अथ चित्रं ग्रीवं सपरिवारं पाश-बद्धम् आलोक्य हिरण्यकः स-विषादम् इदम् आह-भोः, किम् एतत् ? स आह-भोः, जानन्न् अपि किं पृच्छसि ? उक्तं च यतः- यस्माच् च येन च यदा च यथा च यच् च यावच् च यत्र च शुभाशुभम् आत्म-कर्म । तस्माच् च तेन च तदा च तथा च तच् च तावच् च तत्र च कृतान्त-वशाद् उपैति
atha citraṃ grīvaṃ saparivāraṃ pāśa-baddham ālokya hiraṇyakaḥ sa-viṣādam idam āha-bhoḥ, kim etat ? sa āha-bhoḥ, jānann api kiṃ pṛcchasi ? uktaṃ ca yataḥ- yasmāc ca yena ca yadā ca yathā ca yac ca yāvac ca yatra ca śubhāśubham ātma-karma | tasmāc ca tena ca tadā ca tathā ca tac ca tāvac ca tatra ca kṛtānta-vaśād upaiti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.