तथा हि लक्षितम् अनेनैव च- क्रीडितं केलिर् इत्य् अन्यौ गात्रारम्भाव् उदाहृतौ । बाल्य-यौवन-कौमार-साधारण-विहार-भाक् । विशेषः क्रीडितं केलिस् तद् एव दयिताश्रयम् ॥स्र्स् १।३७३॥ इति । उदाहृतं च । क्रीडितं, यथा- मन्दाकिनी-सैकत-वेदिकाभिः सा कन्दुकैः कृत्रिम-पुत्रकैश् च । रेमे मुहुर् मध्य-गता सखीनां क्रीडा-रसं निर्विशतीव बाल्ये ॥स्र्स् १।३७४॥ [कुसं। ७।२९] केलिर्, यथा- व्यपोहितुं लोचनतो मुखानिलैर् अपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिद् उन्मनाः प्रियं जघानोन्नत-पीवर-स्तनी ॥स्र्स् १।३७५॥ [किराट ८।१९] इति । अत्रोच्यते भाव-तत्त्व-वेदिना सिंह-भूभुजा । २१२ आद्यः प्राग् एव भावादि-समुत्पत्तेश् च शैशवे
tathā hi lakṣitam anenaiva ca- krīḍitaṃ kelir ity anyau gātrārambhāv udāhṛtau | bālya-yauvana-kaumāra-sādhāraṇa-vihāra-bhāk | viśeṣaḥ krīḍitaṃ kelis tad eva dayitāśrayam ||SRs 1.373|| iti | udāhṛtaṃ ca | krīḍitaṃ, yathā- mandākinī-saikata-vedikābhiḥ sā kandukaiḥ kṛtrima-putrakaiś ca | reme muhur madhya-gatā sakhīnāṃ krīḍā-rasaṃ nirviśatīva bālye ||SRs 1.374|| [ku.saṃ. 7.29] kelir, yathā- vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ | payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnata-pīvara-stanī ||SRs 1.375|| [kirāṭa 8.19] iti | atrocyate bhāva-tattva-vedinā siṃha-bhūbhujā | 212 ādyaḥ prāg eva bhāvādi-samutpatteś ca śaiśave
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.