क्अ इ,१।१-५ रो इ,१-४ अथ शब्दानुशासनम् । अथ इति अयम् शब्दः अधिकारार्थः प्रयुज्यते । शब्दानुशासनम् शास्त्रम् अधिकृतम् वेदितव्यम् । केषाम् शब्दानाम् । लौकिकानाम् वैदिकानाम् च । तत्र लौकिकाः तावत् : गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति । वैदिकाः खलु अपि : शम् नः देवीः अभिष्टये । इषे त्वा ऊर्जे त्वा । अग्निम् ईऌए पुरोहितम् । अग्ने अयाहि वीतये इति ।
KA I,1.1-5 Ro I,1-4 atha śabdānuśāsanam . atha iti ayam śabdaḥ adhikārārthaḥ prayujyate . śabdānuśāsanam śāstram adhikṛtam veditavyam . keṣām śabdānām . laukikānām vaidikānām ca . tatra laukikāḥ tāvat : gauḥ aśvaḥ puruṣaḥ hastī śakuniḥ mṛgaḥ brāhmaṇaḥ iti . vaidikāḥ khalu api : śam naḥ devīḥ abhiṣṭaye . iṣe tvā ūrje tvā . agnim īḷe purohitam . agne ayāhi vītaye iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.