तृतीयः परिवर्तः अथ खलु अस्यां रत्नकेतुधारण्यां भाष्यमाणायां शाक्यमुनिना तथागतेनार्हता सर्वावतीयं सहालोकधातुरुदारेणावभासेन स्फुटाभूत् । ये चेह बुद्धक्षेत्रे कोटीशतं चातुर्द्वीपिकानां तेषु कोटीशतं कामेश्वराणां मारत्वं कारयन्ति ते बुद्धानुभावेन संविग्ना इमां चातुर्द्वीपिकां व्यवलोकयन्ति स्म । कुतो ऽयमवभासः उत्पन्नः । नूनं पापीमान् नाम मारो यस्तत्र चातुर्द्वीपिकायां प्रतिवसति तस्यैष प्रभावः यो ऽस्मत्तो बलवन्तः ईश्वरतरो महौजस्कश्च । अथ खलु ते मारा व्यवलोकयन्तो ऽद्राक्षुः तं मारं पापीमन्तं कोषागारे निषण्णं परमदुर्मनस्थम् । अथ तत् कोटीशतं माराणां येनेयं चातुर्द्वीपिका येन मारस्य पापीमतो भवनं तेनोपजगाम । उपेत्य मारं पापीमन्तमेवमाह । किं भोः कामेश्वर ! सर्वावतीयं लोकधातुरवभासिता त्वं च शोकागारं प्रविश्य निषण्णः । अथ कामेश्वरो मारः तेषां मारकोटीशतानां विस्तरेणारोचयति स्म । यत् खलु मार्षाः जानीयु[रि]हैकः श्रमण उत्पन्नः शाक्यवंशात् परमशठो मायावी । तेनोत्पन्नमात्रेण सर्वावतीयमिह लोकधातुरवभासिता प्रकम्पिता क्षोभिता । ये केचिदिह कृत्स्नलोकधातौ विद्वांसो महेन्द्रा वा नागेन्द्रा वा यक्षेन्द्रा वा सुरेन्द्रा वा महोरगेन्द्रा वा गरुडेन्द्रा वा (दुत्त् ५२) किन्नरेन्द्रा वा यावदन्ये ऽपि केचिन्म[नु]ष्या विद्वांसस्ते सर्वे तमुपागताः पूजाकर्मणे यावत् षड्वर्षाणि एकाक्यद्वितीयं निषद्या लक्षणां मायां साधितवान् । अहमपि स्वबलदर्शनं चिकीर्षुः एवं षट्त्रिंशत्कोटीसैन्यपरिवारः उपसंक्रम्य समन्ततो ऽनुपरिवार्य सर्वमारबलविकुर्वण-ऋद्धिबलपराक्रमं संदर्शित[वान् । पश्यैकं रोमकू]पमप्यहम् अशक्तो ऽस्मि संत्रासयितुं वा भीषयितुं वा किमङ्ग पुनस्तस्मादासनात् कम्पयितुं किंवा पुनरन्यं विघातं कर्तुमिति । अथ चैतेन वृषलेन तादृशी माया प्रदर्शिता [प्रकं]पश्च कृतः यत् ससैन्यो ऽहं पराजितश्छिन्नवृक्ष इव धरणीतले निपतितः । तेन च तत्रैव निषण्णेन तादृशी अलक्षणा माया सा[धिता ययासौ सर्वमारविषय]मेवा[भि]भूतं साधितविद्यां तस्मादुत्थाय सत्त्वेभ्यः संप्रकाशयामास । ये च केचिदिह चातुर्द्वीपिकायां लोकधातौ पण्डिता विज्ञास्तथा मा[यायां छन्दकृतस्तेषां चित्तं] प्रजानामि गत्युपपत्तिं वा षट्सु गतिषु । ये च तच्छरणगतास्तेषाम् एकरोमकूपमपि न शक्नोमि संत्रासयितुं वा संक्षोभयितुं (दुत्त् ५३) वा [कम्पयितुं वा] लोके पुनस्तस्माद् विसंवादयितुं वा कम्पयितुं वा शक्नुयाम् । अद्यैव च मे पञ्च परिचारिकाशतानि विंशतिश्च पुत्रसहस्राणि सगणपर्षद्यानि वृषलं गौतमं [श्र]मणं शरणं गतास्तस्य पुरतो निषण्णाः । न चाहं भूयस्तानि शक्तस्तस्माद् विवेचयितुम् । तेन हि यूयं बलवन्तः पुण्यवन्तो ज्ञानवन्तः ऐश्वर्यवन्तः [सुहृदो भ]वत । तं शाक्यपुत्रं वृषलं जीविताद् व्यपरोपयिष्यामः । ये च सत्त्वास्तच्छरणगतास्तान् सर्वान् विध्वंसयिष्यामः । कृष्णं मायाशाठ्यं श्रमणपक्षं पराजेष्यामः । [शुक्लं मारप]क्षम् उद्द्योतयिष्यामः । ततः पश्चात् सुखस्पर्शं विहरिष्यामः । अथ ज्योतिष्प्रभो मारः इमं जम्बुद्वीपं व्यवलोकयामास यत्र तथागतः [संनिषण्णो] धर्मं देशयति । अथ ज्योतिष्प्रभो मारो भगवतः कायमद्राक्षीत् स्वरघोषयुक्त[स्तस्य धर्मदे]शनामश्रौषीत् । अथ तावदेव तस्य रोम[हर्षणः] संत्रा[सः] उत्पन्नः । अथ स मारं पापीमन्तमेवमाह । कृत्स्ने क्षेत्रे ह्येष विशिष्टो वररूपः पुण्यज्ञानी [चिरस्थितिकश्च] शुद्धः । चिरकालं क्लेशान्मुक्तो मार्गसुयुक्तः सर्वे तस्य भव[क्षय] शोकविमुक्तः
tṛtīyaḥ parivartaḥ atha khalu asyāṃ ratnaketudhāraṇyāṃ bhāṣyamāṇāyāṃ śākyamuninā tathāgatenārhatā sarvāvatīyaṃ sahālokadhāturudāreṇāvabhāsena sphuṭābhūt / ye ceha buddhakṣetre koṭīśataṃ cāturdvīpikānāṃ teṣu koṭīśataṃ kāmeśvarāṇāṃ māratvaṃ kārayanti te buddhānubhāvena saṃvignā imāṃ cāturdvīpikāṃ vyavalokayanti sma / kuto 'yamavabhāsaḥ utpannaḥ / nūnaṃ pāpīmān nāma māro yastatra cāturdvīpikāyāṃ prativasati tasyaiṣa prabhāvaḥ yo 'smatto balavantaḥ īśvarataro mahaujaskaśca / atha khalu te mārā vyavalokayanto 'drākṣuḥ taṃ māraṃ pāpīmantaṃ koṣāgāre niṣaṇṇaṃ paramadurmanastham / atha tat koṭīśataṃ mārāṇāṃ yeneyaṃ cāturdvīpikā yena mārasya pāpīmato bhavanaṃ tenopajagāma / upetya māraṃ pāpīmantamevamāha / kiṃ bhoḥ kāmeśvara ! sarvāvatīyaṃ lokadhāturavabhāsitā tvaṃ ca śokāgāraṃ praviśya niṣaṇṇaḥ / atha kāmeśvaro māraḥ teṣāṃ mārakoṭīśatānāṃ vistareṇārocayati sma / yat khalu mārṣāḥ jānīyu[ri]haikaḥ śramaṇa utpannaḥ śākyavaṃśāt paramaśaṭho māyāvī / tenotpannamātreṇa sarvāvatīyamiha lokadhāturavabhāsitā prakampitā kṣobhitā / ye kecidiha kṛtsnalokadhātau vidvāṃso mahendrā vā nāgendrā vā yakṣendrā vā surendrā vā mahoragendrā vā garuḍendrā vā (Dutt 52) kinnarendrā vā yāvadanye 'pi kecinma[nu]ṣyā vidvāṃsaste sarve tamupāgatāḥ pūjākarmaṇe yāvat ṣaḍvarṣāṇi ekākyadvitīyaṃ niṣadyā lakṣaṇāṃ māyāṃ sādhitavān / ahamapi svabaladarśanaṃ cikīrṣuḥ evaṃ ṣaṭtriṃśatkoṭīsainyaparivāraḥ upasaṃkramya samantato 'nuparivārya sarvamārabalavikurvaṇa-ṛddhibalaparākramaṃ saṃdarśita[vān / paśyaikaṃ romakū]pamapyaham aśakto 'smi saṃtrāsayituṃ vā bhīṣayituṃ vā kimaṅga punastasmādāsanāt kampayituṃ kiṃvā punaranyaṃ vighātaṃ kartumiti / atha caitena vṛṣalena tādṛśī māyā pradarśitā [prakaṃ]paśca kṛtaḥ yat sasainyo 'haṃ parājitaśchinnavṛkṣa iva dharaṇītale nipatitaḥ / tena ca tatraiva niṣaṇṇena tādṛśī alakṣaṇā māyā sā[dhitā yayāsau sarvamāraviṣaya]mevā[bhi]bhūtaṃ sādhitavidyāṃ tasmādutthāya sattvebhyaḥ saṃprakāśayāmāsa / ye ca kecidiha cāturdvīpikāyāṃ lokadhātau paṇḍitā vijñāstathā mā[yāyāṃ chandakṛtasteṣāṃ cittaṃ] prajānāmi gatyupapattiṃ vā ṣaṭsu gatiṣu / ye ca taccharaṇagatāsteṣām ekaromakūpamapi na śaknomi saṃtrāsayituṃ vā saṃkṣobhayituṃ (Dutt 53) vā [kampayituṃ vā] loke punastasmād visaṃvādayituṃ vā kampayituṃ vā śaknuyām / adyaiva ca me pañca paricārikāśatāni viṃśatiśca putrasahasrāṇi sagaṇaparṣadyāni vṛṣalaṃ gautamaṃ [śra]maṇaṃ śaraṇaṃ gatāstasya purato niṣaṇṇāḥ / na cāhaṃ bhūyastāni śaktastasmād vivecayitum / tena hi yūyaṃ balavantaḥ puṇyavanto jñānavantaḥ aiśvaryavantaḥ [suhṛdo bha]vata / taṃ śākyaputraṃ vṛṣalaṃ jīvitād vyaparopayiṣyāmaḥ / ye ca sattvāstaccharaṇagatāstān sarvān vidhvaṃsayiṣyāmaḥ / kṛṣṇaṃ māyāśāṭhyaṃ śramaṇapakṣaṃ parājeṣyāmaḥ / [śuklaṃ mārapa]kṣam uddyotayiṣyāmaḥ / tataḥ paścāt sukhasparśaṃ vihariṣyāmaḥ / atha jyotiṣprabho māraḥ imaṃ jambudvīpaṃ vyavalokayāmāsa yatra tathāgataḥ [saṃniṣaṇṇo] dharmaṃ deśayati / atha jyotiṣprabho māro bhagavataḥ kāyamadrākṣīt svaraghoṣayukta[stasya dharmade]śanāmaśrauṣīt / atha tāvadeva tasya roma[harṣaṇaḥ] saṃtrā[saḥ] utpannaḥ / atha sa māraṃ pāpīmantamevamāha / kṛtsne kṣetre hyeṣa viśiṣṭo vararūpaḥ puṇyajñānī [cirasthitikaśca] śuddhaḥ / cirakālaṃ kleśānmukto mārgasuyuktaḥ sarve tasya bhava[kṣaya] śokavimuktaḥ
Sanskrit only: no published translation is held for this verse.
मा त्वं भूयः क्रोधवशं गच्छानययुक्तम् अग्रो ह्येष श्रेष्ठः शरण्यस्त्रिभवे ऽस्मिन् । यस्यास्मिन्न द्वेषलवो ऽपि प्रतिभाति व्यामूढो ऽसौ सौख्यविनष्टो भवतीह
mā tvaṃ bhūyaḥ krodhavaśaṃ gacchānayayuktam agro hyeṣa śreṣṭhaḥ śaraṇyastribhave 'smin / yasyāsminna dveṣalavo 'pi pratibhāti vyāmūḍho 'sau saukhyavinaṣṭo bhavatīha
Sanskrit only: no published translation is held for this verse.
अथापरो मारः सन्निमिको नाम तं मारं पापीमन्तमेवमाह । महर्धिको ऽसौ वरपुण्यलक्षणो ह्यनाश्रितः सर्वगतिप्रमुक्तः । अशेष[दुःख]क्षयमार्गदेशको विहिंसितुं मारशतैर्न शक्यम्
athāparo māraḥ sannimiko nāma taṃ māraṃ pāpīmantamevamāha / mahardhiko 'sau varapuṇyalakṣaṇo hyanāśritaḥ sarvagatipramuktaḥ / aśeṣa[duḥkha]kṣayamārgadeśako vihiṃsituṃ māraśatairna śakyam
Sanskrit only: no published translation is held for this verse.
पापीमानाह । वशं मदीयां जनतां कृताहि युष्मज्जनस्तस्य वशानुगो ऽयम् । न चिरात् स शून्यं विषयं करिष्यति अस्मद्गतिः कुत्र पुनर्भविष्यति
pāpīmānāha / vaśaṃ madīyāṃ janatāṃ kṛtāhi yuṣmajjanastasya vaśānugo 'yam / na cirāt sa śūnyaṃ viṣayaṃ kariṣyati asmadgatiḥ kutra punarbhaviṣyati
Sanskrit only: no published translation is held for this verse.
