क्अ इ,५।११-२२ रो इ,२३-२४ उक्तः शब्दः । स्वरूपम् अपि उक्तम् । प्रयोजनानि अपि उक्तानि । शब्दानुशासनम् इदानीम् कर्तव्यम् । तत् कथम् कर्तव्यम् । किम् शब्दोपदेशः कर्तव्यः आहोस्वित् अपशब्दोपदेशः आहोस्वित् उभयोपदेशः इति । अन्यतरोपदेशेन कृतम् स्यात् । तत् यथा भक्ष्यनियमेन अभक्ष्यप्रतिषेधो गम्यते । पञ्च पञ्चनखाः भक्ष्याः इति उक्ते गम्यते एतत् : अतः अन्ये अभक्ष्याः इति । अभक्ष्यप्रतिषेधेन वा भक्ष्यनियमः । तत् यथा अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते गम्यते एतत् : आरण्यः भक्ष्यः इति । एवम् इह अपि : यदि तावत् शब्दोपदेशः क्रियते गौः इति एतस्मिन् उपदिष्टे गम्यते एतत् : गाव्यादयः अपशब्दाः इति । अथ अपशब्दोपदेशः क्रियते गाव्यादिषु उपदिष्टेषु गम्यते एतत् : गौः इति एषः शब्दः इति । किम् पुनः अत्र ज्यायः । लघुत्वात् शब्दोपदेशः । लघीयान् शब्दोपदेशः गरीयान् अपशब्दोपदेशः । एकैकस्य शब्दस्य बहवः अपभ्रंशाः । तत् यथा । गौः इति अस्य शब्दस्य गावीगोणीगोतागोपोतलिकादयः अपभ्रंशाः । इष्टान्वाख्यानम् खलु अपि भवति ।
KA I,5.11-22 Ro I,23-24 uktaḥ śabdaḥ . svarūpam api uktam . prayojanāni api uktāni . śabdānuśāsanam idānīm kartavyam . tat katham kartavyam . kim śabdopadeśaḥ kartavyaḥ āhosvit apaśabdopadeśaḥ āhosvit ubhayopadeśaḥ iti . anyataropadeśena kṛtam syāt . tat yathā bhakṣyaniyamena abhakṣyapratiṣedho gamyate . pañca pañcanakhāḥ bhakṣyāḥ iti ukte gamyate etat : ataḥ anye abhakṣyāḥ iti . abhakṣyapratiṣedhena vā bhakṣyaniyamaḥ . tat yathā abhakṣyaḥ grāmyakukkuṭaḥ abhakṣyaḥ grāmyaśūkaraḥ iti ukte gamyate etat : āraṇyaḥ bhakṣyaḥ iti . evam iha api : yadi tāvat śabdopadeśaḥ kriyate gauḥ iti etasmin upadiṣṭe gamyate etat : gāvyādayaḥ apaśabdāḥ iti . atha apaśabdopadeśaḥ kriyate gāvyādiṣu upadiṣṭeṣu gamyate etat : gauḥ iti eṣaḥ śabdaḥ iti . kim punaḥ atra jyāyaḥ . laghutvāt śabdopadeśaḥ . laghīyān śabdopadeśaḥ garīyān apaśabdopadeśaḥ . ekaikasya śabdasya bahavaḥ apabhraṃśāḥ . tat yathā . gauḥ iti asya śabdasya gāvīgoṇīgotāgopotalikādayaḥ apabhraṃśāḥ . iṣṭānvākhyānam khalu api bhavati .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.