprāptiṃ dṛṣṭvā cāsyādityādigatiprasiddhiḥ / traikālye 'py arthādhigame nimittaṃ pramāṇam / āgamo nāma ā maheśvarād gurupāramparyāgataṃ śāstram / āgamo 'laukikādivyavahārahetur ācakṣitaḥ smṛtaḥ / rudraḥ provāca vacanāt siddhiḥ / eṣv evopamānārthāpattisambhavābhāvaitihyapratibhādīnāṃ vyākhyāyamānānām antarbhāvaḥ / evam etāni trīṇi pramāṇāni / pramāpayitā bhagavāṃś codakaḥ / pramātā puruṣaḥ / prameyāḥ kāryakāraṇādayaḥ pañca padārthāḥ / pramitiḥ saṃvit / saṃvit saṃcintanaṃ sambodho vidyābhivyaktir ity arthaḥ / uddeśanirdeśādhigamāc ca vir vistare bhavati / vibhāgo nāma padapadārthasūtraprakaraṇādhyāyādyasaṃkaraḥ / viśeṣo

Sanskrit only: no published translation is held for this verse.

* नाम साध्यसाधनव्यतिरेकः । आङ् इति व्याख्यामर्यादायां भवति । पदात् पदं सूत्रात् सूत्रं प्रकरणात् प्रकरणम् अध्यायाद् अध्यायम् आ बोधाद् आ परिसमाप्तेर् इति मर्यादावस्थस्यैव च वक्ष्यामः । ख्या प्रकथने । प्रतीताप्रतीताभिः संज्ञाभिः वेदादिविहिताभिव्यतिरेकेण च व्याख्यास्यामः । स्या इत्य् एष्ये काले । यावद् अयम् आचार्यो गृहस्थादिभ्यो ऽभ्यागतं पूर्वम् अतःशब्दात् परीक्षितं ब्राह्मणं व्रतोपवासाद्यं महादेवस्य दक्षिणस्यां मूर्तै सद्योजातादिसंस्कृतेन भस्मना संस्करोति उत्पत्तिलिङ्गव्यावृत्तिं कृत्वा मन्त्रश्रावणं च करोति तावद् एष्यः कालः क्रियते । म इति प्रतिज्ञायां भवति । उत्थानादिगणे सम्यग्व्वावस्थितस्य व्याख्येयव्याख्यानयोर् भगवान् एव क्रमशो वक्ता । स्थूलोपायपूर्वकत्वात् सूक्ष्मविधेयाधिगमस्य पूर्वाश्रमनियमप्रतिषेधार्थम् अत्याश्रमयमनियमप्रसिद्ध्यर्थं च विधिः प्रथमं व्याख्यायते । इत्य् अत्रायं पदार्थोपन्यासः परिसमाप्त इति

* nāma sādhyasādhanavyatirekaḥ / āṅ iti vyākhyāmaryādāyāṃ bhavati / padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ / khyā prakathane / pratītāpratītābhiḥ saṃjñābhiḥ vedādivihitābhivyatirekeṇa ca vyākhyāsyāmaḥ / syā ity eṣye kāle / yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate / ma iti pratijñāyāṃ bhavati / utthānādigaṇe samyagvvāvasthitasya vyākhyeyavyākhyānayor bhagavān eva kramaśo vaktā / sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate / ity atrāyaṃ padārthopanyāsaḥ parisamāpta iti

Sanskrit only: no published translation is held for this verse.

* अत्राह प्रतिपन्नांशो यथाविधि प्रथमं व्याख्यायते । इदम् इदानीं चिन्त्यम् । अथास्य कश् चादिः किं मध्यं को ऽन्तः कत्यङ्गो वा विधिर् इति । तद् उच्यते भस्मनाद्यो निन्दामध्यो मूढान्तश् च विधिः । स च त्र्यङ्गो दानयजनतपोङ्ग इति । तत् कथम् अवगम्यते यस्माद् इदम् आरभ्यते

* atrāha pratipannāṃśo yathāvidhi prathamaṃ vyākhyāyate / idam idānīṃ cintyam / athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti / tad ucyate bhasmanādyo nindāmadhyo mūḍhāntaś ca vidhiḥ / sa ca tryaṅgo dānayajanatapoṅga iti / tat katham avagamyate yasmād idam ārabhyate

Sanskrit only: no published translation is held for this verse.