अथ विलापः- इह मे दृक्-पथं प्रापद् इहातिष्ठद् इहास्त च । इहालपद् इहावात्सीद् इहैव न्यवृतत् तथा ॥स्र्स् २।३९२॥ १९२ इत्य् आदि-वाक्य-विन्यासो विलाप इति कीर्तितः । तत्र चेष्टास् तु कुत्रापि गमनं क्वचिद् ईक्षणम् । १९३ क्वचित् क्वचिद् अवस्थानं क्वचिच् च भ्रमणादयः
atha vilāpaḥ- iha me dṛk-pathaṃ prāpad ihātiṣṭhad ihāsta ca | ihālapad ihāvātsīd ihaiva nyavṛtat tathā ||SRs 2.392|| 192 ity ādi-vākya-vinyāso vilāpa iti kīrtitaḥ | tatra ceṣṭās tu kutrāpi gamanaṃ kvacid īkṣaṇam | 193 kvacit kvacid avasthānaṃ kvacic ca bhramaṇādayaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.