सा प्राह-को दोषो ऽत्र विषये ? एवं क्रियताम् । अथ मुनिना रविर् आहूतः । वेद-मन्त्रामन्त्रण-प्रभावात् तत्-क्षणाद् एवाभ्युपगम्यादित्यः प्रोवाच-भगवन् ! वद द्रुतं किम्-अर्थम् आहूतः ? स आह-एषा मदीया कन्यका तिष्ठति । यद्य् एषा त्वां वृणोति तर्ह्य् उद्वहस्व ताम् इति । एवम् उक्त्वा भगवांस् तस्या दर्शितः । प्रोवाच-पुत्रि ! किं तव रोचत एष भगवांस् त्रैलोक्य-दीपः ? सा प्राह-तात ! अतिदहनात्मको ऽयम् । नाहम् एनम् अभिलषामि । अस्माद् अपि य उत्कृष्टतरः स आहूयताम् । अथ तस्यास् तद्-वचनम् आकर्ण्य भास्वरो ऽपि तां मूषिकां विदित्वा निःस्पृहस् तम् उवाच-भगवन् ! अस्ति ममाप्य् अधिको मेघो येनाच्छादितस्य मे नामाइ न ज्ञायते ? अथ मुनिना मेघम् अप्य् आहूय कन्याभिहिता-एष ते रोचते ? सा प्राह-कृष्ण-वर्णो ऽयं जडात्मा च । तद् अस्माद् अन्यस्य कस्यचित् प्रधानस्य मां प्रयच्छ । अथ मुनिना मेघो ऽपि पृष्टः-भोः ! त्वत्तो ऽप्य् अधिकः को ऽप्य् अस्ति ? स आह-मत्तो ऽप्य् अधिको ऽस्ति वायुः । वायुना हतो ऽहं सहस्रधा यामि । तच् छ्रुत्वा मुनिना वायुर् आहूतः, आह च-पुत्रिके किम् एष वायुस् ते विवाहाय उत्तमः प्रतिभाति ? सा आह-प्रबलो ऽप्य् अयं चञ्चलः । तद् अभ्यधिकः कश्चिद् आहूयताम् । मुनिर् आह-भो वायो ! त्वत्तो ऽप्य् अधिको ऽस्ति कश्चित् ? स आह-मत्तो ऽप्य् अधिको ऽस्ति पर्वतो येन संस्तभ्य बलवान् अप्य् अहं ध्रिये । अथ मुनिः पर्वतम् आहूय कन्याया अदर्शयत्-पुत्रिके ! त्वाम् अस्मै प्रयच्छामि ? सा आह-तात ! कठिनात्मको ऽयं स्तब्धश् च । तद् अन्यस्मै देहि माम् । अथ स मुनिना पृष्टः, यद्-भोः पर्वत-राज ! त्वत्तो ऽप्य् अधिको ऽस्ति कश्चित् ? स आह-सन्ति मत्तो ऽप्य् अधिका मूषिकाः, ये मद्-देहं बलात् सर्वतो भेदयन्ति । तद् आकर्ण्य मुनिर् मूषकम् आहूय तस्या अदर्शयत्-पुत्रिके ! एष ते प्रतिभाति मूषक-राजो येन यथोचितम् अनुष्ठीयते । सापि तं दृष्ट्वा स्व-जातीय एष इति मन्यमाना पुलकोद्भूषित-शरीरा प्रोवाच-तात ! मां मूषिकां कृत्वास्मै प्रयच्छ येन स्वजाति-विहितं गृह-धर्मम् अनुतिष्ठामि । तच् छ्रुत्वा तेन स्त्री-धर्म-विचक्षणेन तां मूषिकां कृत्वा मूषकाय प्रदत्ता । अतो ऽहं ब्रवीमि-सूर्यं भर्तारम् उत्सृज्य इत्यादि । अथ रक्ताक्ष-वचनम् अनादृत्य तैः स्व-वंश-विनाशाय स स्व-दुर्गम् उपनीतः । नीयमानश् चान्तर्-लीनम् अवहस्य स्थिरजीव्य् अचिन्तयत्- हन्यताम् इति येनोक्तं स्वामिनो हित-वादिना । स एवैको ऽत्र सर्वेषां नीति-शास्त्रार्थ-तत्त्व-वित्
