क्अ इ,१३।१-१४।२२ रो इ,४७-५३ अथ किमर्थः वर्णानाम् उपदेशः । वृत्तिसमवायार्थः उपदेशः । वृत्तिसमवायार्थः वर्णानाम् उपदेशः कर्तव्यः । किम् इदम् वृत्तिसमवयार्थः इति । वृत्तये समवायः वृत्तिसमवायः , वृत्त्यर्थः वा समवायः वृत्तिसमवायः , वृत्तिप्रयोजनः वा वृत्तिसमवयः । का पुनः वृत्तिः । शास्त्रप्रवृत्तिः । अथ कः समवयः । वर्णानाम् आनुपूर्व्येण सन्निवेशः । अथ कः उपदेशः । उच्चारणम् । कुतः एतत् । दिशिः उच्चारणक्रियः । उच्चार्य हि वर्णान् आह : उपदिष्टाः इमे वर्णाः इति । अनुबन्धकरणार्थः च । अनुबन्धकरणार्थः च वर्णानाम् उपदेशः कर्तव्यः । अनुबन्धान् आसङ्क्ष्यामि इति । न हि अनुपदिश्य वर्णान् अनुबन्धाः शक्याः आसङ्क्तुम् । सः एषः वर्णानाम् उपदेशः वृत्तिसमवायार्थः च अनुबन्धकरणार्थः च । वृत्तिसमवायः च अनुबन्धकरणार्थः च प्रत्याहारार्थम् । प्रत्याहारः वृत्त्यर्थः । इष्टबुद्ध्यर्थः च । इष्टबुद्ध्यर्थः च वर्णानाम् उपदेशः । इष्टान् वर्णान् भोत्स्ये इति । इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः । इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः कर्तव्यः । एवङ्गुणाः अपि हि वर्णाः इष्यन्ते । आकृत्युपदेशात् सिद्धम् । आकृत्युपदेशात् सिद्धम् एतत् । अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति । तथा इवर्णकुलाकृतिः । तथा उवर्णकुलाकृतिः । आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः । आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः वक्तव्यः । के पुनः संवृतादयः । संवृतः कलः ध्मातः एणीकृतः अम्बूकृतः अर्धकः ग्रस्तः निरस्तः प्रगीतः उपगीतः क्ष्विण्णः रोमशः इति । अपरः आह : ग्रस्तम् निरस्तम् अविलम्बितम् निर्हतम् अम्बूकृतम् ध्मातम् अथो विकम्पितम् सन्दष्टम् एणीकृतम् अर्धकम् द्रुतम् विकीर्णम् एताः स्वरदोषभावनाः इति । अतः अन्ये व्यञ्जनदोषाः । न एषः दोषः । गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति । अस्ति अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् । किम् । समुदायानाम् साधुत्वम् यथा स्यात् इति । एवम् तर्हि अष्टादशधा भिन्नाम् निवृत्तकलादिकाम् अवर्णस्य प्रत्यापत्तिम् वक्ष्यामि । सा तर्हि वक्तव्या । लिङ्गार्था तु प्रत्यापत्तिः । लिङ्गार्थ सा तर्हि भविष्यति । तत् तर्हि वक्तव्यम् । यदि अपि एतत् उच्यते अथ वा एतर्हि अनुबन्धशतम् न उच्चार्यम् इत्सञ्ज्ञा च न वक्तव्या लोपः च न वक्तव्यः । यत् अनुबन्धैः क्रियते तत् कलादिभिः करिष्यति । सिध्यति एवम् अपाणिनीयम् तु भवति । यथान्यासम् एव अस्तु । ननु च उक्तम् आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः इति ।परिहृतम् एतत् गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति । ननु च अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् उक्तम् । किम् । समुदायानाम् साधुत्वम् यथा स्यात् इति । एवम् तर्हि उभयम् अनेन क्रियते । पाठः च एव विशेष्यते कलादयः च निवर्त्यन्ते । कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् । लभ्यम् इति आह । कथम् । द्विगताः अपि हेतवः भवन्ति । तत् यथा : आम्राः च सिक्ताः पितरः च प्रीणिताः इति । तथा वाक्यानि अपि ड्विष्ठानि भवन्ति । श्वेतः धावति , अलम्बुसानाम् याता इति । अथ वा इदम् तावत् अयम् प्रष्टव्यः । क्वे इमे संवृतादयः श्रूयेरन् इति । आगमेषु । आगमाः शुद्धाः पठ्यन्ते । विकारेषु तर्हि । विकाराः शुद्धाः पठ्यन्ते । प्रत्ययेषु तर्हि । प्रत्ययाः शुद्धाः पठ्यन्ते । धातुषु तर्हि । धातवः अपि शुद्धाः पठ्यन्ते । प्रातिपदिकेषु तर्हि । प्रातिपदिकानि अपि शुद्धानि पठ्यन्ते । यानि तर्हि अग्रहणानि प्रातिपदिकानि । एतेषाम् अपि स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः । शशः षषः इति मा भूत् । पलाशः पलाषः इति मा भूत् । मञ्चकः मञ्जकः इति मा भूत् । आगमाः च विकाराः च प्रत्ययाः सह धातुभिः उच्चार्यन्ते ततः तेषु न इमे प्राप्ताः कलादयः ।
