* [ * श्रीकङ्कालययोगिसमीपात् समायातम् अध्यायं वदामीति शिष्यवचनम् ॥ १ * यत्राध्याये शृङ्खलारसो युक्तिभिर् औषधभावनाग्निपुटादिविधिभिः प्रकटीकृतो ऽस्ति ॥ २ * यथा किल शृङ्खला पूर्वपूर्वतरावयवैर् अन्योन्यानुप्रवेशात् सम्बद्धा भवति तथा अत्रापि ॥ ३ * पूर्वं रसस्य शोधनम् ॥ ४ * ततः शोधितरसस्य मूर्छितोत्थापनम् ॥ ५ * मूर्छितोत्थापितस्य पातनम् ॥ ६ * पातितस्य च पुनरुत्थापनम् ॥ ७ * पातितोत्थापितस्य स्वेदनम् ॥ ८ * स्वेदेन स्वेदितस्य च नियामित्वम् ॥ ९ * नियामितस्य निरोधकत्वम् ॥ १० * निरोधितस्य च वक्रप्रसारणम् ॥ ११ * वक्रप्रसारितस्य चाभ्रकजारणम् ॥ १२ * जीर्णाभ्रकस्य च लोहजारणम् ॥ १३ * जीर्णलोहस्य चायःप्रकाशराजिजारणम् ॥ १४ * जीर्णायःप्रकाशराजेश् च हेमराजिजारणम् ॥ १५ * जीर्णहेमराजेर् गन्धकजारणम् ॥ १६ * जीर्णगन्धकस्य च मनःशिलासत्त्वजारणम् ॥ १७ * जीर्णशिलासत्त्वस्य च खापरसत्त्वजारणम् ॥ १८ * जीर्णखापरसत्त्वस्य चान्नपथहीरकजारणम् ॥ १९ * जीर्णवज्रस्य च बन्धः ॥ २० * बन्धस्य सारणम् ॥ २१ * सारितस्य च मारणम् ॥ २२ * मारितस्य च तस्य क्रामणम् ॥ २३ * क्रामितस्य च बन्धः ॥ २४ * बन्धस्य चोद्घाटनम् ॥ २५ * इति ॥ २६ * एवं पूर्वपूर्वतरसंस्कारस्य रसस्याग्रेतनसंस्कारो ग्रन्थितोऽस्तीत्य् असौ प्रोच्यत इति तत्त्वम् ॥ २७] सूतदोषांस् ततः शुद्धिं संस्कारात् प्राक् वदाम्यहम् । रसानां फलमुत्पत्तिं देहलोहरसायनम्
* [ * śrīkaṅkālayayogisamīpāt samāyātam adhyāyaṃ vadāmīti śiṣyavacanam || 1 * yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti || 2 * yathā kila śṛṅkhalā pūrvapūrvatarāvayavair anyonyānupraveśāt sambaddhā bhavati tathā atrāpi || 3 * pūrvaṃ rasasya śodhanam || 4 * tataḥ śodhitarasasya mūrchitotthāpanam || 5 * mūrchitotthāpitasya pātanam || 6 * pātitasya ca punarutthāpanam || 7 * pātitotthāpitasya svedanam || 8 * svedena sveditasya ca niyāmitvam || 9 * niyāmitasya nirodhakatvam || 10 * nirodhitasya ca vakraprasāraṇam || 11 * vakraprasāritasya cābhrakajāraṇam || 12 * jīrṇābhrakasya ca lohajāraṇam || 13 * jīrṇalohasya cāyaḥprakāśarājijāraṇam || 14 * jīrṇāyaḥprakāśarājeś ca hemarājijāraṇam || 15 * jīrṇahemarājer gandhakajāraṇam || 16 * jīrṇagandhakasya ca manaḥśilāsattvajāraṇam || 17 * jīrṇaśilāsattvasya ca khāparasattvajāraṇam || 18 * jīrṇakhāparasattvasya cānnapathahīrakajāraṇam || 19 * jīrṇavajrasya ca bandhaḥ || 20 * bandhasya sāraṇam || 21 * sāritasya ca māraṇam || 22 * māritasya ca tasya krāmaṇam || 23 * krāmitasya ca bandhaḥ || 24 * bandhasya codghāṭanam || 25 * iti || 26 * evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam || 27] sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham / rasānāṃ phalamutpattiṃ dehaloharasāyanam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.