अथ खलु तावद् एवाप्रमेयासंख्येया क्षान्तिप्रतिलब्धा बोधिसत्त्वा महासत्त्वा एककण्ठेनैवम् आहुः । निषीदन्तु बुद्धा भगवन्त एषु पद्मासनेषु देशयन्त्व् अद्य महाकारुणिका उत्तरमहामैत्रीक्षान्तिपरिभावितां वैशारद्यनिष्यन्दप्रणीतां सर्वधर्मसंग्रहणीं भय ॥॥॥॥॥॥॥। करणीन् मारध्वजप्रपातनीं धर्मध्वजोच्छ्रेपणीं सर्वक्लेशावमर्दनीं (कुरुमिय १२४) सर्वशत्रुनिग्रहणीं सर्वसंशयच्छेदनीं ॥॥॥॥॥॥॥। सर्वरक्षाम् अनुत्तरां सर्वबोधिसत्त्वानां सर्वधर्मस्मृतिमतिगतिधृत्यसंप्रमोषसर्वचर्योपायकौशल्यज्ञानदर्शनीं सर्वसुखसंपन्नायतनाधिष्ठानसमाधिधारणीं क्षान्त्यवतारालोकज्ञानकौशल्यावतारणीं यावत् सप्तत्रिंशद्बोधिपक्ष्यधर्महृदयधारणीं ॥॥॥॥॥॥॥॥ यै यशःसुखतायै फाषविहारतायै प्रतिभानस्मृतिविवर्धनतायै श्रुताधारणासंप्रमोषतायै ॥॥॥॥॥॥॥॥ शिक्षाधारणतायै स्मृतिभाजनतायै चर्याभिनिष्पत्तये बोधिसंप्राप्तये । बुद्धा भगवंत इहास्माकम् एतर्हीमां धारणीं देशयन्तु धर्मनेत्र्यनुग्रहचिरस्थितिकतायै रत्नत्रयवंशस्य चाविप्रणाशाय सकलानुत्तरबोधिमार्गसंदर्शनाय भूतकोट्याकाशतथतासंभेदतायै स ॥॥॥॥॥॥॥॥॥ ल्पसत्त्वजीवपोषपुद्गलासंभेदतायै अजात्यनुत्पादानिरोधसर्वधर्मसमतालक्षणाभावभूतकोट्यसंभेदतायै पृथिव्यप्तेजोवाव्याकाशविज्ञानधात्वसंभेदतायै । सर्वे बुद्धा भगवन्त इहास्माकं सर्वधर्मनयमण्डलप्रणीतान् धारणीं भाषन्तां यद् इह सहश्रवणेनाप्रमेयाणि (कुरुमिय १२५) सत्त्वकोटीनयुतशतसहस्राणि त्रिरत्नेषु साक्षिणो भवेयुः । परस्परं च सत्त्वाः कल्याणमित्रहितकारिणो भवेयुः । अप्रमेयासंख्येयाश् च सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयेयुर् अवैवर्तिकाश् च भवेयुर् व्याकरणानि च प्रतिलभेरन् । सर्वे च ते बुद्धा भगवन्तो धर्मं देशनायै समधिष्ठास् तूष्णींभूताः ॥॥॥॥॥॥ तेषु पद्मकेसरेषु । तादृशं च बुद्धविषयप्रणिधानसमतावतारं समाधिं समापेदिरे । यथा सर्वबुद्धक्षेत्रान्तर्गतानां ॥॥॥॥॥॥॥। च बुद्धानां भगवतां सहदर्शनेनैवेह बुद्धक्षेत्रान्तर्गतानां ॥॥॥॥॥॥॥॥॥॥॥ श् चित्तचैत्तेषु प्रशेमुः । एकैकश् च सत्त्वः एवं संजानीते । ॥॥॥॥॥॥॥॥। च्। त्। मामचैकस् तथागतः सर्वचेतसा समन्वाहृत्य सर्वज्वरप्रशमनं धर्मं देश ॥॥॥॥॥॥॥॥ ॥ तेन खलु पुनः समयेन ये ऽस्मिं कृत्स्ने बुद्धक्षेत्रे ऽन्तर्गताः (कुरुमिय १२६) सर्वसत्त्वाः सर्वेन्द्रियोपस्तब्धाः प्राञ्जलयस् त एककण्ठेनैवम् आहुः । देशयन्त्व् अस्माकं बुद्धा भगवन्तो धर्मं । देशयंत्व् अस्माकं भदन्ताः सुगात धर्मं । वयं बुद्धानां भगवतां धर्मेषु प्रतिपत्त्या ॥॥॥॥॥॥॥। ॥ तेन खलु पुनः समयेन स शाक्यमुनिस् तथागतो गन्धव्यूहातिक्रान्तेन परमोत्तमविशिष्टेनोदारेण गन्धेन सर्वम् इदं बुद्धक्षेत्रं स्फुटम् अध्यतिष्ठद् अपरेषां बुद्धानां भगवतां पूजाकर्मणे । सर्वबुद्धक्षेत्रान्तर्गतांश् च सर्वसत्त्वान् नानारत्नपुष्पमाल्यविलेपनैर् नानाच्छत्रध्वजपताकालंकारविभूषणैः पूर्णहस्तान् अधिष्ठायावशिष्टानां बुद्धानां भगवतां पूजाकर्मणे । एवम् आह । समन्वाहरंतु बुद्धा भगवन्तो ये केचिद् एतर्हि दशसु दिक्ष्व् ॥॥॥॥॥ । अहं पूर्वप्रणिधानेनैवं प्रतिकृष्टे पंचकषाये लोके ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो नष्टाशयानां (कुरुमिय १२७) प्रनष्टमार्गाणाम् अविद्यान्धकारतिमिरपटलक्लेशान्धकारप्रक्षिप्तानां त्र्यपायसंप्रस्थितानाम् अकुशलसमवधानानां सर्वकुशलरहितानां सर्वविद्वत्परिवर्जितानाम् आनन्तर्यकारिणां सद्धर्मपरिक्षेपकानाम् आर्यापवादकानाम् अकृपाशयानां सत्त्वानां कारुण्यार्थं महाकृपावीर्यबलोद्योगेन शीतोष्णवातातपप्रशमनाय ॥॥॥॥ । ग्रामनगरनिगमजनपदराजधानीं पद्भ्याम् उपसंक्रमामि । सत्त्वहितार्थं चाल्परूक्षविरसपरमजुगुप्सितं प्रतिकूलम् आहारं भुनज्मि । ॥॥॥॥॥॥ कर्पासंगचीवरपांसुकूलानि प्रावृणोमि । पर्वतगिरिकन्दरवनषण्ड ॥॥॥। र्शं शय्यासनं परिभुनज्मि । उपायकौशल्यमहाकरुणावीर्यसंनाहसंनद्धो ऽहं सत्त्वेभ्यो नानाद्यां कथां कथयामि । क्षतृयेभ्यो राजैश्वर्यकथां कथयामि । ब्राह्मणेभ्यो वेदनक्षत्रकथां कथयामि । अमात्येभ्यो (कुरुमिय १२८) जनपदकर्मान्तकथां वैद्येभ्यो धात्वौषधिसाधनकथां वणिग्भ्यः क्रयविक्रयकथां कुटुंबिभ्यः कर्मान्ताभिनिवेशकथां स्त्रीभ्यो वर्णालंकारपुत्रैश्वर्यासपत्नकथां श्रमणेभ्यः क्षान्तिसौरत्यत्रिकर्माभियुक्तां कथां कथयामि । सत्त्वपरिपाकायाप्राप्तस्य प्राप्तये नियुनज्मि । अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । अमुक्तानां प्रमोचनाय नानाद्यानि दुःखान्य् उत्सहामि । सत्त्वपरिपाकाय जनपदचर्यां चरामि ॥ अथ च पुनर् इमे सत्त्वास् तत्र माम् आक्रोशंति परिभाषन्ति ॥॥॥॥॥॥ धर्मेणाभूतेनाभ्याख्यान्ति । कुहनलपनमायाशाठ्यमृषावादपारुष्यैः स्त्रीवचनैर् अभ्याख्यान्ति । पांसुभिर् माम् अवकिरंति । शस्त्रविषाग्निचक्रतोमरशरखड्गशक्तिपरश्वधशिलायुधवृष्टिभिर् मम वधाय पराक्रमंति । हस्त्याशीविषसिंहव्याघ्रवृषमहिषवृकमहानग्नांश् च मद्वधायोत्सृजन्ति । ममावासविहारकूटागारान् आशुचिना दुर्गन्धेनापूरयन्ति । मच्छ्रावकाणां चान्तर्नगरम् (कुरुमिय १२९) अनुप्रविष्टानाम् इमे अनार्याः सत्त्वा अनाचारेण नृत्यगीतेनानुविचारिनः । अनेकैः शतसहस्रोपायैर् मद्वधायोद्युक्ताः । शासनान्तर्धानाय च धर्मनेत्रीप्रदीपनिर्वाणाय धर्मध्वजप्रपातनाय धर्मनौप्रभेदाय मद्धर्मयज्ञावकिरणायोद्युक्ताः ॥ तत् खल्व् एतर्हि सर्वे बुद्धा भगवन्तः तेषां बुद्धानां भगवतां धर्मनेत्रीं व्यवलोकयन्ति । यथा तैर् बुद्धैर् भगवद्भिर् अस्मिं क्लिष्टे पंचकषाये बुद्धक्षेत्रे महासन्निपातं कृत्वा सद्धर्मनेत्रीचिरस्थित्यर्थं सर्वमारबलविषयप्रमर्दनार्थं त्रिरत्नवंशस्थित्यनुपच्छेदार्थं सत्त्वानां कुशलमूलवर्धनार्थं सर्वामित्रपरप्रवादिसहधर्मनिग्रहार्थं सत्त्वानां कलिकलहदुर्भिक्षरोगपरचक्रबन्धनविग्रहविवादाकालशीतोष्णवातवृष्टिवायुकायवाङ्मनोदोषकुदृष्टिप्रशमनार्थं सर्वदेवनागयक्षमनुष्यामनुष्यावर्जनार्थं सर्वगृहग्रामनिगमराष्ट्ररक्षणार्थं सर्वशाठ्यविषकाखोर्दमोहनदुःस्वप्नदुर्निमित्तविनाशनार्थं (कुरुमिय १३०) सर्वधान्यौषधिफलपुष्परससत्त्वोपजीव्यार्थं क्षत्रियब्राह्मणविट्छूद्रकुशलचर्यानियोजनार्थं बोधिचित्तोत्पादनार्थं पारमितावतारणार्थं