सर्वसंशयच्छेत्तारो मुनिचन्द्राः समागता । अदृष्टाश्रुतपूर्वेयं संघसंपत् प्रदृश्यते
sarvasaṃśayacchettāro municandrāḥ samāgatā / adṛṣṭāśrutapūrveyaṃ saṃghasaṃpat pradṛśyate
Sanskrit only: no published translation is held for this verse.
Library·Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta·6
सर्वसंशयच्छेत्तारो मुनिचन्द्राः समागता । अदृष्टाश्रुतपूर्वेयं संघसंपत् प्रदृश्यते
sarvasaṃśayacchettāro municandrāḥ samāgatā / adṛṣṭāśrutapūrveyaṃ saṃghasaṃpat pradṛśyate
Sanskrit only: no published translation is held for this verse.
+ + + + + + + + + + + + + + + + । चैत्यभूतम् इदं क्षेत्रं सर्वक्षेत्रनमस्कृतं
+ + + + + + + + + + + + + + + + / caityabhūtam idaṃ kṣetraṃ sarvakṣetranamaskṛtaṃ
Sanskrit only: no published translation is held for this verse.
नाहेतुर् अद्य संबुद्धा आगता मुनिभास्कराः । पंचकषाय + + + + + + + + + + +
nāhetur adya saṃbuddhā āgatā munibhāskarāḥ / paṃcakaṣāya + + + + + + + + + + +
Sanskrit only: no published translation is held for this verse.
+ + + अद्य माराणां कृष्णपक्षप्रपातनं । संग्रहः शुभचर्याणाम् इत्य् अर्थं हि समागताः
+ + + adya mārāṇāṃ kṛṣṇapakṣaprapātanaṃ / saṃgrahaḥ śubhacaryāṇām ity arthaṃ hi samāgatāḥ
Sanskrit only: no published translation is held for this verse.
शृणुध्वं धर्मतां शान्तिम् + + + + + + + + । + + + + + + + भूत्वा संबुद्धा हि भविष्यत
śṛṇudhvaṃ dharmatāṃ śāntim + + + + + + + + / + + + + + + + bhūtvā saṃbuddhā hi bhaviṣyata
Sanskrit only: no published translation is held for this verse.
मार्गचर्यं महायानं ज्ञास्यत क्षान्तिवर्मिताः । सर्वक्लेशक्षयार्थं श्रोष्यथाद्य धारणीम् इमाम्
mārgacaryaṃ mahāyānaṃ jñāsyata kṣāntivarmitāḥ / sarvakleśakṣayārthaṃ śroṣyathādya dhāraṇīm imām
Sanskrit only: no published translation is held for this verse.
+ + + + + + + + + + + + + + + कान् । आसनेषु निषण्णा हि रक्षां वै देशयन्त्व् इमाम्
+ + + + + + + + + + + + + + + kān / āsaneṣu niṣaṇṇā hi rakṣāṃ vai deśayantv imām
Sanskrit only: no published translation is held for this verse.
संग्रहः सर्वधर्माणां धारणीम् अपराजितां । + + + + + + + + + + + + + + + +
saṃgrahaḥ sarvadharmāṇāṃ dhāraṇīm aparājitāṃ / + + + + + + + + + + + + + + + +
Sanskrit only: no published translation is held for this verse.
अथ खलु तावद् एवाप्रमेयासंख्येया क्षान्तिप्रतिलब्धा बोधिसत्त्वा महासत्त्वा एककण्ठेनैवम् आहुः । निषीदन्तु बुद्धा भगवन्त एषु पद्मासनेषु देशयन्त्व् अद्य महाकारुणिका उत्तरमहामैत्रीक्षान्तिपरिभावितां वैशारद्यनिष्यन्दप्रणीतां सर्वधर्मसंग्रहणीं भय ॥॥॥॥॥॥॥। करणीन् मारध्वजप्रपातनीं धर्मध्वजोच्छ्रेपणीं सर्वक्लेशावमर्दनीं (कुरुमिय १२४) सर्वशत्रुनिग्रहणीं सर्वसंशयच्छेदनीं ॥॥॥॥॥॥॥। सर्वरक्षाम् अनुत्तरां सर्वबोधिसत्त्वानां सर्वधर्मस्मृतिमतिगतिधृत्यसंप्रमोषसर्वचर्योपायकौशल्यज्ञानदर्शनीं सर्वसुखसंपन्नायतनाधिष्ठानसमाधिधारणीं क्षान्त्यवतारालोकज्ञानकौशल्यावतारणीं यावत् सप्तत्रिंशद्बोधिपक्ष्यधर्महृदयधारणीं ॥॥॥॥॥॥॥॥ यै यशःसुखतायै फाषविहारतायै प्रतिभानस्मृतिविवर्धनतायै श्रुताधारणासंप्रमोषतायै ॥॥॥॥॥॥॥॥ शिक्षाधारणतायै स्मृतिभाजनतायै चर्याभिनिष्पत्तये बोधिसंप्राप्तये । बुद्धा भगवंत इहास्माकम् एतर्हीमां धारणीं देशयन्तु धर्मनेत्र्यनुग्रहचिरस्थितिकतायै रत्नत्रयवंशस्य चाविप्रणाशाय सकलानुत्तरबोधिमार्गसंदर्शनाय भूतकोट्याकाशतथतासंभेदतायै स ॥॥॥॥॥॥॥॥॥ ल्पसत्त्वजीवपोषपुद्गलासंभेदतायै अजात्यनुत्पादानिरोधसर्वधर्मसमतालक्षणाभावभूतकोट्यसंभेदतायै पृथिव्यप्तेजोवाव्याकाशविज्ञानधात्वसंभेदतायै । सर्वे बुद्धा भगवन्त इहास्माकं सर्वधर्मनयमण्डलप्रणीतान् धारणीं भाषन्तां यद् इह सहश्रवणेनाप्रमेयाणि (कुरुमिय १२५) सत्त्वकोटीनयुतशतसहस्राणि त्रिरत्नेषु साक्षिणो भवेयुः । परस्परं च सत्त्वाः कल्याणमित्रहितकारिणो भवेयुः । अप्रमेयासंख्येयाश् च सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पादयेयुर् अवैवर्तिकाश् च भवेयुर् व्याकरणानि च प्रतिलभेरन् । सर्वे च ते बुद्धा भगवन्तो धर्मं देशनायै समधिष्ठास् तूष्णींभूताः ॥॥॥॥॥॥ तेषु पद्मकेसरेषु । तादृशं च बुद्धविषयप्रणिधानसमतावतारं समाधिं समापेदिरे । यथा सर्वबुद्धक्षेत्रान्तर्गतानां ॥॥॥॥॥॥॥। च बुद्धानां भगवतां सहदर्शनेनैवेह बुद्धक्षेत्रान्तर्गतानां ॥॥॥॥॥॥॥॥॥॥॥ श् चित्तचैत्तेषु प्रशेमुः । एकैकश् च सत्त्वः एवं संजानीते । ॥॥॥॥॥॥॥॥। च्। त्। मामचैकस् तथागतः सर्वचेतसा समन्वाहृत्य सर्वज्वरप्रशमनं धर्मं देश ॥॥॥॥॥॥॥॥ ॥ तेन खलु पुनः समयेन ये ऽस्मिं कृत्स्ने बुद्धक्षेत्रे ऽन्तर्गताः (कुरुमिय १२६) सर्वसत्त्वाः सर्वेन्द्रियोपस्तब्धाः प्राञ्जलयस् त एककण्ठेनैवम् आहुः । देशयन्त्व् अस्माकं बुद्धा भगवन्तो धर्मं । देशयंत्व् अस्माकं भदन्ताः सुगात धर्मं । वयं बुद्धानां भगवतां धर्मेषु प्रतिपत्त्या ॥॥॥॥॥॥॥। ॥ तेन खलु पुनः समयेन स शाक्यमुनिस् तथागतो गन्धव्यूहातिक्रान्तेन परमोत्तमविशिष्टेनोदारेण गन्धेन सर्वम् इदं बुद्धक्षेत्रं स्फुटम् अध्यतिष्ठद् अपरेषां बुद्धानां भगवतां पूजाकर्मणे । सर्वबुद्धक्षेत्रान्तर्गतांश् च सर्वसत्त्वान् नानारत्नपुष्पमाल्यविलेपनैर् नानाच्छत्रध्वजपताकालंकारविभूषणैः पूर्णहस्तान् अधिष्ठायावशिष्टानां बुद्धानां भगवतां पूजाकर्मणे । एवम् आह । समन्वाहरंतु बुद्धा भगवन्तो ये केचिद् एतर्हि दशसु दिक्ष्व् ॥॥॥॥॥ । अहं पूर्वप्रणिधानेनैवं प्रतिकृष्टे पंचकषाये लोके ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो नष्टाशयानां (कुरुमिय १२७) प्रनष्टमार्गाणाम् अविद्यान्धकारतिमिरपटलक्लेशान्धकारप्रक्षिप्तानां त्र्यपायसंप्रस्थितानाम् अकुशलसमवधानानां सर्वकुशलरहितानां सर्वविद्वत्परिवर्जितानाम् आनन्तर्यकारिणां सद्धर्मपरिक्षेपकानाम् आर्यापवादकानाम् अकृपाशयानां सत्त्वानां कारुण्यार्थं महाकृपावीर्यबलोद्योगेन शीतोष्णवातातपप्रशमनाय ॥॥॥॥ । ग्रामनगरनिगमजनपदराजधानीं पद्भ्याम् उपसंक्रमामि । सत्त्वहितार्थं चाल्परूक्षविरसपरमजुगुप्सितं प्रतिकूलम् आहारं भुनज्मि । ॥॥॥॥॥॥ कर्पासंगचीवरपांसुकूलानि प्रावृणोमि । पर्वतगिरिकन्दरवनषण्ड ॥॥॥। र्शं शय्यासनं परिभुनज्मि । उपायकौशल्यमहाकरुणावीर्यसंनाहसंनद्धो ऽहं सत्त्वेभ्यो नानाद्यां कथां कथयामि । क्षतृयेभ्यो राजैश्वर्यकथां कथयामि । ब्राह्मणेभ्यो वेदनक्षत्रकथां कथयामि । अमात्येभ्यो (कुरुमिय १२८) जनपदकर्मान्तकथां वैद्येभ्यो धात्वौषधिसाधनकथां वणिग्भ्यः क्रयविक्रयकथां कुटुंबिभ्यः कर्मान्ताभिनिवेशकथां स्त्रीभ्यो वर्णालंकारपुत्रैश्वर्यासपत्नकथां श्रमणेभ्यः क्षान्तिसौरत्यत्रिकर्माभियुक्तां कथां कथयामि । सत्त्वपरिपाकायाप्राप्तस्य प्राप्तये नियुनज्मि । अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । अमुक्तानां प्रमोचनाय नानाद्यानि दुःखान्य् उत्सहामि । सत्त्वपरिपाकाय जनपदचर्यां चरामि ॥ अथ च पुनर् इमे सत्त्वास् तत्र माम् आक्रोशंति परिभाषन्ति ॥॥॥॥॥॥ धर्मेणाभूतेनाभ्याख्यान्ति । कुहनलपनमायाशाठ्यमृषावादपारुष्यैः स्त्रीवचनैर् अभ्याख्यान्ति । पांसुभिर् माम् अवकिरंति । शस्त्रविषाग्निचक्रतोमरशरखड्गशक्तिपरश्वधशिलायुधवृष्टिभिर् मम वधाय पराक्रमंति । हस्त्याशीविषसिंहव्याघ्रवृषमहिषवृकमहानग्नांश् च मद्वधायोत्सृजन्ति । ममावासविहारकूटागारान् आशुचिना दुर्गन्धेनापूरयन्ति । मच्छ्रावकाणां चान्तर्नगरम् (कुरुमिय १२९) अनुप्रविष्टानाम् इमे अनार्याः सत्त्वा अनाचारेण नृत्यगीतेनानुविचारिनः । अनेकैः शतसहस्रोपायैर् मद्वधायोद्युक्ताः । शासनान्तर्धानाय च धर्मनेत्रीप्रदीपनिर्वाणाय धर्मध्वजप्रपातनाय धर्मनौप्रभेदाय मद्धर्मयज्ञावकिरणायोद्युक्ताः ॥ तत् खल्व् एतर्हि सर्वे बुद्धा भगवन्तः तेषां बुद्धानां भगवतां धर्मनेत्रीं व्यवलोकयन्ति । यथा तैर् बुद्धैर् भगवद्भिर् अस्मिं क्लिष्टे पंचकषाये बुद्धक्षेत्रे महासन्निपातं कृत्वा सद्धर्मनेत्रीचिरस्थित्यर्थं सर्वमारबलविषयप्रमर्दनार्थं त्रिरत्नवंशस्थित्यनुपच्छेदार्थं सत्त्वानां कुशलमूलवर्धनार्थं सर्वामित्रपरप्रवादिसहधर्मनिग्रहार्थं सत्त्वानां कलिकलहदुर्भिक्षरोगपरचक्रबन्धनविग्रहविवादाकालशीतोष्णवातवृष्टिवायुकायवाङ्मनोदोषकुदृष्टिप्रशमनार्थं सर्वदेवनागयक्षमनुष्यामनुष्यावर्जनार्थं सर्वगृहग्रामनिगमराष्ट्ररक्षणार्थं सर्वशाठ्यविषकाखोर्दमोहनदुःस्वप्नदुर्निमित्तविनाशनार्थं (कुरुमिय १३०) सर्वधान्यौषधिफलपुष्परससत्त्वोपजीव्यार्थं क्षत्रियब्राह्मणविट्छूद्रकुशलचर्यानियोजनार्थं बोधिचित्तोत्पादनार्थं पारमितावतारणार्थं बोधिसत्त्वानां महासत्त्वानाम् उपायज्ञानकौशल्यस्मृतिमतिगतिशौर्यप्रतिभानविवृद्ध्यर्थम् अभिषेकभूमिसमाश्वासावतारज्ञानपारंगमार्थं तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितो ऽधिष्ठितो ऽन्योन्यम् अनुमोदितः । ते साध्व् एवम् एवैतर्हि ये दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठंतो ध्रियन्तो यापयंत इह मम बुद्धक्षेत्रे पंचकषाये पृच्छासमागताः सन्निषण्णाः सन्निपतितास् ते सर्वे ऽस्य बुद्धक्षेत्रस्यारक्षायै इमं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्यायं भाषध्वम् अधितिष्ठतान्योन्यं भाषितम् अनुमोदध्वं सद्धर्मनेत्रीचिरस्थितये सर्वमारविषयबलप्रमर्दनार्थं यथा पूर्वोक्तं विस्तरेण यावद् अनावरणज्ञानपारंगमार्थम् अनुकंपायै ममाध्येषणाय यद् इह बुद्धक्षेत्रे सद्धर्मनेत्री चिरं तिष्ठेद् अनतिक्रमणी सर्वपरप्रवादिभिर् अविप्रलोपधर्मिणी स्यात् । त्रिरत्नवंशानुपच्छेदनार्थाय च धर्मरसः सर्वसत्त्वोपजीव्यः (कुरुमिय १३१) स्यात् । अथ ते बुद्धा भगवंत एवम् आहुः । एवम् एतद् अवश्यम् एवास्माभिर् बुद्धकार्यं करणीयम् । इह बुद्धक्षेत्रे धर्मनेत्रीम् अधिष्ठास्यामश् चिरस्थितये सर्वमारविषयबलप्रमर्दनाय यावद् अनावरणज्ञानपारंगमाय यद् इमं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्यायं भाषिष्यामः । शृण्वन्तु सर्वसत्त्वा ये केचिद् इह बुद्धक्षेत्रे ऽन्तर्गताः ॥ तद्यथा । अङ्कर अङ्गर । भङ्कर प्रभङ्कर । भयम् इह । मित्रं भसे । अखे अखमंबरे । दोमे दोमन्ते केवट्टे केयूरे । समवहने । समन्तभद्रे । धर्मे धर्मे । धर्मके । जफले । मित्रानुफले । फलवते । गणे गणबरंते । हिलि हिलि । हिला हिलके । जंभवते टकसे टकंते । टकवरान्ते । गणवहन्ते । हिरिन्ते । शिरिन्ते । विन्दुवते । गोवाहे जुरे मित्रजुरे । जुसे अग्रे । अबमे सत्य तथतां । (कुरुमिय १३२) हुलु । हिले । चन्द्रे । सम धर्मे । धर्मे । कुचुरु । मुचुरु । अचिट्ट चिलि चिलि । चिचवह । चुलु चुलु । मित्रवह कुलु कुलु । सर सर । कुटु कुटु । महासर । तुटु तुटु । महासत्य हृदय । पुष्पे सुपुष्पे धूमपरिहारे अभये रुचिरे । करक्षे । अभयम् अस्तु विवाह । तितिले । ममले । पश्वख । शिशिर लोकविनायक । वज्रे वज्रे धरे । वज्रवते । वज्रददे । चक्रवज्रे चक्रे । चवते धरे धरे । भरे भरे पूरे टरे । हुहुरे । भंगविवरे । शरीश । चिलि चुरु । मूले मण्डले । मण्डने । गगरणे । मूडके सर्वमूडके । धिधिरयनि । मखिश्वरलयनि । (कुरुमिय १३३) रिषिजनि । धरवचि चण्डालसमे सर्वसस्याधिष्ठानाच्छिद्यन्तु वाहना । ममिनि । फलरति ओजाग्रे । विचिनि । वनरह । बुबुरे गुरु गुरु मुरु मुरु । हिलि हिलि । हर हर । काकण्डवह हिहितां । आयुहन । कुण्ड ज्वाल भसे । गर्दने । आदहनि । मार्गाभिरोहणि । फलसत्ये । आरोहवति । हिलि हिलि । यथा वजय । स्वाग्र यथापरं च हृदयबाहसत्य । परिभाव । मार्गाभिरोहणे । अचल । बुद्धि । दद प्रचल पचय । पिण्डहृदय चन्द्रचरह । अचले । शोधने । प्रकृतिमार्गे इलि इलिले प्रभे सारप्रते सर्वत्र तथता सत्यानुगते । (कुरुमिय १३४) अनावरणब्रते । अलत । अंगुरे शामिनि । विब्रह्मवयो हि अहित । अवाहि । निरवयव । अचिरमार्ग । लन लघुसरे । त्रिरत्नवंशे धर्मकाय । ज्वलचन्द्रे समुद्रवति । महाद्भूतव्यय समुद्र वेगव । धारणीमुद्रेण मखिमुद्र सुरप्रतिसंविद् अमुद्र । आवर्तनि । संमोह स्कार विद्युतरसेन । क्षिति मुद्रितो सि । ये केचि प्रथिवी वाह । बह बह बह कीटकबट शैल प्रतीत्य हृदयेन मुदृता धारणी धर धर धर । दन्तिला दन्तिन्दाला । हुस्क सर्वहृदय मुद्रितो सि । जड जवट्ट जखवट । सुमति मति । महाद्भूत मुद्रिता । ये केचि षडायतननिशृता भूता इनि मिने सचने । घोषसचने । मुद्रिता चर्याधिष्ठान । वाक्पथानन्यथा महापुण्यसमुच्चयावतार महाकरुणया मुद्रिता । सर्वसम्यक्प्रतिपत् (कुरुमिय १३५) चिररात्रं ज्वलतु धर्मनेत्री सर्वे मुनिवृषभा महाकरुणासमाधिज्ञानलाभबलेन मैत्रीत्यागातिवीर्यबलेनाधिष्ठिता सर्वभूतोपचयाय स्वाहा ॥ अथ तावद् एव सर्वबुद्धक्षेत्रान्तर्गताः सर्वसत्त्वास् त्रिष्कृत्वैवम् आहुः । नमः सर्वबुद्धेभ्यः । नमो नमः सर्वबुद्धेभ्य इति । एवम् चाहुः । अहो महाश्चर्यो मुनिसन्निपातः । अहो महाश्चर्यो बोधिसत्त्वानां महासत्त्वानां महाश्रावकाणां च सन्निपातः । अहो वत महाश्चर्याद्भुताश्रुतपूर्वो ऽयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायः सर्वशास्तृशासनधर्मनेत्रीतृरत्नवंशाधिष्ठाननिर्देशो मारविषयबलविध्वंसनो मारपाशसंछेदनः सर्वशत्रुनिग्रहो धर्मध्वजोच्छ्रेपणः धर्मपक्षारक्षाकरो यावत् सकलबुद्धविषयप्रपूरणार्थम् एतर्हि सर्वबुद्धैर् भगवद्भिर् अयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितः सर्वसत्त्वहृदयमुद्रासर्वमहाभूतसंस्कारषडायतनपरिकर्म यावत् सर्वसत्त्वानाम् अनुत्तरपरिनिर्वाणप्रतिलाभाय । अस्मिं खलु पुनर् धारणीव्याकरणे भाष्यमाणे तृंशद्गंगानदिवालुकसमानां (कुरुमिय १३६) बोधिसत्त्वानां महासत्त्वानां धारणीनिर्हारसमाधिक्षान्तिप्रतिलाभो ऽभूत् ॥ तेन खलु पुनस् समयेन चन्द्रप्रभः कुमारभूतः उत्थायासनात् प्राञ्जलिर् भूत्वा समन्ततो ऽवलोक्य बुधाधिष्ठानेन स्वर्द्धिबलानुभावेन सर्वम् इदं बुद्धक्षेत्रं स्वरेणापूर्यैवम् आह । दुर्लभा जिनचन्द्राणाम् ईदृशी परिषत् पुनः । विद्वांसो दुर्लभाश् चेमे बोधिसत्त्वा महाव्रताः
atha khalu tāvad evāprameyāsaṃkhyeyā kṣāntipratilabdhā bodhisattvā mahāsattvā ekakaṇṭhenaivam āhuḥ / niṣīdantu buddhā bhagavanta eṣu padmāsaneṣu deśayantv adya mahākāruṇikā uttaramahāmaitrīkṣāntiparibhāvitāṃ vaiśāradyaniṣyandapraṇītāṃ sarvadharmasaṃgrahaṇīṃ bhaya ............... karaṇīn māradhvajaprapātanīṃ dharmadhvajocchrepaṇīṃ sarvakleśāvamardanīṃ (Kurumiya 124) sarvaśatrunigrahaṇīṃ sarvasaṃśayacchedanīṃ ............... sarvarakṣām anuttarāṃ sarvabodhisattvānāṃ sarvadharmasmṛtimatigatidhṛtyasaṃpramoṣasarvacaryopāyakauśalyajñānadarśanīṃ sarvasukhasaṃpannāyatanādhiṣṭhānasamādhidhāraṇīṃ kṣāntyavatārālokajñānakauśalyāvatāraṇīṃ yāvat saptatriṃśadbodhipakṣyadharmahṛdayadhāraṇīṃ ................ yai yaśaḥsukhatāyai phāṣavihāratāyai pratibhānasmṛtivivardhanatāyai śrutādhāraṇāsaṃpramoṣatāyai ................ śikṣādhāraṇatāyai smṛtibhājanatāyai caryābhiniṣpattaye bodhisaṃprāptaye / buddhā bhagavaṃta ihāsmākam etarhīmāṃ dhāraṇīṃ deśayantu dharmanetryanugrahacirasthitikatāyai ratnatrayavaṃśasya cāvipraṇāśāya sakalānuttarabodhimārgasaṃdarśanāya bhūtakoṭyākāśatathatāsaṃbhedatāyai sa .................. lpasattvajīvapoṣapudgalāsaṃbhedatāyai ajātyanutpādānirodhasarvadharmasamatālakṣaṇābhāvabhūtakoṭyasaṃbhedatāyai pṛthivyaptejovāvyākāśavijñānadhātvasaṃbhedatāyai / sarve buddhā bhagavanta ihāsmākaṃ sarvadharmanayamaṇḍalapraṇītān dhāraṇīṃ bhāṣantāṃ yad iha sahaśravaṇenāprameyāṇi (Kurumiya 125) sattvakoṭīnayutaśatasahasrāṇi triratneṣu sākṣiṇo bhaveyuḥ / parasparaṃ ca sattvāḥ kalyāṇamitrahitakāriṇo bhaveyuḥ / aprameyāsaṃkhyeyāś ca sattvā anuttarāyāṃ samyaksaṃbodhau cittāny utpādayeyur avaivartikāś ca bhaveyur vyākaraṇāni ca pratilabheran / sarve ca te buddhā bhagavanto dharmaṃ deśanāyai samadhiṣṭhās tūṣṇīṃbhūtāḥ ............ teṣu padmakesareṣu / tādṛśaṃ ca buddhaviṣayapraṇidhānasamatāvatāraṃ samādhiṃ samāpedire / yathā sarvabuddhakṣetrāntargatānāṃ ............... ca buddhānāṃ bhagavatāṃ sahadarśanenaiveha buddhakṣetrāntargatānāṃ ...................... ś cittacaitteṣu praśemuḥ / ekaikaś ca sattvaḥ evaṃ saṃjānīte / ................. c. t. māmacaikas tathāgataḥ sarvacetasā samanvāhṛtya sarvajvarapraśamanaṃ dharmaṃ deśa ................ // tena khalu punaḥ samayena ye 'smiṃ kṛtsne buddhakṣetre 'ntargatāḥ (Kurumiya 126) sarvasattvāḥ sarvendriyopastabdhāḥ prāñjalayas ta ekakaṇṭhenaivam āhuḥ / deśayantv asmākaṃ buddhā bhagavanto dharmaṃ / deśayaṃtv asmākaṃ bhadantāḥ sugāta dharmaṃ / vayaṃ buddhānāṃ bhagavatāṃ dharmeṣu pratipattyā ............... // tena khalu punaḥ samayena sa śākyamunis tathāgato gandhavyūhātikrāntena paramottamaviśiṣṭenodāreṇa gandhena sarvam idaṃ buddhakṣetraṃ sphuṭam adhyatiṣṭhad apareṣāṃ buddhānāṃ bhagavatāṃ pūjākarmaṇe / sarvabuddhakṣetrāntargatāṃś ca sarvasattvān nānāratnapuṣpamālyavilepanair nānācchatradhvajapatākālaṃkāravibhūṣaṇaiḥ pūrṇahastān adhiṣṭhāyāvaśiṣṭānāṃ buddhānāṃ bhagavatāṃ pūjākarmaṇe / evam āha / samanvāharaṃtu buddhā bhagavanto ye kecid etarhi daśasu dikṣv .......... / ahaṃ pūrvapraṇidhānenaivaṃ pratikṛṣṭe paṃcakaṣāye loke 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddho naṣṭāśayānāṃ (Kurumiya 127) pranaṣṭamārgāṇām avidyāndhakāratimirapaṭalakleśāndhakāraprakṣiptānāṃ tryapāyasaṃprasthitānām akuśalasamavadhānānāṃ sarvakuśalarahitānāṃ sarvavidvatparivarjitānām ānantaryakāriṇāṃ saddharmaparikṣepakānām āryāpavādakānām akṛpāśayānāṃ sattvānāṃ kāruṇyārthaṃ mahākṛpāvīryabalodyogena śītoṣṇavātātapapraśamanāya ........ / grāmanagaranigamajanapadarājadhānīṃ padbhyām upasaṃkramāmi / sattvahitārthaṃ cālparūkṣavirasaparamajugupsitaṃ pratikūlam āhāraṃ bhunajmi / ............ karpāsa.ṃgacīvarapāṃsukūlāni prāvṛṇomi / parvatagirikandaravanaṣaṇḍa ....... rśaṃ śayyāsanaṃ paribhunajmi / upāyakauśalyamahākaruṇāvīryasaṃnāhasaṃnaddho 'haṃ sattvebhyo nānādyāṃ kathāṃ kathayāmi / kṣatṛyebhyo rājaiśvaryakathāṃ kathayāmi / brāhmaṇebhyo vedanakṣatrakathāṃ kathayāmi / amātyebhyo (Kurumiya 128) janapadakarmāntakathāṃ vaidyebhyo dhātvauṣadhisādhanakathāṃ vaṇigbhyaḥ krayavikrayakathāṃ kuṭuṃbibhyaḥ karmāntābhiniveśakathāṃ strībhyo varṇālaṃkāraputraiśvaryāsapatnakathāṃ śramaṇebhyaḥ kṣāntisauratyatrikarmābhiyuktāṃ kathāṃ kathayāmi / sattvaparipākāyāprāptasya prāptaye niyunajmi / anadhigatasyādhigamāya / asākṣātkṛtasya sākṣātkriyāyai / amuktānāṃ pramocanāya nānādyāni duḥkhāny utsahāmi / sattvaparipākāya janapadacaryāṃ carāmi // atha ca punar ime sattvās tatra mām ākrośaṃti paribhāṣanti ............ dharmeṇābhūtenābhyākhyānti / kuhanalapanamāyāśāṭhyamṛṣāvādapāruṣyaiḥ strīvacanair abhyākhyānti / pāṃsubhir mām avakiraṃti / śastraviṣāgnicakratomaraśarakhaḍgaśaktiparaśvadhaśilāyudhavṛṣṭibhir mama vadhāya parākramaṃti / hastyāśīviṣasiṃhavyāghravṛṣamahiṣavṛkamahānagnāṃś ca madvadhāyotsṛjanti / mamāvāsavihārakūṭāgārān āśucinā durgandhenāpūrayanti / macchrāvakāṇāṃ cāntarnagaram (Kurumiya 129) anupraviṣṭānām ime anāryāḥ sattvā anācāreṇa nṛtyagītenānuvicārinaḥ / anekaiḥ śatasahasropāyair madvadhāyodyuktāḥ / śāsanāntardhānāya ca dharmanetrīpradīpanirvāṇāya dharmadhvajaprapātanāya dharmanauprabhedāya maddharmayajñāvakiraṇāyodyuktāḥ // tat khalv etarhi sarve buddhā bhagavantaḥ teṣāṃ buddhānāṃ bhagavatāṃ dharmanetrīṃ vyavalokayanti / yathā tair buddhair bhagavadbhir asmiṃ kliṣṭe paṃcakaṣāye buddhakṣetre mahāsannipātaṃ kṛtvā saddharmanetrīcirasthityarthaṃ sarvamārabalaviṣayapramardanārthaṃ triratnavaṃśasthityanupacchedārthaṃ sattvānāṃ kuśalamūlavardhanārthaṃ sarvāmitraparapravādisahadharmanigrahārthaṃ sattvānāṃ kalikalahadurbhikṣarogaparacakrabandhanavigrahavivādākālaśītoṣṇavātavṛṣṭivāyukāyavāṅmanodoṣakudṛṣṭipraśamanārthaṃ sarvadevanāgayakṣamanuṣyāmanuṣyāvarjanārthaṃ sarvagṛhagrāmanigamarāṣṭrarakṣaṇārthaṃ sarvaśāṭhyaviṣakākhordamohanaduḥsvapnadurnimittavināśanārthaṃ (Kurumiya 130) sarvadhānyauṣadhiphalapuṣparasasattvopajīvyārthaṃ kṣatriyabrāhmaṇaviṭchūdrakuśalacaryāniyojanārthaṃ bodhicittotpādanārthaṃ pāramitāvatāraṇārthaṃ bodhisattvānāṃ mahāsattvānām upāyajñānakauśalyasmṛtimatigatiśauryapratibhānavivṛddhyartham abhiṣekabhūmisamāśvāsāvatārajñānapāraṃgamārthaṃ taiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair ayaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo bhāṣito 'dhiṣṭhito 'nyonyam anumoditaḥ / te sādhv evam evaitarhi ye daśasu dikṣu buddhā bhagavantas tiṣṭhaṃto dhriyanto yāpayaṃta iha mama buddhakṣetre paṃcakaṣāye pṛcchāsamāgatāḥ sanniṣaṇṇāḥ sannipatitās te sarve 'sya buddhakṣetrasyārakṣāyai imaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇaṃ dharmaparyāyaṃ bhāṣadhvam adhitiṣṭhatānyonyaṃ bhāṣitam anumodadhvaṃ saddharmanetrīcirasthitaye sarvamāraviṣayabalapramardanārthaṃ yathā pūrvoktaṃ vistareṇa yāvad anāvaraṇajñānapāraṃgamārtham anukaṃpāyai mamādhyeṣaṇāya yad iha buddhakṣetre saddharmanetrī ciraṃ tiṣṭhed anatikramaṇī sarvaparapravādibhir avipralopadharmiṇī syāt / triratnavaṃśānupacchedanārthāya ca dharmarasaḥ sarvasattvopajīvyaḥ (Kurumiya 131) syāt / atha te buddhā bhagavaṃta evam āhuḥ / evam etad avaśyam evāsmābhir buddhakāryaṃ karaṇīyam / iha buddhakṣetre dharmanetrīm adhiṣṭhāsyāmaś cirasthitaye sarvamāraviṣayabalapramardanāya yāvad anāvaraṇajñānapāraṃgamāya yad imaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇaṃ dharmaparyāyaṃ bhāṣiṣyāmaḥ / śṛṇvantu sarvasattvā ye kecid iha buddhakṣetre 'ntargatāḥ // tadyathā / aṅkara aṅgara / bhaṅkara prabhaṅkara / bhayam iha / mitraṃ bhase / akhe akhamaṃbare / dome domante kevaṭṭe keyūre / samavahane / samantabhadre / dharme dharme / dharmake / japhale / mitrānuphale / phalavate / gaṇe gaṇabaraṃte / hili hili / hilā hilake / jaṃbhavate ṭakase ṭakaṃte / ṭakavarānte / gaṇavahante / hirinte / śirinte / vinduvate / govāhe jure mitrajure / juse agre / abame satya tathatāṃ / (Kurumiya 132) hulu / hile / candre / sama dharme / dharme / kucuru / mucuru / aciṭṭa cili cili / cicavaha / culu culu / mitravaha kulu kulu / sara sara / kuṭu kuṭu / mahāsara / tuṭu tuṭu / mahāsatya hṛdaya / puṣpe supuṣpe dhūmaparihāre abhaye rucire / karakṣe / abhayam astu vivāha / titile / mamale / paśvakha / śiśira lokavināyaka / vajre vajre dhare / vajravate / vajradade / cakravajre cakre / cavate dhare dhare / bhare bhare pūre ṭare / huhure / bhaṃgavivare / śarīśa / cili curu / mūle maṇḍale / maṇḍane / gagaraṇe / mūḍake sarvamūḍake / dhidhirayani / makhiśvaralayani / (Kurumiya 133) riṣijani / dharavaci caṇḍālasame sarvasasyādhiṣṭhānācchidyantu vāhanā / mamini / phalarati ojāgre / vicini / vanaraha / bubure guru guru muru muru / hili hili / hara hara / kākaṇḍavaha hihitāṃ / āyuhana / kuṇḍa jvāla bhase / gardane / ādahani / mārgābhirohaṇi / phalasatye / ārohavati / hili hili / yathā vajaya / svāgra yathāparaṃ ca hṛdayabāhasatya / paribhāva / mārgābhirohaṇe / acala / buddhi / dada pracala pacaya / piṇḍahṛdaya candracaraha / acale / śodhane / prakṛtimārge ili ilile prabhe sāraprate sarvatra tathatā satyānugate / (Kurumiya 134) anāvaraṇabrate / alata / aṃgure śāmini / vibrahmavayo hi ahita / avāhi / niravayava / aciramārga / lana laghusare / triratnavaṃśe dharmakāya / jvalacandre samudravati / mahādbhūtavyaya samudra vegava / dhāraṇīmudreṇa makhimudra