* [ * श्लोकत्रयम् अपि स्पष्टम् ॥ १ * केवलं द्वौ द्वौ च वङ्गनागजौ ॥ २ * इति द्वौ वङ्गजौ दोषौ द्वौ च नागजौ ॥ ३ * कपालि कालिका चेति चतुर्थपञ्चमौ ॥ ४ * वङ्गजौ दोषौ श्यामकपालिका चेति षष्टसप्तमौ नागजौ एतेषां चतुर्णां लक्षणमाह ॥ ५ * दुग्धे क्वथिते सति यादृशी तरा उपरि भवति ॥ ६ * रसेऽपि तादृशी वङ्गजा ॥ ७ * नागजा च कपालिका उपरि भवति ॥ ८ * श्यामा षष्टो दोषः पञ्चवर्णो भवति कालिका च पञ्चमो दोषः कृष्णवर्ण इति ॥ ९ * अथ रसस्य पञ्च दोषान् आह ॥ १०] मलदोषो भवेदेको द्वितीयो वह्निसम्भवः । विषदोषस्तृतीयस्तु चतुर्थो दर्पसंज्ञकः
* [ * ślokatrayam api spaṣṭam || 1 * kevalaṃ dvau dvau ca vaṅganāgajau || 2 * iti dvau vaṅgajau doṣau dvau ca nāgajau || 3 * kapāli kālikā ceti caturthapañcamau || 4 * vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha || 5 * dugdhe kvathite sati yādṛśī tarā upari bhavati || 6 * rase'pi tādṛśī vaṅgajā || 7 * nāgajā ca kapālikā upari bhavati || 8 * śyāmā ṣaṣṭo doṣaḥ pañcavarṇo bhavati kālikā ca pañcamo doṣaḥ kṛṣṇavarṇa iti || 9 * atha rasasya pañca doṣān āha || 10] maladoṣo bhavedeko dvitīyo vahnisambhavaḥ / viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.