अथ वनराजो नाम मारः स मारं पापीमन्तमेवमाह । यदा तवासीत् परम समृद्धिस्तदा त्वया दर्शितमात्मसौर्यम् । बलप्रनष्टो ऽस्यधुना निराशः किं स्पर्धसे सर्वविदा सहाद्य
atha vanarājo nāma māraḥ sa māraṃ pāpīmantamevamāha / yadā tavāsīt parama samṛddhistadā tvayā darśitamātmasauryam / balapranaṣṭo 'syadhunā nirāśaḥ kiṃ spardhase sarvavidā sahādya
Sanskrit only: no published translation is held for this verse.
खड्गसोमो मारः प्राह । क्वचिन्न तस्यास्ति मनःप्रदोष वा न विशुद्ध [तिष्ठति चित्ता]शयेन । त्रैधातुकान्मुक्तगतिप्रचारो नासौ [परै]र्घातयितुं हि शक्यम्
khaḍgasomo māraḥ prāha / kvacinna tasyāsti manaḥpradoṣa vā na viśuddha [tiṣṭhati cittā]śayena / traidhātukānmuktagatipracāro nāsau [parai]rghātayituṃ hi śakyam
Sanskrit only: no published translation is held for this verse.
पापीमानाह । ये सन्निषण्णा इह लोकधातौ कामप्रसक्ता मदमानमूर्च्छिताः । [सदा]नुवृत्ता मम किंकरास्ते कथं न शक्यं तैर्विघातयितुं समग्रैः
pāpīmānāha / ye sanniṣaṇṇā iha lokadhātau kāmaprasaktā madamānamūrcchitāḥ / [sadā]nuvṛttā mama kiṃkarāste kathaṃ na śakyaṃ tairvighātayituṃ samagraiḥ
Sanskrit only: no published translation is held for this verse.
क्षितितोयो नाम मारः स एवमाह । मायामरीचिप्रतिमानसारान् भावान् परिज्ञाय विनीततृष्णः । भवेष्वसक्तो गगनस्वभावः शक्यं विघतः कथमस्य कर्तुम्
kṣititoyo nāma māraḥ sa evamāha / māyāmarīcipratimānasārān bhāvān parijñāya vinītatṛṣṇaḥ / bhaveṣvasakto gaganasvabhāvaḥ śakyaṃ vighataḥ kathamasya kartum
Sanskrit only: no published translation is held for this verse.
त्रिवेदना चास्य मतौ प्रतिष्ठिता क्षयं प्रणेतुं न कथं हि शक्यम्
trivedanā cāsya matau pratiṣṭhitā kṣayaṃ praṇetuṃ na kathaṃ hi śakyam
Sanskrit only: no published translation is held for this verse.
तृष्णञ्जहो नाम मारः स एवमाह । या ऋद्धिरस्मिन् विषये ऽस्ति काचित् पापीमतां चैव महोरगाणाम् । सिद्धार्थ-ऋद्धेर्न कलां स्पृशन्ति क्षयं प्रणेतुं च कथं हि शक्यम्
tṛṣṇañjaho nāma māraḥ sa evamāha / yā ṛddhirasmin viṣaye 'sti kācit pāpīmatāṃ caiva mahoragāṇām / siddhārtha-ṛddherna kalāṃ spṛśanti kṣayaṃ praṇetuṃ ca kathaṃ hi śakyam
Sanskrit only: no published translation is held for this verse.
पापीमानाह । भक्तच्छेदो मयास्य हि कारितस्तच्छिला पुनः क्षिप्ता । उक्तास्तथा क्रोशा आश्रमात् कम्पितो ऽपि सः
pāpīmānāha / bhaktacchedo mayāsya hi kāritastacchilā punaḥ kṣiptā / uktāstathā krośā āśramāt kampito 'pi saḥ
Sanskrit only: no published translation is held for this verse.
बोधाक्षो नाम मारः स एवमाह । यदा त्वया तस्य कृतो विघातः कश्चित् प्रदोषः कुपितेन तेन । संदर्शितस्ते भृकुटीमुखे वा किं तस्य साक्षात् [कु]वचः श्रुतं ते
bodhākṣo nāma māraḥ sa evamāha / yadā tvayā tasya kṛto vighātaḥ kaścit pradoṣaḥ kupitena tena / saṃdarśitaste bhṛkuṭīmukhe vā kiṃ tasya sākṣāt [ku]vacaḥ śrutaṃ te
Sanskrit only: no published translation is held for this verse.
पापीमानाह । प्रतिसंख्यया सो क्रमते च नित्यं प्रहीणरागो गतदोषमोहः । सर्वेषु सत्त्वेषु स मैत्रचित्तः संसर्गचर्या पुनरस्य नित्यम्
pāpīmānāha / pratisaṃkhyayā so kramate ca nityaṃ prahīṇarāgo gatadoṣamohaḥ / sarveṣu sattveṣu sa maitracittaḥ saṃsargacaryā punarasya nityam
Sanskrit only: no published translation is held for this verse.
दुर्धषो नाम मारः स एवमाह । ये च त्रिसंयोजनपाशबद्धास्तेषां विघाताय वयं यतेम । स तु प्रहीणामयमोहपाशः क्षयं प्रणेतुं च कथं हि शक्यम्
durdhaṣo nāma māraḥ sa evamāha / ye ca trisaṃyojanapāśabaddhāsteṣāṃ vighātāya vayaṃ yatema / sa tu prahīṇāmayamohapāśaḥ kṣayaṃ praṇetuṃ ca kathaṃ hi śakyam
Sanskrit only: no published translation is held for this verse.
पापीमानाह । यूयं मम प्राप्तबलाः सहायाः सद्यो भवन्तो भवताप्रमत्ताः । अपो ऽधितिष्ठामि महीमशेषां सर्वा दिशः पर्वतमालिनी च
pāpīmānāha / yūyaṃ mama prāptabalāḥ sahāyāḥ sadyo bhavanto bhavatāpramattāḥ / apo 'dhitiṣṭhāmi mahīmaśeṣāṃ sarvā diśaḥ parvatamālinī ca
Sanskrit only: no published translation is held for this verse.
नाराचशक्तिक्षुरतोमरांश्च क्षिपामि काये ऽस्य विचूर्णनार्थम् । एभिः प्रयोगैरभिघातदीप्तैस्तं स्थाक्यसिंहं प्रकरोमि भस्म
nārācaśaktikṣuratomarāṃśca kṣipāmi kāye 'sya vicūrṇanārtham / ebhiḥ prayogairabhighātadīptaistaṃ sthākyasiṃhaṃ prakaromi bhasma
Sanskrit only: no published translation is held for this verse.