surapratisaṃvid amudra / āvartani / saṃmoha skāra vidyutarasena / kṣiti mudrito si / ye keci prathivī vāha / baha baha baha kīṭakabaṭa śaila pratītya hṛdayena mudṛtā dhāraṇī dhara dhara dhara / dantilā dantindālā / huska sarvahṛdaya mudrito si / jaḍa javaṭṭa jakhavaṭa / sumati mati / mahādbhūta mudritā / ye keci ṣaḍāyatananiśṛtā bhūtā ini mine sacane / ghoṣasacane / mudritā caryādhiṣṭhāna / vākpathānanyathā mahāpuṇyasamuccayāvatāra mahākaruṇayā mudritā / sarvasamyakpratipat (Kurumiya 135) cirarātraṃ jvalatu dharmanetrī sarve munivṛṣabhā mahākaruṇāsamādhijñānalābhabalena maitrītyāgātivīryabalenādhiṣṭhitā sarvabhūtopacayāya svāhā // atha tāvad eva sarvabuddhakṣetrāntargatāḥ sarvasattvās triṣkṛtvaivam āhuḥ / namaḥ sarvabuddhebhyaḥ / namo namaḥ sarvabuddhebhya iti / evam cāhuḥ / aho mahāścaryo munisannipātaḥ / aho mahāścaryo bodhisattvānāṃ mahāsattvānāṃ mahāśrāvakāṇāṃ ca sannipātaḥ / aho vata mahāścaryādbhutāśrutapūrvo 'yaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyaḥ sarvaśāstṛśāsanadharmanetrītṛratnavaṃśādhiṣṭhānanirdeśo māraviṣayabalavidhvaṃsano mārapāśasaṃchedanaḥ sarvaśatrunigraho dharmadhvajocchrepaṇaḥ dharmapakṣārakṣākaro yāvat sakalabuddhaviṣayaprapūraṇārtham etarhi sarvabuddhair bhagavadbhir ayaṃ vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīdhāraṇīmudrāpadaprabhedapraveśavyākaraṇo dharmaparyāyo bhāṣitaḥ sarvasattvahṛdayamudrāsarvamahābhūtasaṃskāraṣaḍāyatanaparikarma yāvat sarvasattvānām anuttaraparinirvāṇapratilābhāya / asmiṃ khalu punar dhāraṇīvyākaraṇe bhāṣyamāṇe tṛṃśadgaṃgānadivālukasamānāṃ (Kurumiya 136) bodhisattvānāṃ mahāsattvānāṃ dhāraṇīnirhārasamādhikṣāntipratilābho 'bhūt // tena khalu punas samayena candraprabhaḥ kumārabhūtaḥ utthāyāsanāt prāñjalir bhūtvā samantato 'valokya budhādhiṣṭhānena svarddhibalānubhāvena sarvam idaṃ buddhakṣetraṃ svareṇāpūryaivam āha / durlabhā jinacandrāṇām īdṛśī pariṣat punaḥ / vidvāṃso durlabhāś ceme bodhisattvā mahāvratāḥ
Sanskrit only: no published translation is held for this verse.
ईदृशायाश् च मुद्रायाः श्रवणं परमदुर्लभम् । येयं कारुणिकैर् नाथैर् धर्मनेत्री स्वधिष्ठिता
īdṛśāyāś ca mudrāyāḥ śravaṇaṃ paramadurlabham / yeyaṃ kāruṇikair nāthair dharmanetrī svadhiṣṭhitā
Sanskrit only: no published translation is held for this verse.
सर्वेषां मारपक्षाणां शत्रूणां च पराजयः । रत्नत्रयानुपच्छेदः संबुद्धैः समधिष्ठितः
sarveṣāṃ mārapakṣāṇāṃ śatrūṇāṃ ca parājayaḥ / ratnatrayānupacchedaḥ saṃbuddhaiḥ samadhiṣṭhitaḥ
Sanskrit only: no published translation is held for this verse.
सर्वावरणनाशाय क्षान्तिसौरत्यवर्धनी । सत्त्वानाम् आवर्जनी चेह राज्यराष्ट्रस्य पालनी
sarvāvaraṇanāśāya kṣāntisauratyavardhanī / sattvānām āvarjanī ceha rājyarāṣṭrasya pālanī
Sanskrit only: no published translation is held for this verse.
वारणी दुष्कृतस्येह कुदृष्टिप्रतिषेधनी । आश्वासो बोधिसत्त्वानां बोधिमार्गप्रदर्शनी
vāraṇī duṣkṛtasyeha kudṛṣṭipratiṣedhanī / āśvāso bodhisattvānāṃ bodhimārgapradarśanī
Sanskrit only: no published translation is held for this verse.
पारमितावर्धनी चैव भद्रचर्याप्रपूरणी । उपायज्ञानप्रतिभानवृद्धये स्वधिष्ठिता
pāramitāvardhanī caiva bhadracaryāprapūraṇī / upāyajñānapratibhānavṛddhaye svadhiṣṭhitā
Sanskrit only: no published translation is held for this verse.
संग्रहः शुक्लपक्षस्य धारणी स्वपराजिता । निरञ्जाना बोधिमार्गस्य ज्वालनी धर्मसाक्षिणाम्
saṃgrahaḥ śuklapakṣasya dhāraṇī svaparājitā / nirañjānā bodhimārgasya jvālanī dharmasākṣiṇām
Sanskrit only: no published translation is held for this verse.
सर्वां विनीय विमतिन् धारणीम् अधिमुच्यते । एष वै सकलो मार्गो येन बोधिः प्रवर्तते
sarvāṃ vinīya vimatin dhāraṇīm adhimucyate / eṣa vai sakalo mārgo yena bodhiḥ pravartate
Sanskrit only: no published translation is held for this verse.
वयं भूयः प्रवक्ष्यामो धारणीम् अपराजितान् । धर्मभाणकरक्षायै श्रोत्रीणाम् अभिवृद्धये
vayaṃ bhūyaḥ pravakṣyāmo dhāraṇīm aparājitān / dharmabhāṇakarakṣāyai śrotrīṇām abhivṛddhaye
Sanskrit only: no published translation is held for this verse.
छन्दं ददाति को न्व् अत्र बोधिसत्त्वो महायशाः । अनावरणभावाय सत्त्वानां हितवृद्धये
chandaṃ dadāti ko nv atra bodhisattvo mahāyaśāḥ / anāvaraṇabhāvāya sattvānāṃ hitavṛddhaye
Sanskrit only: no published translation is held for this verse.
