ततश् च विस्मितः शक्रस् त्रयस्त्रिंशे व्यलोकयन् । तत्रापि तं न चाद्राक्षीत् कुत्रापि च समंततः । एवं सर्वत्र लोकेषु विलोकयंस् तदुद्भवं । अदृष्ट्वा विस्मितः शक्रः पुनर् एवं व्यचिंतयत् । अहो वत महाश्चर्य्यं यन् मयापि न दृश्यते
tataś ca vismitaḥ śakras trayastriṃśe vyalokayan / tatrāpi taṃ na cādrākṣīt kutrāpi ca samaṃtataḥ / evaṃ sarvatra lokeṣu vilokayaṃs tadudbhavaṃ / adṛṣṭvā vismitaḥ śakraḥ punar evaṃ vyaciṃtayat / aho vata mahāścaryyaṃ yan mayāpi na dṛśyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.