पेयालम् । यावन्मारकोटीभिर्गाथाकोटी भाषिंता इति । अथ सर्वे माराः एककण्ठेनैवमाहुः । एवमस्तु । गमिष्यामः स्वकस्वकेभ्यो भवनेभ्यः । सन्नाहं बद्ध्वा ससैन्यसपरिवाराः आगमिष्यामो यदस्माकम् ऋद्धिबलविषयं तत्सर्वमादर्शयिष्यामः । अथ त्वं स्वयमेव ज्ञास्यसे यादृशं शौर्यं स श्रमणो गौतमस्तत्क्षणे प्रदर्शयति । अथ ता मारकोट्यः स्वभवनानि गत्वा सन्नाहबन्धं कृत्वा एकैको मारकोटीसहस्रपरिवारो विविधानि वर्माणि प्रावृत्य नानाप्रहरणयुक्तो विविधसन्नाहसंनद्धस्तस्यामेव रात्रया[म]त्ययेनेमं जम्बुद्विपमनुप्राप्तः । अङ्गमगधसन्धौ गगनस्था यावदेवास्मिंश्चातुर्द्वीपिके देवनागयक्षगन्धर्वासुरगरुडकिन्नर-महोरग-प्रेत-पिशाच-कुम्भाण्डा भगवतो ऽन्तिके अप्रसन्नचित्ता अलब्धगौरवमनस्कारा धर्मे संघे चाप्रसन्नचित्तास्ते सर्वे मारेण पापीमता भगवतो ऽन्तिके वधाय उद्योजिताः । ते ऽपि नानाप्रहरणवर्मप्रावृतास्तत्रैव तस्थुः । मारो ऽपि पापिमान् अनुहिमवतः पार्श्वं गत्वा यत्र ज्योतीरस (दुत्त् ५९) ऋषिः प्रतिवसति महेश्वरभक्तिकः अष्टादशसु विद्यास्थानेषु ऋद्धिविषयपारमिप्राप्तः पञ्चशतपरिवारस्तस्य महेश्वररूपेण पुरतः स्थित्वैवमाह । नियतं गौतमगोत्रजो ऋषिवरो विज्ञातो ऽभिज्ञाश्रितो मगधे संवसतीह सो ऽद्य चरती पिण्डाय राज्ञोर्गृहम् । तेन त्वं सह संलपस्व विशदं नानाकथाभिः स्थिरः तत्रैव त्वमप्येव पञ्च नियतं प्राप्स्यस्यभिज्ञावशिम्
peyālam / yāvanmārakoṭībhirgāthākoṭī bhāṣiṃtā iti / atha sarve mārāḥ ekakaṇṭhenaivamāhuḥ / evamastu / gamiṣyāmaḥ svakasvakebhyo bhavanebhyaḥ / sannāhaṃ baddhvā sasainyasaparivārāḥ āgamiṣyāmo yadasmākam ṛddhibalaviṣayaṃ tatsarvamādarśayiṣyāmaḥ / atha tvaṃ svayameva jñāsyase yādṛśaṃ śauryaṃ sa śramaṇo gautamastatkṣaṇe pradarśayati / atha tā mārakoṭyaḥ svabhavanāni gatvā sannāhabandhaṃ kṛtvā ekaiko mārakoṭīsahasraparivāro vividhāni varmāṇi prāvṛtya nānāpraharaṇayukto vividhasannāhasaṃnaddhastasyāmeva rātrayā[ma]tyayenemaṃ jambudvipamanuprāptaḥ / aṅgamagadhasandhau gaganasthā yāvadevāsmiṃścāturdvīpike devanāgayakṣagandharvāsuragaruḍakinnara-mahoraga-preta-piśāca-kumbhāṇḍā bhagavato 'ntike aprasannacittā alabdhagauravamanaskārā dharme saṃghe cāprasannacittāste sarve māreṇa pāpīmatā bhagavato 'ntike vadhāya udyojitāḥ / te 'pi nānāpraharaṇavarmaprāvṛtāstatraiva tasthuḥ / māro 'pi pāpimān anuhimavataḥ pārśvaṃ gatvā yatra jyotīrasa (Dutt 59) ṛṣiḥ prativasati maheśvarabhaktikaḥ aṣṭādaśasu vidyāsthāneṣu ṛddhiviṣayapāramiprāptaḥ pañcaśataparivārastasya maheśvararūpeṇa purataḥ sthitvaivamāha / niyataṃ gautamagotrajo ṛṣivaro vijñāto 'bhijñāśrito magadhe saṃvasatīha so 'dya caratī piṇḍāya rājñorgṛham / tena tvaṃ saha saṃlapasva viśadaṃ nānākathābhiḥ sthiraḥ tatraiva tvamapyeva pañca niyataṃ prāpsyasyabhijñāvaśim
Sanskrit only: no published translation is held for this verse.
अथ मारः पापीमानिमां गाथां भाषित्वा तत्रैवान्तर्हितः । स्वभवनञ्च गत्वा स्वपार्षद्यानां माराणामारोचयति स्म । मत्तो भोः शृणुताद्य यादृगतुला बुद्धिर्मया चिन्तिता स्वैरं शाक्यसुतं समालपयत ऋद्धिप्रभावान्वितम् । तां मायां न विदर्शयेत् स्वविषयां मारोरुदर्पो महान् नित्यं स्निग्धवचः स शिष्यनियतो मातेव पुत्रेषु च
atha māraḥ pāpīmānimāṃ gāthāṃ bhāṣitvā tatraivāntarhitaḥ / svabhavanañca gatvā svapārṣadyānāṃ mārāṇāmārocayati sma / matto bhoḥ śṛṇutādya yādṛgatulā buddhirmayā cintitā svairaṃ śākyasutaṃ samālapayata ṛddhiprabhāvānvitam / tāṃ māyāṃ na vidarśayet svaviṣayāṃ mārorudarpo mahān nityaṃ snigdhavacaḥ sa śiṣyaniyato māteva putreṣu ca
Sanskrit only: no published translation is held for this verse.
गृण्हीमो द्रुत नृत्यगीतमधुरप्राधान्यभावैर्यथा श्रुत्वैतां प्रकृतिं मनोविरसतां यायात् स शाक्यर्षभः
gṛṇhīmo druta nṛtyagītamadhuraprādhānyabhāvairyathā śrutvaitāṃ prakṛtiṃ manovirasatāṃ yāyāt sa śākyarṣabhaḥ
Sanskrit only: no published translation is held for this verse.
अपरो मार एवमाह । सिंहव्याघ्रगजोष्ट्रचण्डमहिषाः क्षिप्रं पुरस्यास्य हि प्रावृण्मेघनिनादिनः खररवान्निर्मीय नैकान् बहिः । तिष्ठेमो वयमायुधप्रहरणाः साक्षात् स दृष्ट्वाद्भुतान् भ्रान्तो ऋद्धिमपास्य यास्यति ततो नानादिशो विस्मृतः
aparo māra evamāha / siṃhavyāghragajoṣṭracaṇḍamahiṣāḥ kṣipraṃ purasyāsya hi prāvṛṇmeghaninādinaḥ khararavānnirmīya naikān bahiḥ / tiṣṭhemo vayamāyudhapraharaṇāḥ sākṣāt sa dṛṣṭvādbhutān bhrānto ṛddhimapāsya yāsyati tato nānādiśo vismṛtaḥ
Sanskrit only: no published translation is held for this verse.