तेन खलु पुनः समयेन गंगानदीवलुकासमाः कुमारभूता बोधिसत्त्वा महासत्त्वा एककण्ठेनैवम् आहुः । वयम् अप्य् अस्यान् धारण्यां छन्दं ददामो ऽधिष्ठामः । यः कश्चित् कुलपुत्रो वा कुलदुहिता वा भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा स्नात्वा शुचीनि चीवराणि प्रावृत्य नानापुष्पसंछन्ने नानागन्धप्रधूपिते नानारसपरिवृते नानावस्त्राभरणदुष्यसंस्थिते च्छत्रध्वजपताकोच्छ्रेपिते स्वलंकृते मण्डलमाडे मृदुसुखसंस्पर्शे सिंहासने ऽभिरुह्येमान् धारणीं संप्रकाशयेत् । न चास्य कश्चिच् चित्तसंक्षोभं धातुसंक्षोभं कायसंक्षोभं मनःसंक्षोभं वा करिष्यति । न चास्य कश्चित् काये श्वासं मोक्ष्यति । शीर्षरोगं च कर्तुं शक्ष्यति । नेदं स्थानं विद्यते । न कायरोगं वा न जिह्वारोगं न दन्तरोगं नास्थिरोगं न ग्रीवारोगं न बाहुरोगं न पृष्ठिरोगं नान्त्ररोगं नोदररोगं न श्रोणीरोगं नोरुरोगं न जंघारोगं कश्चित् कर्तुं शक्ष्यति । न चास्य स्वरसंक्षोभो भविष्यति यश् (कुरुमिय १३८) च तस्य धर्मभाणकस्य पूर्वाशुभकर्मणा धातुसंक्षोभः स्वरसंक्षोभो वा स्यात् तस्येमान् धारणीं वाचयतः सर्वो निःशेषं प्रशमिष्यति । कर्मपरिक्षयात् स्वस्तिर् भविष्यति । ये ऽपि तत्र धार्मश्रावणिकाः सन्निपतिष्यंति तेषाम् अपि न कश्चिद् धातुसंक्षोभं करिष्यति स्वरसंक्षोभं वा । ये च तत्रेमान् धारणीं श्रोष्यंति तेषां यद् अशुभेन कर्मणा दीर्घगैलान्यं धातुसंक्षोभो वा स्वरसंक्षोभो वा स्यात् तत् सर्वं परिक्षयं यास्यति ॥ अथ खलु चन्द्रप्रभः कुमारभूतः येन ते बुद्धा भगवन्तो गंगानदीवालुकासमा बोधिसत्त्वपरिवारास् तेनांजलिं प्रणम्यैवम् आह । समन्वाहरन्तु मे बुद्धा भगवन्तो ऽस्यां धारण्यां छन्दं ददन्तु ॥ तद्यथा । क्षन्ते असमारोपे । मेत्रे सोमवते । एहि नवकुंजवे नवकुंजवे नवकुंजवे । मूलशोधने । वढक वढक । मारवतथता परिच्छेद बढसे बढसे । अमूल अचले दद प्रचला । विधिले एकनयपरिच्छेद । चण्डतृणे बोसरे बोसरतृणे । खगसुरतृणे स्नवसुरतृणे भूतकोटी (कुरुमिय १३९) परिच्छेद । जलख । जलख । वये जलख । नमक्षख । ककख । ह ह ह ह । फु फु फु फु । स्पर्शवेदनपरिच्छेद । अमम । न्यमम ख्यमम समुद्र मुद्रबख संस्काराणां परिच्छेद बोधिस क्षितिविम । महाविम भूतकोटि आकाशश्वासपरिच्छेदे स्वाहा ॥ तेन खलु पुनः समयेन सर्वबुद्धक्षेत्रान्तर्गता बोधिसत्त्वा महासत्त्वास् ते च महाश्रावकाः शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रास् ते च महौजस्कमहौजस्काः सत्त्वाः सर्वे साधुकारं प्रददुः । ते च बुद्धा भगवन्त एवम् आहुः । महाबलवेगवती सर्वशत्रुनिवारणी बतेयं धारणी सर्वभयव्याधिदुःस्वप्नदुर्निमित्तमोक्षणी यावद् अनावरणज्ञानमहापुण्यज्ञानसमुच्चयानुत्तरज्ञाननिष्यन्देयं धारणी भाषिता ॥ तेन खलु पुनः समयेन भूतेश्वरो नाम महाब्रह्मा महाब्रह्मबलविषयव्यूहाधिष्ठानेन स्त्रीरूपेण भगवतो ऽमितायुषः पुरतो निषसाद । परमवर्णपुष्कलतया समन्वागतः दिव्यातिक्रान्तैः परमोदारैर् वस्त्रालंकारैः पुष्पगन्धमाल्यविलेपनैश् चाभ्यालंकृतः । अथ भूतेश्वरो महाब्रह्मा उत्थायासनाद् अंजलिं प्रणाम्यैवम् आह । अधितिष्ठन्तु मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारविनिश्चयनिर्देशं यद् अहम् इदं कृत्स्नं बुद्धक्षेत्रं स्वरेणाभिविज्ञपयेयं । न च मे ऽत्र कश्चिद् विघ्नो (कुरुमिय १४०) भवेत् । यावद् अहम् एतर्हि धर्मभाणकानां धार्मश्रवणिकानां चार्थे तादृशीं मन्त्रपदरक्षां भाषेत । यथा यः कश्चित् पश्चिमे काले मारो वा मारपर्षद् वा देवो वा नागो व नागी वा नागमहल्लको वा नागमहल्लिका वा नागपार्षदो नागपार्षदि वा नागपोतको वा नागपोतिका वा विस्तरेण कर्तव्यम् । यावत् पिशाचो वा पिशाची वा पिशाचमहल्लको वा पिशाचमहल्लिका वा पिशाचपार्षदो पिशाचपार्षदि वा पिशाचपोतको वा पिशाचपोतिका वा मनुष्यो वा अमनुष्यो वा धर्मभाणकानां धार्मश्रवणिकानां वा अवतारप्रेक्षी अवतारगवेषी प्रत्यर्थिकः प्रत्यमित्रो वा उपसंक्रमेतांतशो धर्मभाणकानां धार्मश्रवणिकानां वा एकरोमकूपम् अपि विहेठयेद् विहिंसयेद् विप्रलोपयेद् ओजो वाहरेच् छ्वासं वा काये प्रक्षिपेद् दुष्टचित्तो वा प्रेक्षेतान्तशः एकक्षणम् अपि तेषाम् अहं माराणां यावन् मनुष्यामनुष्याणां प्रतिषेधं दण्डपरिग्रहं वा कुर्यां जम्भनं मोहनं शपथं दद्यां । अधितिष्ठंतु मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारं यद् अहम् इदं कृत्स्नं बुद्धक्षेत्रं स्वरेणापूरयेयं । कश् चात्र मे साहयो भविष्यतीति ॥ अथ खलु ते बुद्धा भगवन्तस् तूष्णींभावेनाधिवासयाम् आसुः । तत्र (कुरुमिय १४१) च शिखिन्धरो नाम शक्रः जांबूनदमयेन निष्कावभासेनालंकृतकायो नातिदूरे निषण्णः । अथ शिखिन्धरश् शक्रो भूतेश्वरं ब्रह्माणम् एवम् आह । मा भगिन्य् अमितायुषस् तथागतस्य पुरतो निषीदस्व । मा भगिन्य् अत्र प्रमद्यस्व । मा भगवन्तं विहेठय । तत् कस्य हेतोः । प्रपंचाभिरता बाला निष्प्रपंचास् तथागताः । संस्कारं दर्शयन्ते चोत्पादव्यवलक्षणम्
