कौलिक आह-अस्त्य् एतत् तथापि गृहिणीं पृच्छामि । स आह-भद्र ! शास्त्र-विरुद्धम् एतत् यत् स्त्रिया सह मन्त्रः । यतस् ताः स्वल्प-मतयो भवन्ति । उक्तं च- भोजनाच्छादने दद्याद् ऋतु-काले च सङ्गमम् । भूषणाद्यं च नारीणां न ताभिर् मन्त्रयेत् सुधीः
kaulika āha-asty etat tathāpi gṛhiṇīṃ pṛcchāmi | sa āha-bhadra ! śāstra-viruddham etat yat striyā saha mantraḥ | yatas tāḥ svalpa-matayo bhavanti | uktaṃ ca- bhojanācchādane dadyād ṛtu-kāle ca saṅgamam | bhūṣaṇādyaṃ ca nārīṇāṃ na tābhir mantrayet sudhīḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.