बोधिसत्त्वानां महासत्त्वानाम् उपायज्ञानकौशल्यस्मृतिमतिगतिशौर्यप्रतिभानविवृद्ध्यर्थम् अभिषेकभूमिसमाश्वासावतारज्ञानपारंगमार्थं तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितो ऽधिष्ठितो ऽन्योन्यम् अनुमोदितः । ते साध्व् एवम् एवैतर्हि ये दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठंतो ध्रियन्तो यापयंत इह मम बुद्धक्षेत्रे पंचकषाये पृच्छासमागताः सन्निषण्णाः सन्निपतितास् ते सर्वे ऽस्य बुद्धक्षेत्रस्यारक्षायै इमं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्यायं भाषध्वम् अधितिष्ठतान्योन्यं भाषितम् अनुमोदध्वं सद्धर्मनेत्रीचिरस्थितये सर्वमारविषयबलप्रमर्दनार्थं यथा पूर्वोक्तं विस्तरेण यावद् अनावरणज्ञानपारंगमार्थम् अनुकंपायै ममाध्येषणाय यद् इह बुद्धक्षेत्रे सद्धर्मनेत्री चिरं तिष्ठेद् अनतिक्रमणी सर्वपरप्रवादिभिर् अविप्रलोपधर्मिणी स्यात् । त्रिरत्नवंशानुपच्छेदनार्थाय च धर्मरसः सर्वसत्त्वोपजीव्यः (कुरुमिय १३१) स्यात् । अथ ते बुद्धा भगवंत एवम् आहुः । एवम् एतद् अवश्यम् एवास्माभिर् बुद्धकार्यं करणीयम् । इह बुद्धक्षेत्रे धर्मनेत्रीम् अधिष्ठास्यामश् चिरस्थितये सर्वमारविषयबलप्रमर्दनाय यावद् अनावरणज्ञानपारंगमाय यद् इमं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्यायं भाषिष्यामः । शृण्वन्तु सर्वसत्त्वा ये केचिद् इह बुद्धक्षेत्रे ऽन्तर्गताः ॥ तद्यथा । अङ्कर अङ्गर । भङ्कर प्रभङ्कर । भयम् इह । मित्रं भसे । अखे अखमंबरे । दोमे दोमन्ते केवट्टे केयूरे । समवहने । समन्तभद्रे । धर्मे धर्मे । धर्मके । जफले । मित्रानुफले । फलवते । गणे गणबरंते । हिलि हिलि । हिला हिलके । जंभवते टकसे टकंते । टकवरान्ते । गणवहन्ते । हिरिन्ते । शिरिन्ते । विन्दुवते । गोवाहे जुरे मित्रजुरे । जुसे अग्रे । अबमे सत्य तथतां । (कुरुमिय १३२) हुलु । हिले । चन्द्रे । सम धर्मे । धर्मे । कुचुरु । मुचुरु । अचिट्ट चिलि चिलि । चिचवह । चुलु चुलु । मित्रवह कुलु कुलु । सर सर । कुटु कुटु । महासर । तुटु तुटु । महासत्य हृदय । पुष्पे सुपुष्पे धूमपरिहारे अभये रुचिरे । करक्षे । अभयम् अस्तु विवाह । तितिले । ममले । पश्वख । शिशिर लोकविनायक । वज्रे वज्रे धरे । वज्रवते । वज्रददे । चक्रवज्रे चक्रे । चवते धरे धरे । भरे भरे पूरे टरे । हुहुरे । भंगविवरे । शरीश । चिलि चुरु । मूले मण्डले । मण्डने । गगरणे । मूडके सर्वमूडके । धिधिरयनि । मखिश्वरलयनि । (कुरुमिय १३३) रिषिजनि । धरवचि चण्डालसमे सर्वसस्याधिष्ठानाच्छिद्यन्तु वाहना । ममिनि । फलरति ओजाग्रे । विचिनि । वनरह । बुबुरे गुरु गुरु मुरु मुरु । हिलि हिलि । हर हर । काकण्डवह हिहितां । आयुहन । कुण्ड ज्वाल भसे । गर्दने । आदहनि । मार्गाभिरोहणि । फलसत्ये । आरोहवति । हिलि हिलि । यथा वजय । स्वाग्र यथापरं च हृदयबाहसत्य । परिभाव । मार्गाभिरोहणे । अचल । बुद्धि । दद प्रचल पचय । पिण्डहृदय चन्द्रचरह । अचले । शोधने । प्रकृतिमार्गे इलि इलिले प्रभे सारप्रते सर्वत्र तथता सत्यानुगते । (कुरुमिय १३४) अनावरणब्रते । अलत । अंगुरे शामिनि । विब्रह्मवयो हि अहित । अवाहि । निरवयव । अचिरमार्ग । लन लघुसरे । त्रिरत्नवंशे धर्मकाय । ज्वलचन्द्रे समुद्रवति । महाद्भूतव्यय समुद्र वेगव । धारणीमुद्रेण मखिमुद्र सुरप्रतिसंविद् अमुद्र । आवर्तनि । संमोह स्कार विद्युतरसेन । क्षिति मुद्रितो सि । ये केचि प्रथिवी वाह । बह बह बह कीटकबट शैल प्रतीत्य हृदयेन मुदृता धारणी धर धर धर । दन्तिला दन्तिन्दाला । हुस्क सर्वहृदय मुद्रितो सि । जड जवट्ट जखवट । सुमति मति । महाद्भूत मुद्रिता । ये केचि षडायतननिशृता भूता इनि मिने सचने । घोषसचने । मुद्रिता चर्याधिष्ठान । वाक्पथानन्यथा महापुण्यसमुच्चयावतार महाकरुणया मुद्रिता । सर्वसम्यक्प्रतिपत् (कुरुमिय १३५) चिररात्रं ज्वलतु धर्मनेत्री सर्वे मुनिवृषभा महाकरुणासमाधिज्ञानलाभबलेन मैत्रीत्यागातिवीर्यबलेनाधिष्ठिता सर्वभूतोपचयाय स्वाहा ॥ अथ तावद् एव सर्वबुद्धक्षेत्रान्तर्गताः सर्वसत्त्वास् त्रिष्कृत्वैवम् आहुः । नमः सर्वबुद्धेभ्यः । नमो नमः सर्वबुद्धेभ्य इति । एवम् चाहुः । अहो महाश्चर्यो मुनिसन्निपातः । अहो महाश्चर्यो बोधिसत्त्वानां महासत्त्वानां महाश्रावकाणां च सन्निपातः । अहो वत महाश्चर्याद्भुताश्रुतपूर्वो ऽयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायः सर्वशास्तृशासनधर्मनेत्रीतृरत्नवंशाधिष्ठाननिर्देशो मारविषयबलविध्वंसनो मारपाशसंछेदनः सर्वशत्रुनिग्रहो धर्मध्वजोच्छ्रेपणः धर्मपक्षारक्षाकरो यावत् सकलबुद्धविषयप्रपूरणार्थम् एतर्हि सर्वबुद्धैर् भगवद्भिर् अयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितः सर्वसत्त्वहृदयमुद्रासर्वमहाभूतसंस्कारषडायतनपरिकर्म यावत् सर्वसत्त्वानाम् अनुत्तरपरिनिर्वाणप्रतिलाभाय । अस्मिं खलु पुनर् धारणीव्याकरणे भाष्यमाणे तृंशद्गंगानदिवालुकसमानां (कुरुमिय १३६) बोधिसत्त्वानां महासत्त्वानां धारणीनिर्हारसमाधिक्षान्तिप्रतिलाभो ऽभूत् ॥ तेन खलु पुनस् समयेन चन्द्रप्रभः कुमारभूतः उत्थायासनात् प्राञ्जलिर् भूत्वा समन्ततो ऽवलोक्य बुधाधिष्ठानेन स्वर्द्धिबलानुभावेन सर्वम् इदं बुद्धक्षेत्रं स्वरेणापूर्यैवम् आह । दुर्लभा जिनचन्द्राणाम् ईदृशी परिषत् पुनः । विद्वांसो दुर्लभाश् चेमे बोधिसत्त्वा महाव्रताः
atha khalu tāvad evāprameyāsaṃkhyeyā kṣāntipratilabdhā bodhisattvā mahāsattvā ekakaṇṭhenaivam āhuḥ / niṣīdantu buddhā bhagavanta eṣu padmāsaneṣu deśayantv adya mahākāruṇikā uttaramahāmaitrīkṣāntiparibhāvitāṃ vaiśāradyaniṣyandapraṇītāṃ sarvadharmasaṃgrahaṇīṃ bhaya ............... karaṇīn māradhvajaprapātanīṃ dharmadhvajocchrepaṇīṃ sarvakleśāvamardanīṃ (Kurumiya 124) sarvaśatrunigrahaṇīṃ sarvasaṃśayacchedanīṃ ............... sarvarakṣām anuttarāṃ sarvabodhisattvānāṃ sarvadharmasmṛtimatigatidhṛtyasaṃpramoṣasarvacaryopāyakauśalyajñānadarśanīṃ sarvasukhasaṃpannāyatanādhiṣṭhānasamādhidhāraṇīṃ kṣāntyavatārālokajñānakauśalyāvatāraṇīṃ yāvat saptatriṃśadbodhipakṣyadharmahṛdayadhāraṇīṃ ................ yai yaśaḥsukhatāyai phāṣavihāratāyai pratibhānasmṛtivivardhanatāyai śrutādhāraṇāsaṃpramoṣatāyai ................ śikṣādhāraṇatāyai smṛtibhājanatāyai caryābhiniṣpattaye bodhisaṃprāptaye / buddhā bhagavaṃta ihāsmākam etarhīmāṃ dhāraṇīṃ deśayantu dharmanetryanugrahacirasthitikatāyai ratnatrayavaṃśasya cāvipraṇāśāya sakalānuttarabodhimārgasaṃdarśanāya bhūtakoṭyākāśatathatāsaṃbhedatāyai sa .................. lpasattvajīvapoṣapudgalāsaṃbhedatāyai ajātyanutpādānirodhasarvadharmasamatālakṣaṇābhāvabhūtakoṭyasaṃbhedatāyai pṛthivyaptejovāvyākāśavijñānadhātvasaṃbhedatāyai / sarve buddhā bhagavanta ihāsmākaṃ sarvadharmanayamaṇḍalapraṇītān dhāraṇīṃ bhāṣantāṃ yad iha sahaśravaṇenāprameyāṇi (Kurumiya 125) sattvakoṭīnayutaśatasahasrāṇi triratneṣu sākṣiṇo bhaveyuḥ / parasparaṃ ca sattvāḥ kalyāṇamitrahitakāriṇo bhaveyuḥ / aprameyāsaṃkhyeyāś ca sattvā anuttarāyāṃ samyaksaṃbodhau cittāny utpādayeyur avaivartikāś ca bhaveyur vyākaraṇāni ca pratilabheran / sarve ca te buddhā bhagavanto dharmaṃ deśanāyai samadhiṣṭhās tūṣṇīṃbhūtāḥ ............ teṣu padmakesareṣu / tādṛśaṃ ca buddhaviṣayapraṇidhānasamatāvatāraṃ samādhiṃ samāpedire / yathā sarvabuddhakṣetrāntargatānāṃ ............... ca buddhānāṃ bhagavatāṃ sahadarśanenaiveha buddhakṣetrāntargatānāṃ ...................... ś cittacaitteṣu praśemuḥ / ekaikaś ca sattvaḥ evaṃ saṃjānīte / ................. c. t. māmacaikas tathāgataḥ sarvacetasā samanvāhṛtya sarvajvarapraśamanaṃ dharmaṃ deśa ................ // tena khalu punaḥ samayena ye 'smiṃ kṛtsne buddhakṣetre 'ntargatāḥ (Kurumiya 126) sarvasattvāḥ sarvendriyopastabdhāḥ prāñjalayas ta ekakaṇṭhenaivam āhuḥ / deśayantv asmākaṃ buddhā bhagavanto dharmaṃ / deśayaṃtv asmākaṃ bhadantāḥ sugāta dharmaṃ / vayaṃ buddhānāṃ bhagavatāṃ dharmeṣu pratipattyā ............... // tena khalu punaḥ samayena sa śākyamunis tathāgato gandhavyūhātikrāntena paramottamaviśiṣṭenodāreṇa gandhena sarvam idaṃ buddhakṣetraṃ sphuṭam adhyatiṣṭhad apareṣāṃ buddhānāṃ bhagavatāṃ pūjākarmaṇe / sarvabuddhakṣetrāntargatāṃś ca sarvasattvān nānāratnapuṣpamālyavilepanair nānācchatradhvajapatākālaṃkāravibhūṣaṇaiḥ pūrṇahastān adhiṣṭhāyāvaśiṣṭānāṃ buddhānāṃ bhagavatāṃ pūjākarmaṇe / evam āha / samanvāharaṃtu buddhā bhagavanto ye kecid etarhi daśasu dikṣv .......... / ahaṃ pūrvapraṇidhānenaivaṃ pratikṛṣṭe paṃcakaṣāye loke 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddho naṣṭāśayānāṃ (Kurumiya 127) pranaṣṭamārgāṇām avidyāndhakāratimirapaṭalakleśāndhakāraprakṣiptānāṃ tryapāyasaṃprasthitānām akuśalasamavadhānānāṃ sarvakuśalarahitānāṃ sarvavidvatparivarjitānām ānantaryakāriṇāṃ saddharmaparikṣepakānām āryāpavādakānām akṛpāśayānāṃ sattvānāṃ kāruṇyārthaṃ mahākṛpāvīryabalodyogena śītoṣṇavātātapapraśamanāya ........ / grāmanagaranigamajanapadarājadhānīṃ padbhyām upasaṃkramāmi / sattvahitārthaṃ cālparūkṣavirasaparamajugupsitaṃ pratikūlam āhāraṃ bhunajmi / ............ karpāsa.ṃgacīvarapāṃsukūlāni prāvṛṇomi / parvatagirikandaravanaṣaṇḍa ....... rśaṃ śayyāsanaṃ paribhunajmi / upāyakauśalyamahākaruṇāvīryasaṃnāhasaṃnaddho 'haṃ sattvebhyo nānādyāṃ kathāṃ kathayāmi / kṣatṛyebhyo rājaiśvaryakathāṃ kathayāmi / brāhmaṇebhyo vedanakṣatrakathāṃ kathayāmi / amātyebhyo (Kurumiya 128) janapadakarmāntakathāṃ vaidyebhyo dhātvauṣadhisādhanakathāṃ vaṇigbhyaḥ krayavikrayakathāṃ kuṭuṃbibhyaḥ karmāntābhiniveśakathāṃ strībhyo varṇālaṃkāraputraiśvaryāsapatnakathāṃ śramaṇebhyaḥ kṣāntisauratyatrikarmābhiyuktāṃ kathāṃ kathayāmi / sattvaparipākāyāprāptasya prāptaye niyunajmi / anadhigatasyādhigamāya / asākṣātkṛtasya sākṣātkriyāyai / amuktānāṃ pramocanāya nānādyāni duḥkhāny utsahāmi / sattvaparipākāya janapadacaryāṃ carāmi // atha ca punar ime sattvās tatra mām ākrośaṃti paribhāṣanti ............ dharmeṇābhūtenābhyākhyānti / kuhanalapanamāyāśāṭhyamṛṣāvādapāruṣyaiḥ strīvacanair abhyākhyānti / pāṃsubhir mām avakiraṃti / śastraviṣāgnicakratomaraśarakhaḍgaśaktiparaśvadhaśilāyudhavṛṣṭibhir mama vadhāya parākramaṃti / hastyāśīviṣasiṃhavyāghravṛṣamahiṣavṛkamahānagnāṃś ca madvadhāyotsṛjanti / mamāvāsavihārakūṭāgārān āśucinā durgandhenāpūrayanti / macchrāvakāṇāṃ cāntarnagaram (Kurumiya 129) anupraviṣṭānām ime anāryāḥ sattvā anācāreṇa nṛtyagītenānuvicārinaḥ / anekaiḥ śatasahasropāyair madvadhāyodyuktāḥ / śāsanāntardhānāya ca dharmanetrīpradīpanirvāṇāya dharmadhvajaprapātanāya dharmanauprabhedāya maddharmayajñāvakiraṇāyodyuktāḥ // tat khalv etarhi sarve buddhā bhagavantaḥ teṣāṃ buddhānāṃ bhagavatāṃ dharmanetrīṃ vyavalokayanti / yathā tair buddhair bhagavadbhir asmiṃ kliṣṭe paṃcakaṣāye buddhakṣetre mahāsannipātaṃ kṛtvā saddharmanetrīcirasthityarthaṃ sarvamārabalaviṣayapramardanārthaṃ triratnavaṃśasthityanupacchedārthaṃ sattvānāṃ kuśalamūlavardhanārthaṃ sarvāmitraparapravādisahadharmanigrahārthaṃ sattvānāṃ kalikalahadurbhikṣarogaparacakrabandhanavigrahavivādākālaśītoṣṇavātavṛṣṭivāyukāyavāṅmanodoṣakudṛṣṭipraśamanārthaṃ sarvadevanāgayakṣamanuṣyāmanuṣyāvarjanārthaṃ sarvagṛhagrāmanigamarāṣṭrarakṣaṇārthaṃ sarvaśāṭhyaviṣakākhordamohanaduḥsvapnadurnimittavināśanārthaṃ (Kurumiya 130) sarvadhānyauṣadhiphalapuṣparasasattvopajīvyārthaṃ kṣatriyabrāhmaṇaviṭchūdrakuśalacaryāniyojanārthaṃ bodhicittotpādanārthaṃ pāramitāvatāraṇārthaṃ bodhisattvānāṃ mahāsattvānām upāyajñānakauśalyasmṛtimatigatiśauryapratibhānavivṛddhyartham abhiṣekabhūmisamāśvāsāvatārajñānapāraṃgamārthaṃ taiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair ayaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo bhāṣito 'dhiṣṭhito 'nyonyam anumoditaḥ / te sādhv evam evaitarhi ye daśasu dikṣu buddhā bhagavantas tiṣṭhaṃto dhriyanto yāpayaṃta iha mama buddhakṣetre paṃcakaṣāye pṛcchāsamāgatāḥ sanniṣaṇṇāḥ sannipatitās te sarve 'sya buddhakṣetrasyārakṣāyai imaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇaṃ dharmaparyāyaṃ bhāṣadhvam adhitiṣṭhatānyonyaṃ bhāṣitam anumodadhvaṃ saddharmanetrīcirasthitaye sarvamāraviṣayabalapramardanārthaṃ yathā pūrvoktaṃ vistareṇa yāvad anāvaraṇajñānapāraṃgamārtham anukaṃpāyai mamādhyeṣaṇāya yad iha buddhakṣetre saddharmanetrī ciraṃ tiṣṭhed anatikramaṇī sarvaparapravādibhir avipralopadharmiṇī syāt / triratnavaṃśānupacchedanārthāya ca dharmarasaḥ sarvasattvopajīvyaḥ (Kurumiya 131) syāt / atha te buddhā bhagavaṃta evam āhuḥ / evam etad avaśyam evāsmābhir buddhakāryaṃ karaṇīyam / iha buddhakṣetre dharmanetrīm adhiṣṭhāsyāmaś cirasthitaye sarvamāraviṣayabalapramardanāya yāvad anāvaraṇajñānapāraṃgamāya yad imaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇaṃ dharmaparyāyaṃ bhāṣiṣyāmaḥ / śṛṇvantu sarvasattvā ye kecid iha buddhakṣetre 'ntargatāḥ // tadyathā / aṅkara aṅgara / bhaṅkara prabhaṅkara / bhayam iha / mitraṃ bhase / akhe akhamaṃbare / dome domante kevaṭṭe keyūre / samavahane / samantabhadre / dharme dharme / dharmake / japhale / mitrānuphale / phalavate / gaṇe gaṇabaraṃte / hili hili / hilā hilake / jaṃbhavate ṭakase ṭakaṃte / ṭakavarānte / gaṇavahante / hirinte / śirinte / vinduvate / govāhe jure mitrajure / juse agre / abame satya tathatāṃ / (Kurumiya 132) hulu / hile / candre / sama dharme / dharme / kucuru / mucuru / aciṭṭa cili cili / cicavaha / culu culu / mitravaha kulu kulu / sara sara / kuṭu kuṭu / mahāsara / tuṭu tuṭu / mahāsatya hṛdaya / puṣpe supuṣpe dhūmaparihāre abhaye rucire / karakṣe / abhayam astu vivāha / titile / mamale / paśvakha / śiśira lokavināyaka / vajre vajre dhare / vajravate / vajradade / cakravajre cakre / cavate dhare dhare / bhare bhare pūre ṭare / huhure / bhaṃgavivare / śarīśa / cili curu / mūle maṇḍale / maṇḍane / gagaraṇe / mūḍake sarvamūḍake / dhidhirayani / makhiśvaralayani / (Kurumiya 133) riṣijani / dharavaci caṇḍālasame sarvasasyādhiṣṭhānācchidyantu vāhanā / mamini / phalarati ojāgre / vicini / vanaraha / bubure guru guru muru muru / hili