ततस् तद्-वचो ऽनादृत्य सर्वे ते स्थिरजीविनम् उत्क्षिप्य स्व-दुर्गम् आनेतुम् आरब्धाः । अथानीयमानः स्थिरजीव्य् आह-देव ! अद्याकिञ्चित्करेणैतद् अवस्थेन किं मयोपसङ्गृहीतेन ? यत् कारणम् इच्छामि दीप्तं वह्निम् अनुप्रवेष्टुम् । तद् अर्हसि माम् अग्नि-प्रदानेन समुद्धर्तुम् । अथ रक्ताक्षस्यान्तर्गत-भावं ज्ञात्वाह-किम्-अर्थम् अग्नि-पतनम् इच्छसि ? सो ऽब्रवीत्-अहं तावद् युष्मद्-अर्थम् इमाम् आपदं मेघवर्णेन प्रापितः । तद् इच्छामि तेषां वैर-यातनार्थम् उलूकत्वम् इति । तच् च श्रुत्वा राजनीति-कुशलो रक्ताक्षः प्राह-भद्र ! कुटिलस् त्वं कृतक-वचन-चतुरश् च । तावद् उलूक-योनि-गतो ऽपि स्वकीयाम् एव वायस-योनिं बहु मन्यसे । श्रूयते चैतद् आख्यानकम् । सूर्यं भर्तारम् उत्सृज्य पर्जन्यं मारुतं गिरिम् । स्व-जातिं मूषिका प्राप्ता स्वजातिर् दुरतिक्रमा
tatas tad-vaco 'nādṛtya sarve te sthirajīvinam utkṣipya sva-durgam ānetum ārabdhāḥ | athānīyamānaḥ sthirajīvy āha-deva ! adyākiñcitkareṇaitad avasthena kiṃ mayopasaṅgṛhītena ? yat kāraṇam icchāmi dīptaṃ vahnim anupraveṣṭum | tad arhasi mām agni-pradānena samuddhartum | atha raktākṣasyāntargata-bhāvaṃ jñātvāha-kim-artham agni-patanam icchasi ? so 'bravīt-ahaṃ tāvad yuṣmad-artham imām āpadaṃ meghavarṇena prāpitaḥ | tad icchāmi teṣāṃ vaira-yātanārtham ulūkatvam iti | tac ca śrutvā rājanīti-kuśalo raktākṣaḥ prāha-bhadra ! kuṭilas tvaṃ kṛtaka-vacana-caturaś ca | tāvad ulūka-yoni-gato 'pi svakīyām eva vāyasa-yoniṃ bahu manyase | śrūyate caitad ākhyānakam | sūryaṃ bhartāram utsṛjya parjanyaṃ mārutaṃ girim | sva-jātiṃ mūṣikā prāptā svajātir duratikramā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.