अपरो मारः प्राह । वीथीचत्वरतोरणेषु बहुशः स्थित्वा विरूपैर्मुखैर् नानाद्यायुधतीक्ष्णतोमरशरप्रासासिखड्गाश्रितैः । आकाशाद् घनरावसुप्रहरणैर्मेघाशनिं मुञ्चतः क्षिप्रं स सभयं प्रयास्यति ततो भूकम्पहेतोर्वशम्
aparo māraḥ prāha / vīthīcatvaratoraṇeṣu bahuśaḥ sthitvā virūpairmukhair nānādyāyudhatīkṣṇatomaraśaraprāsāsikhaḍgāśritaiḥ / ākāśād ghanarāvasupraharaṇairmeghāśaniṃ muñcataḥ kṣipraṃ sa sabhayaṃ prayāsyati tato bhūkampahetorvaśam
Sanskrit only: no published translation is held for this verse.
तेन खलु पुनः समयेन चत्वारो महाश्रावकाः पूर्वाण्हे निवास्य पात्रचीवरमादाय राजगृहं महानगरं पिण्डाय प्रविविशुः । आयुष्मान् शारिपुत्रो दक्षिणेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्रविवेश । तत्र च नगरे पञ्चाशन्मारकुमारकाः परमयौवनसुरूपा महत्मवेषसदृशा नृत्यन्तो गायन्तः संचेरुः । ते आयुष्मन्तं शारिपुत्रमुभाभ्यां पाणिभ्यां गृहीत्वा वीथ्यां धावन्ति स्म नृत्यन्तो गायन्तः शारिपुत्रमेवमाहुः । नर्तस्व श्रमण गायस्व श्रमण । शारिपुत्र आह । शृणुत यूयं मार्षाः स्वयम् । अश्रुतपूर्वां गीतिकां श्रावयिष्यामि । ते च सव मारकुमारका धावन्तो गीतस्वरेण सह शारिपुत्रेणैवमाहुः । अलमेव हि आयतनेहि वञ्चिता वयमायतनेहि । आघतनानि हि आयतनानि अन्तु करोम्यहु आयतनानाम्
tena khalu punaḥ samayena catvāro mahāśrāvakāḥ pūrvāṇhe nivāsya pātracīvaramādāya rājagṛhaṃ mahānagaraṃ piṇḍāya praviviśuḥ / āyuṣmān śāriputro dakṣiṇena nagaradvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya praviveśa / tatra ca nagare pañcāśanmārakumārakāḥ paramayauvanasurūpā mahatmaveṣasadṛśā nṛtyanto gāyantaḥ saṃceruḥ / te āyuṣmantaṃ śāriputramubhābhyāṃ pāṇibhyāṃ gṛhītvā vīthyāṃ dhāvanti sma nṛtyanto gāyantaḥ śāriputramevamāhuḥ / nartasva śramaṇa gāyasva śramaṇa / śāriputra āha / śṛṇuta yūyaṃ mārṣāḥ svayam / aśrutapūrvāṃ gītikāṃ śrāvayiṣyāmi / te ca sava mārakumārakā dhāvanto gītasvareṇa saha śāriputreṇaivamāhuḥ / alameva hi āyatanehi vañcitā vayamāyatanehi / āghatanāni hi āyatanāni antu karomyahu āyatanānām
Sanskrit only: no published translation is held for this verse.
अलमेव हि स्कन्धकृतेहि वञ्चिता वयं स्कन्धकृतेहि । आघतनानि हि स्कन्धकृतानि अन्तु करोम्यहु स्कन्धकृतानाम्
alameva hi skandhakṛtehi vañcitā vayaṃ skandhakṛtehi / āghatanāni hi skandhakṛtāni antu karomyahu skandhakṛtānām
Sanskrit only: no published translation is held for this verse.
तद्यथा । वहर वहर । भारवह मरीचिवह । सद्यवह अमवह । स्वाहा ॥ स्थविरः शारिपुत्रो धावन् गीतस्वरेण इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवमाहुः । क्षमापयामो वयमद्य नाथं त्वामेव बन्धुं जगतः सुदेशिकम् । स्कन्धा यथा ते सभयाः प्रदिष्टाः तव वयं साक्षिण एषु नित्यम्
tadyathā / vahara vahara / bhāravaha marīcivaha / sadyavaha amavaha / svāhā // sthaviraḥ śāriputro dhāvan gītasvareṇa imā gāthā imāni ca mantrapadāni bhāṣate sma / atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasa evamāhuḥ / kṣamāpayāmo vayamadya nāthaṃ tvāmeva bandhuṃ jagataḥ sudeśikam / skandhā yathā te sabhayāḥ pradiṣṭāḥ tava vayaṃ sākṣiṇa eṣu nityam
Sanskrit only: no published translation is held for this verse.
सर्वे च ते शारिपुत्रस्य वीथीमध्ये पादौ शिरसाभिवन्द्य पुरतो निषेदुर्धर्मश्रवणाय । अथ खल्वायुष्मान् महामौद्गल्यायनः पूर्वेण नगरद्वारेण राजगृहे महानगरे पिण्डाय प्राविशत् । तथापि पञ्चाशन्मारकुमारका यावद् गीतस्वरेणैवाहुः । अलमेव हि धातुमयेहि वाञ्चिता वयं धातुमयेहि । आघतनानि हि धातुमयानि अन्तु करोम्यहु धातुमयानाम्
sarve ca te śāriputrasya vīthīmadhye pādau śirasābhivandya purato niṣedurdharmaśravaṇāya / atha khalvāyuṣmān mahāmaudgalyāyanaḥ pūrveṇa nagaradvāreṇa rājagṛhe mahānagare piṇḍāya prāviśat / tathāpi pañcāśanmārakumārakā yāvad gītasvareṇaivāhuḥ / alameva hi dhātumayehi vāñcitā vayaṃ dhātumayehi / āghatanāni hi dhātumayāni antu karomyahu dhātumayānām
Sanskrit only: no published translation is held for this verse.
अलमेव हि वेदयितेहि वञ्चिता वयं वेदयितेहि । आघतनानि हि वेदयितानि अन्तु करोम्यहु वेदयितानाम्
alameva hi vedayitehi vañcitā vayaṃ vedayitehi / āghatanāni hi vedayitāni antu karomyahu vedayitānām
Sanskrit only: no published translation is held for this verse.
