ततो ऽसौ जनको ऽप्य् एतद् दृष्ट्वा श्रुत्वा प्रविस्मितः । किं एतद् इति साशंका ज्ञातिन् आहूय चाब्रवीत् । भवन्तो ऽद्य प्रजातं मे पुत्ररत्नं मनोहरं । तन् निमित्तं निरीक्ष्यैतत् सत्यं मे वक्तुम् अर्हथ । इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातयो मुदा । तत् पुत्रं दारकं द्रष्टुं तत् कोष्ठं समुपादिशत् । तथासौ दारकश् चैवं तान् दृष्ट्वा समुपस्थितान् । भुजौ पश्यन् परिष्वज्य चुंवित्वैवम् अभाषत । अहो वताद्य मे हस्तौ सुचिरेण मयाधुना । भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदा चन । खरां वाचं च मार्हत्सु निश्चारयत सर्वदा । एवं संदर्शयं हस्तौ वचनं संवदं शिशुः । दारको ऽसौ पुनः सुप्तो निद्रां भेजे यद् इछया । एतत् ते ज्ञातयो दृष्ट्वा श्रुत्वा सर्वे ऽपि विस्मिताः । किम् एतद् इति भाषन्तो वभूवुः परिसंकिताः
tato 'sau janako 'py etad dṛṣṭvā śrutvā pravismitaḥ / kiṃ etad iti sāśaṃkā jñātin āhūya cābravīt / bhavanto 'dya prajātaṃ me putraratnaṃ manoharaṃ / tan nimittaṃ nirīkṣyaitat satyaṃ me vaktum arhatha / iti tenoditaṃ śrutvā sarve te jñātayo mudā / tat putraṃ dārakaṃ draṣṭuṃ tat koṣṭhaṃ samupādiśat / tathāsau dārakaś caivaṃ tān dṛṣṭvā samupasthitān / bhujau paśyan pariṣvajya cuṃvitvaivam abhāṣata / aho vatādya me hastau sucireṇa mayādhunā / bhavanto 'rhatsu mā cittaṃ dūṣayata kadā cana / kharāṃ vācaṃ ca mārhatsu niścārayata sarvadā / evaṃ saṃdarśayaṃ hastau vacanaṃ saṃvadaṃ śiśuḥ / dārako 'sau punaḥ supto nidrāṃ bheje yad ichayā / etat te jñātayo dṛṣṭvā śrutvā sarve 'pi vismitāḥ / kim etad iti bhāṣanto vabhūvuḥ parisaṃkitāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.