tena khalu punaḥ samayena gaṃgānadīvalukāsamāḥ kumārabhūtā bodhisattvā mahāsattvā ekakaṇṭhenaivam āhuḥ / vayam apy asyān dhāraṇyāṃ chandaṃ dadāmo 'dhiṣṭhāmaḥ / yaḥ kaścit kulaputro vā kuladuhitā vā bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā snātvā śucīni cīvarāṇi prāvṛtya nānāpuṣpasaṃchanne nānāgandhapradhūpite nānārasaparivṛte nānāvastrābharaṇaduṣyasaṃsthite cchatradhvajapatākocchrepite svalaṃkṛte maṇḍalamāḍe mṛdusukhasaṃsparśe siṃhāsane 'bhiruhyemān dhāraṇīṃ saṃprakāśayet / na cāsya kaścic cittasaṃkṣobhaṃ dhātusaṃkṣobhaṃ kāyasaṃkṣobhaṃ manaḥsaṃkṣobhaṃ vā kariṣyati / na cāsya kaścit kāye śvāsaṃ mokṣyati / śīrṣarogaṃ ca kartuṃ śakṣyati / nedaṃ sthānaṃ vidyate / na kāyarogaṃ vā na jihvārogaṃ na dantarogaṃ nāsthirogaṃ na grīvārogaṃ na bāhurogaṃ na pṛṣṭhirogaṃ nāntrarogaṃ nodararogaṃ na śroṇīrogaṃ norurogaṃ na jaṃghārogaṃ kaścit kartuṃ śakṣyati / na cāsya svarasaṃkṣobho bhaviṣyati yaś (Kurumiya 138) ca tasya dharmabhāṇakasya pūrvāśubhakarmaṇā dhātusaṃkṣobhaḥ svarasaṃkṣobho vā syāt tasyemān dhāraṇīṃ vācayataḥ sarvo niḥśeṣaṃ praśamiṣyati / karmaparikṣayāt svastir bhaviṣyati / ye 'pi tatra dhārmaśrāvaṇikāḥ sannipatiṣyaṃti teṣām api na kaścid dhātusaṃkṣobhaṃ kariṣyati svarasaṃkṣobhaṃ vā / ye ca tatremān dhāraṇīṃ śroṣyaṃti teṣāṃ yad aśubhena karmaṇā dīrghagailānyaṃ dhātusaṃkṣobho vā svarasaṃkṣobho vā syāt tat sarvaṃ parikṣayaṃ yāsyati // atha khalu candraprabhaḥ kumārabhūtaḥ yena te buddhā bhagavanto gaṃgānadīvālukāsamā bodhisattvaparivārās tenāṃjaliṃ praṇamyaivam āha / samanvāharantu me buddhā bhagavanto 'syāṃ dhāraṇyāṃ chandaṃ dadantu // tadyathā / kṣante asamārope / metre somavate / ehi navakuṃjave navakuṃjave navakuṃjave / mūlaśodhane / vaḍhaka vaḍhaka / māravatathatā pariccheda baḍhase baḍhase / amūla acale dada pracalā / vidhile ekanayapariccheda / caṇḍatṛṇe bosare bosaratṛṇe / khagasuratṛṇe snavasuratṛṇe bhūtakoṭī (Kurumiya 139) pariccheda / jalakha / jalakha / vaye jalakha / namakṣakha / kakakha / ha ha ha ha / phu phu phu phu / sparśavedanapariccheda / amama / nyamama khyamama samudra mudrabakha saṃskārāṇāṃ pariccheda bodhisa kṣitivima / mahāvima bhūtakoṭi ākāśaśvāsaparicchede svāhā // tena khalu punaḥ samayena sarvabuddhakṣetrāntargatā bodhisattvā mahāsattvās te ca mahāśrāvakāḥ śakrabrahmalokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragendrās te ca mahaujaskamahaujaskāḥ sattvāḥ sarve sādhukāraṃ pradaduḥ / te ca buddhā bhagavanta evam āhuḥ / mahābalavegavatī sarvaśatrunivāraṇī bateyaṃ dhāraṇī sarvabhayavyādhiduḥsvapnadurnimittamokṣaṇī yāvad anāvaraṇajñānamahāpuṇyajñānasamuccayānuttarajñānaniṣyandeyaṃ dhāraṇī bhāṣitā // tena khalu punaḥ samayena bhūteśvaro nāma mahābrahmā mahābrahmabalaviṣayavyūhādhiṣṭhānena strīrūpeṇa bhagavato 'mitāyuṣaḥ purato niṣasāda / paramavarṇapuṣkalatayā samanvāgataḥ divyātikrāntaiḥ paramodārair vastrālaṃkāraiḥ puṣpagandhamālyavilepanaiś cābhyālaṃkṛtaḥ / atha bhūteśvaro mahābrahmā utthāyāsanād aṃjaliṃ praṇāmyaivam āha / adhitiṣṭhantu me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraviniścayanirdeśaṃ yad aham idaṃ kṛtsnaṃ buddhakṣetraṃ svareṇābhivijñapayeyaṃ / na ca me 'tra kaścid vighno (Kurumiya 140) bhavet / yāvad aham etarhi dharmabhāṇakānāṃ dhārmaśravaṇikānāṃ cārthe tādṛśīṃ mantrapadarakṣāṃ bhāṣeta / yathā yaḥ kaścit paścime kāle māro vā māraparṣad vā devo vā nāgo va nāgī vā nāgamahallako vā nāgamahallikā vā nāgapārṣado nāgapārṣadi vā nāgapotako vā nāgapotikā vā vistareṇa kartavyam / yāvat piśāco vā piśācī vā piśācamahallako vā piśācamahallikā vā piśācapārṣado piśācapārṣadi vā piśācapotako vā piśācapotikā vā manuṣyo vā amanuṣyo vā dharmabhāṇakānāṃ dhārmaśravaṇikānāṃ vā avatāraprekṣī avatāragaveṣī pratyarthikaḥ pratyamitro vā upasaṃkrametāṃtaśo dharmabhāṇakānāṃ dhārmaśravaṇikānāṃ vā ekaromakūpam api viheṭhayed vihiṃsayed vipralopayed ojo vāharec chvāsaṃ vā kāye prakṣiped duṣṭacitto vā prekṣetāntaśaḥ ekakṣaṇam api teṣām ahaṃ mārāṇāṃ yāvan manuṣyāmanuṣyāṇāṃ pratiṣedhaṃ daṇḍaparigrahaṃ vā kuryāṃ jambhanaṃ mohanaṃ śapathaṃ dadyāṃ / adhitiṣṭhaṃtu me buddhā bhagavantaḥ svaramaṇḍalavāgvyāhāraṃ yad aham idaṃ kṛtsnaṃ buddhakṣetraṃ svareṇāpūrayeyaṃ / kaś cātra me sāhayo bhaviṣyatīti // atha khalu te buddhā bhagavantas tūṣṇīṃbhāvenādhivāsayām āsuḥ / tatra (Kurumiya 141) ca śikhindharo nāma śakraḥ jāṃbūnadamayena niṣkāvabhāsenālaṃkṛtakāyo nātidūre niṣaṇṇaḥ / atha śikhindharaś śakro bhūteśvaraṃ brahmāṇam evam āha / mā bhaginy amitāyuṣas tathāgatasya purato niṣīdasva / mā bhaginy atra pramadyasva / mā bhagavantaṃ viheṭhaya / tat kasya hetoḥ / prapaṃcābhiratā bālā niṣprapaṃcās tathāgatāḥ / saṃskāraṃ darśayante cotpādavyavalakṣaṇam
Sanskrit only: no published translation is held for this verse.
य इमान् अतिक्रमेन् मन्त्रान् न चरेद् गणसंनिधिं । अक्षि मुष्येत् स्फलेत् शीर्षम् अंगभेदो भवेद् अपि
ya imān atikramen mantrān na cared gaṇasaṃnidhiṃ / akṣi muṣyet sphalet śīrṣam aṃgabhedo bhaved api
Sanskrit only: no published translation is held for this verse.