अलमेव हि चेतयितेहि वञ्चिता वयं चेतयितेहि । आघतनानि हि चेतयितानाम् अन्तु करोम्यहु चेतयितानाम्
alameva hi cetayitehi vañcitā vayaṃ cetayitehi / āghatanāni hi cetayitānām antu karomyahu cetayitānām
Sanskrit only: no published translation is held for this verse.
अलमेव हि संज्ञाकृतेहि वञ्चिता वयं संज्ञाकृतेहि । आघतनानि हि संज्ञाकृतानि अन्तु करोम्यहु संज्ञाकृतानाम्
alameva hi saṃjñākṛtehi vañcitā vayaṃ saṃjñākṛtehi / āghatanāni hi saṃjñākṛtāni antu karomyahu saṃjñākṛtānām
Sanskrit only: no published translation is held for this verse.
अलमेव हि संसरितेहि वञ्चिता वयं संसरितेहि । आघतनानि हि संसरितानि अन्तु करोम्यहु संसरितानाम्
alameva hi saṃsaritehi vañcitā vayaṃ saṃsaritehi / āghatanāni hi saṃsaritāni antu karomyahu saṃsaritānām
Sanskrit only: no published translation is held for this verse.
तद् यथा । आमव आमव आमव । आरज रणजह । शम्यथ शम्यथ शम्यथ । गगनपम स्वाहा ॥ धावन् गीतस्वरेण आयुष्मान् महामौद्गल्यायनो मारपुत्रेभ्यः इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनसः एवमाहुः । ऋद्ध्यान्वितेर्यापथगुप्तमुनीन्द्रसूनुः संसारदोषसमदर्शक-धर्मदीपः । पापं प्रहाय वयमादरभक्तिजाता बुद्धं गताद्य शरणं वरधर्मसंघम्
tad yathā / āmava āmava āmava / āraja raṇajaha / śamyatha śamyatha śamyatha / gaganapama svāhā // dhāvan gītasvareṇa āyuṣmān mahāmaudgalyāyano māraputrebhyaḥ imā gāthā imāni ca mantrapadāni bhāṣate sma / atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannamanasaḥ evamāhuḥ / ṛddhyānviteryāpathaguptamunīndrasūnuḥ saṃsāradoṣasamadarśaka-dharmadīpaḥ / pāpaṃ prahāya vayamādarabhaktijātā buddhaṃ gatādya śaraṇaṃ varadharmasaṃgham
Sanskrit only: no published translation is held for this verse.
अलमेव हि स्पर्शकृतेहि वञ्चिता वयं स्पर्शकृतेहि आघतनानि हि स्पर्शकृतानि अन्तु करोम्यहु स्पर्शकृतानाम्
alameva hi sparśakṛtehi vañcitā vayaṃ sparśakṛtehi āghatanāni hi sparśakṛtāni antu karomyahu sparśakṛtānām
Sanskrit only: no published translation is held for this verse.
अलमेव हि आघिपतेहि वञ्चिता वयम् आधिपतेहि आघतनानि हि आधिपतीनि अन्तु करोम्यहु आधिपतोनाम्
alameva hi āghipatehi vañcitā vayam ādhipatehi āghatanāni hi ādhipatīni antu karomyahu ādhipatonām
Sanskrit only: no published translation is held for this verse.
अलमेव हि संसरितेहि वञ्चिता वयं संसरितेहि । आघतनानि हि संसरितानि अन्तु करोम्यहु संसरितानाम्
alameva hi saṃsaritehi vañcitā vayaṃ saṃsaritehi / āghatanāni hi saṃsaritāni antu karomyahu saṃsaritānām
Sanskrit only: no published translation is held for this verse.
अलमेव हि सर्वभवेहि वञ्चिता वयं सर्वभवेहि । आघतनानि हि सर्वभवानि अन्तु करोम्यहु सर्वभवानाम्
alameva hi sarvabhavehi vañcitā vayaṃ sarvabhavehi / āghatanāni hi sarvabhavāni antu karomyahu sarvabhavānām
Sanskrit only: no published translation is held for this verse.
लघु गच्छति आयु मार्षा सलिला शीघ्रजवेन वेगिनी । न च जानति बालिशो जनो अबुधो रूपमदेन मत्तकः
laghu gacchati āyu mārṣā salilā śīghrajavena veginī / na ca jānati bāliśo jano abudho rūpamadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
पेयालाम् । अबुधः शब्दमदेन मत्तकः
peyālām / abudhaḥ śabdamadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
अबुधो गन्धमदेन मत्तकः
abudho gandhamadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
अबुधो रसमदेन मत्तकः
abudho rasamadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
अबुधः स्पर्शमदेन मत्तकः
abudhaḥ sparśamadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
न च पश्यति बालिशो जनो अबुधो धर्ममदेन मत्तकः
na ca paśyati bāliśo jano abudho dharmamadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
अबुधः स्कन्धमदेन मत्तकः
abudhaḥ skandhamadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
अबुधो धातुमदेन मत्तकः
abudho dhātumadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
अबुधो भोगमदेन मत्तकः
abudho bhogamadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
अबुधः सौख्यमदेन मत्तकः
abudhaḥ saukhyamadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
अबुधो जातिमदेन मत्तकः
abudho jātimadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
अबुधः काममदेन मत्तकः
abudhaḥ kāmamadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
लघु गच्छति आयु मार्षाः सलिला शीघ्रजवेन वेगिनी । न च जानति बालिशो जनो अबुधः सर्वमदेन मत्तकः
laghu gacchati āyu mārṣāḥ salilā śīghrajavena veginī / na ca jānati bāliśo jano abudhaḥ sarvamadena mattakaḥ
Sanskrit only: no published translation is held for this verse.
त्वयोपदिष्टः खलु शान्तिमार्गो मायामरीचिप्रतिमाश्च धातवः । संकल्पमात्र-जनितो वत जिवलोको रत्नत्रयं हि शरणं वरदं व्रजामः
tvayopadiṣṭaḥ khalu śāntimārgo māyāmarīcipratimāśca dhātavaḥ / saṃkalpamātra-janito vata jivaloko ratnatrayaṃ hi śaraṇaṃ varadaṃ vrajāmaḥ
Sanskrit only: no published translation is held for this verse.