hili / hara hara / kākaṇḍavaha hihitāṃ / āyuhana / kuṇḍa jvāla bhase / gardane / ādahani / mārgābhirohaṇi / phalasatye / ārohavati / hili hili / yathā vajaya / svāgra yathāparaṃ ca hṛdayabāhasatya / paribhāva / mārgābhirohaṇe / acala / buddhi / dada pracala pacaya / piṇḍahṛdaya candracaraha / acale / śodhane / prakṛtimārge ili ilile prabhe sāraprate sarvatra tathatā satyānugate / (Kurumiya 134) anāvaraṇabrate / alata / aṃgure śāmini / vibrahmavayo hi ahita / avāhi / niravayava / aciramārga / lana laghusare / triratnavaṃśe dharmakāya / jvalacandre samudravati / mahādbhūtavyaya samudra vegava / dhāraṇīmudreṇa makhimudra surapratisaṃvid amudra / āvartani / saṃmoha skāra vidyutarasena / kṣiti mudrito si / ye keci prathivī vāha / baha baha baha kīṭakabaṭa śaila pratītya hṛdayena mudṛtā dhāraṇī dhara dhara dhara / dantilā dantindālā / huska sarvahṛdaya mudrito si / jaḍa javaṭṭa jakhavaṭa / sumati mati / mahādbhūta mudritā / ye keci ṣaḍāyatananiśṛtā bhūtā ini mine sacane / ghoṣasacane / mudritā caryādhiṣṭhāna / vākpathānanyathā mahāpuṇyasamuccayāvatāra mahākaruṇayā mudritā / sarvasamyakpratipat (Kurumiya 135) cirarātraṃ jvalatu dharmanetrī sarve munivṛṣabhā mahākaruṇāsamādhijñānalābhabalena maitrītyāgātivīryabalenādhiṣṭhitā sarvabhūtopacayāya svāhā // atha tāvad eva sarvabuddhakṣetrāntargatāḥ sarvasattvās triṣkṛtvaivam āhuḥ / namaḥ sarvabuddhebhyaḥ / namo namaḥ sarvabuddhebhya iti / evam cāhuḥ / aho mahāścaryo munisannipātaḥ / aho mahāścaryo bodhisattvānāṃ mahāsattvānāṃ mahāśrāvakāṇāṃ ca sannipātaḥ / aho vata mahāścaryādbhutāśrutapūrvo 'yaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyaḥ sarvaśāstṛśāsanadharmanetrītṛratnavaṃśādhiṣṭhānanirdeśo māraviṣayabalavidhvaṃsano mārapāśasaṃchedanaḥ sarvaśatrunigraho dharmadhvajocchrepaṇaḥ dharmapakṣārakṣākaro yāvat sakalabuddhaviṣayaprapūraṇārtham etarhi sarvabuddhair bhagavadbhir ayaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo bhāṣitaḥ sarvasattvahṛdayamudrāsarvamahābhūtasaṃskāraṣaḍāyatanaparikarma yāvat sarvasattvānām anuttaraparinirvāṇapratilābhāya / asmiṃ khalu punar dhāraṇīvyākaraṇe bhāṣyamāṇe tṛṃśadgaṃgānadivālukasamānāṃ (Kurumiya 136) bodhisattvānāṃ mahāsattvānāṃ dhāraṇīnirhārasamādhikṣāntipratilābho 'bhūt // tena khalu punas samayena candraprabhaḥ kumārabhūtaḥ utthāyāsanāt prāñjalir bhūtvā samantato 'valokya budhādhiṣṭhānena svarddhibalānubhāvena sarvam idaṃ buddhakṣetraṃ svareṇāpūryaivam āha / durlabhā jinacandrāṇām īdṛśī pariṣat punaḥ / vidvāṃso durlabhāś ceme bodhisattvā mahāvratāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.