मेघवर्ण आह-तात ! असि-धारा-व्रतम् इदं मन्ये यद् अरिणा सह संवासः । सो ऽब्रवीत्-देव ! एवम् एतत् । परं न तादृङ्-मूर्ख-समागमः क्वापि मया दृष्टः । न च महाप्रज्ञम् अनेक-शास्त्रेष्व् अप्रतिम-बुद्धिं रक्ताक्षं विना धीमान् । यत्-कारणं तेन मदीयं यथावस्थितं चित्तं ज्ञातम् । ये पुनर् अन्ये मन्त्रिणस् ते महा-मूर्खा मन्त्रि-मात्र-व्यपदेशोपजीविनो ऽतत्त्व-कुशला, यैर् इदम् अपि न ज्ञातम् । यतः- अरितो ऽभ्यागतो भृत्यो दुष्टस् तत्-सङ्ग-तत्-परः । अपसर्प-सधर्मत्वान् नित्योद्वेगी च दूषितः
meghavarṇa āha-tāta ! asi-dhārā-vratam idaṃ manye yad ariṇā saha saṃvāsaḥ | so 'bravīt-deva ! evam etat | paraṃ na tādṛṅ-mūrkha-samāgamaḥ kvāpi mayā dṛṣṭaḥ | na ca mahāprajñam aneka-śāstreṣv apratima-buddhiṃ raktākṣaṃ vinā dhīmān | yat-kāraṇaṃ tena madīyaṃ yathāvasthitaṃ cittaṃ jñātam | ye punar anye mantriṇas te mahā-mūrkhā mantri-mātra-vyapadeśopajīvino 'tattva-kuśalā, yair idam api na jñātam | yataḥ- arito 'bhyāgato bhṛtyo duṣṭas tat-saṅga-tat-paraḥ | apasarpa-sadharmatvān nityodvegī ca dūṣitaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.