सर्वे ते पञ्चाशन्मारकुमारका आयुष्मतः पूर्णस्य पादौ शिरसाभिवन्द्य वीथीमध्ये तस्य पुरतो निषण्णा धर्मश्रवणाय । तेन च समयेन आयुष्मान् सुभूतिः पश्चिमेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्राविशत् । तत्र च नगरद्वारे पञ्चाशन्मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेषधारिणो नृत्यन्तो गायन्तो विचेरुः । ते आयुष्मन्तं सुभूतिमुभाभ्यां पाणिभ्यां गृह्य वीथ्यां धावन्तः आयुष्मन्तं सुभूतिमेवमाहुः । नर्तस्व श्रमण गायस्व श्रमण । सुभूतिराह । शृणुत मार्षा यूयम् । अश्रुतपूर्वां गीतिकां श्रावयिष्यामि । सर्वे चाल्पशब्दा अभूवन् । धावन् गीतस्वरेण आयुष्मान् सुभूतिरेवमाह । अनित्य सर्वभाव माय-बुद्बुदोपमा न नित्यमस्ति संस्कृते क्वचिच्चलात्मके यथा । मरीचि दृष्टमेव यथा नास्ति तत्र शाश्वतं लघु व्ययो हि सर्व धर्म बुद्धिमान् प्रजानते
sarve te pañcāśanmārakumārakā āyuṣmataḥ pūrṇasya pādau śirasābhivandya vīthīmadhye tasya purato niṣaṇṇā dharmaśravaṇāya / tena ca samayena āyuṣmān subhūtiḥ paścimena nagaradvāreṇa rājagṛhaṃ mahānagaraṃ piṇḍāya prāviśat / tatra ca nagaradvāre pañcāśanmārakumārakāḥ paramayauvanasurūpā mahātmaputraveṣadhāriṇo nṛtyanto gāyanto viceruḥ / te āyuṣmantaṃ subhūtimubhābhyāṃ pāṇibhyāṃ gṛhya vīthyāṃ dhāvantaḥ āyuṣmantaṃ subhūtimevamāhuḥ / nartasva śramaṇa gāyasva śramaṇa / subhūtirāha / śṛṇuta mārṣā yūyam / aśrutapūrvāṃ gītikāṃ śrāvayiṣyāmi / sarve cālpaśabdā abhūvan / dhāvan gītasvareṇa āyuṣmān subhūtirevamāha / anitya sarvabhāva māya-budbudopamā na nityamasti saṃskṛte kvaciccalātmake yathā / marīci dṛṣṭameva yathā nāsti tatra śāśvataṃ laghu vyayo hi sarva dharma buddhimān prajānate
Sanskrit only: no published translation is held for this verse.
सर्वे स्पर्शदुःखभारवेदना निरात्मिका यत्र प्रसक्त सर्वे बाल दुःखधर्मपिडिताः । मित्रं न कश्चिदस्ति सर्वदुःखमोचका यथा हि श्रद्धा बोधिमार्ग भावना च सेविता
sarve sparśaduḥkhabhāravedanā nirātmikā yatra prasakta sarve bāla duḥkhadharmapiḍitāḥ / mitraṃ na kaścidasti sarvaduḥkhamocakā yathā hi śraddhā bodhimārga bhāvanā ca sevitā
Sanskrit only: no published translation is held for this verse.
एकपक्ष सर्वधर्म संज्ञा वर्जिता शुभा निरात्मयोग सर्वचर्य द्रव्यलक्षणात्मिका । न जीवपोषपुद्गलो ऽपि कारको न विद्यते विज्ञात्व मायाशाठ्य बोधिचित्त नामय
ekapakṣa sarvadharma saṃjñā varjitā śubhā nirātmayoga sarvacarya dravyalakṣaṇātmikā / na jīvapoṣapudgalo 'pi kārako na vidyate vijñātva māyāśāṭhya bodhicitta nāmaya
Sanskrit only: no published translation is held for this verse.
विज्ञान वर्ततेन्द्रियेषु विद्युता यथा नभे अनात्मकाश्च सर्वे स्पर्शवेदनापि चेतना । योनिशो निरीक्ष्य किंचिदस्ति नैव द्रव्यता संमोहितो हि बालवर्गो यन्त्रवत् प्रवर्तते
vijñāna vartatendriyeṣu vidyutā yathā nabhe anātmakāśca sarve sparśavedanāpi cetanā / yoniśo nirīkṣya kiṃcidasti naiva dravyatā saṃmohito hi bālavargo yantravat pravartate
Sanskrit only: no published translation is held for this verse.
स्कन्ध सर्वे योनिशो विभाव्य कारको न लभ्यते भूतकोटि शान्त शून्य सर्व अन्तवर्जिता । अमोहधर्मतैष उक्त बोधिमार्गचारिका- नयेहि नायकेन बोधिप्राप्ततायिना
skandha sarve yoniśo vibhāvya kārako na labhyate bhūtakoṭi śānta śūnya sarva antavarjitā / amohadharmataiṣa ukta bodhimārgacārikā- nayehi nāyakena bodhiprāptatāyinā
Sanskrit only: no published translation is held for this verse.
तद्यथा । सुमुन्दे विमुन्दे सुन्दजहि । सिलि सिलि । सिलि सिलि । अवहसिलि [अवह]सिलि । तथात्वसिलि भूतकोटिसिलि स्वाहा ॥ अथायुष्मान् सुभूतिर्धावन् गीतस्वरेण इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नसनसः एवमाहुः । अश्रुत्वा हीदृशान् धर्मान् पापमित्रवशानुगैः । यत् कृतं पापकं कर्म [मोहेनाज्ञानतस्तथा]
tadyathā / sumunde vimunde sundajahi / sili sili / sili sili / avahasili [avaha]sili / tathātvasili bhūtakoṭisili svāhā // athāyuṣmān subhūtirdhāvan gītasvareṇa imā gāthā imāni ca mantrapadāni bhāṣate sma / atha te pañcāśanmārakumārakāḥ paramahṛṣṭāḥ suprasannasanasaḥ evamāhuḥ / aśrutvā hīdṛśān dharmān pāpamitravaśānugaiḥ / yat kṛtaṃ pāpakaṃ karma [mohenājñānatastathā]
Sanskrit only: no published translation is held for this verse.
प्रतिदेशय तच्चैव वयं साक्षाज् जिनात्मजाः प्रणिधानं शुभं कुर्मो बुद्धत्वाय जगद्धिते
pratideśaya taccaiva vayaṃ sākṣāj jinātmajāḥ praṇidhānaṃ śubhaṃ kurmo buddhatvāya jagaddhite
Sanskrit only: no published translation is held for this verse.