sā prāha-ko doṣo 'tra viṣaye ? evaṃ kriyatām | atha muninā ravir āhūtaḥ | veda-mantrāmantraṇa-prabhāvāt tat-kṣaṇād evābhyupagamyādityaḥ provāca-bhagavan ! vada drutaṃ kim-artham āhūtaḥ ? sa āha-eṣā madīyā kanyakā tiṣṭhati | yady eṣā tvāṃ vṛṇoti tarhy udvahasva tām iti | evam uktvā bhagavāṃs tasyā darśitaḥ | provāca-putri ! kiṃ tava rocata eṣa bhagavāṃs trailokya-dīpaḥ ? sā prāha-tāta ! atidahanātmako 'yam | nāham enam abhilaṣāmi | asmād api ya utkṛṣṭataraḥ sa āhūyatām | atha tasyās tad-vacanam ākarṇya bhāsvaro 'pi tāṃ mūṣikāṃ viditvā niḥspṛhas tam uvāca-bhagavan ! asti mamāpy adhiko megho yenācchāditasya me nāmāi na jñāyate ? atha muninā megham apy āhūya kanyābhihitā-eṣa te rocate ? sā prāha-kṛṣṇa-varṇo 'yaṃ jaḍātmā ca | tad asmād anyasya kasyacit pradhānasya māṃ prayaccha | atha muninā megho 'pi pṛṣṭaḥ-bhoḥ ! tvatto 'py adhikaḥ ko 'py asti ? sa āha-matto 'py adhiko 'sti vāyuḥ | vāyunā hato 'haṃ sahasradhā yāmi | tac chrutvā muninā vāyur āhūtaḥ, āha ca-putrike kim eṣa vāyus te vivāhāya uttamaḥ pratibhāti ? sā āha-prabalo 'py ayaṃ cañcalaḥ | tad abhyadhikaḥ kaścid āhūyatām | munir āha-bho vāyo ! tvatto 'py adhiko 'sti kaścit ? sa āha-matto 'py adhiko 'sti parvato yena saṃstabhya balavān apy ahaṃ dhriye | atha muniḥ parvatam āhūya kanyāyā adarśayat-putrike ! tvām asmai prayacchāmi ? sā āha-tāta ! kaṭhinātmako 'yaṃ stabdhaś ca | tad anyasmai dehi mām | atha sa muninā pṛṣṭaḥ, yad-bhoḥ parvata-rāja ! tvatto 'py adhiko 'sti kaścit ? sa āha-santi matto 'py adhikā mūṣikāḥ, ye mad-dehaṃ balāt sarvato bhedayanti | tad ākarṇya munir mūṣakam āhūya tasyā adarśayat-putrike ! eṣa te pratibhāti mūṣaka-rājo yena yathocitam anuṣṭhīyate | sāpi taṃ dṛṣṭvā sva-jātīya eṣa iti manyamānā pulakodbhūṣita-śarīrā provāca-tāta ! māṃ mūṣikāṃ kṛtvāsmai prayaccha yena svajāti-vihitaṃ gṛha-dharmam anutiṣṭhāmi | tac chrutvā tena strī-dharma-vicakṣaṇena tāṃ mūṣikāṃ kṛtvā mūṣakāya pradattā | ato 'haṃ bravīmi-sūryaṃ bhartāram utsṛjya ityādi | atha raktākṣa-vacanam anādṛtya taiḥ sva-vaṃśa-vināśāya sa sva-durgam upanītaḥ | nīyamānaś cāntar-līnam avahasya sthirajīvy acintayat- hanyatām iti yenoktaṃ svāmino hita-vādinā | sa evaiko 'tra sarveṣāṃ nīti-śāstrārtha-tattva-vit
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.