उन्मत्तः पञ्चमो दोषो दोषाः पञ्च सदा रसे । * [ * सार्धश्लौकः स्पष्टः ॥ १ * अत्र च जलमध्ये मृत्तिकापाषाणजलान्तरसंयोगात् तथा दुग्धोपरि तरावच् च ये दृश्यन्ते ते कञ्चुका उच्यन्ते ॥ २ * ये पुनः कोद्रवेषु मदवद्भवन्ति ते दोषा इति विशेषः ॥ ३ * अथैतेषां दोषाणां प्रत्येकं विकारानाह ॥ ४] मृण्मयात् कञ्चुकात् कुष्ठं जायते च शरीरिणाम्
unmattaḥ pañcamo doṣo doṣāḥ pañca sadā rase / * [ * sārdhaślaukaḥ spaṣṭaḥ || 1 * atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante || 2 * ye punaḥ kodraveṣu madavadbhavanti te doṣā iti viśeṣaḥ || 3 * athaiteṣāṃ doṣāṇāṃ pratyekaṃ vikārānāha || 4] mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.