सर्व ते पञ्चाशन्मारकुमारका आयुष्मतः सुभूतेः पादौ शिरसा वन्दित्वा तस्यैव पुरतो वीथीमध्ये निषेदुर्धर्मश्रवणाय । तेन खलु पुनः समयेन सा वीथी बुद्धानुभावेन योजनशतविस्तीर्णावकाशं संदृश्यते स्म । तत्र च वीथीमध्ये स्थविर शारिपुत्रः उत्तरामुखो निषण्णः । महामौद्गल्यायनः पञ्चिमामुखो निषण्णः । पूर्णो दक्षिणामुखः । सुभूतिः पूर्वामुखः । परस्परमर्धयोजनप्रमाणेन तस्थुः । तेषां च चतुर्णां महाश्रावकाणां मध्ये पृथिवीप्रदेशे पद्मं प्रादुरभूत् पञ्चाशद्धस्तविस्तारं (दुत्त् ६९) जाम्बूनदमयेन दण्डेन नीलवैडूर्यमयैः पत्रैः श्रीगर्भमयेन केसरेण मुखामयया कर्णीकया । ततश्च पद्मान्महानवभासो ऽभवत् । तस्यां च वीथ्यां तत्पद्मं त्रिपौरुषम् उच्चत्वेन संदृश्यते स्म यावच्चातुर्महाराजकायिकेषु देवेषु तत्पद्मं दिव्यानि पञ्चाशद् योजनानि उच्चत्वेन संदृश्यते स्म । त्रायस्त्रिंशत्सु तत्पद्मं योजनशतमुच्चत्वेन संदृश्यते स्म यावदकनिष्ठेषु देवेषु तत्पद्मम् अर्धयोजनमुच्चत्वेन संदृश्यते स्म । तस्य च पद्मस्य पत्रेभ्यो नानार्थपदाः श्लोका निश्चेरुः । ये सत्त्वा इह भूमिस्थितास्ते इमान् श्लोकान् शुश्रुवः । एकः पुद्गल उत्पन्नो बुद्धक्षेत्रे इहानघः । निहतो मार एकेन ससैन्यबलवाहनः
sarva te pañcāśanmārakumārakā āyuṣmataḥ subhūteḥ pādau śirasā vanditvā tasyaiva purato vīthīmadhye niṣedurdharmaśravaṇāya / tena khalu punaḥ samayena sā vīthī buddhānubhāvena yojanaśatavistīrṇāvakāśaṃ saṃdṛśyate sma / tatra ca vīthīmadhye sthavira śāriputraḥ uttarāmukho niṣaṇṇaḥ / mahāmaudgalyāyanaḥ pañcimāmukho niṣaṇṇaḥ / pūrṇo dakṣiṇāmukhaḥ / subhūtiḥ pūrvāmukhaḥ / parasparamardhayojanapramāṇena tasthuḥ / teṣāṃ ca caturṇāṃ mahāśrāvakāṇāṃ madhye pṛthivīpradeśe padmaṃ prādurabhūt pañcāśaddhastavistāraṃ (Dutt 69) jāmbūnadamayena daṇḍena nīlavaiḍūryamayaiḥ patraiḥ śrīgarbhamayena kesareṇa mukhāmayayā karṇīkayā / tataśca padmānmahānavabhāso 'bhavat / tasyāṃ ca vīthyāṃ tatpadmaṃ tripauruṣam uccatvena saṃdṛśyate sma yāvaccāturmahārājakāyikeṣu deveṣu tatpadmaṃ divyāni pañcāśad yojanāni uccatvena saṃdṛśyate sma / trāyastriṃśatsu tatpadmaṃ yojanaśatamuccatvena saṃdṛśyate sma yāvadakaniṣṭheṣu deveṣu tatpadmam ardhayojanamuccatvena saṃdṛśyate sma / tasya ca padmasya patrebhyo nānārthapadāḥ ślokā niśceruḥ / ye sattvā iha bhūmisthitāste imān ślokān śuśruvaḥ / ekaḥ pudgala utpanno buddhakṣetre ihānaghaḥ / nihato māra ekena sasainyabalavāhanaḥ
Sanskrit only: no published translation is held for this verse.
एकेन बुद्धवीर्येण धर्मचक्रं प्रवर्तितम् । एकाकीह जगद्धेतोराया[तो हि] न संशयः
ekena buddhavīryeṇa dharmacakraṃ pravartitam / ekākīha jagaddhetorāyā[to hi] na saṃśayaḥ
Sanskrit only: no published translation is held for this verse.
विद्वांसौ बहुनीतिशस्त्रकुशलौ धर्मार्थमोक्षार्थिकौ नीतिज्ञौ उपतिष्यकौलितवरौ शास्त्रे विनीताविह । विद्वान् सर्वजगद्धितार्थकुशलः सद्धर्मवादी महान् नेष्यत्यद्य स सर्वलोकमहितो वादिप्रधानो मुनिः
vidvāṃsau bahunītiśastrakuśalau dharmārthamokṣārthikau nītijñau upatiṣyakaulitavarau śāstre vinītāviha / vidvān sarvajagaddhitārthakuśalaḥ saddharmavādī mahān neṣyatyadya sa sarvalokamahito vādipradhāno muniḥ
Sanskrit only: no published translation is held for this verse.
लोकस्याथ हितप्रचारकुशलो ज्ञानप्रदीपो महान् सद्वादी त्रिमलप्रहीण इह सो अद्यैव संगास्यति
lokasyātha hitapracārakuśalo jñānapradīpo mahān sadvādī trimalaprahīṇa iha so adyaiva saṃgāsyati
Sanskrit only: no published translation is held for this verse.
लोकार्थमभ्रान्तमतिश्चचार दुःखार्दितं सर्व जगद् विमोचयन् । अविद्यया नीवृतलोचनानां सद्धर्मचक्षुः प्रददौ यथावत्
lokārthamabhrāntamatiścacāra duḥkhārditaṃ sarva jagad vimocayan / avidyayā nīvṛtalocanānāṃ saddharmacakṣuḥ pradadau yathāvat
Sanskrit only: no published translation is held for this verse.
सर्वावतीयं परिषत् समागता न चिरादिहायास्यति वादिसिंहः । परमार्थदर्शी परमं सुरूपो बलैरुपेतो हि परापरज्ञः
sarvāvatīyaṃ pariṣat samāgatā na cirādihāyāsyati vādisiṃhaḥ / paramārthadarśī paramaṃ surūpo balairupeto hi parāparajñaḥ
Sanskrit only: no published translation is held for this verse.
दृष्ट्वा जगद्दुःखमहार्णवस्थम् आहन्तुमायास्यति धर्म[भेरीम्] । षडिण्द्रियैरुत्तमसंवरस्थः [षडाश्रयश्च षड]भिज्ञकोविदः
dṛṣṭvā jagadduḥkhamahārṇavastham āhantumāyāsyati dharma[bherīm] / ṣaḍiṇdriyairuttamasaṃvarasthaḥ [ṣaḍāśrayaśca ṣaḍa]bhijñakovidaḥ
Sanskrit only: no published translation is held for this verse.
षट्पारधर्मोत्तमदेशनायै षड्बीज आयास्यति वादिसिंहः । षडिन्द्रियग्रा[मविहेठनाय] षडुत्तमार्थ स्मृति सारथेन्द्रः
ṣaṭpāradharmottamadeśanāyai ṣaḍbīja āyāsyati vādisiṃhaḥ / ṣaḍindriyagrā[maviheṭhanāya] ṣaḍuttamārtha smṛti sārathendraḥ
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.