तच् छ्रुत्वा दुर्जन-कोपितेन त्वत्-पक्ष-पातिनं माम् आशङ्कमानेनेमां दशां नीतः । तत् तव पादौ साम्प्रतं मे शरणं । किं बहुना विज्ञप्तेन ? यावद् अहं प्रचलितुं शक्नोमि तावत् त्वां तस्यावासं नीत्वा सर्व-वायस-क्षयं विधास्यामि इति । अथारिमर्दनस् तद् आकर्ण्य पितृ-पितामह-क्रमागत-मन्त्रिभिः सार्धं मन्त्रयांचक्रे । तस्य च पञ्च मन्त्रिणः । तद् यथा-रक्ताक्षः, क्रूराक्षः, दीप्ताक्षः, वक्रनासः, प्राकारकर्णश् चेति । तत्रादौ रक्ताक्षम् अपृच्छत्-भद्र ! एष तावत् तस्य रिपोर् मन्त्री मम हस्त-गतः । तत् किं क्रियताम् ? इति । रक्ताक्ष आह-देव ! किम् अत्र चिन्त्यते ? अविचारितम् अयं हन्तव्यः, यतः- हीनः शत्रुर् निहन्तव्यो यावन् न बलवान् भवेत् । प्राप्त-स्व-पौरुष-बलः पश्चाद् भवति दुर्जयः
tac chrutvā durjana-kopitena tvat-pakṣa-pātinaṃ mām āśaṅkamānenemāṃ daśāṃ nītaḥ | tat tava pādau sāmprataṃ me śaraṇaṃ | kiṃ bahunā vijñaptena ? yāvad ahaṃ pracalituṃ śaknomi tāvat tvāṃ tasyāvāsaṃ nītvā sarva-vāyasa-kṣayaṃ vidhāsyāmi iti | athārimardanas tad ākarṇya pitṛ-pitāmaha-kramāgata-mantribhiḥ sārdhaṃ mantrayāṃcakre | tasya ca pañca mantriṇaḥ | tad yathā-raktākṣaḥ, krūrākṣaḥ, dīptākṣaḥ, vakranāsaḥ, prākārakarṇaś ceti | tatrādau raktākṣam apṛcchat-bhadra ! eṣa tāvat tasya ripor mantrī mama hasta-gataḥ | tat kiṃ kriyatām ? iti | raktākṣa āha-deva ! kim atra cintyate ? avicāritam ayaṃ hantavyaḥ, yataḥ- hīnaḥ śatrur nihantavyo yāvan na balavān bhavet | prāpta-sva-pauruṣa-balaḥ paścād bhavati durjayaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.