तथा च केवलं सेवका इत्थम्भूता यावत् समस्तम् अप्य् एतज् जगत् परस्परं भक्षणार्थं सामादिभिर् उपायैस् तिष्ठति । तद् यथा- देशानाम् उपरि क्ष्माभृद् आतुराणां चिकित्सकाः । वणिजो ग्राहकाणां च मूर्खाणाम् अपि पण्डिताः
tathā ca kevalaṃ sevakā itthambhūtā yāvat samastam apy etaj jagat parasparaṃ bhakṣaṇārthaṃ sāmādibhir upāyais tiṣṭhati | tad yathā- deśānām upari kṣmābhṛd āturāṇāṃ cikitsakāḥ | vaṇijo grāhakāṇāṃ ca mūrkhāṇām api paṇḍitāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.