KA I,13.1-14.22 Ro I,47-53 atha kimarthaḥ varṇānām upadeśaḥ . vṛttisamavāyārthaḥ upadeśaḥ . vṛttisamavāyārthaḥ varṇānām upadeśaḥ kartavyaḥ . kim idam vṛttisamavayārthaḥ iti . vṛttaye samavāyaḥ vṛttisamavāyaḥ , vṛttyarthaḥ vā samavāyaḥ vṛttisamavāyaḥ , vṛttiprayojanaḥ vā vṛttisamavayaḥ . kā punaḥ vṛttiḥ . śāstrapravṛttiḥ . atha kaḥ samavayaḥ . varṇānām ānupūrvyeṇa sanniveśaḥ . atha kaḥ upadeśaḥ . uccāraṇam . kutaḥ etat . diśiḥ uccāraṇakriyaḥ . uccārya hi varṇān āha : upadiṣṭāḥ ime varṇāḥ iti . anubandhakaraṇārthaḥ ca . anubandhakaraṇārthaḥ ca varṇānām upadeśaḥ kartavyaḥ . anubandhān āsaṅkṣyāmi iti . na hi anupadiśya varṇān anubandhāḥ śakyāḥ āsaṅktum . saḥ eṣaḥ varṇānām upadeśaḥ vṛttisamavāyārthaḥ ca anubandhakaraṇārthaḥ ca . vṛttisamavāyaḥ ca anubandhakaraṇārthaḥ ca pratyāhārārtham . pratyāhāraḥ vṛttyarthaḥ . iṣṭabuddhyarthaḥ ca . iṣṭabuddhyarthaḥ ca varṇānām upadeśaḥ . iṣṭān varṇān bhotsye iti . iṣṭabuddhyarthaḥ ca iti cet udāttānudāttasvaritānunāsikdīrghaplutānām api upadeśaḥ . iṣṭabuddhyarthaḥ ca iti cet udāttānudāttasvaritānunāsikdīrghaplutānām api upadeśaḥ kartavyaḥ . evaṅguṇāḥ api hi varṇāḥ iṣyante . ākṛtyupadeśāt siddham . ākṛtyupadeśāt siddham etat . avarṇākṛtiḥ upadiṣṭā sarvam avarṇakulam grahīṣyati . tathā ivarṇakulākṛtiḥ . tathā uvarṇakulākṛtiḥ . ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ . ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ vaktavyaḥ . ke punaḥ saṃvṛtādayaḥ . saṃvṛtaḥ kalaḥ dhmātaḥ eṇīkṛtaḥ ambūkṛtaḥ ardhakaḥ grastaḥ nirastaḥ pragītaḥ upagītaḥ kṣviṇṇaḥ romaśaḥ iti . aparaḥ āha : grastam nirastam avilambitam nirhatam ambūkṛtam dhmātam atho vikampitam sandaṣṭam eṇīkṛtam ardhakam drutam vikīrṇam etāḥ svaradoṣabhāvanāḥ iti . ataḥ anye vyañjanadoṣāḥ . na eṣaḥ doṣaḥ . gargādibidādipāṭhāt saṃvṛtādīnām nivṛttiḥ bhaviṣyati . asti anyat gargādibidādipāṭhe prayojanam . kim . samudāyānām sādhutvam yathā syāt iti . evam tarhi aṣṭādaśadhā bhinnām nivṛttakalādikām avarṇasya pratyāpattim vakṣyāmi . sā tarhi vaktavyā . liṅgārthā tu pratyāpattiḥ . liṅgārtha sā tarhi bhaviṣyati . tat tarhi vaktavyam . yadi api etat ucyate atha vā etarhi anubandhaśatam na uccāryam itsañjñā ca na vaktavyā lopaḥ ca na vaktavyaḥ . yat anubandhaiḥ kriyate tat kalādibhiḥ kariṣyati . sidhyati evam apāṇinīyam tu bhavati . yathānyāsam eva astu . nanu ca uktam ākṛtyupadeśāt siddham iti cet saṃvṛtādīnām pratiṣedhaḥ iti .parihṛtam etat gargādibidādipāṭhāt saṃvṛtādīnām nivṛttiḥ bhaviṣyati . nanu ca anyat gargādibidādipāṭhe prayojanam uktam . kim . samudāyānām sādhutvam yathā syāt iti . evam tarhi ubhayam anena kriyate . pāṭhaḥ ca eva viśeṣyate kalādayaḥ ca nivartyante . katham punaḥ ekena yatnena ubhayam labhyam . labhyam iti āha . katham . dvigatāḥ api hetavaḥ bhavanti . tat yathā : āmrāḥ ca siktāḥ pitaraḥ ca prīṇitāḥ iti . tathā vākyāni api ḍviṣṭhāni bhavanti . śvetaḥ dhāvati , alambusānām yātā iti . atha vā idam tāvat ayam praṣṭavyaḥ . kve ime saṃvṛtādayaḥ śrūyeran iti . āgameṣu . āgamāḥ śuddhāḥ paṭhyante . vikāreṣu tarhi . vikārāḥ śuddhāḥ paṭhyante . pratyayeṣu tarhi . pratyayāḥ śuddhāḥ paṭhyante . dhātuṣu tarhi . dhātavaḥ api śuddhāḥ paṭhyante . prātipadikeṣu tarhi . prātipadikāni api śuddhāni paṭhyante . yāni tarhi agrahaṇāni prātipadikāni . eteṣām api svaravarṇānupūrvījñānārthaḥ upadeśaḥ kartavyaḥ . śaśaḥ ṣaṣaḥ iti mā bhūt . palāśaḥ palāṣaḥ iti mā bhūt . mañcakaḥ mañjakaḥ iti mā bhūt . āgamāḥ ca vikārāḥ ca pratyayāḥ saha dhātubhiḥ uccāryante tataḥ teṣu na ime prāptāḥ kalādayaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.