वायस आह-भोः ! द्विविधस्य वैरस्य लक्षणं श्रोतुम् इच्छामि । तत् कथ्यताम् । हिरण्यक आह-भोः ! कारणेन निर्वृतं कृत्रिमम् । तत्-तद्-अर्होपकार-करणाद् गच्छति । स्वाभाविकं पुनः कथम् अपि न गच्छति । तद् यथा नकुल-सर्पाणां, शष्पभुङ्-नखायुधानां, जल-वह्न्योः, देव-दैत्यानां, सारमेय-मार्जराणां, ईश्वर-दरिद्राणां, सपत्नीनां, सिंह-गजानां, लुब्धक-हरिणानां, श्रोत्रिय-भ्रष्ट-क्रियाणां, मूर्क-पण्डितानां, पतिव्रता-कुलटानां, सज्जन-दुर्जनानाम् । न कश्चित् केनापि व्यापादितः, तथापि प्राणान् सन्तापयन्ति । वायस आह-भोः ! अकारणम् एतत् । श्रूयतां मे वचनम्- कारणान् मित्रताम् एति कारणाद् याति शत्रुताम् । तस्मान् मित्रत्वम् एवात्र योज्यं वैरं न धीमता
vāyasa āha-bhoḥ ! dvividhasya vairasya lakṣaṇaṃ śrotum icchāmi | tat kathyatām | hiraṇyaka āha-bhoḥ ! kāraṇena nirvṛtaṃ kṛtrimam | tat-tad-arhopakāra-karaṇād gacchati | svābhāvikaṃ punaḥ katham api na gacchati | tad yathā nakula-sarpāṇāṃ, śaṣpabhuṅ-nakhāyudhānāṃ, jala-vahnyoḥ, deva-daityānāṃ, sārameya-mārjarāṇāṃ, īśvara-daridrāṇāṃ, sapatnīnāṃ, siṃha-gajānāṃ, lubdhaka-hariṇānāṃ, śrotriya-bhraṣṭa-kriyāṇāṃ, mūrka-paṇḍitānāṃ, pativratā-kulaṭānāṃ, sajjana-durjanānām | na kaścit kenāpi vyāpāditaḥ, tathāpi prāṇān santāpayanti | vāyasa āha-bhoḥ ! akāraṇam etat | śrūyatāṃ me vacanam- kāraṇān mitratām eti kāraṇād yāti śatrutām | tasmān mitratvam evātra yojyaṃ vairaṃ na dhīmatā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.